संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १६१

त्रेतायुगसन्तानः - अध्यायः १६१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके दिव्यभक्तः स देवायतनको मुनिः ।
श्रुत्वाऽऽश्चर्यभृतः कृष्णं नारायणं पुपूज ह ॥१॥
आरार्त्रिकं परं कृत्वा प्रेममग्नोऽतिसिद्धिमान् ।
अनादिश्रीकृष्णनारायणेच्छया तदा स्वयम् ॥२॥
दिव्यप्रासादरूपोऽभूत् सहस्रकलशान्वितः ।
सर्वलक्षणसम्पन्नः सर्वांगपरिपूरितः ॥३॥
सर्वोपस्थापनयुक्तः सेवायां मूर्तिमानपि ।
व्यतिरिकेणापि चास्ते मुक्तरूपधरोऽपि सन् ॥४॥
प्रासादः सोऽभवत् ख्यातो देवाद्यैश्च प्रपूजितः ।
इन्द्रो विलोक्य तत्तुल्यं कारयितुं मनोऽकरोत् ॥५॥
विश्वकर्माणमाहूय दर्शयामास तत्कृतिम् ।
आज्ञां ददौ ततोऽमरावत्यां कर्तुं सुमन्दिरम् ॥६॥
विश्वकर्मा समभ्यस्य कुंकुमाऽक्षरभूस्थले ।
ततः स्वर्गं ययौ शृंगं सहस्रकलशं व्यधात् ॥७॥
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
पत्नीषट्कसहितं स्थापयामास महोत्सवैः ॥८॥
अथ प्रवृत्ताः प्रासादाः सर्वलोकेषु वै ततः ।
सर्वत्राऽऽध्यात्मिको देवायनो देवोऽस्ति तेषु वै ॥९॥
एवं दिव्यं मन्दिरं तु द्रष्टुमायान्ति मानवाः ।
सुराः पातालसंस्थाश्च सत्यलोकनिवासिनः ॥१०॥
कुंकुमवापिकाक्षेत्रं दृष्ट्वा मन्दिरशोभितम् ।
प्रमोदन्ते नरा नार्यो विश्राम्यन्ति बृहत्सुखे ॥११॥
दर्शनीयं मन्दिरं तु श्रुत्वा कपर्दिसंघतः ।
आसमुद्रात् समायान्ति जना द्रष्टुं समुत्सुकाः ॥१२॥
धनमेदो धीवरोऽपि प्रतीचिवार्धितीरगः ।
श्रुत्वा कुटुम्बसहितो द्रष्टुं गृहाद् विनिर्ययौ ॥१३॥
वस्त्रापथं शुभं दृष्ट्वा तुरीदेवीं ययौ पथि ।
वृक्षच्छायाघटामध्ये स्थितां मूर्तिमयीं शुभाम् ॥१४॥
जीवन्तिकानदीतीरे प्रासादे संस्थितां सतीम् ।
आम्राणां वनमध्यस्थां काष्ठहारादिसेविताम् ॥१५॥
आश्रयदां वनिनां तां शान्तिदां वनवासिनीम् ।
विलोक्य गजपृष्ठस्थां चतुर्भुजां हरिप्रियाम् ॥१६॥
लक्ष्म्यंशरूपां सत्त्वाढ्यां फलपुष्पादिपूजिताम् ।
नेमे गत्वाऽन्तिके तस्थौ धनमेदोऽतिभावतः ॥१७॥
सस्नौ नद्या ह्रदे चाम्रवृक्षस्याऽधो भुवस्तले ।
सामग्रीर्यात्रिकीः सर्वा निधाय च ततः परम् ॥१८॥
समादाय जलं शीतं पुष्पाणि चाम्पकानि च ।
अमृतस्य फलान्युत्तमानि पक्वानि तौलसीम् ॥१९॥
ययौ लक्ष्मीं तुरीनाम्नीमर्चयितुं हि मन्दिरे ।
कुटुम्बेन तु तद्देव्याः सन्निधौ प्रणनाम सः ॥२०॥
स्तुतिं चकार विधिना वन्यरक्षणकारिणीम् ।
पुपूज परया प्रीत्या फलपुष्पजलादिभिः ॥२१॥
अहो मातश्च हे मातर्महालक्ष्मि महासति ।
वने दत्तं मया नीतं गृहणाऽऽद्यं नमोस्तु ते ॥२२॥
प्रसन्ना भव यात्रार्थं प्रज्वालय च कल्मषम् ।
धीवराणां पावनी त्वं समुद्धर हरिप्रिये ॥२३॥
न जानाम्यर्चनं जात्या निकृष्टोऽशुद्ध एव यत् ।
हृदयं तेऽर्पितं शुद्धं मत्वा गृहाण चामृतम् ॥२४॥
बुद्धिं देहि तथा भक्तिं मुक्तिं देहि मदर्हिकाम् ।
परिवारसहितस्य मह्यं श्रेयः प्रदेहि च ॥२५॥
इत्युक्त्वा च मुहुर्नत्वा मार्जयामास मन्दिरम् ।
शुष्कपत्राणि निष्कास्य धूल्यादि चापहृत्य च ॥२६॥
जलेन क्षालयामास मन्दिरं तुरिकां तथा ।
स्नपयामास सलिलैः प्रदक्षिणां चकार सः ॥२७॥
पत्रपुष्पाणि चादाय नूतनानि बहून्यपि ।
तोरणं मालिकां चापि क्लृप्त्वा ददौ समर्हणे ॥२८॥
रात्रिमुवास तत्रैवाश्रयं प्रवीक्ष्य शान्तिदम् ।
फलादिवन्यभोज्यं च दृष्ट्वोवास दिनान्तरे ॥२९॥
तृतीयेऽपि दिने तस्थौ विश्रान्तिमाप भूयसीम् ।
नित्यं स्वगृहवत् सर्वं देवीकार्यं सुपूजनम् ॥३०॥
संशोधनं सेवनादि करोति भावतो वने ।
रात्रौ कुर्वन्ति भजनं कुटुम्बिनो हि कण्ठतः ॥३१॥
वह्निं प्रकाशयित्वैव तापं शैत्यनिवृत्तये ।
गृह्णन्त्यपि च तद्देव्या आगारे मिलिताश्च ते ॥३२॥
इत्येवं राधिके रात्रिं विनिर्याप्य दिनान्तरे ।
पुष्पाणि विविधान्येव समादायाऽम्बराणि च ॥३३॥
पुष्पाणामेव संसाध्य लक्ष्म्यै समर्पयन्ति ते ।
मुकुटं कर्णफुल्लानि चावतंसान् सुकञ्चुकीम् ॥३४॥
शाटीं च घर्घरीं मालां गुच्छं च रशनां तथा ।
पादुके झुल्लरीं चेति कृत्वा समर्पयन्ति ते ॥३५॥
सुगन्धि मधु मिष्टं चानीय वृक्षसुसंस्थितम् ।
समर्पयन्ति देव्यै च भोजनं सुरसान् बहून् ॥३६॥
चन्दनस्य शुभं काष्ठं समाहृत्य वनान्तरात् ।
धूपं कुर्वन्ति गन्धाढ्यं सेवन्ते स्मेति भावतः ॥३७॥
भजनं श्रीहरे कृष्ण लक्ष्मि मातर्नमोऽस्तु ते ।
एवं कुर्वन्ति सततं वनमध्ये तुरीगृहे ॥३८॥
तुर्यावस्थात्मिका लक्ष्मीरदृश्याऽपि तदर्हणाम् ।
समग्रहीत् प्रसन्नाऽभूत् स्वभावसेवया सती ॥३९॥
मूर्तौ स्थिताऽपि जग्राहाऽमृतं मधु फलानि च ।
पपौ तु सलिलं शीतं दधार मालिकाश्च ताः ॥४०॥
पौष्पाम्बराणि जगृहे धूपं जग्राह भावतः ।
वने सेवां भक्तकृतां सर्वां जग्राह मूर्तिगा ॥४१॥
एवं कुटुम्बसहितो धनमेदोऽपि धीवरः ।
योगक्षेमौ वने लेभे तीर्थयात्राप्रसंगतः ॥४२॥
निर्मलान्तःकरणः स पञ्चदशदिनानि वै ।
उवास मन्दिरे तत्र वने तुर्यान्तिके मुदा ॥४३॥
नित्यपूजादिसम्पत्त्या पुण्यं चावाप भूरि च ।
पावित्र्यं प्राप बहुधा लक्ष्मीदेवीप्रसादतः ॥४४॥
पौषशुक्लस्य पूर्णायां रात्रौ चन्द्रे शिरोगते ।
कीर्तनं प्रचकाराऽसौ मृदंगेन कुटुम्बिभिः ॥४५॥
शीतकान्तिसुधावल्ये वनवृक्षादिशोभिते ।
निर्मले रजनीभागे शान्ते राजसभावने ॥४६॥
गीतिं चकार पत्न्या च पुत्रीभिः पुत्रकैः सह ।
प्रत्यक्षं मधुरं श्रुत्वा साक्षात् तुरी बभूव ह ॥४७॥
रूपरूपानुशोभाढ्यावयवांऽगातिसुन्दरी ।
प्रसन्नवदना हस्ते कमलं बिभ्रती सती ॥४८॥
मणिस्वर्णविभूषाढ्या दिव्याम्बरादिधारिणी ।
कोटिशारदपूर्णेन्दुकान्त्यतिकान्तिभासुरा ॥४९॥
श्वेतगजस्य पृष्ठे सा निषण्णा च मनोहरा ।
वरदानं गृहाणाऽत्र प्रसन्नाऽस्मीत्युवाच तम् ॥५०॥
भक्त त्वया वने मेऽत्र मन्दिरे वसतिः कृता ।
सेवा बहुप्रकारेण कृता नैजगृहादिवत् ॥५१॥
वरं वरय भद्रं ते यथेष्टं वद चार्पये ।
एकवारं गृहस्यापि मार्जनेन ममात्र च ॥५२॥
दारिद्र्यं नाशमायाति स्वर्गं दिव्यमवाप्नुयात् ।
एकवारं प्रदीपेन ममालये तु वै चिरम् ॥५३॥
फलं सूर्यस्य लोकाप्तिः सहस्रयुगजा भवेत् ।
एकवारं तुलस्याश्चार्पणेन मम मस्तके ॥५४॥
चक्रवर्तित्वमेवाऽस्मै ददामि सम्पदश्चिरम् ।
पुष्पहाराद्यर्पणेन ददामि स्वर्णभूषणम् ॥५५॥
एकवारं फलानामर्पणेन प्रददामि वै ।
शाश्वतं चामृतं स्वर्गमैन्द्रं पदं समुज्ज्वलम् ॥५६॥
एकवारं जलदानाद् ददामि वारुणं पदम् ।
आत्मार्पणेन सर्वस्वं ददामि धाम शाश्वतम् ॥५७॥
पतिर्मे भगवान् साक्षादनादिः श्रीनरायणः ।
तत्स्मृद्धिं प्रददाम्यस्मै मद्भक्ताय महात्मने ॥५८॥
मय्यर्पितं प्रगृह्णामि समर्प्य पतये ततः ।
तत्प्रसादं सदा चाऽद्मि तस्य सेवापरायणा ॥५९॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
स्मृद्धः प्रसन्नो भगवान् जायते मम सेवया ॥६०॥
अहं प्रिया यथा तस्य यथा च माणिकी प्रिया ।
तथा प्रियोऽपि मे भक्तस्तस्मै ददात्यलं पतिः ॥६१॥
धनमेद पवित्रोऽसि प्रसन्नाऽहं यतस्त्वयि ।
वृणु यत्ते मानसेऽस्ति ददामि पतिवाञ्च्छया ॥६२॥
इत्युक्तो धनमेदः स राधिके क्षणमान्तरे ।
आश्चर्यं परमं प्राप्य सुखं प्राप्य मुदं पराम् ॥६३॥
दास्यं कुटुम्बयुक्तस्य वरयामास मातरि ।
न सम्पदं न च राज्यं नैश्वर्यं समियेष सः ॥६४॥
धन्योऽसि धनमेद! त्वं दास्ये सर्वं प्रवर्तते ।
दास्यं तु दुर्लभं लोके निश्छद्मं स्वामिनः कृते ॥६५॥
अभिलषन्ति दास्यं वै भृत्याः संसारकोटिषु ।
स्वार्थदासा ह्यसंख्याता वर्तन्ते भुवनत्रये ॥६६॥
हार्ददासा दुर्लभा वै हार्ददासोऽत्र मे भव ।
हार्ददास्ये वसन्त्येव सिद्ध्यैश्वर्याणि सर्वदा ॥६७॥
छद्मदास्ये क्लेशभूता वर्तन्ते रक्तहारिणः ।
तस्मात् कर्तव्यमेवात्र दास्यं हृदयरंजितम् ॥६८॥
यथा दासी भवाम्यत्र नारायणस्य पद्मजा ।
यथा दासी भवत्यत्र शिवस्य पार्वती सती ॥६९॥
सूर्यदासी प्रभा चास्ते दासी पद्मावती हरेः ।
यथा च माणिकी दासी राधा दासी हरेर्जया ॥७०॥
यथा च मंजुला हंसा दासी च सुगुणा हरेः ।
ललिता चाऽक्षरब्रह्म गरुडो दास इत्यपि ॥७१॥
तथा दास्यं कुरु देवे यथा च हनुमान् कपिः ।
यथा हेमन्तको दासो वसन्तो दास इत्यपि ॥७२॥
कल्पे कल्पे भवन्त्येव दासा ह्येते हरेस्तथा ।
लभ दास्यं मयि मे च पत्यौ श्रीपुरुषोत्तमे ॥७३॥
अनादिश्रीकृष्णनारायणः श्रीकंभरासुतः ।
मानवेन तु रूपेण वर्तते यत्र गच्छसि ॥७४॥
कुंकुमवापिकाक्षेत्रे लोमशाश्रमसन्निधौ ।
देवायतनसौधे श्रीकान्तस्तत्र विराजते ॥७५॥
मादृश्यः कमलास्तत्र राजन्ते कोटिशोऽपि च ।
सर्ववीर्यधरस्याऽस्य सेवयाऽऽनन्दसंभृताः ॥७६॥
याहि भक्त शुभं क्षेत्रं कुंकुमवापिकाभिधम् ।
कान्तं सेवय सर्वं ते दास्यं फलर्द्धिमद्भवेत् ॥७७॥
गृहाण वनपुष्पाणि फलानि विविधानि च ।
अर्पय पतये तत्र नमस्काराँश्च मे वद ॥७८॥
अहं पश्चिमभागेऽत्र क्षेत्रसीम्नि तदाज्ञया ।
तुरीरूपेण तिष्ठामि क्षेत्रपा कमला स्वयम् ॥७९॥
अदृश्येन स्वरूपेण कृष्णं सेवे हि नित्यदा ।
याहि शीघ्रं मानसेष्टं तव तत्र भविष्यति ॥८०॥
इत्युक्त्वा सा तुरीलक्ष्मीर्मूर्तौ विलीनतां गता ।
धनमेदो हर्षमत्तो माघमासे तु कृष्णके ॥८१॥
पक्षे कुंकुमवाप्यां सकुटुम्बश्च मुदा ययौ ।
वीक्ष्य वीक्ष्य मुदं प्राप ह्युद्यानानि वनानि च ॥८२॥
लोमशस्याश्रमं वीक्ष्य वीक्ष्याकाशगतालयम् ।
ब्रह्मप्रियाः समालोक्य विलोक्याऽश्वसरोवरम् ॥८३॥
सौधानि बहुलक्षानि विलोक्य देवतालयान् ।
वीक्ष्य तीर्थानि दिव्यानि धनमेदो जहर्ष ह ॥८४॥
स्थले स्थले चकाराऽसौ दण्डवत् सकुटुम्बकः ।
लक्ष्मीदर्शितकान्तं च द्रष्टुं महालयं ययौ ॥८५॥
यत्राऽनादिः कृष्णनारायणो विराजते प्रभुः ।
कोटिसूर्याभमुकुटाभूषणादिप्रतेजितः ॥८६॥
रूपानुरूपावयवो भगवान् कमलादिभिः ।
सेवितः श्रीहरिः साक्षाद् देवमुक्तादिसेवितः ॥८७॥
नेमे च दण्डवत् कृष्णं ददौ तुरीप्रदोपदाः ।
पुपूज च स्वयं पुष्पैः फलैर्भावैर्हृदंगमैः ॥८८॥
पादोदकं पपौ मूर्ति हृदये स दधार च ।
प्राप्य प्रासादिकं चापि सत्कारं स्वागतादिकम् ॥८९॥
भोजनं चापि संप्राप्य विश्रान्तिं स चकार ह ।
सायं तीर्थानि कर्तुं च ययावश्वसरस्तटे ॥९०॥
निशायां च तटे न्यग्रोधस्य तले ह्युवास सः ।
जातिस्वभावभावेन तीरे वासमरोचयत् ॥९१॥
रात्रौ स भजनं चक्रे नामसंकीर्तनं हरेः ।
प्रातर्जातिस्वभावेन वीक्ष्य मत्स्याँस्तु रोहितान् ॥९२॥
चक्रचिह्नसुशोभाढ्यान् धर्तुं मनोऽकरोत्तदा ।
तीरं गत्वा सूत्ररश्मिं मुमोचाऽप्सु सकण्डकाम् ॥९३॥
मत्स्यरूपधरः कृष्णनारायणः स्वयं हरिः ।
भूत्वाऽऽनने च बडिशं गृहीत्वा तद्वशं ययौ ॥९४॥
धनमेदेन सम्प्राप्तो मत्स्यो विशालतां ययौ ।
शंखचक्रगदाधारी बभूव पद्मवान् क्षणात् ॥९५॥
महद्रूपं विलोक्याऽसौ लज्जां भक्तो ययौ तदा ।
हरिः प्राह स्वभावं त्वं त्यज मां भज धीवर ॥९६॥
लक्ष्म्यास्त्वाशीर्वचनैश्च प्राप्तोऽहं ते कृपालवात् ।
दास्यं गृहाण मे याहि लोमशं मनुमावह ॥९७॥
वैष्णवो भव तिष्ठाऽत्र कुरु मे सेवनं तथा ।
यथा त्वं दृष्टवानत्र मत्स्यरूपं चतुर्भुजम् ॥९८॥
मत्स्यतीर्थमिदं मेऽस्ति मत्स्यावताररूपवान् ।
त्वदर्थं ते दृष्टिपथं समागतोऽस्मि तं भज ॥९९॥
धीवरा मत्स्यदायादा मत्स्यस्नेहा भवन्ति वै ।
तवाऽहं मत्स्यरूपेण दास्ये मोक्षं भजस्व माम् ॥१००॥
मत्स्यमूर्तिं विधायाऽत्र वटाधस्ताद् भजस्व माम् ।
तीर्थं मत्स्यावतारस्य ममैतत्पापनाशनम् ॥१०१॥
अश्वपट्टसरस्तीरे स्वर्गमोक्षप्रदं शुभम् ।
धीवराणां विशेषेण भविष्यति प्रभुक्तिदम् ॥१०२॥
इत्युक्त्वा राधिके कृष्णनारायणस्तिरोऽभवत् ।
धनमेदो ययौ शीघ्रं लोमशस्याश्रमं ततः ॥१०३॥
प्राप्तो मन्त्रं तौलसीं च स्रजं वैष्णवदासताम् ।
'ओं नमः श्रीकृष्णनारायाणाय पतये स्वाहा' ॥१०४॥
इतिप्राप्य सरस्तीरे समाययौ कुटुम्बयुक् ।
वटाधस्तात् पर्णकुटीं कृत्वोवास निरन्तरम् ॥१०५॥
मत्स्यमूर्तिं ततः कृत्वा भेजे कृष्णनरायणम् ।
स्वल्पकालेन वै राधे मुक्तिं चाप तु शाश्वतीम् ॥१०६॥
दिव्यपार्षदवर्यैश्च नीयमानः कुटुम्बयुक् ।
ययावक्षरलोकं स तीर्थे मात्स्येऽश्वसारसे ॥१०७॥
एवं ये तत्र वै गत्वा करिष्यन्त्याप्लवादिकम् ।
धीवरा अपि तत्तुल्या मोक्षं यास्यन्ति राधिके ॥१०८॥
माघाऽमायां मया तत्र मत्स्यरूपं प्रकाशितम् ।
पठनाच्छ्रवणाच्चास्य मत्स्यतीर्थफलं भवेत् ॥१०९॥
भुक्तिं मुक्तिं लभेन्मर्त्यः स्वर्गं पुत्रं धनादिकम् ।
यद्यदिष्टतमं सर्वं लभेत् कृष्णकृपालवात् ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने तुरीदेव्या आशीर्वादेन धनमेदधीवरस्य यात्रालोः कुंकुमवाप्यां मत्स्यावतारदर्शनोत्तरं मुक्तिर्मत्स्यतीर्थं चेति-
निरूपणनामैकषष्ट्यधिकशततमोऽध्यायः ॥१६१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP