संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ७० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ७० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७० Translation - भाषांतर श्रीराधिकोवाच-कथं राजा ज्यामघस्तु पूर्वस्वभावपूरितः ।पश्चादाराधनलाभान्मुक्तिमवाप तद्वद् ॥१॥श्रीकृष्ण उवाच-शृणु राधे कथां पुरातनीं वैराग्यदायिनीम् ।ज्यामघस्य कथयामि बहुजन्मसमुद्भवाम् ॥२॥धनुर्मघस्य तु ऋषेः पुत्रोऽभूत् कौशिकाभिधः ।तस्य पुत्रोऽभवन्नाम्ना जाड्यमघो जडाकृतिः ॥३॥न ब्रूते मूर्खवच्चासौ नासौ पश्यति चाऽन्धवत् ।एनं माता गृहद्वारि द्योटिकायां प्ररक्ष्य च ॥४॥ययौ जलं समाहर्तुं ग्रामकूपात् तदा खलु ।काकाक्षी राक्षसी बालं प्रेंखातो विजहार ह ॥५॥सुरूपं कोमलं बालं नीत्वा स्वरक्षसे ददौ ।राक्षसो वीक्ष्य पप्रच्छ किमानीतं त्वया प्रिये ॥६॥साऽब्रवीत् बालकश्चाऽयं कौशिकस्याऽऽहृतो मया ।राक्षसः प्राह च भद्रे त्वया भद्रं न वै कृतम् ॥७॥समर्थः कौशिकश्चास्मान् तूर्णं शप्स्यति कूपितः ।तस्मादेनं तु दोलायां तद्गृहे प्रापय द्रुतम् ॥८॥यद्वा जलाहरणार्थं तन्मात्रा यत्र गच्छति ।तत्र स्थापय गत्वैव माता दृष्ट्वा ग्रहीष्यति ॥९॥राक्षसी तूर्णमेवैनं गृहीत्वा वापिकां ययौ ।तत्रागतां सतीं दृष्ट्वा बालं त्ववासृजत् पुरः ॥१०॥साऽपि सती सुतं प्राप्य जलं भृत्वा गृहं ययौ ।भाग्यं मत्वा सुतस्येयं ग्रहपूजां व्यधापयत् ॥११॥विघ्नशान्तिं च दानानि कारयामास भावतः ।राक्षसीकरयोगेन राक्षसीदुग्धपानतः ॥१२॥बाले वै राक्षसभावो वर्तते स्पर्शतस्ततः ।वर्धितो बालकश्चायं यज्ञसूत्रमवाप ह ॥१३॥वेदाधीत्यै जाड्यमघो पित्रा गृहे नियोजितः ।मूर्खत्वान्न पपाठाऽसौ पिता शिक्षां करोति च ॥१४॥ताडनादिभयेनाऽसौ कूपे सीम्नि पपात ह ।तत्राऽस्त्यामलकीवृक्षः पोषाय फलितोऽभवत् ॥१५॥भक्षयित्वाऽऽमलकानि कूपे गत्वा जलं शुभम् ।पिबत्येव सदा वृक्षमूलेनाऽऽयाति याति च ॥१६॥वृक्षवल्लीसमाछन्ने कूपे मूलावरोहणे ।सुखेनाऽयं वर्तते च बालकोऽज्ञातवर्तनः ॥१७॥एवं पुष्टोऽभवच्चापि रात्रौ सस्यादिजान्यपि ।कणकन्दफलादीनि बहिर्गत्वाऽत्ति नित्यशः ॥१८॥पित्रादिभिस्ततो ज्ञातं मृतो वा नष्ट एव च ।किन्तु माता कदाचिद्वै यज्ञकाष्ठाऽभिलाषुकी ॥१९॥ययौ त्वामलकीकाष्ठान्यानेतुं सीम्नि तत्र वै ।वृक्षशाखाः समागृह्य तीरे करोति सञ्चयम् ॥२०॥तावत् कूपे मूलमध्ये क्षुतोऽकस्माद्धि बालकः ।क्षुवनं मानुषं श्रुत्वा यावद् द्रष्टुमुपाययौ ॥२१॥तावत् पुत्रं निजं वीक्ष्य चातिहर्षमुपागमत् ।कूपाऽन्तःस्थं सुतं माता विह्वला त्वाजुहाव ह ॥२२॥सुतः प्रेम्णा मातरं संदृष्ट्वा गद्गदतां गतः ।कूपादुत्तीर्य मूलैश्च मातुः पादौ ववन्द च ॥२३॥सा स्वपुत्रं समासाद्य नीत्वा काष्ठानि सत्वरम् ।पुत्रयुक्ता ययौ नैजं गृहं पतिं ननाम च ॥२४॥कथयामास तत्सर्वं चेष्टितं स्वसुतस्य तु।ततोऽपृच्छच्च विप्रोऽसौ प्रसन्नः प्राप्य पुत्रकम् ॥२५॥कथं त्वं निर्गतो गेहात् कथं चाऽद्यापि जीवसि ।कथं न वदसि पुत्र हेतुं कथय सर्वथा ॥२६॥जाड्यमघस्ततः प्राह वृत्तान्तं पूर्वजं निजम् ।श्रूयतां कारणं तात येन मूकत्वमाश्रितम् ॥२७॥अन्धत्वं च जडत्वं च कथयामि यथातथम् ।पूर्वमासमहं विप्रो ज्योतिर्विद्धस्तरेखविद् ॥२८॥नारीणां हस्तरेखाणां परीक्षया प्रसंगतः ।मोहमाप्तः परदाररुचिश्चाऽऽसं पुनः पुनः ॥२९॥कदाचिच्च जनैश्चाहं कटुभाषातिरस्कृतः ।मृतो ह्युऽद्बन्धनेनाऽहं यमपुरीं ततो गतः ॥३०॥तस्माद् वर्षसहस्रान्ते भुक्तशिष्टे तदागसि ।अरण्ये प्राप्तवान् जन्म व्याघ्रस्य नरदेहवत् ॥३१॥राज्ञा तु बालतो धृत्वा पञ्जरे पूरितस्ततः ।बद्धस्य पञ्जरस्थस्य व्याघ्रत्वेऽपि स्थितस्य च ॥३२॥पूर्वज्ञानं न मे नष्टं कामनाऽपि व्यवर्धत ।व्याघ्रोऽहं न च हिंसामि न च क्रौर्यं करोम्यपि ॥३३॥राज्ञा राज्ञ्या समं नित्यमुद्याने विहरामि च ।सिंहासनाऽग्रे तिष्ठामि चानुगच्छामि पृष्ठतः ॥३४॥रमयामि बालवच्च तदुद्याने वसामि च ।एवं याते दिने चाऽहं यौवनं प्राप्तवान् यदा ॥३५॥शान्तो भूत्वा निषीदामि राज्ञ्याः स्नानह्रदान्तिके ।राजा राज्ञी यदा स्नातस्तदा पश्यामि भावतः ॥३६॥राज्ञी स्नान्तीं विहरन्तीं विवस्त्रां च जले मुहुः ।तेन मे कामना पूर्वसंस्कारोत्था ह्यभून्मुहुः ॥३७॥राजा सुदर्शनः स्नात्वा राज्यकार्यार्थमेव तु ।ययौ स्वनगरे राज्ञीमुद्याने परिहाय च ॥३८॥सखीभिः सहिता चेयं मां व्याघ्रं रुचिरं शुभम् ।पालितं पुत्रसदृशं रामयामास वै मुहुः ॥३९॥उद्यानेऽहं व्यचरं च ताभिः साकं पुनः पुनः ।आरोहन्ति स्म ताः क्वापि मम पृष्ठोपरि द्रुतम् ॥४०॥अहं कदाचित् पार्श्वस्थो मुखेन सक्थिचुम्बनम् ।करोम्येवं कामना मे राज्ञ्यां व्यवर्धत द्रुतम् ॥४१॥रात्रौ सखीषु सर्वासु निद्रितासु तदालये ।रात्र्याः पर्यंकपार्श्वस्थश्चिन्तयामि नृपप्रियाम् ॥४२॥तां प्रति ववृधे चित्ते पूर्वाभ्यासान्मनोभवः ।तस्या अपि मम स्पर्शाद् रजोभावो व्यवर्धत ॥४३॥मयोक्ता राजपुत्रि त्वं नवयौवनशालिनी ।चित्तं हरसि मे राज्ञि वद कामवशं गतः ॥४४॥साऽब्रवीत्तु मनुष्यायां पशुदेहस्य ते प्रिय ।कथमत्राऽऽवयोर्व्याघ्र रतियोग उपैष्यति ॥४५॥ततोऽवोचमहं राज्ञि! कौशल्येन भविष्यति ।अथ सा मां समाश्लिष्य प्रवृत्ता रन्तुमेव च ॥४६॥तावत् कयाचिद् सख्या चाऽवलोकितोऽहमेव च ।द्वारपालान् शनैर्गत्वा सशस्त्रान् सा शशंस ह ॥४७॥एवं प्रवर्तितां वार्ता श्रुतवान् नृपतिः स्वयम् ।राज्ञा तु मारितश्चाऽहं यमलोकं गतोऽभवम् ॥४८॥ततो वर्षशतान्तेऽहं त्वभवं श्वेतगर्दभः ।भारवाही जनानां तु कुंभकारेण योजितः ॥४९॥तत्रापि पूर्वविज्ञानं सर्वं मे प्रत्यभासत ।एकदा तु महीमानाः कुंभकारस्य चागताः ॥५०॥कन्याः स्त्रियः सुरूपाश्च दिनद्वयं स्थितास्ततः ।तासामेका सुरूपा च युवती च गृहे पितुः ॥५१॥गन्तुमैच्छत्पार्श्वसंस्थे ग्रामे क्रोशविदूरके ।तामुवाच पतिर्गच्छ आरुह्यैनं सुगर्दभम् ॥५२॥श्व एवाऽऽगमनं कार्यं न स्थेयं परतस्ततः ।इत्येवमुक्ता सा भर्त्रा तन्वी त्वारुह्य गर्दभम् ॥५३॥ययौ शीघ्रं त्वर्धपथि नदी तत्र समागता ।सजला तत्र सा स्नातुं मत्पृष्ठात् समवातरत् ॥५४॥कुंभकारोऽपि च सार्थः शौचार्थं प्रययौ तटम् ।सर्वैरंगैः रूपवतीं चैकलामार्द्रवस्त्रिकाम् ॥९५॥दृष्ट्वाऽहं जलपानस्य मिषेण सन्निधौ गतः ।स्नान्तीं तामुपरि गत्वा पतित्वाऽऽश्लिष्य कामतः ॥५६॥पूर्वसंस्कारवशगोलिङ्गस्पर्शमकारयम् ।दृष्टोऽभवं तदा तस्याः सार्थजनेन वै तदा ॥५७॥ताडितश्च भृशं यष्ट्या पतितोऽहं जलान्तरे ।क्षणादुत्थाय च भयात् प्रद्रुतो दक्षिणामुखः ॥५८॥ततोऽभिद्रवतः कण्ठे रज्जुदार्ढ्यं गता बहु ।गलपाशेनाऽर्धरात्रादभून्मे जीवितक्षयः ॥५९॥ततोऽस्मि नरके भूयस्तस्मान्मुक्तोऽभवं शुकः ।महारण्ये ततो बद्धः शबरेण दुरात्मना ॥६०॥पञ्जरे न्यस्य विक्रीतो वणिक्पुत्राय तत्र च ।गृहे वसामि सततं युवतीनां समीपतः ॥६१॥तास्तरुण्यः पोषयन्ति फलौदनादिभिः सदा ।एकदा तु वणिक्पुत्री युवती चन्द्रिकाऽभिधा ॥६२॥कराभ्यां मां प्रजग्राह रेमे वाचा पुनः पुनः ।शयने वक्षसि कृत्वा मां वाचयति गीतिकाम् ॥६३॥ततोऽहं स्तनयोः स्पर्शात् पूर्वसंस्कारवेगतः ।कामभावेन तां गुह्ये पस्पर्शोड्डीय वै मुहुः ॥६४॥पन्नखैः क्षतमापन्नं जघनं सा चुकोप ह ।तताड मां सूक्ष्मयष्ट्या भयाच्च प्रद्रुतस्ततः ॥६५॥दैवात्तस्या दृढं नीवीदोरकं मे गलेऽभवत् ।ग्रन्थिर्जाता दृढा तेन क्षणान्मृतोऽभवं ततः ॥६६॥यमलोके महाकष्टं भुक्त्वा तु वृषभोऽभवम् ।चाण्डालस्य गृहे त्वासं काष्ठशकटवाहकः ॥६७॥वने काष्ठानि चानेतुं दम्पती ययतुस्तदा ।मध्याह्ने जलमानेतुं चाण्डालस्तु नदीं ययौ ॥६८॥चाण्डाली युवती चास्ते छायायां शकटान्तिके ।अहं तामलिहं कामात् पूर्वसंस्कारवेगतः ॥६९॥नदीतीरे सदा त्वेवं काष्ठाऽऽदानार्थमेव तौ ।प्रयातः प्रतियातश्च वर्षर्तुस्तत्र चागतः ॥७०॥एकदा तु ज्वरव्याप्तोऽभवच्चण्डालको गृहे ।चाण्डाली तद्वने याता काष्ठाऽऽनयनहेतवे ॥७१॥पूर्वसञ्चितकाष्ठानि भृत्वा गन्त्र्या ततस्तु सा ।जलं पाययितुं मां च नद्यां तत्राऽनयत् ततः ॥७२॥सा स्नाता रूपसम्पन्ना मया दृष्टा दिगम्बरा ।पूर्वसंस्कारभावेन कामो मे हृदि संस्थितः ॥७३॥सा वस्त्राणि परिधाय बद्धं रशनया च माम् ।धुरे शकट्या युयुजे योक्त्रेणाऽऽबध्य यावता ॥७४॥धुरस्याऽग्रे स्थिता चास्ते क्षणं तावदहं तदा ।उड्डीय सधुरश्चाऽहं तस्या उपरि चापतम् ॥७५॥सा मदग्रपदाऽऽघातात् पतिता दूरतस्तदा ।अहं योक्त्रेण संयुक्तो गन्त्र्या निम्नेन कर्षितः ॥७६॥चक्राभ्यां निम्नगाभ्यां च प्रक्षिप्तो गर्तके तदा ।शकट्या सह पतितोऽगाधे गर्तेवशस्ततः ॥७७॥योक्त्रेण बद्ध एवाऽस्मि पञ्चत्वमगमं ततः ।साऽपि चोत्थाय तु शनैर्गृहं गता हि भामिनी ॥७८॥ततो निमग्नो नरके धर्मराजानुशासनात् ।जातस्तव गृहे तात जातिस्मरोऽस्मि सर्वथा ॥७९॥तावन्त्येवाऽद्य जन्मानि स्मरामि त्वानुपूर्वशः ।पूर्वाभ्यासाच्च दुःखानि प्राप्तान्यति मया ततः ॥८०॥जन्मन्यत्र न वै वच्मि न शृणोमि न कामये ।येन पापं भवेत् तत्तु नाचरिष्ये कथंचन ॥८१॥मूकत्वे च बधिरत्वे हेतुः पूर्वस्मृतिर्मम ।जडत्वेऽपि च विज्ञानं हेतुरेवाऽस्ति नेतरत् ॥८२॥पापानि घोररूपाणि मनसा कर्मणा गिरा ।शुभं वाऽप्यशुभं वापि बन्धनं वा वधोऽपि वा ॥८३॥पूर्वाभ्यासेन जायन्ते कामनादिकमित्यपि ।तस्माद्विज्ञानवान् जानन् तत्र मुह्यति नैव तु ॥८४॥पौर्विकीं तु यदा जातिं स्मरत्यत्र तु मानवः ।तदा स तेभ्यः पापेभ्यो निवृत्तिं हि गमिष्यति ॥८५॥दानं तपोऽध्ययनं च स्तेयं पापं यशो वृषः ।अर्थो ज्ञानं चाग्निदाहः पूर्वाभ्यासवशा हि ते ॥८६॥अहिंसा भगवद्भक्तिः स्थैर्यं शान्तिश्च कामना ।क्लेशस्तापो मिथुनाप्तिः पूर्वाभ्यासवशा हि ते ॥८७॥स्नेहः प्रकृतिरास्तिक्यं सेवा विद्या कला धनम् ।कुटुम्बिता गुरुः शिष्यः पूर्वाभ्यासवशा हि ते ॥८८॥तस्माद् यामि वनं तात शुभार्थं पापनुत्तये ।इत्युक्त्वा च ययौ नत्वा वनं जाड्यमघस्ततः ॥८९॥कुरुक्षेत्रं गतः पूर्वं ततो बदरिकाश्रमम् ।तपश्चकार बहुधा राधिके पापनुत्तये ॥९ ०॥कालेन निधनं प्राप्तो गंगायां तु तदा पुनः ।तपोभिः क्षीणपापः स पुण्यवार्धिः सवासनः ॥९१॥गौर्जरे श्रीनगरेऽयं रजिपुत्रोऽभवत्ततः ।कर्कमघस्य राज्ञः स ज्यामघो धार्मिकः शुचिः ॥९२॥पशुजातीयसंस्कारास्तापसी प्रकृतिस्तथा ।नारायणस्य भक्तिश्च ज्यामघेऽपि तदाऽभवन् ॥९३॥जातिस्मरोऽभवद् राजपुत्रो वक्ति न किंचन ।न शृणोति न हसति न चित्तं विदधाति च ॥९४॥निर्मनस्को भोजनं च भुंक्ते पाति जलं तथा ।वस्त्रालंकारभूषादि धत्ते निर्मानसो यथा ॥९५॥राज्यं च राज्यभोगाश्च द्रव्यं भृत्याश्च किंकराः ।दासा दास्यो गजाश्वाश्च सर्वं त्वस्य समं ह्यभूत्। ॥९६॥शय्या पुष्पमयी चापि पृथ्वी रूक्षाऽस्य वै समा ।मिष्टं मृष्टं सुगन्धाढ्यं भोज्यं रूक्षं च वा समम् ॥९७॥प्रशंसा चाऽप्रसंशा वा मानं तिरः समं तथा ।नमस्कारोऽथवा पृष्ठकारोऽस्य समतां गतः ॥९८॥एवं वै वर्तमानस्य यौवनं समुपागतम् ।पित्रा सुयोजितश्चायं विवाहेन गृहाश्रमे ॥९१॥का पत्नी कः पतिश्चेति जिज्ञासाऽस्य न विद्यते ।कः कामः कश्च संकल्पः का रतिर्विरतिस्तथा ॥१००॥समं चाऽस्याऽभवत् सर्वमेकदा दयिता पतिम् ।प्रपच्छ कारणं तस्मै औदासीन्ये निशान्तरे ॥१०१॥ततः स राधिके स्मृत्वा पत्नीं जगाद शान्तितः ।यत्क र्तव्यं भवेदत्र मानवे दुर्लभे शुभम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पूर्वस्वभावानुवर्तनं जाड्यमघदृष्टान्तेन षड्भिर्जन्मभिर्विवेचितमित्यादिनिरूपणनामा सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP