संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २

त्रेतायुगसन्तानः - अध्यायः २

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु राधे प्रवक्ष्यामि शान्तिदं माणिकीश्वरम् ।
यतश्चाहं ततश्च त्वं त्वत्तो हिरण्मयः पुमान् ॥१॥
महाविष्णुः समुत्पन्नस्ततो विराडजायत ।
अष्टावृत्तियुताण्डानि वैराजात् संप्रजज्ञिरे ॥२॥
वैराजस्य नाभिदेशान्नालं विश्वसृजा युतम् ।
समुत्पन्नं जले तत्र ब्रह्मणे चाण्डमर्पितम् ॥३॥
पञ्चाशत्कोटिसंख्याकयोजनं त्वेकमण्डकम् ।
पीठयुक् कानकं तेजोव्याप्तं शुभास्पदं बहिः ॥४॥
अन्तर्लोकांस्ततो ब्रह्मा कल्पयामास योगतः ।
चतुर्दशप्रसंख्यातान् ह्युपर्युपरि संस्थितान् ॥५॥
मध्ये मेरुर्महाशैलश्चाधारस्तंभ इत्यपि ।
कृतवाँस्तं स्वयं ब्रह्मा यदाधारास्तरा मताः ॥६॥
पृष्ठदण्डो यथा देहे ब्रह्माण्डे मेरुराट् तथा ।
वैराजस्य च देहाद् यज्जलं तत्र व्यजायत ॥७॥
तस्मिंस्तु कमलं नाभेर्जातं ब्रह्मात्र साऽण्डकः ।
ववृते सर्वथा पूर्वं दिव्यवर्षसहस्रकम् ॥८॥
स्वोत्पन्ने च जले शिष्ये वैराजोऽब्दसहस्रकम् ।
अथ यस्मात्स्वयं जातो वैराजः स हिरण्मयात् ॥९॥
सोऽपि हिरण्मयः कोशो द्वेधा मध्याद् व्यजायत ।
द्वौ तौ जातौ कूर्चभागौ स्थितौ तौ तु महाजले ॥१०॥
यथा शकुनिबालं च पक्वं सम्पूर्णगात्रकम् ।
अण्डं भित्त्वा बहिर्याति बहिस्तस्मात्तथा विराट् ॥११॥
निर्यात्येव जले तत्र विद्यमानः स्वपित्ययम् ।
तदाऽण्डकोशभागौ द्वौ कूर्चौ स्थितौ तु यौ जले ॥१२॥
क्लिद्यमानौ जलपक्वौ बहुवर्षसहस्रकम् ।
कूर्चाभ्यां जलपक्वाभ्यामुत्पन्नावसुरौ तदा ॥१३॥
हिरण्यकूर्चनामा च हिरण्याण्डाभिधः परः ।
वैराजतुल्यदेहौ तौ ब्रह्माण्डाऽधिकवर्ष्मणौ ॥१४॥
क्षुधितौ बलगवाढ्यौ गदावर्मान्वितौ दृढौ ।
नर्दन्तौ सुमहानादान् भ्रामयन्तौ गदे निजे ॥१५॥
जलान्यालोडयन्तौ च स्फोटयन्तौ स सक्थिनी ।
गर्जयन्तौ दिशः सर्वास्त्रासयन्तौ महेश्वरान् ॥१६॥
हसन्तौ त्वट्टहासाँश्च मुञ्चन्तौ लीलयाऽन्वितौ ।
पश्यन्तौ चाभितस्तत्र भक्ष्याणि वारिधौ तदा ॥१७॥
धावमानौ च परितो दृष्ट्वा छायां जलादिषु ।
भ्रान्त्या भक्ष्याणि मत्वैवाऽलाभे निराशतां गतौ ॥१८॥
मार्गणेऽपि न लब्ध्वा तौ भक्ष्यं जलसमुद्भवम् ।
तदा सुप्तं तु वैराजं भक्षयितुमुपागतौ ॥१९॥
एकेन संधृतश्चायं वैराजो मस्तके तदा ।
अपरेण धृतश्चायं पादयोर्जलमध्यतः ॥२०॥
उत्तोल्य च ततः स्थानाद् गन्तुमुद्यमितावुभौ ।
तौ विलोक्य तु वैराजः स्वसदृशौ महासुरौ ॥२१॥
अप्रधृष्यौ भक्षणार्थमुद्यन्तौ तामसावुभौ ।
सस्मार स्वजनकं च महाविष्णुं शरण्यकम् ॥२२॥
तुष्टाव परया भक्त्या कर्षयद्भ्यां प्रपीडितः ।
वैराजस्तौ गदाचक्रैस्ताडयामास वै तदा ॥२३॥
पल्लताभिर्मुष्टिभिश्च ताडयामास वेगतः ।
तथाऽप्यगणयन्तौ तत् जह्रतुस्तं जलान्तरे ॥२४॥
तदा परवशः सोऽयं वैराजः पितरं निजम् ।
एकाग्रमानसो भूत्वा दध्यौ रक्षार्थमेव च ॥२५॥
ब्रह्मणः कमलं नालं ब्रह्माण्डं सर्वमेव च ।
जले विलुलितं तत्राऽभवत् प्रलयकालवत् ॥२६॥
ब्रह्माऽपि भयमापन्नो रक्षार्थं परमेश्वरम् ।
सस्मार प्रपितरं स्वं महाविष्णुं हिरण्मयम् ॥२७॥
काविमौ भगवन् दैत्यौ महावार्षु विनाशकौ ।
रक्ष रक्ष महाविष्णो शीघ्रं नाशय तावुभौ ॥२८॥
एवं स्मृतो विराजेन ब्रह्मणाऽपि मुहुर्मुहुः ।
महाविष्णुः शंखचक्रगदापद्माऽसिशक्तिमान् ॥२९॥
नाराचमुद्गरशूण्डीशतघ्नीसहितः प्रभुः ।
दिव्यं यानं समारुह्योपतस्थे दैत्यसन्निधौ ॥३०॥
दृष्टौ तेन समुत्पन्नौ शकलाभ्यामुभौ दृढौ ।
हन्तुं समिच्छुकौ पुत्रं वैराजं जलशायिनम् ॥३१॥
शखनादः कृतस्तेन विष्णुना प्रभविष्णुना ।
ईशलोकानभिव्याप्य गोलोकं व्याप्तवान् ध्वनिः ॥३२॥
वैकुण्ठं च तदा व्याप्तोऽव्याकृत धाम सर्वशः ।
अमृताख्यं तथा धाम संव्याप्तो युद्धबोधकः ॥३३॥
ध्वनिस्तेन महाराजः संकर्षणः प्रतापवान् ।
युद्धं ज्ञात्वा क्षणं ध्यात्वा ब्रह्माण्डरक्षणाय सः ॥३४॥
वैराजस्य महाविष्णोर्ब्रह्मणो रक्षणाय च ।
स्मृतमात्रं दिव्यदेहो ययौ दिव्यगदान्वितः ॥३५॥
यत्र दैत्यौ महाविष्णुर्विराडपि जले स्थिताः ।
महाविष्णुः सृष्टिपालं संहारकं दुरात्मनाम् ॥३६॥
तुष्टाव नमनं कृत्वाऽर्थयामास प्ररक्षणम् ।
संकर्षणस्तदा रूपं विकरालं समातनोत् ॥२७॥
सहस्रदशकं यस्य बाहूनां वर्तते तदा ।
शिखाः यस्य तु वैकुण्ठमभिव्याप्योर्ध्वमागताः ॥३८॥
सहस्रदशकं तस्य पादानां तु महाजले ।
कच्छपस्याऽप्यधो यातं मध्ये ब्रह्माण्डकोटयः ॥३९॥
करकन्दुकतुल्यास्ताः शिलाः शस्त्राणि चाऽभवन् ।
क्षेपयित्वा करैस्तानि ब्रह्माण्डानि परस्परम् ॥४०॥
युयुधुस्तेऽसुराभ्यां वै संकर्षणादयस्तदा ।
अनेकाऽण्डानि नष्टानि प्रक्षिप्तानि परस्परम् ॥४१॥
गदाभिस्ताड्यमानानि बभञ्जुश्चूर्णवत्तदा ।
दैत्यावपि च तान्येव समादायाऽण्डकानि वै ॥४२॥
चिक्षिपाते महाविष्णौ संकर्षणे दृढौ दृढौ ।
संकर्षणस्तु गदया निजघान च तान्यपि ॥४३॥
व्योममार्गे तथा युद्धं घोरं ताभ्यामजायत ।
हिरण्यकूर्चेनोत्प्लुत्य महाविष्णुर्ललाटके ॥४४॥
प्रताडितोऽगमन्मूर्छा हिरण्याण्डेन मस्तके ।
ताडितो गदया रोषं संकर्षणो जगाम ह ॥४५॥
हिरण्याण्डकटिनिम्ने जघान गदया रुषा ।
हिरण्याण्डः क्षणं मूर्छामवाप पुनरुत्थितः ॥४६॥
स्वस्थो बभूव च यावत् तावत्संकर्षणः प्रभुः ।
गदया ताडयामास हिरण्यकूर्चकं हृदि ॥४७॥
भग्नं वै हृदयं तस्य ममार गदयैकया ।
हिरण्याण्डस्तदा मूर्ध्नि महाविष्णुं जघान ह ॥४८॥
महाविष्णुः समुत्प्लुत्य हिरण्याण्डं जघान के ।
उत्प्लुत्य स विदुद्राव संकर्षणं तु पृष्ठके ॥४९॥
ताडयामास गदया संकर्षणस्तदाऽसुरम् ।
गदया ताडयामासाऽसुरोऽपि गदया तदा ॥५ ०॥
ताडनं तत् प्रतिगृह्य चाट्टहासं मुमोच वै ।
भ्रामयित्वा गदां व्योम्नि दशब्रह्माण्डसदृशीम् ॥५१॥
प्राहिणोद्धस्तमुक्तां तां संकर्षणजिघांसया ।
महाविष्णुः स्वगदया मध्ये तताड तां गदाम् ॥५२॥
बभञ्ज सा गदा तत्र जले वै शतधाऽभवत् ।
संकर्षणो गदायुक्तो दुद्राव चाऽसुरं प्रति ॥५३॥
असुरः स्वस्य रक्षार्थं जग्राहाऽण्डं महत्तमम् ।
षट्पंचाशत्स्तरयुक्तं चिक्षेप कर्षणं प्रति ॥५४॥
गदया चूर्णतां यातं संकर्षणस्य तत्तदा ।
ततः परंधावमानोजग्राहान्यन्महाण्डकम् ॥५५॥
महाविष्णोश्च गदया हतं तच्छतधाऽभवत् ।
ततः परं धावमानस्तृतीयाण्डं करे तदा ॥५६॥
गृहीत्वा प्राक्षिपत्तूर्ण संकर्षणस्य वै हृदि ।
हृदि लग्नं बिभेदाऽपि चूर्णतां चागमद्धि तत् ॥५७॥
अथ संकर्षणो देवः क्रुद्धः सृष्टिविनाशकम् ।
हन्तुं वै प्राणतस्तत्र समैच्छद् गदया प्रभुः ॥५८॥
पृष्ठं दैत्यस्य तु संकर्षणोऽधावन्महाजले ।
दैत्योऽपि च प्रदुद्राव गृहीत्वाऽण्डं समीपगम् ॥५९॥
ब्रह्मनालस्थितं यत्तत् सावरणं समेरुकम् ।
साऽण्डकटाहकं पद्मे ब्रह्मणा सह यत् स्थितम् ॥६०॥
सर्वां पृथ्वीं गृहीत्वैव संकर्षणभयात् स च ।
दुद्राव व्योममार्गेण संकर्षणोऽन्वगात्तदा ॥६१॥
अथाऽसुरः प्रविवेश महाजलतले तदा ।
संकर्षणोऽपि च पृष्ठलग्नो विवेश वै जलम् ॥६२॥
संकर्षणेन च धृतो केशेषु च महासुरः ।
तावत् सूक्ष्मं तदा रूपं धृत्वाऽसुरो महाजले ॥६३॥
भयाद् युद्धश्रमाञ्चापि साहाय्यरहितः खलु ।
अष्टावरणमाविश्य ब्रह्माण्डस्योदरेऽगमत् ॥६४॥
तत्र संकर्षणो देवः सूक्ष्मरूपधरः प्रभुः ।
ब्रह्माणं सह नीत्वैव क्षणमात्रे समाययौ ॥६५॥
ब्रह्माणं स्थापयामास सत्यलोके परस्तरे ।
संकर्षणस्तदा रौद्रं रूपं दधार लीलया ॥६६॥
महाविष्णुस्तदा सूक्ष्मं विष्णुरूपं दधार ह ।
अथ ते च त्रयस्त्वत्र ब्रह्माण्डान्तर्निवासिनः ॥६७॥
असुरं मार्गयामासुर्मेरावदृश्यतां गतम् ।
हिरण्याऽण्डोऽण्डरूपः सन्मेरुकट्यां व्यवस्थितः ॥६८॥
दृश्यते नैव देहेन मृग्यमाणोऽपि वै तदा ।
योगं चकार वै विष्णुर्ददर्श छन्नविग्रहम् ॥६९॥
मेरुकट्यां गुप्तभागे स्थितं भीतं महाश्रमम् ।
अथ संकर्षणो रुद्रो धृत्वा सूक्ष्माणुरूपकम् ॥७०॥
विवेश मेरुकट्यां स योगास्त्रेण च तं तदा ।
प्रजग्राह महादैत्यं प्रच्छन्नवासकारिणाम् ॥७१॥
असुरो मायया तत्र शीघ्रं स्थूलो बभूव च ।
विनिर्गत्य करात् तस्य संकर्षणस्य शूलिनः ॥७२॥
मेरुं प्रदक्षिणं कृत्वा पलायनं चकार सः ।
संकर्षणोऽपि च तस्य पृष्ठे दुद्राव वेगतः ॥७३॥
असुरस्त्वाश्रयं मेरुं मत्वा बभ्राम चक्रवत् ।
शतोत्तराणि च तदा कृतानि भ्रमणानि वै ॥७४॥
तेनाऽत्यतीव श्रान्तेन मर्तुकामेन वै तदा ।
संकर्षणः परावृत्त्य मुद्गलेन प्रताडितः ॥७५॥
संकर्षणोऽपि च गदां प्राहिणोत् करमुक्तगाम् ।
हिरण्याण्डं प्रति हन्तुं तावद् दैत्यो बलेन वै॥७६॥
साकर्षणीं गदां धृत्वा संकर्षणमताडयत् ।
पुनर्दुद्राव च मेरुं बभ्राम भयतस्तथा ॥७७॥
संकर्षणो ययौ पृष्टे यत्र यत्र स धावति ।
संकर्षणो गदां धृत्वा तस्य पृष्ठेऽप्यताडयत् ॥७८॥
एवं प्रधावमानाभ्यां मेरुकम्पो व्यजायत ।
पृथिवी सप्तलोकाश्च दिवः पातालकान्यपि ॥७९॥
ह्यकम्पयन् पदन्यासैर्गदाशब्दैश्च घोषणैः ।
संकर्षणस्य स गदा नीत्वा चक्रे पलायनम् ॥८०॥
संकर्षणो महाविष्णोर्गदां जग्राह कानकीम् ।
मेरोः कट्यां गदाभ्यां तौ युयुधाते परस्परम् ॥८१॥
द्वयोर्गदाप्रहननान्मेरुश्चुक्षोभ शैलराट् ।
मेरोः पार्श्वानि सर्वाणि चुक्षुभिरे समन्ततः ॥८२॥
भूकम्पो मेरुकम्पश्च शृंगकम्पो व्यजायत ।
निष्फलं हननं मेरोः कट्यां यदा प्रवर्तते ॥८३॥
तदा विशीर्यते खण्डो मेरोः कट्याः पुनः पुनः ।
एवं विशीर्णभावेन वह्निस्तत्र च घर्षणात् ॥८४॥
समुत्पन्नो लोकदावानलो जज्वाल वै दिवम् ।
गदाहननसञ्जाताऽनलप्रवाहरश्मयः ॥८५॥
यावत्कटाहमायान्ति ब्रह्माण्डं परितस्तदा ।
सविमानं च देवानां प्रजज्वाल समन्ततः ॥८६॥
महाविष्णुश्चामृतेन शमयामास चानलम् ।
हाहाकारो महानासीत् सर्वलोकनिवासिषु ॥८७॥
गदापातैस्तदा मेरोः पार्श्वखण्डाः समन्ततः ।
पृथग् व्योम्नि निपेतुश्च ताडिताश्च वियोजिताः ॥८८॥
लक्षयोजनदीर्घाश्च केचिच्चाऽयुतयोजनाः ।
अन्ये विंशतिसाहस्रयोजना द्विगुणास्ततः ॥८९॥
पञ्चविंशतिसाहस्रत्रिंशत्साहस्रयोजनाः ।
चत्वारिंशत्सहस्रयोजनाः खण्डास्तथाऽपरे ॥९०॥
केचित् षष्टिसहस्रयोजनाऽऽयतास्तदाऽभवन् ।
केचिद् दीर्घाश्च पञ्चाशद्साहस्रयोजनाः परे ॥९१॥
प्रसप्ताशीतिसाहस्रा बभूवुरायता हि ते ।
एवं भिन्ना ग्रहाः कृष्णवर्णा मेरोः समन्ततः ॥९२॥
स्वर्लोकस्य निम्नदेशे स्मोड्डयन्तेऽन्तरीक्षके ।
केचित् खण्डा जले केचिद् वायौ वर्तन्त एव ते ॥९३॥
आकर्षणेन वै सर्वे तूड्डयन्ते व्यवस्थया ।
तारकावत् ग्रहाः सर्वे केतवश्चाऽभवंस्तदा ॥९४॥
मेरोर्वै दक्षिणे भागे हिरण्याण्डं महासुरम् ।
जघान वक्षसि पार्श्वे मस्तके पतितं तदा ॥९५॥
संकर्षणस्तु गदया प्राणतो हि जघान तम् ।
तदा गदाप्रहारैश्च गदामारैरनेकधा ॥९६॥
प्रभिन्नो दक्षिणो भागः पृथ्व्या मेरोरवाऽक्षरत् ।
लक्षक्रोशमितः खण्डो युतो लावणवारिभिः ॥९७॥
यत्र हैमश्च माहेन्द्र उरलश्चाम्रिकाचलः ।
अब्रिक्तशैलराजोऽपि चान्ये शैलाः प्रसन्त्यपि ॥९८॥
ध्रुवाकर्षणयोगेनाऽन्तरीक्षे तदधः स्थितः ।
यत्रोत्तराः कुरवश्च किंपुरुषाः प्रदेशकाः ॥९९॥
नरनामास्तथा देशा दक्षिणे लावणे जले ।
पश्चिमे तत्र वै भागे चाब्रिक्ताश्च प्रदेशकाः ॥१००॥
द्वीपा लावणमध्याश्च दशसाहस्रयोजनाः ।
सहस्रयोजनाश्चान्ये स्वल्पास्त्वन्ये सहस्रशः ॥१०१॥
त्रयो दाक्षिणखण्डास्ते पुष्ट्या मेरोः पृथक्तताः ।
षष्टिसाहस्रकक्रोशायतो लावणवारिधिः ॥१०२॥
चत्वारिंशत्सहस्रक्रोशात्मा भूतलभागवान् ।
एवं लक्षक्रोशमानो ग्रहोऽन्तरीक्षकेऽभवत् ॥१०३॥
तत्र कालेन च वारिस्थलयोः पर्ययान्मुहुः ।
मध्यसामुद्रकखण्डाः पर्यावर्तन्त कालतः ॥१०४॥
जलं स्थलं स्थले वारि वने वासो गृहे वनम् ।
एवं कालेन जायेरन् भ्वां परिवर्तनानि वै ॥१०५॥
खण्डमध्ये समुद्राश्च भवन्ति कालयोगतः ।
जलमन्नं चाजनाभं पृथक् करोति पश्चिमम् ॥१०६॥
सिंहारण्यं जलमग्नं चाब्रिक्तं वियुनक्ति च ।
शुक्ल_ कुरुर्जलमग्नश्चोत्तरं किन्नरीयकम् ॥१०७॥
विभजते किंपुरुषं राशनीं जापनीं भुवम् ।
मध्ये निम्नाऽखातदेशा अवान्तरप्रदेशकान् ॥१०८॥
विभजन्ते यत्र लोके हैमे पार्थिवगोलके ।
नरनारायणो यत्र हिमाद्रौ राजते प्रिये ॥१०९॥
तदेतस्मिन् मम राधे चानर्तमणिभूतले ।
कुंकुमवापिकाक्षेत्रे सौराष्ट्रे पुरुषोत्तमः ॥११०॥
अश्वपट्टसरस्तीरे गोपालकृष्णबालकः ।
प्राविर्बभूव च श्रीकम्भरालक्ष्मीसमुद्भवः ॥१११॥
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
तत्र याहि प्रिये राधे कृष्णनारायणी भव ॥११२॥
येन दत्ता च यस्याऽसि तं प्रसेव्य सुखं लभ ।
पुनर्यास्यसि मे धाम गोलोकं तदनुज्ञया ॥११३॥
हिरण्याण्डो मृतो मेरौ संकर्षणकरेण वै ।
हिरण्मयी तु सा भूमिरण्डमध्ये व्यजायत ॥११४॥
हिरण्यकूर्चनामा च लोकालोकाचलाद् बहिः ।
जले मृतश्च तद्देहाज्जाता भूस्तत्र काञ्चनी ॥११५॥
इत्येतत् कथितं राधे प्रागाख्यानं भुवस्तव ।
प्रत्ययार्थं तथाऽण्डस्य परिचयार्थमत्र वै ॥११६॥
अनादिश्रीकृष्णनारायणो यत्र तु गोलके ।
प्राविर्बभूव भगवान्नरनारायणाश्रये ॥११७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽक्षरपरधामाधिपतेर्बहुधा वंशविस्तारे हिरण्याण्डकोशकूर्चजन्ययोर्हिरण्यकूर्चहिरण्याण्डयोरसुरयोः संकर्षणद्वारा नाशः, पृथ्वीगोलकस्य तु मेरोर्दक्षिणखण्डात्मकस्यैवाऽवशेषतया राधिकायैश्रीकृष्णस्य परिचयदानमित्यादिनिरूपणनामा द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : April 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP