संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ६८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६८ Translation - भाषांतर श्रीकृष्ण उवाच-कुबेरो वसवः कल्पपादपा मेदिनी रमा ।निधयश्चिन्तामणयः कृष्णनारायणाग्रतः ॥१॥तस्थुस्तु राधिके दातुं सम्पारितोषिकाणि वै ।मुक्तेभ्यो मालिका दिव्या ददुर्दिव्यविभूतिजाः ॥२॥अवतारेभ्य एवैते दुदुर्मुकुटकुण्डले ।दिव्यहारानीश्वरेभ्यो ददुः कृष्णाज्ञया तदा ॥३॥ब्रह्मादिभ्यो ददुः सिंहासनानि कानकानि हि ।पितृभ्यश्चाऽक्षयाण्येव पात्राणि प्रददुस्तदा ॥४॥ऋषिभ्यो यज्ञपात्राणि प्रददुश्चासनानि च ।सुरेभ्यो रत्नहाराँश्च ददुर्योग्यान् यथायथम् ॥५॥दानवेभ्योऽसुरेभ्यश्च दैत्येभ्योऽपि ददुस्तदा ।यानवाहनभूषाश्च मानवेभ्यो धनं ददुः ॥६॥नागेभ्यो मणयश्चापि पशुभ्यो भोजनामृतम् ।पक्षिभ्यो फलपुष्पादिरसद्रव्याणि ते ददुः ॥७॥मूर्ताऽमूर्तचिदचिद्भ्यो यथायोग्यं धनानि च ।विप्रेभ्यः स्वर्णरूप्यादि राजभ्यो हीरकादिकम् ॥८॥साधुभ्यो वस्त्रकन्थादि सतीभ्यो भाग्यवर्धनम् ।भूषाम्बरादि शृंगारं दक्षिणायां तदा ददुः ॥९॥आतृप्ति संददुस्तत्र देहीति नोच्यते पुनः ।ददुर्यथा च ते वोढुं शेकुर्नैव यथेष्टकम् ॥१०॥यद् येषां वाञ्छितं तत्तत्तत्र द्रागेव चार्पितम् ।नशब्दो युज्यते नैव गृह्णशब्दः प्रयुज्यते ॥११॥एवं वै दक्षिणाश्चाथ पारितोषिकमित्यपि ।ददुस्तेभ्यश्च योग्येभ्यो विप्रादिभ्यो धनं बहु ॥१२॥सूदेभ्यश्चान्धसिकेभ्यो ददुर्धनं विपूलकम् ।कर्मचारेभ्य एवापि हारहीरकमित्यपि ॥१३॥भाटेभ्यश्चारणेभ्यश्च शिल्पिभ्यश्च ददुर्धनम् ।मल्लेभ्यो नर्तकेभ्यश्च नाटिकाभ्यो धनं ददुः ॥१४॥गायिकाभ्यो दासिकाभ्यो हारभूषाम्बरादिकम् ।दासेभ्योऽनाथदीनेभ्यो वस्त्रभूषादिकं ददुः ॥१६॥सृष्टित्रयस्य कन्याभ्यो भूषाम्बरधनानि च ।स्वर्णरूप्यकपात्राणि ददुः कृष्णाज्ञया तदा ॥१६॥यासां येषां यथा येन परितोषोऽभिजायते ।तत्तत् तदा प्रदत्तं च संकोचो नैव विद्यते ॥१७॥साध्वीभ्यश्च सतीभ्यश्च पतिव्रताभ्य इत्यपि ।अधवाभ्यश्च वृद्धाभ्यो मातृभ्यश्चापि सर्वथा ॥१८॥स्वसृदुहितृकन्याभ्यो देवीभ्यश्च यथायथम् ।भूषाम्बरधनान्येव ददुः कृष्णाज्ञया ततः ॥१९॥महीमानेभ्य इत्येव कृष्णनारायणः स्वयम् ।दापयामास च पारितोषिकान्युत्तमानि च ॥२०॥कुबेरवसुकल्पाऽऽदिद्वाराऽनर्घ्याणि सर्वथा ।कंभराश्रीर्ददौ सर्वयोषिद्भ्यो भूषणानि वै ॥२१॥कानकानि रत्नहीरमणिहारान् ददौ तथा ।गोपालश्च ददौ सर्वजनेभ्यो हाटकात्मकम् ॥२२॥धनं सद्रत्नहारादि यथापेक्षं तथोर्जितम् ॥एवं सर्वमहर्षिभ्यस्तदा श्रीलोमशो ददौ ॥२३॥कल्पात्मगूटिका यस्या जायेतेष्टं क्षणे क्षणे ।सन्तोषा भगिनी कृष्णनारायणस्य चाग्रजा ॥२४॥ददौ सौभाग्यसूत्रादिद्रव्यरञ्जनकंकतीः ।कानकीश्च विभूषाश्च कञ्चुकी शाटिकास्तथा ॥२५॥घर्घरीश्चोलिकाद्याश्च ददौ नत्थीश्च बंगिडीः ।रशना वलयाँश्चाप्यूर्मिकाः सन्तोषदायिकाः ॥२६॥एवं दानानि च पारितोषिकाणि प्रदाय च ।अनुग्रहं महे समागतानां प्राह वै पिता ॥२७॥श्रीगोपालकृष्ण उवाच-मम पुत्रस्य कृष्णस्य यज्ञसूत्रमहोत्सवे ।समागतानां भवतां शोभावृद्धिजुषां सदा ॥२८॥ऋण्यहं स्वागतं कुर्वे धन्यवादान् ददामि च ।विनयेन वदाम्यत्र न्यूनसेवा मया कृता ॥२९॥भवेत् क्षन्तव्यविषयां मत्वा क्षम्योऽहमीश्वरः ।मुक्तानां चावताराणां ब्राह्मीनां ब्रह्मचारिणाम् ॥३०॥ईशानामीश्वरीणां देवानां च देवयोषिताम् ।मानवानां मानवीनां दैत्यानां दैत्ययोषिताम् ॥३१॥नागानां नागपत्नीनां जडचेतनदेहिनाम् ।दिक्पालानां नृपाणां चर्षीणाम् आर्षीप्रयोषिताम् ॥३६॥सान्निध्येनाऽभवत्कार्यं चोत्सवीयं सुबृंहितम् ।सर्वेषां यशसां पात्रं कृतोऽहं भवदागमैः ॥३३॥पुत्रो मे वर्धितश्चापि तेजोभिर्निजगोचरैः ।पुनरेवाऽवगन्तव्यं क्षन्तव्या च क्षतिर्मम ॥३४॥इत्युक्त्वा कार्यकर्तृभ्यो धन्यवादान् ददौ मुहुः ।आशीर्वादान् समिच्छामि सकुटुम्बः समार्थयत् ॥३५॥तदानीं जयकारश्च सभाजनकृतोऽभवत् ।अथ राधाकृष्ण आदौ बालकृष्णस्य वै तदा ॥३६॥पूजार्थं त्वाययौ दिव्योपचारैः समपूजयत् ।मुकुटं गोपवेषादि वंशीं चिन्तामणीन् ददौ ॥३७॥कामधेनूर्ददौ चापि चन्दनाद्यैरपूजयत् ।लक्ष्मीनारायणश्चाऽथाऽपूजयच्छ्रीहरिं तदा ॥३८॥मुकुटं कुण्डले शंखं चक्रं गदां तथाऽब्जकम् ।गरुडं च विमानं च दिव्यकौस्तुभमालिकाः ॥३९॥ददौ श्रीबालकृष्णाय केसराद्यैरपूजयत् ।वासुदेवस्तथा चान्येऽवताराः प्रकृतीश्वरः ॥४०॥प्रधानेशस्तथा भूमा महाविष्णुर्विराट्पुमान् ।सदाशिवस्तथा तेषां शक्तयश्चाययुर्मुदा ॥४१॥तिलकं कज्जलं बिन्दुं दत्वा च मुकुटानि वै ।कर्णभूषाः कण्ठहारान् मुक्तामौक्तिकनिर्मितान् ॥४२॥उर्मिका रशना यष्टीन् ददुस्ते ता धनान्यपि ।स्वस्वधामकृतान् दिव्यान् हंससिंहगजात्मकान् ॥४३॥आसनोत्तमभौमाँश्च ददुर्बालाय देहिने ।अष्टावरणसंस्थाश्चेश्वराः सप्तर्षयस्तथा ॥४४॥ब्रह्मविष्णुमहेशाद्या मुनयो ब्रह्मचारिणः ।स्वर्णहारान् पुष्पहारान् स्वर्णपात्राणि पादुके ॥४५॥कमण्डलून् कलशाँश्च प्रावरणान्यनेकशः ।ददुः श्रीबालकृष्णाय धनं दिव्यं नवं नवम् ॥४६॥पितरो मुनयो देवाश्छत्रं च चामरे तथा ।विमानानि च यानानि हंसान् दासाँश्च दासिकाः ॥४७॥यष्टिं सौवर्णविकृतिं दर्पणं शुकमेनकाः ।वादित्राणि विचित्राणि चामृतानां घटाँस्तथा ॥४८॥कामकल्पलतादींश्च सूर्यचन्द्रमणीँस्तथा ।दिगीश्वरादिवेषाँश्च विभूषा रत्नमालिकाः ॥४९॥ददुः श्रीबालकृष्णाय दिव्यान्यपि धनानि च ।दैत्याश्च दानवाश्चापि असुरा वैभवान् ददुः ॥५०॥नागाः सर्पा भोगिनश्च मणीन् माणिक्यमौक्तिकान् ।हारान् विभूतिवैशेष्यं ददुर्द्रव्याणि वै तदा ॥५१॥रत्नाकरास्तु रत्नानि मौक्तिकानि ददुस्तदा ।नद्यो नदा वरुणाद्या ददुर्द्रव्यरसानपि ॥५२॥पर्वताः खनयश्चापि ददुर्मणिविशेषकान् ।रत्नानि वज्रमणिकान् मुक्ताश्च पद्मरागकान् ॥५३॥मारकतानिन्द्रनीलान् वैदूर्यान् पुष्परागकान् ।कर्केतनान् भीष्मकाँश्च पुलकान् रुधिराख्यकान् ॥५४॥स्फटिकान् विद्रुमान् पुंखराजान् ददुर्विशेषतः ।मानवास्तु ददुस्तस्मै स्वम्बराणि शुभानि वै ॥५५॥द्युमतः कम्बलाँश्चापि पात्रभूषोपवार्तिकाः ।गजाश्ववृषभाँश्चापि धेनूश्च महिषीस्तथा ॥५६॥द्रव्याणि स्वर्णरूप्याणि ददुर्बालाय भावतः ।वृक्षवल्ल्यो मधुरसान् ददुर्माल्यादिपूजनम् ॥५७॥पर्यंकान् सुबृसीश्चापि कटान् चतुष्किकादिकाः ।खट्वा यन्त्रीस्तथा गन्त्रीर्ददुः पेषणिकास्तथा ॥५८॥चुल्लिकाः कण्डनिकाश्च जलकुम्भीर्ददुस्तथा ।मार्जनिका गुप्तदोरधानीश्च प्रददुर्मुदा ॥५९५॥मुशलं तन्तुचक्रं चानर्घ्यपेटिमञ्जुषाः।वारिधानीश्चाथ पयोधानीस्तक्रप्रमन्थनीः ॥६०॥द्रोणश्च दधिधानीश्च कुसुलानि कर्णार्दिनीः ।पिष्टिकां च शिलां घण्टीं रसयन्त्रीं ददुर्मुदा ॥६१॥दोलां प्रेंखां घोटिकां च चतुष्पादां च खट्विकाम् ।कौशेयान्यम्बराण्येव और्णान्यप्यम्बराणि च ॥६२॥बुट्टाढ्यवेषवर्याणि ददुश्च शर्करादिकाः ।फलानि फलहाराँश्च शुष्कैलादिस्रजस्तथा ॥६३॥चन्दनानि विचित्राणि शीतलानि ददुस्तदा ।पत्त्राणानि वर्ष्मत्राणान् शिरस्त्राणानि वै ददुः ॥६४॥पात्राणि युगहाण्डीश्च स्थालीश्च कलशादिकान् ।भंगारकाणि पात्राणि पुटपात्राणि यानि च ॥६५॥जलसेचनपात्राणि स्थालानि भोज्यवाटिकाः ।पट्टिशं पाठिकाश्चापि शस्त्राऽस्त्राण्यपि संददुः ॥६६॥धनानि स्वर्णरूप्याणि चासंख्यानि ददुस्तदा ।चन्दनाऽबीरकुंकुमाऽक्षतगुलालकैर्द्रवैः ॥६७॥पुष्पैश्च केसरैर्गन्धैः कस्तूरिकाभिरित्यपि ।कर्पूरैर्विविधैः रंगैः रञ्जनैर्हारपत्रकैः ॥६८॥तुलस्या मञ्जरीभिश्च दलैश्च कुन्दकेतकैः ।चम्पकैर्मृद्यतैलैश्चाऽर्चयामासुः प्रभुं पतिम् ॥६९॥एकोत्तरशतश्रेष्ठोपचारैर्देवतादिकाः ।अवतारा ईश्वराश्च चक्रुरारार्त्रिकं हरेः ॥७०॥आशीर्भिर्योजयामासुः प्रदक्षिणं प्रचक्रिरे ।तुष्टवुश्च प्रणेमुश्च निषेदुश्चाऽऽसनेषु च ॥७१॥ततोऽनादिकृष्णनारायणोऽनुग्रहवान् क्षणात् ।दर्शनं नैजमूलात्मस्वरूपस्य ददौ तदा ॥७२॥प्रथमं परमं धाम ददृशुश्च सभाजनाः ।तन्मुक्ताँश्चापि मुक्तानीस्तत्रैव ददृशुश्च ते ॥७३॥ब्रह्मधामाऽक्षरं तस्य मुक्तान् मुक्तानीरित्यपि ।बालकृष्णस्य वै मूर्तौ मस्तके ददृशुश्च ते ॥७४॥अवतारान् हरेर्भाले सहस्रशश्च ददृशुः ।गोलोकं दक्षिणे नेत्रे वैकुण्ठं वामचक्षुषि ॥७५॥अमृतं नित्यकैलासं कर्णयोश्चापि ददृशुः ।महाविष्णुं नासिकायां भाले कालं च ददृशुः ॥७६॥भालस्य प्रान्तयोः प्रधानेशं च प्रकृतीश्वरम् ।वासुदेवादिकान् व्यूहान् नासामूले प्रददृशुः ॥७७॥वैराजं मुखमध्ये च ददृशुस्ते सभाजनाः ।दंष्ट्रास्वस्य ददृशुश्च शताननादिवेधसः ॥७८॥शतनेत्रादिरुद्राँश्च दन्तेष्वस्य प्रददृशुः ।श्मश्रुरेखास्थितान् सहस्रादिहस्तकविष्णुकान् ॥७९॥ओष्ठे चोर्ध्वे महामायां प्रधानं चाधरे तथा ।श्रीं लक्ष्मीं चिबुके त्वस्य ददृशुस्ते सभाजनाः ॥८०॥हनूरोमसु ददृशुर्मायाऽष्टावरणेश्वरान् ।कपोलयोश्चेश्वराणीर्ददृशुः कोटिशः सतीः ॥८१॥केशमूलेषु वै सत्यं लोकं ब्रह्माद्यधिष्ठितम् ।केशमध्येषु च स्वर्गान् केशान्ते चातलादिकान् ॥८२॥शिरःपृष्ठे मानवाँश्च ददृशुस्ते सभाजनाः ।एवं सर्वां ब्रह्मरूपां सृष्टिं वै कारणात्मिकाम् ॥८३॥सूक्ष्मां च शाश्वतीं नित्यां बीजरूपां हि ददृशुः ।अथ कारणसृष्टेश्च समुद्भूतां च वैकृताम् ॥८४॥स्थूलां सृष्टिं कण्ठभागादधः पुनश्च ददृशुः ।कण्ठेऽस्य परमं ब्रह्म हृदये ब्रह्म चाऽक्षरम् ॥८५॥स्तनयोश्चाऽपि गोलोकं वैकुण्ठं दक्षवामयोः ।अमृतं नित्यकैलासं स्कन्धयोश्च प्रददृशुः ॥८६॥महाविष्णुं च हृदये कण्ठे कालं प्रददृशुः ।कक्षयोश्च प्रधानेशं प्रकृतीशं प्रददृशुः ॥८७॥वासुदेवादिकान् व्यूहान् हृदयोर्ध्वे प्रददृशुः ।वैराजं हृदयाऽधस्तात् पार्श्वास्थिषु च वेधसः ॥८८॥अग्रसन्धिषु विष्णूँश्च रुद्राँश्च पृष्ठसन्धिषु ।उदरे च महामायां नाभौ प्रधानमेव च ॥८९॥श्रीं लक्ष्मीं पार्श्वयोर्नाभेर्जघनेष्टाऽऽवृतानि च ।जघनाऽधश्चेश्वराणीर्लिंगमूले सतीस्तथा ॥९०॥रोमसु सत्यलोकादीन् गुप्ताऽधोऽतलप्रभृतीन् ।तत्तत्स्थानेषु चाब्धींश्च पर्वतान् ददृशुश्च ते ॥९१॥अथापि च ततः कट्यां शेषं च कच्छपं तथा ।ददृशुः सीवनीनाड्यां महाजलं च धातुषु ॥९२॥लिंगाग्रे कामदेवं च सक्थ्नोर्दैत्याँश्च दानवान् ।रोमसु च ऋषीन् पितॄन् देवान् ददृशुरेव च ॥९३॥जान्वोश्च मानवान् जंघाद्वयेऽसुरान् प्रददृशुः ।पादयोर्नागसर्पादीन् ददृशुः पुनरेव च ॥९४॥सृष्टित्रयात्मिकां मूर्तिं बालकृष्णात्मिकां पुनः ।विलोक्यैतन्महाश्चर्यं ज्ञातवन्तः स्वकारणम् ॥९५॥सर्वेऽवतारा यस्मात् संभवन्त्येषः पुमान् परः ।मत्वा चक्रुस्ततो ध्यानं बालकृष्णस्य ते क्षणम् ॥९६॥अथ सभासमाप्तेश्च घण्टानादोऽभवत्तदा ।जयशब्दैः सह सभ्या उत्तस्थुः स्वालयं ययुः ॥९७॥मिष्टपानादिभिस्ताम्बूलकैर्मधुरभाषणैः ।सत्कृताश्च विमानाद्यैर्महीमानास्तु सर्वशः ॥९८॥ययुर्नैजान् गृहान् देशान् परदेशान् सुखान्विताः ।तत्त्वानि देहिनश्चैत्या जडा गुणा रसादयः ॥९९॥अन्येऽपि दासवर्गाद्या ययुः सम्मानिता गृहम् ।ऋषयः पितरश्चैते स्वर्गादिकं ययुस्ततः ॥१००॥परमेशा ब्रह्मलोकान् ईशा ईशनिवासकान् ।दैत्याश्च दानवा नैजान् पातालादीन् ययुस्ततः ॥१०१॥पर्वता वृक्षवल्ल्यश्च नदास्तीर्थानि चापगाः ।सरांस्यपि च क्षेत्राणि वनान्युपवनानि च ॥१०२॥ययुः प्रणम्य च कृष्णनारायणं पुनः पुनः ।मण्डपस्य महाप्रासादस्य कल्पकृतस्य च ॥१०३॥उपसंहारमकरोत् कृष्णनारायणः प्रभुः ।सनत्कुमारो भगवान्नारदोऽपि प्रणम्य च ॥१०४॥बदरीं ययतुश्चाथ कन्यका लोमशाश्रमम् ।एवं च राधिके ब्रह्मसूत्रोत्सवो महत्तमः ॥१०५॥सम्पन्नश्चाष्टमे वर्षे वैशाखे परमात्मनः ।पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग्भवेत् ॥१०६॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महिमानेभ्यः पारितोषिकदानं, प्रभोः पूजनम्, उपदार्पणम्, दिव्यदर्शनं, परिहारश्चेत्यादिनिरूपणनामाऽष्टषष्टितमोऽध्यायः ॥६८॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP