संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १२१

त्रेतायुगसन्तानः - अध्यायः १२१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
रासेश्वरि महादेवि राधे गोलोककौमुदि ।
आकर्णय कथां देवायतनस्य ततः पराम् ॥१॥
परब्रह्मबलेनाऽसौ मुक्ततां तु समर्जयन् ।
परब्रह्मसमं कार्यं करोत्येव निदेशतः ॥२॥
मार्गाऽसितस्य प्रतिपद्दिने कृष्णनरायणः ।
प्राह भक्तं पूजयन्तं बहुवस्तुभिरादरात् ॥३॥
बालकृष्णोऽहमेवाऽस्मि परब्रह्मपरात्परः ।
परमेशः सर्वनारायणानामीशिता प्रभुः ॥४॥
सर्वे नारायणा मत्तः प्राविर्भवन्ति सर्वदा ।
सर्वसृष्टिषु भक्तेन्द्र मेऽवतारा असंख्यकाः ॥५॥
मम रूपाण्यसंख्यानि गुणैश्वर्यमयान्यपि ।
तेषां योगेन जीवानां करोमि श्रेय उत्तमम् ॥६॥
मम भक्ताः पार्षदाश्च सत्यो ब्राह्म्योऽपि मे प्रियाः ।
आविर्भवन्ति लोकेषु तारयन्ति च देहिनः ॥७॥
त्वं सदा मम मुक्तोऽसि ममाऽऽलयोऽसि वै हृदि ।
मन्निवासोऽसि भक्तेन्द्र मत्कार्यं क्रियते त्वया ॥८॥
जीवा याम्या ऐश्वराश्च देवा उद्धारितास्त्वया ।
अथाऽपि क्षितिलोकेऽत्र याहि किंपुरुषोत्तरान् ॥९॥
हिमालयात् परे पारे प्रजाकल्याणहेतवे ।
सिन्धुमुल्लंघ्य शैलं च परमिन्दुकुशं ततः ॥१०॥
कश्यपायनवार्धिं च तथा च उरुलां नदीम् ।
उरुलं पर्वतं चापि कारुसमुद्रमित्यपि ॥११॥
त्रिमुरं द्वीपकल्पं च तन्द्राप्रदेशमित्यपि ।
शान्तलारिं प्रदेशं च कामचाटकदेशकान् ॥१२॥
स्तेनावासं पर्वतं च तथा शैलं प्रभानुलम् ।
द्विकलं च सरश्चापि समानं पर्वतं तथा ॥१३॥
कीरगर्जनभूभागं शिबिराजप्रदेशकान्
ओबीनदीप्रदेशँश्च यानेशीसरितो भुवम् ॥१४॥
बीनां नदीं पिंगदेशान् यातु त्वं रशनाभुवम् ।
उत्तरान् रशनासंज्ञान् भागान् किंपुरुषस्य वै ॥१९॥
तत्रत्यमानवान् सर्वान् वैष्णवान् कुरु भक्तराट् ।
भजनं च मनुं नाम्नां कीर्तनं श्रावयाऽनिशम् ॥१६॥
विमानं सचमत्कारं महाश्चर्यमयं महत् ।
कल्पवल्लीकल्पवृक्षचिन्तामणिसमन्वितम् ॥१७॥
गृहीप्वा च प्रयाह्येवं जीवानुद्धर्तुमादरात् ।
प्रद्युम्नं मम रूपं च साहाय्यं ते ददाम्यपि ॥१८॥
इत्युक्त्वा सुविमानं च दत्वा प्रद्युम्नमित्यपि ।
प्रेषयामास भगवान् मार्गशीर्षेऽसित दले ॥१९॥
यथोक्तेन तु मार्गेण देवायतनभक्तराट् ।
इन्दुकुशं चाभिवीक्ष्य मुमुदे मनसा मुहुः ॥२०॥
भजनं चोच्चकैश्चक्रे बालकृष्ण हरेहरे ।
कृष्णनारायणस्वामिन् श्रीमद्गोपालनन्दन ॥२१॥
परब्रह्म हरेकृष्णनारायण श्रियःपते ।
राधाकृष्ण प्रभाकृष्ण माणिकीकृष्ण माधव ॥२२॥
लक्ष्मीनारायण स्वामिन्नारायण नरायण ।
जय मुक्तपते सतांपत श्रीपार्वतीपत ॥२३॥
सर्वावतारधर्तस्त्वं जयश्रीकृष्णवल्लभ ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥२४॥
हरेकृष्ण हरेकृष्ण कृष्ण कृष्ण हरे हरे ।
हरेस्वामिन् रामकृष्ण सीतापते सतीपते ॥२५॥
रामकृष्ण हरेकृष्ण कृष्णरामजनार्दन! ।
कंभरानन्दन श्रीमद्गोपालबाल केशव ॥२६॥
अश्वपट्टसरःसूर्य अक्षरक्षेत्रचन्द्रमः ।
श्रीमत्कुंकुमवापीस्थ जयकृष्णनरायण ॥२७॥
हरेकृष्ण हरेकृष्ण कृष्णकृष्ण हरेहरे ।
अनादिश्रीकृष्णनारायण श्रीपरमेश्वर ॥२८॥
ब्रह्मप्रियापते कृष्णकृष्ण कृष्णहरेहरे ।
पद्मापते च कमलापते श्रीतुलसीपते ॥२९॥
वृन्दापते तथा चात्मपते कृष्णहरेहरे ।
भार्गवीकान्त ललिताकान्त गोपीपतेहरे ॥३०॥
इत्येवं कीर्तनं नाम्नां कुर्वन् संगर्जयन् मुहुः ।
निनादयन् दिशः सर्वाः प्रजाभ्यः श्रावयन् मुहुः ॥३१॥
विमानेन ययौ त्वग्रे कश्यपायनवार्निधिम् ।
तस्य पूर्वप्रदेशेषु प्रजाः संश्रावयन् ततः ॥३२॥
ऊरुलासरितः पूर्वप्रदेशेषु पुनः पुनः ।
संश्रावयन् हरेर्नामकीर्तनं व्योममार्गतः ॥३३॥
उरुलात् पर्वतात् पूर्वदेशान् कारुसमुद्रतः ।
पूर्वदक्षिणदेशाँश्च श्रावयन्नभिधा हरेः ॥३४॥
त्रिमुरं द्वीपकल्पं च ययौ तन्द्राप्रजासु च ।
श्रावयामास तन्नाम हिमशैत्यसहाः प्रजाः ॥३५॥
शान्तलारिप्रदेशाँश्च ततो वै कामचाटकान् ।
स्तेनावासं गिरिं चापि द्विकलं च सरोवरम् ॥३६॥
प्रभालुनगिरिं चापि समानं पर्वतं ययौ ।
बालकृष्णसरश्चापि कीरगर्जनभूतलम् ॥३७॥
शिबिराजप्रदेशाँश्च ओबीं यानेशकीं नदीम् ।
बीनां पिगप्रदेशाँश्च सर्वां च रशनाभुवम् ॥३८॥
राशियानप्रदेशाँश्च भ्रमित्वा तु पुनः पुनः ।
श्रावयामास वै सर्वान् जनान् नामानि वै हरेः ॥३९॥
सप्तकृत्वो ददौ चक्रं राशियानेषु राशिवत् ।
उक्तस्थलीयलोकेषु भूशैलरणवारिषु ॥४०॥
वनारण्यहिमद्वीपोपद्वीपान्तरभूमिषु ।
विमानेन ददौ चक्रं श्रावयामास कीर्तनम् ॥४१॥
बालकृष्णं हरिकृष्णं परब्रह्म भजन्त्विह ।
अनादिश्रीकृष्णनारायण कुर्वन्तु वै हृदि ॥४२॥
कर्णाभ्यां तत्कथां रम्यां पापतापप्रणाशिनीम् ।
शृण्वन्तु चक्षुषा त्वस्य कुर्वन्तु दर्शनं सदा ॥४२॥
कण्ठे तस्यैव तुलसीमालां गृह्णन्तु मानवाः! ।
भक्षयन्तु प्रसादं च पिबन्तु तज्जलं शुभम् ॥४४॥
कीर्तयन्तु च नामानि बालकृष्णस्य सर्वदा ।
स्पृशन्तु तस्य चरणौ जिघ्रन्तु गन्धमस्य च ॥४५॥
पूजयन्तु हरिं नित्यं श्रीमद्गोपालबालकम् ।
स्मरन्तु श्रीबालकृष्णं कुर्वन्तु तस्य वै स्तुतिम् ॥४६॥
शरणं तस्य कृष्णस्य गृह्णन्तु मोक्षहेतवे ।
भुक्तिमुक्तिप्रदश्चास्य चरणः सं प्रसेव्यताम् ॥४७॥
धार्यतां हृद्ये मूर्तिः कृष्णनारायणस्य वै ।
परब्रह्मस्वरूपः स वर्तते पुरुषोत्तमः ॥४८॥
सौराष्ट्रे कम्भरागेहे श्रीपतिः पुरुषोत्तमः ।
अहो लोका देहनाशे सह नायान्ति किञ्चन ॥४९॥
सर्वं चात्रैव तिष्ठत्याविनाशं च मृषा ततः ।
तद्बन्धनं विहायैव भजन्तु परमेश्वरम् ॥५०॥
अहं तस्यैव भक्तोऽस्मि साक्षान्नारायणस्य ह ।
तन्नामानि रटन्त्वत्र स्मरन्त्वर्थं हरिं प्रभुम् ॥५१॥
ब्रह्मधामेश्वरं साधुपतिं श्रीमाणिकीपतिम् ।
मुक्तनाथं चात्मनाथं स्मरन्तु नरयोषितः ॥५२॥
मानुषस्य तु देहोऽयं दुर्लभो दुर्लभा गतिः ।
मोक्षस्याऽनेन देहेन प्राप्यते साधनैः शुभैः ॥५३॥
हरेस्वामिन् हरेकृष्ण बालकृष्ण जनार्दन ।
धर्मपुत्र हरे ब्रह्मपर श्रीपरमेश्वर ॥५४॥
राधारमासतीस्वामिन् प्रभापारवतीपते ।
लक्ष्मीश्रीमंगलाकान्त श्रीजयाललितापते ॥५५॥
भगवन् सर्वलोकेश सर्वनारायणेश्वर ।
अवतारेश धामेश तत्त्वेश्वर प्रभो हरे ॥५६॥
एवं संकीर्तयन्त्वेव भुक्तिर्मुक्तिर्भवेद्धि वः ।
इत्येवं सप्तवारं स भक्तराड् राधिके! मुहुः ॥५७॥
राशियानेषु देशेषु श्रावयामास कीर्तनम् ।
जनाः श्रुत्वा विमान च दृष्ट्वा दिव्यं सुखप्रदम् ॥५८॥
आश्चर्यं परमं प्राप्ता आबालवृद्धमानवाः ।
द्रष्टुं सम्भूय च बहिः समायान्ति स्म चाम्बरे ॥५९॥
विलोकयन्ति बहुधा कीर्तयन्ति हरिं तथा ।
बालकृष्ण हरेकृष्णस्वामिन् कृष्ण हरे हरे ॥६०॥
प्रशंसन्ति गुरुं भक्तं देवायतनमीशवत् ।
अहो माता पिता बन्धुर्भगवन्नामदायकः ॥६१॥
पतिः पत्नी प्रियो मित्रं हरेर्नाम्नां प्रदायकः ।
सुतः पुत्री सखा संश्रावको नाम्नां हरेर्हि सः ॥६२॥
सुतादयस्तु ये भक्तिं नैवाऽत्र बोधयन्ति वै ।
ते तु स्वार्थपरा लोके नाममात्रस्य धारकाः ॥६३॥
दुर्लभो मानुषो देहो देहिनां क्षीणधर्मकः ।
अक्षीणं त्वक्षरं धाम प्राप्तव्यं तेन धीमता ॥६४॥
परमेश्वरभक्तौ ये निरोधयन्ति मानवाः ।
न ते सम्बन्धिनो मान्याः सम्बन्धिनो हि भक्तिदाः ॥६५॥
विमाने यः स्थितो देवः कृष्णभक्तिप्रदर्शकः ।
सोऽत्र देशे गृहे नोऽत्र समायातु प्रतापवान् ॥५६॥
वयं भक्तिं करिष्यामो बालकृष्णस्य देवते! ।
आरुह्याऽस्मद्गृहान् देव पावयाऽस्मद्गृहाणि च ॥६७॥
इत्येवं ते जनाः सर्वे राशियानप्रदेशकाः ।
श्रुत्वा श्रुत्वा हरेर्नाम प्रार्थयामासुरादरात् ॥६८॥
अथ तत्राऽभवन्मुख्याः ऋषयो द्वादशोत्तमाः ।
भिन्नस्थानेषु तिष्ठन्तस्त्रिकालज्ञा विरागिणः ॥६९॥
राधिके! ते हरेर्भक्तं विमानं भक्तिशोभितम् ।
विज्ञाय व्योममार्गेण विमानं प्रति चाययुः ॥७०॥
मेषायनो महर्षिश्च वृषभायन योगिराट् ।
मिथुनायननामर्षिः कर्कायनश्च तापसः ॥७१॥
सिंहायनस्तथा कन्यायनस्तुलायनस्तथा ।
वृश्चिकायननामर्षिर्धनायनश्च वै ऋषिः ॥७२॥
मकरायनसंज्ञर्षिः कुंभायनस्तथाऋषिः ।
मीनायनऋषिश्चापि सर्वे योगपरायणाः ॥७३॥
राशियानप्रदेशेषु लब्धस्थाना महर्षयः ।
ब्रह्मध्यानपराश्चासन् सर्वे भिन्ननिवासिनः ॥७४॥
ब्रह्मज्ञानपराश्चापि समाधिस्थितिवर्तिनः ।
ज्ञात्वा योगेन च देवायतनं हरिदेशितम् ॥७५॥
बोधयन्तं जनान् लोके कीर्तनं श्रीहरेः शुभम् ।
द्रष्टुं व्योम्नि विमाने ते त्वाययुर्हर्षविह्वलाः ॥७६॥
प्रथमं ते तु ऋषयः प्रजारूपेण भक्तकम् ।
नेमुलौंकिकरीत्यैव सत्कृता भक्तकेन च ॥७७॥
वन्दिताः पूजिताः प्रशंसिता धन्यवचायिताः ।
निषादिताश्च भक्तेन जिज्ञासिताः प्रतीष्टकम् ॥७८॥
पृष्टाः परिचयार्थं च जगदुस्ते निजोद्भवम् ।
वयं सर्वे भ्रातरः स्म रुद्रपुत्रा हि रुद्रजाः ॥७९॥
ब्रह्मणा प्रथमं सृष्टिर्ललाटाद् या कृता तदा ।
रुद्रो जातः क्रूरपुत्रो वृद्धये विनियोजितः ॥८०॥
तेनाऽसंख्याः समा स्वेन रुद्रा वै प्रकटीकृताः ।
क्रूरास्ते ब्रह्मणा दृष्टाः संहारिणोऽवमानिनः ॥८१॥
तेषां संहरणार्थं वै ब्रह्मा रुद्रं जगाद् ह ।
रुद्रस्तेषां च सर्वेषां यदा संहारमाचरत् ॥८२॥
तदा वयं भयं प्राप्ता द्वादश रुद्रपुत्रकाः ।
रुद्रा एव स्वकं रूपं प्रविवृत्त्य जलान्तरे ॥८३॥
गह्वरे च गुहायां च खन्यां द्रोण्यां यथायथम् ।
गुप्ता जीवनवाञ्च्छाढ्या लीनभावमुपागताः ॥८४॥
बहुवर्षसहस्रान्ते ब्रह्मा तपस्ततोऽकरोत् ।
रुद्रसृष्टेर्विनाशान्ते दुन्दुभ्यादीन् ससर्ज सः ॥८५॥
मन्दिरस्थान् पार्षदान् वै ततश्च सनकादिकान् ।
ततो योगेश्वराँश्चापि ततो महर्षिमण्डलम् ॥८६॥
राजर्षींश्च ततो ब्रह्मा ससर्ज पितृदेवताः ।
कश्यपाच्च ततः सूर्यचन्द्राद्या सुभवेस्तदा ॥८७॥
अस्माभिः स्वप्रकाशत्वं कृतं देवसभासु तु ।
ब्रह्मणा च तथा देवैः सम्मान्तिता महर्षयः ॥८८॥
योगिनो मानवे लोके सृष्ट्यर्थमुपकारिणः ।
नियुक्ता ब्रह्मणा देवैः सह कृत्वा विनिर्णयम् ॥८९॥
रां लक्ष्मीं सम्पदं शोभाम् अश्नुमो वयमादरात् ।
दद्मश्चापि प्रसन्नाश्च राशयस्तेन वै वयम् ॥९०॥
नियुक्ताः फलदानार्थ कर्मिणां कृतकर्मणाम् ।
ततो वयं स्थिता यत्र तत्र ते नः प्रदेशकाः ॥९१॥
राशियाना इमे सन्ति वयं वै राशिसंज्ञकाः ।
आज्ञां संपालयन्तश्च ब्रह्मणः परमेष्ठिनः ॥९२॥
ध्रुवदेशं विचरन्तो वसामस्त्वत्र सर्वदा ।
सूर्यचन्द्रादिभिः सर्वैर्नवग्रहैः सहायताम् ॥९२॥
अस्माकं तु समगृह्य पच्यते सृष्टिमण्डलम् ।
ते वयम् ऋषयस्त्वत्र वसामो रुद्रपुत्रकाः ॥९४॥
रुद्रसृष्ट्यवशेषा वै यथाकर्मफलप्रदाः ।
ततो ब्रह्मा ददौ वर्णान् नस्तु सारस्वतान् पृथक ॥९५॥
मेषायनाय प्रददौ अलइवर्णकान् अजः ।
वृषभाय ददौ ब्रह्मा ववउवर्णकान् तदा ॥९६॥
मिथुनाय ददौ ब्रह्मा कछघवर्णकाँस्तदा ।
कर्कायनाय प्रददौ डहाक्षरौ पितामहः ॥९७॥
सिंहायनाय प्रददौ मटवर्णौ पितामहः ।
कन्यायनाय प्रददौ पठणवर्णकान् अजः ॥९८॥
तुलायनाय प्रददौ रतवर्णौ पितामहः ।
वृश्चिकाय ददौ ब्रह्मा नयवर्णौ तदा ततः ॥९९॥
धनायनाय भमफढवर्णान् प्रददावजः ।
मकराय ददौ ब्रह्मा खजवर्णौ तदा ततः ॥१००॥
कुंभायनाय प्रददौ गशवर्णौ पितामहः ।
मीनायनाय दचझयवर्णान् प्रददावजः ॥१०१॥
तत्तद्वर्णान् जीवकर्मबोधकान् विदधे ह्यजः ।
अस्मद्योगे तु चन्द्रादौ यस्य जन्म तु देहिनः ॥१०२॥
तत्तद्वर्णकृतनाम्ना तत्कर्मायुर्भवेदिति ।
लोकतन्त्रप्रवाहार्थं ब्रह्मणा परमेष्ठिना ॥१०३॥
नियुक्ताः स्मो वय रौद्राः सृष्ट्युपकृतये सदा ।
अद्य वै कृतकृत्याः स्मो नारायणपरायणः ॥१०४॥
भवानत्र समायातो लोककल्याणहेतवे ।
वयं गुप्तस्वरूपेण मेषादिना पुरा तदा ॥१०५॥
जीवनार्थं त्वभवँश्च तानि नामानि सन्ति नः ।
वस्तुतो वै वयं दिव्या रौद्राः स्मो ब्रह्मपौत्रकाः ॥१०६॥
आयाह्यस्मद्गृहान् भक्त! विश्रान्तिं लभ सर्वथा ।
कीर्तनं संकरिष्यामः सूभूय श्रीहरेर्मुहुः ॥१०७॥
इत्युक्तो भक्तराट् देवायतनर्षिर्जहर्ष ह ।
ओमित्याह तदा राधे! विमानं चावतारयत् ॥१०८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने किंपुरुषखण्डे राशियानप्रदेशेषु हरिनामकीर्तनबोधार्थं प्रेषितेन देवायतनर्षिणा द्वादशमेषायनादिमहर्षिसमागमनामैकविंशत्यधिकशततमोऽध्यायः ॥१२१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP