संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २१२

त्रेतायुगसन्तानः - अध्यायः २१२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिकेऽथ ततः श्रीमद्बालकृष्णः प्रभुः स्वयम् ।
दुग्धं पपौ भोजनं च चकार सकुटुम्बकः ॥१॥
तावत् पूजां महाराज्ञी कर्तुं कन्यायुताऽऽययौ ।
तिस्रः कन्या वरमालां ददुः कण्ठे हरेस्तदा ॥२॥
कृतकृत्या अभवँस्ता राज्ञी मेने सुभाग्यकम् ।
राजा कोटिसुवर्णानि प्रददौ हरये तदा ॥३॥
प्रजा महोत्सवं चक्रे पूजनं च हरेस्ततः ।
पूजां लब्ध्वा द्रुतं कृष्णो विमानं चाध्यरोहयत् ॥४॥
सर्वान् स्वयं चारुरोह राजा सैन्येन वै तदा ।
विदायमानं सम्मानं व्याकरोद् वादकैस्तथा ॥५॥
स्वयं विमानमारुह्य सर्षिस्तदाऽम्बरेऽभवत् ।
देशान् राज्ये सुयुक्ताँश्च वीक्ष्य हरिर्नृपान्वितः ॥६॥
साधुद्वीपं ततो वीक्ष्य हट्टासनाब्धिमाप्य च ।
उल्लंघ्य शीघ्रमेवाऽऽपाऽध्वरभूमिं निशामुखे ॥७॥
भोजनं मधुरं चक्रे विशश्राम सुखोषितः ।
तिस्रः कन्या हरेः सेवां चक्रिरे शयने तदा ॥८॥
प्रातस्तूर्यनिनादैश्च मांगलिकस्तवैस्तथा ।
गीतिभिर्ब्रह्मपत्नीनां प्रबुबोध महाप्रभुः ॥९॥
कृतस्नानादिकस्तूर्णं प्रपूज्य पितरौ गुरून् ।
यज्ञभूमौ हरिस्तूर्णं तत्राजगाम सान्वयः ॥१०॥
एकादश्यां प्रगे विप्रा मुनयोऽपि महर्षयः ।
साधवः कर्मठाश्चान्ये यज्ञमण्डपमाययुः ॥११॥
देवाद्याः स्थानभोक्तारः सर्वे स्वस्थानमाययुः ।
निषेदुर्वह्नयः कुण्डमध्ये मूर्ता यथोचितम् ॥१२॥
स्वस्तिवाचोऽभवँस्तत्र पुण्याहवचनानि च ।
प्रोक्षणान्युद्बोधनानि पूजनान्यभवन् क्रमात् ॥१३॥
हवनानि तर्पणानि यथानित्यं तथाऽभवन् ।
अन्तिमं होमकार्यं च परिहारोऽभवत्तथा ॥१४॥
हव्यानां भोजनान्येवाऽभवैँस्तद्व्रतपुष्टये ।
अनन्नाऽहारमापुस्ते श्रीहरेः करतः सुराः ॥१५॥
तृप्तास्तत्र महातृप्तिं गता हरिप्रसादजाम् ।
अथ तत्र महाद्रव्यदक्षिणाः स्वर्णरत्नजाः ॥१६॥
कोट्यब्जार्बुदपद्मानां परार्धानां परात्पराः ।
विप्रेभ्योऽदापयत् कृष्णनारायणश्च राजभिः ॥१७॥
ततः सर्वेऽपि राजानो राज्ञीयुक्ता निजे निजे ।
कुण्डे चक्रुर्हवनानि पूर्णाहुत्यात्मकानि वै ॥१८॥
अनादिश्रीकृष्णनारायणोऽपि मुख्यकुण्डके ।
पूर्णाहुतीर्ददौ वह्नौ देवताभ्योऽमृतात्मिकाः ॥१९॥
ततश्चचार भगवान् महापूर्णाहुतिं पराम् ।
तदा मुक्ता अवतारा ईश्वरा मुनयस्तथा ॥२०॥
ऋषयो देवताः सर्वा देव्यश्च मानवादयः ।
काश्यप्यश्च प्रजाः सर्वा मूर्तिमन्तो नराः स्त्रियः ॥२१॥
चरुप्रसादलाभार्थं महापूर्णहवाप्तये ।
स्थावरा जंगमाः सर्वे चोपतस्थुर्हि मण्डपे ॥२२॥
घृतधारासहस्राद्यैस्तृप्यन्ते देवतादयः ।
वसुधारायुताद्यैश्च तृप्यन्तेऽनन्तसृष्टयः ॥२३॥
महापूर्णाहुतिहोमसंकल्पोत्तरमेव तु ।
मृडं वह्निं नमस्कृत्याऽऽज्यं चाधिश्रित्य स्रुक्स्रुवौ ॥२४॥
प्रताप्य दर्भैः सम्मृज्योद्वास्याज्यमभिवीक्ष्य च ।
संस्कृत्याऽऽज्यं गृहीत्वा श्रीफलं स्रुचि निधाय च ॥२५॥
ताम्बूलं च फलान्यत्र पूगाऽक्षतादिकानि च ।
धृत्वोपरि च समिधोऽलंकृत्य पुष्पचन्दनैः ॥२६॥
पूर्णाहुत्यै नम इति संपूज्य हव्यमेव च ।
धृत्वा कराभ्यां भगवान् राजाद्या यजमानकाः ॥२७॥
स्थिताः प्रणालिकाद्वारा घृतधाराः सहस्रशः ।
कुण्डमध्ये प्रवहन्त्यविच्छिन्नाश्च तदा मुहुः ॥२८॥
वेदमन्त्रा अभवँश्चोच्चरिता वह्निदेवताः ।
वह्नेर्ध्यानं तदा चक्रुः साक्षात् स्थितस्य होमिनः ॥२९॥
चतुःशृंगं त्रिधा बद्धं द्विमूर्धानं समुज्ज्वलम् ।
नासाद्वयं च षण्णेत्रं चतुःश्रोत्रं त्रिपादकम् ॥३०॥
सप्तहस्तं दक्षे चतुःकरं वामे त्रिहस्तकम् ।
स्रुवं स्रुचं तथा शक्तिमक्षमालां च दक्षिणे ॥३१॥
तोमरं व्यजनं चैव घृतपात्रं तु वामके ।
दधानं सप्तजिह्वं च त्रिर्जिह्वोत्तरकाननम् ॥३२॥
चतुर्जिह्वं दक्षभागे द्विपञ्चाशत्कलायुतम् ।
कोटिद्वादशमूर्त्याख्यं रक्तपद्मासनस्थितम् ॥३३॥
स्वाहास्वधावषट्कारैरंकितं रक्तहारिणम् ।
पिंगाक्षं लोहितग्रीवं कृष्णमार्गं हुताशनम् ॥३४॥
ज्वालामयं तथा सप्तार्चिषं तं हव्यवाहनम् ।
अग्निं वैश्वानरं त्वां वै नमामो गोचरं सुरम् ॥३५॥
इति ध्यात्वा तथा नत्वा वेदमन्त्रान् जगुर्द्विजाः ।
घृतधाराः पतन्त्येव तत्र सहस्रशोऽनले ॥३६॥
ओं समुद्रादूर्मिर्मधुमाँ उदारदुपाँशुना सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥३७॥
वयन्नामप्प्रब्रवामाघृतस्याऽस्मिन् यज्ञे धारयामा नमोभिः ।
उप ब्रह्मा शृणवच्छस्यमानं चतुःशृंगोवमीद्गौर एतत् ॥३८॥
चत्वारि शृंगास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य ।
त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्यानाविवेश ॥३९॥
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविंदन् ।
इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥४०॥
एता अर्षन्ति हृद्यात् समुद्राच्छतव्रजारिपुणानावचक्षे ।
घृतस्य धारा अभिचाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥४१॥
सम्यक स्रवन्ति सरितोऽनघेनाऽअन्तर्हृदा मनसा पूयमानाः ।
एतेऽअर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणो रीषमाणाः ॥४२॥
सिन्धोरिव प्राध्वने शूघनासो व्वातप्प्रमियः पतयन्ति यह्वाः ।
घृतस्य धाराऽअरुषोन व्वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानाः ॥४३॥
अभिप्रवंत समनेव योषाः कल्याण्यः स्मयमानासोऽअग्निम् ।
घृतस्य धाराः समिधो न सन्तता जुषाणो हर्य्यति जातवेदाः ॥४४॥
कन्या इव व्वहतुमेतवाऽउ ऽअंज्यंजानाऽअभिचाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धाराऽअति तत्पवन्ते ॥४५॥
अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥४६॥
धामं ते विश्वं भुवनमधिश्रितमन्तःसमुद्रे हृद्यन्तरायुषि ।
अपामनीके समिथेयऽआभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥४७॥
ओं मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आजातमग्निम् ।
कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥४८॥
ओं चितिं जुहोमि मनसा घृतेन यथा देवा इहाऽगमन् वीतहोत्रा ऋतावृधः ।
पत्ये विश्वस्य भूमनो जुहोमि विश्वकर्मणे विश्वाहादाब्भ्यं हविः ॥४९॥
सप्त ते अग्ने समिधः .सप्तजिह्वाः सप्त ऋषयः सप्तधाम प्रियाणि ।
सप्तहोत्राः सप्तधात्वा यजन्ति सप्तयोनीरापृणस्वा घृतेन स्वाहा ॥५०॥
शुक्रं ज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ।
ज्योतिष्माँश्च शुक्रश्च ऋतपाश्चात्यंहाः ॥५१॥
ईदृङ्त्वान्न्यादृङ्च सदृङ्च् प्रतिसदृङ्च ।
मितश्च संमितश्च सभराः ॥५२॥
ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधाधयः ।
ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च अन्तिमित्रश्च दूरेऽअमित्रश्च गुणः ॥५३॥
ईदृक्षास एतादृक्षास ऊषुणः सदृक्षासः प्रतिसदृक्षास एतन ।
मितासश्च सम्मितासो नोऽअद्य सभरसो मरुतो यज्ञेऽस्मिन् ॥५४॥
स्वतवाँश्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च शाकी चोज्जेषि ।
उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च सासह्वांश्चाभियुग्वा च विक्षिपः स्वाहा ॥५५॥
पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणोव्वसुनीथ यज्ञैः ।
घृतेन त्वं तन्न्वन्वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥५६॥
वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारम् ।
देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुप्प्वावाकामधुक्षः ॥५७॥
पूर्णा दर्व्वि परापत सुपूर्णा पुनरापत
वस्नेव व्विक्रीणावहा इषमूर्ज्जं शतक्रतो स्वाहा ।
इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे अद्भ्यश्च नमम ॥५८॥
इदं दिविषद्भ्यो भुवः सद्भ्यो महःषद्भ्यो
जनसद्भ्यस्तपःसद्भ्यश्च नमम ।
इदं सत्यसद्भ्यश्चाऽऽवृतिषद्भ्यश्चेश्वरेभ्यो
विराजाय महाविराजाय नमम ॥५९॥
इदं विष्णुभ्यो महाविष्णुभ्यो हिरण्यगर्भेभ्यो नमम ।
इदं भूमभ्यो महापुरुषेभ्यो महाकालेभ्यश्चतुर्व्यूहेभ्यो नमम ॥६०॥
इदं चाक्षराय चाक्षरषद्भ्योऽवतारेभ्योऽवतारिणे नमम ।
इदं ब्रह्मप्रियाभ्य ईशनीभ्यो धामिनीभ्यः सतीभ्यो नमम ॥६१॥
इदं पार्षदेभ्यः पार्षदानीभ्यो गणेभ्यो गणनीभ्यो नमम ।
इदं योगिभ्यो योगिनीभ्यः सर्वपालेभ्यः क्षेत्रपेभ्यो नमम ॥६२॥
इदं महर्षिभ्यश्च पितृभ्यो वायवीयेभ्यो जलीयेभ्यो नमम ।
इदं यमीयेभ्यः काश्यपीयेभ्यो यक्षेभ्यो राक्षसेभ्यश्च नमम् ॥६३॥
इदं मानवेभ्यो मानवीभ्यः पाशवीभ्यः पशुभ्यश्च नमम ।
इद्ं पाक्षिणीभ्यश्च पक्षिभ्यः सृपेभ्यश्च सृपीभ्यश्च नमम ॥६४॥
इदं दासेभ्यश्च दासीभ्यश्च पादपेभ्यो वल्लीभ्यश्च नमम ।
इदं तृणेभ्यश्च स्तम्बेभ्यश्च विरुद्भ्यश्च मूलेभ्यो नमम ॥६५॥
इदं तीर्थेभ्यश्च नदीभ्यश्चाऽब्धिभ्यश्च तडागेभ्यो नमम ।
इदं चैत्येभ्यश्च जडेभ्यश्च तत्त्वेभ्यश्च चेतनेभ्यो नमम ॥६६॥
इदं दैत्येभ्यश्च भूतेभ्यश्च पिशाचेभ्यश्च भूतिन्यादिभ्यश्च नमम ।
इदं अधोभ्यश्चोपरिभ्यश्चान्तरेभ्यश्च पार्श्वगेभ्यो नमम ॥६७॥
इदं साध्येभ्यश्च तापसेभ्यश्च सांख्ययोगिनीभ्यश्च नमम ।
इदमंशेभ्यश्च कलाभ्यश्चाऽऽवेशेभ्यश्च विभूतिभ्यो नमम ॥६८॥
इदं अर्चाभ्यश्चान्तर्यामिणे च स्वरूपेभ्यो रूपेभ्यो नमम ।
इदं विभवेभ्यश्च प्रतिबिम्बेभ्यश्चावतीर्णेभ्यश्च नमम ॥६९॥
इदं त्यागिभ्यश्च यतिभ्यश्च शीलिभ्यश्च ब्रह्मिष्टेभ्यो नमम ।
इदं गुणेभ्यश्च क्रियाभ्यश्च रसेभ्यश्च प्रियाभ्यश्च नमम ॥७०॥
इदं गर्भेभ्यश्च बालेभ्यश्च युवभ्यश्च स्थवीरेभ्यश्च नमम ।
इदं प्रेतेभ्यश्च वृषवन्धेभ्यश्च कालेभ्यश्च नमम ॥७१॥
इदं कोशेभ्यश्चेन्द्रियेभ्यश्च
शक्तिभ्यश्च देवताभ्यो नमम ।
इदं मायाभ्यश्चेशानेभ्यश्चेशानीभ्यश्च
वैष्णीवीभ्यश्च नमम ॥७२॥
इदं ब्राह्मीभ्यश्च ब्रह्माणीभ्यश्च
वैराजीभ्यश्च भूम्नीभ्यश्च नमम ।
इदं धामभ्यश्च विकुण्ठाभ्यो
हारिताभ्यः श्वेताभ्यश्च नमम ॥७३॥
इदं पिशंगीभ्यश्च रक्ताभ्यश्च
गौरीभ्यः स्मारिताभ्यश्च नमम ।
इदं लक्ष्म्यै राधिकायै सरस्वत्यै
दुर्गायै गंगायै नमम ॥७४॥
इदं विरजायै पद्मावत्यै रमायै
माणिक्यै मंजुलायै नमम ।
इदं कमलायै हंसायै चमृतायै
सद्गुणायै सुदेव्यै च नमम ॥७५॥
इदं दुःखहालक्ष्म्यै सन्तुष्टायै चामरीभ्यः
कम्भरायै श्रियै नमम ।
इदं धर्माय च वृषाय च गोपालाय च
भगवते वल्लभाय च नमम ॥७६॥
इदं शुकाय च स्वतःप्रकाशाय च
महाव्यासाय च दैवाधिकाशाय च नमम ।
इदं ब्रह्मसृष्ट्यै चेशसृष्ट्यै जीवसृष्ट्यै
सर्वसृष्ट्यै असृष्ट्यै च नमम ॥७७॥
इदं विशिष्टाय परेशायाऽनादिकृष्ण-
नारायणाय स्वामिने नमम ।
इदं यज्ञाय च हव्याय च पात्रेभ्यश्चो-
पकरणेभ्यश्च श्रीकृष्णवल्लभाय च नमम ॥७८॥
इदं कुण्डाय च वेदेभ्यश्च
मण्डपाय च स्वरेभ्यश्च नमम ।
इद्ं महीमानेभ्यश्च दीनेभ्यश्चा-
ऽनाथेभ्यश्च कीटेभ्यश्च नमम ॥७९॥
इदं भिक्षुकेभ्यश्च न्यासिभ्यश्च भृत्येभ्यश्च
साशेभ्यश्चान्तेवासिभ्यश्च नमम ।
इद्ं प्रतीक्षद्भ्यश्चाऽप्रतीक्षद्भ्यश्च
मूर्तेभ्यश्चाऽमूर्तेभ्यश्च तत्त्वेभ्यश्च नमम ॥८०॥
इदं लीनेभ्यश्चाऽलीनेभ्यश्चागतेभ्यश्चा-
नागतेभ्यश्च नमम ।
इदं लोकिभ्यश्चाऽलोकिभ्यश्च देहिभ्यश्चा-
ऽदेहिभ्यश्च परिच्छिन्नेभ्यश्च नमम ॥८१॥
इदं स्मृतेभ्यश्चाऽस्मृतेभ्यश्चोग्रकेभ्यश्चा-
ऽनुग्रकेभ्यश्चाऽपरिच्छिन्नेभ्यश्च नमम ।
इदं सात्त्विकेभ्यश्च राजसेभ्यश्च
तामसेभ्यश्च त्रिकास्पृष्टेभ्यश्च नमम ॥८२॥
इदमिन्द्रियवद्भ्यश्चानिन्द्रियेभ्यश्च
कललेभ्यश्च बीजेभ्यश्च सूक्ष्मेभ्यो नमम ।
इदं यावद्भ्यश्च प्रयावद्भ्यश्च पराणुभ्यश्चा-
ऽनणुभ्यश्चांऽकुरेभ्यश्च नमम ॥८३॥
इदं कामेभ्यश्च रतिभ्यश्चैश्वर्येभ्यश्चा-
ऽवृषेभ्यश्च योनिभ्यश्च नमम ।
इदं भक्तिभ्यश्चापराभ्यश्च शारदाभ्यश्च
भूम्यश्च लिंगेभ्यश्च नमम ॥८४॥
इद्ं लीलाभ्यश्च तुलसीभ्यश्च दैवसमिद्भ्यश्च नमम ।
इदं पूजाभ्यश्चार्हणाभ्यश्च स्वागताभ्यश्च नमम ॥८५॥
इदं राजभ्यश्च प्रजाभ्यश्च श्रद्दधानेभ्यश्च नमम ।
इदं वंशेभ्यश्च प्रवंशेभ्यश्चानुवंशेभ्यश्च नमम ॥८६॥
इदं सतीभ्यश्च गर्भिणीभ्यश्च प्रसूताभ्यश्च नमम ।
इदं विषिभ्यश्च दंष्ट्रिभ्यश्च शृंगिभ्यश्च नमम ॥८७॥
इदं मन्त्रिभ्यश्च मलिभ्यश्चाऽमलिभ्यश्च नमम ।
इदं हेतिभ्यश्र वेषेभ्यश्च यन्त्रेभ्यश्च नमम ॥८८॥
इदं गन्त्रीभ्यश्च विमानेभ्यश्च यानेभ्यश्च नमम ।
इदं कल्पेभ्यश्च कल्पद्रुभ्यश्च कल्पवल्लीभ्यश्च नमम ॥८९॥
इदं धेनुभ्यश्च कामदुघाभ्यश्च चिन्तामणिभ्यश्च नमम ।
इद्ं ब्रह्मसरसे ब्रह्मह्रदायामृतधारायाऽक्षयपात्राय नमम ॥९०॥
इदं चैतस्मै चेतद्वृत्तये महाकृष्णाय बालकृष्णाय नमम ।
इदं ब्रह्मणे च परब्रह्मणे च नारायणाय परमात्मने नमम ॥९१॥
इत्येवं राधिके हव्याहुतयोऽनन्तनामभिः ।
दीयन्ते कुण्डके वह्नौ साक्षाद् देवप्रदाय वै ॥९२॥
आगत्यागत्य सर्वे ते गृह्णन्ति वह्निकाननात् ।
तृप्ताः प्रयान्ति सुखिनः सोद्गाराः साशिषस्तदा ॥९३॥
एवं कृतं हि हवनं नारिकेलादिभिस्तदा ।
महापूर्णाहुतिप्रख्यं बालकृष्णोऽनले शुभे ॥९४॥
दिव्यरूपोऽभवद् दृश्यः सर्वेषामेव देहिनाम् ।
विश्वंभरः स्वयं भुंक्ते हव्यानि विविधानि वै ॥९५॥
अन्तर्भाव्य तु ताँस्ताँश्च तृप्तस्तृप्तिं ददाति वै ।
शर्करा मधुपर्काश्च चरवश्च फलानि च ॥९६॥
घृतानि व्रीहयो दिव्या रसा मिष्टान्नकानि च ।
अमृतानि सुधाश्चापि पेयानि विविधान्यपि ॥९७॥
कणभूजानि सस्यानि बीजानि समिधस्तथा ।
दुग्धसाराणि चान्यानि हूयन्ते चानले हरौ ॥९८॥
यद्यल्लोके तु यान्येव येषां खाद्यानि सन्ति च ।
सत्त्वभावानि तान्येव हूयन्ते चानले हरौ ॥९९॥
येषां यत् तृप्तिकृच्चापि सर्वज्ञो बालकृष्णकः ।
तत्प्रदायैव तं तां वा तर्पयत्येव चानले ॥१००॥
एवं पूर्णाहुतिर्जाता महापूर्णाहुतिस्तथा ।
तृप्तं जातं जगत् सर्वं तृप्तं वै सृष्टिमण्डलम् ॥१०१॥
तृप्तं सृष्टेः परं चापि सर्वं वै ब्रह्ममण्डलम् ।
ततो देवादयः प्राहुः पच्यन्ते नोदरेऽधुना ॥१०२॥
हव्यानीति परिहारं करोतु परमेश्वरः ।
इत्येवं देवकोटीनां घोषणायां हरिः स्वयम् ॥१०३॥
तृप्तः प्रसन्नश्चोद्गारं प्राप्य होमान्तकं व्यधात् ।
महापूर्णाहुतौ होमे जाते नारायणास्तदा ।
अमृताख्यफलान्यग्नौ जुहुवुर्धामजानि वै ॥१०४॥
मुक्ताः कल्पमयान्येव फलानि जुहुवुस्तदा ।
ईश्वरा ऐश्वरसुधाफलानि जुहुवुस्तदा ॥१०५॥
ऋषयो देवताश्चापि पीयूषफलकानि च ।
जुहुवुर्मानवा नारिकेलानि शर्करास्तथा ॥१०६॥
पर्वताश्चन्दनादीनि धेनवः पायसान्यपि ।
द्रुमा रसान् श्रेष्ठगुन्द्रान् जुहुवुः सर्वशस्तदा ॥१०७॥
सस्यानि जुहुवुस्तत्र शालिकणादिकान् शुभान् ।
वल्लयो मिष्टपुष्पाणि देव्यो मिष्टान्नकानि च ॥१०८॥
यथा येषामभूत् स्मृद्धिस्तथा फलादिकानि वै ।
जुहुवुस्तत्र कुण्डाग्नौ परमेशे परात्परे ॥१०९॥
पत्रवन्तस्तु पत्राणि गन्धवन्तः सुगन्धकान् ।
त्वग्वन्तश्च त्वचः श्रेष्ठा जुहुवुस्तत्र चानले ॥११०॥
त्रैलोक्यां व्यानशे धूम्रः सुगन्धिमिष्टतृप्तिदः ।
सृष्टित्रयं तदा तृप्तं हरौ तृप्ते हि राधिके ॥१११॥
एवं यज्ञो महान् जातो मध्याह्नेऽभूत् समाप्तिमान् ।
देवानां दक्षिणादानं पूजनं च विसर्जनम् ॥११२॥
चकार भगवान् साक्षाद् दक्षिणादानमित्यपि ।
भिक्षुकाणां हि सर्वेषां भोजनादीन्यकारयत् ॥११३॥
आचार्याद्या यथायोग्याः सामग्रीर्जगृहुश्च ताः ।
यज्ञीया दक्षिणाद्याश्च परिहारस्ततोऽभवत् ॥११४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चैकादश्यां महापूर्णाहुतिप्रदानं सर्वेषां तृप्तिर्यज्ञपरिहारश्चेत्यादिनिरूपणनामा द्वादशाधिकद्विशततमोऽध्यायः ॥२१२॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP