संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ११०

त्रेतायुगसन्तानः - अध्यायः ११०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
इत्येवं राधिके पूर्वपृथिव्यां सागरान्तिके ।
प्राग्ज्योतिषादिदेशेषु रणोऽभूद्दानवान्तकृत् ॥१॥
ततस्तेषां विशुद्ध्यर्थं यज्ञं पुनस्तु वैष्णवम् ।
शालावतीनदीमूले लाशहासरसस्तटे ॥२॥
ब्रह्मपुत्रोत्तरे पार्श्वे शतयोजनविस्तरे ।
सरोवराऽभितश्चक्रेऽनादिकृष्णनरायणः ॥३॥
समाहूताः प्रजाः सर्वा युद्धदेशीयमानवाः ।
विमानैः सर्वतोभद्रैर्घट्या क्रोशसहस्रगैः ॥४॥
सर्वे सुराः समायाताः ऋषयः पितरस्तथा ।
सप्ताहश्चाऽभवद् यज्ञोऽत्युत्कृष्टहवनादिभिः ॥५॥
हव्यानां नहि संख्याऽस्ति रसानां गणनाऽपि न ।
भोज्यानामपि नाऽन्तोऽस्ति पेयानां तत्र का कथा ॥६॥
अब्जाधिका महीमानाः संहतास्तत्र सात्त्विकाः ।
पार्थिवाश्च नरा नार्यो युद्धशुद्धिमभीप्लवः ॥७॥
देवानां च महर्षीणां पितॄणां गणना तु न ।
आहूतानि च तीर्थानि नदा नद्यश्च सागराः ॥८॥
लाशहासरसश्चाप्सु ब्रह्मपुत्राजलेषु च ।
शालावत्यास्तथा नद्या मूले तीर्थानि चाययुः ॥९॥
शतयोजनविस्तारो भूदेशो देवताश्रयः ।
गोलोक इव समभूद् वैकुण्ठ इव चाऽभवत् ॥१०॥
ब्रह्मलोक इव वापि ह्यक्षरं चेव वाऽभवत् ।
यत्राऽनादिकृष्णनारायणः श्रीपरमेश्वरः ॥११॥
स्वयं विराजते यत्र ब्रह्म ब्रह्मर्षयस्तथा ।
ऋषयश्च सुराश्चापि जगतां पितरस्तथा ॥१२॥
तत्र किं नाम वै न्यूनं राधिके! ऋद्धिवर्जितम् ।
यत्र ब्रह्मप्रियाः सन्ति सन्ति वै कल्पवल्लयः ॥१३॥
स्वयं ब्रह्मा हरो विष्णुश्चार्यमा तत्र का क्षतिः ।
यत्र वह्निः सप्तजिह्वश्चतुर्वेदधरो ह्यजः ॥१४॥
पञ्चाननः स्वयं रुद्रस्तत्र का न्यूनता भवेत् ।
लोककल्याणदा देवा ईश्वरा यत्र सात्त्विकाः ॥१५॥
यत्र मोक्षप्रदाः शुद्धा महर्षयश्च वैष्णवाः ।
पावना लोकशुद्ध्यर्थं मिलितास्तीर्थरूपिणः ॥१६॥
यत्र प्रवर्तते यज्ञो वैष्णवो वैष्णवैः सुरैः ।
तत्र का नाम कल्याणे न्यूनभूमिः प्रजायते ॥१७॥
कल्पवल्ल्यस्तथा मुक्ता नदा नद्यो द्रुमास्तथा ।
सुरास्तत्त्वानि चाऽजह्रुर्यज्ञसामग्रिकाः पराः ॥१८॥
पञ्चगव्यानि सर्वान् वै पाययामासुरीश्वराः ।
ऋषयो ये विमानस्था नारायणसहस्थिताः ॥१९॥
प्रजानां युद्धगानां च देहशुद्धिं यथाविधि ।
कारयामासुरुत्साहात् ततो मन्त्रं च वैष्णवम् ॥२०॥
शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वथा ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥२१॥
कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ॥२२॥
ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे ॥२३॥
प्रथमं शरणं मन्त्रं द्वितीयं तु समर्पणम् ।
षोडशाक्षरयुक्तं च प्रथमं च द्वितीयकम् ॥२४॥
तृतीयं रक्षणं मन्त्रं द्वित्रिंशदक्षरं तथा ।
चतुर्थं ब्रह्मभावं च हर्यर्धांगप्रदं मनुम् ॥२५॥
द्वात्रिंशदक्षरं ददुः ऋषयस्ते चतुर्दश ।
मंकणको मंकिरयः कूर्मो प्राचीनबर्हणः ॥२६॥
त्रीतः प्रभूतानकश्च रुशायी खासनस्तथा ।
अंगश्यामः आरकर्णो ब्रह्मदासो ह्यनामयः ॥२७॥
श्यामलर्षिमलयर्षिश्चैते मनून् ददुस्तदा ।
हवनोत्तरमेते वै प्रजाभ्यस्तौलसीः स्रजः ॥२८॥
ददुश्चाऽब्जप्रमाणाभ्यः प्रजाभ्यः शासनाद्धरेः ।
कृष्णनारायणस्वामी श्रीहरिं शरणं मम ॥२९॥
यज्ञे मन्त्रं ददुस्ताभ्यः पावन्यश्चाऽकरोत्प्रजाः ।
लाशहासलिले सर्वाः स्नापयामास केशवः ॥३०॥
शालावत्याश्च सलिले ब्रह्मपुत्रीजले तथा ।
एवं सर्वाः प्रजा नारीर्नरान् बालाँश्च बालिकाः ॥३१॥
पावयामास भगवान् सर्वज्ञातीयमानवान् ।
वह्निं देवान् हव्यरसैः सन्तृप्य पितृदेवताः ॥३२॥
पार्षदान् कन्यकाश्चापि सन्तृप्य युद्धरक्षितान् ।
भोजयामास भगवान् मिष्टान्नैरब्जमानवान् ॥३३॥
यज्ञप्रसादमासाद्य कृतकृत्याश्च तेऽभवन् ।
अवभृथं विधायैव सभायां बालकृष्णकः ॥३४॥
अजमाज्ञापयामास पारितोषिकहेतवे ।
ब्रह्मा नत्वा बालकृष्णं प्रभुं श्रीकृष्णवल्लभम् ॥३५॥
प्रकाशं प्राह सर्वाभ्यः प्रजाभ्योऽभयदानकम् ।
परब्रह्माऽक्षरातीतः सर्वावतारकारणम् ॥३६॥
वासुदेवादिकव्यूहा उत्पद्यन्ते यतः खलु ।
कालो महापूरुषश्च माया यस्य तु शक्तयः ॥३७॥
अवताराश्च धामानि जायन्ते यस्य मूर्तितः ।
सोऽयं श्रीबालकृष्णोऽस्ति स्वामिश्रीकृष्णवल्लभः ॥३८॥
कंभराश्रीसुतः श्रीमद्गोपालबालको हरिः ।
अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे निवासकृत् ॥३९॥
कुंकुमवापिकासंस्थः प्रभापारवतीपतिः ।
कृष्णाब्रह्मप्रियाराधारमालक्ष्मीपतिः प्रभुः ॥४०॥
माणिकीललिताहंसामञ्जुलासगुणापतिः ।
जयाशान्तादयामुक्तादेवीहैमीकलापतिः ॥४१॥
सतां स्वामी मुक्तिकान्तः सृष्टिस्वामी परेश्वरः ।
सर्वधामेशोऽन्तरात्मा देहिनां फलदः स्वयम् ॥४२॥
यदाश्रयेण ज्ञातव्यं प्राप्तव्यं नावशिष्यते ।
यत्परो न समो येन कश्चिदन्यो न विद्यते ॥४३॥
आरुणैः प्रार्थनीया या मुक्तिः शाश्वतिका परा ।
तस्या दाता त्वयं स्वामी पतिः कान्तः परो हरिः ॥४४॥
परामुक्तिः समेष्टव्या ह्येतस्माच्छ्रीहरेर्जनाः ।
अस्माकं विजयस्त्वस्य प्रतापेन सदाऽस्ति वै ॥४५॥
नारायणाद्याः सततं यं भजामः स एव सः ।
अस्य मूर्तिं पूजयध्वं भजध्वं त्वेनमेव च ॥४६॥
सेवामस्य प्रकुरुध्वं तिष्ठध्वं वचनेऽस्य च ।
अस्य वाणी महावेदा अस्य क्रिया वृषो महान् ॥४७॥
अस्य मूर्तिः सदा सेव्या ह्ययं ध्येयः सदा जनैः ।
अस्य स्पर्शाद् पवित्रा वै जायन्ते जडचेतनाः ॥४८॥
युद्धे हतास्तु ये देवा देवपक्षास्तथा च ये ।
सजीवाः सन्तु ते सर्वे कृपयाऽस्य क्षणादिह ॥४९॥
पृथ्व्यां जलेऽम्बरे ये वा मृता देवानुसारिणः ।
शीघ्रं भवन्तु दिव्यास्ते समायान्तु हरिं प्रति ॥५०॥
इत्युक्त्वा जलमादाय कमण्डलौ हरेः पदात् ।
चिक्षेप चाम्बरे ब्रह्मा जलं तन्मेघसदृशम् ॥५१॥
वर्धमानं द्रुतं च प्राऽसरद् भूव्योमवारिषु ।
अमृतं तत्तदा भूत्वा जीवयामास वै मृतान् ॥५२॥
सुरपक्षान् सर्वजीवान् कृत्रिमानपराँस्तथा ।
तदेव जलमेवाऽभूत् स्पृष्टं दानवसुप्तिषु ॥५३॥
तथापि दानवा नैव सजीवा अभवँस्तदा ।
श्रीशस्वामिकृष्णनारायणस्येच्छा हि तादृशी ॥५४॥
स्पृष्टं समं सुरपक्षा जीविता न तु दानवाः ।
अथ ब्रह्म तदा तेभ्यो ददौ मन्त्रचतुष्टयम् ॥५५॥
जीवितेभ्यो हरिस्तत्र प्रददौ पारितोषिकम् ।
विजेतृभ्यस्तथा तत्र ददौ सुपारितोषिकम् ॥५६॥
देहद्वयं मुक्तियोग्यं चैकं परं तु भूस्थितम् ।
प्रेषयामास तान् सर्वान् मुक्तियोग्यान् पदेऽक्षरे ॥५७॥
भूयोग्यान् भगवानाह स्वयं प्रसन्नमानसः ।
यज्ञहव्यं प्रसादं च पानं मिष्टं सुभोजनम् ॥५८॥
गृह्णन्तु चेति ते सर्वे भुक्तवन्तस्तदाज्ञया ।
अथ राजकुमाराँश्च ऋषीन् सैन्यानि चापि च ॥५९॥
समाहूय हरिः प्राह प्रजाश्च सकलास्तथा ।
पाविता वै मया देशा भवतां तीर्थरूपिणः ॥६०॥
कृता मोक्षप्रदा नद्यो नदाः सरांसि पर्वताः ।
दैत्यदानवनाशोऽति कृतश्चात्र भुवस्तले ॥६१॥
एते राजकुमाराश्च वैष्णवास्ते ममाश्रिताः ।
मया नृपासनेष्वेव स्थाप्यन्ते मम बालकाः ॥६२॥
प्रजाश्चापि भवत्यो मे बालिकाः सन्ति सर्वथा ।
नृपाऽऽज्ञायां प्रवर्तन्तु ममाऽऽज्ञैषा हि शाश्वती ॥६३॥
मम भक्तिं प्रकुर्वन्तु मान्या मे ऋषयस्तथा ।
शृण्वन्त्वपि विभागेन यथा राज्यं ददामि तत् ॥६४॥
अयं ब्रह्मा प्रजानां च पितामहः स्वयं प्रभुः ।
यस्य नाम वदाम्यस्मै किरीटं प्रददातु सः ॥६५॥
जलपानद्वीपभूमिर्दीयते सूर्यकेतवे ।
फिलीपद्वीपसंघाता दीयन्ते बीजजंगिने ॥६६॥
वारणीयद्वीपभूमिः सारकेताय दीयते ।
आर्द्रमानद्वीपभूमिः रक्तकेशाय दीयते ॥६७॥
दीयते प्राचीनराज्यं विज्ञविहंगमाय च ।
पिंगचिपिंगराज्यं तु पिंगकेशाय दीयते ॥६८॥
मंगूभूमिर्दायते च आहवमंगलाय तु ।
मञ्चुरणोऽर्प्यते प्रभाकिरीटाय प्रदेशकः ॥६९॥
लाशहाख्यप्रदेशश्च त्रीतर्षये प्रदीयते ।
त्रीतवित्तेतिनाम्ना च प्रसिद्धं राज्यमस्तु तत् ॥७०॥
ऋषिराज्यं भवत्वेतद् वसन्तु तत्र चारुणाः ।
छायाशरीररूपाश्च ब्रह्मात्मज्ञानवेदिनः ॥७१॥
कारुराज्यं दीयते च कूर्मिणे तु महर्षये ।
ऋषिराज्यं तदप्यस्तु वैष्णवं पावनं सदा ॥७२॥
इलादेशस्य वै राज्य स्वयं ब्रह्मा करोतु च ।
ब्रह्मदेशः सदा चाऽस्तु तीर्थं चैरावती नदी ॥७३॥
पन्नामनदिकाभूमिं विष्णुः प्रशास्तु सर्वदा ।
श्यामदेशो ब्रह्मपूर्वे पन्नाम्नीतीर्थमस्तु च ॥७४॥
प्राक्चयनाख्यभूमेश्च रक्षकोऽस्तु शिवः सदा ।
विनायकाश्च प्राचीनरक्षकाः सन्तु तत्पराः ॥७५॥
अंगशिक्षांगदेशानां राजाऽपि शंकरः स्वयम् ।
स्वगणैः सहराज्यं तच्छास्तु प्राचीनदक्षिणम् ॥७६॥
सुमातृके प्रदेशे च तिष्ठन्तु मातरः सदा ।
शिवसत्यो रक्षणार्थं सामुद्रदैत्यनाशिकाः ॥७७॥
एवमेतानि राज्यानि भवन्तु वैष्णवानि वै ।
इट्येवं राधिके कृष्णनारायणेन भाषितम् ॥७८॥
ब्रह्मा च प्रददौ तस्मै तस्मै राज्यकिरीटकम् ।
हरिर्ददौ स्वयं चापि विष्णवेऽजाय शंभवे ॥७९॥
तिलकं कैसरं कृत्वा कण्ठीं मालां च तौलसीम् ।
नूतनेभ्यश्च प्रददौ बालकृष्णः स्वयं तदा ॥८०॥
अथाऽऽह च हरिस्तेभ्यो राजभ्यो हितकृद्वचः ।
गुरवोऽपि मया वोऽत्र दीयन्ते भक्तिहेतवे ॥८१॥
कर्वरीजलपानानां गुरुः कूर्मीति वै ऋषिः ।
प्राचीनानां फिलीपानानां गुरुः शंभुर्महेश्वरः ॥८२॥
प्राचीनोत्तरभागानां गुरुः प्राचीनबर्हणः ।
श्यामलानां चिपिंगानां गुरुः श्यामलको मुनिः ॥८३॥
मलयानां मलयर्षिरिलाया ब्रह्मदासकः ।
लाशहानां गुरुस्त्रीतो लूशानां लूशयस्तथा ॥८४॥
वारणानां मातरश्च गुर्व्यो बोध्याः ऋषिप्रियाः ।
आर्द्रमानगुरुर्ब्रह्मा ब्राह्माणामपि विश्वसृट् ॥८५॥
मंगूजानां मंकणको गुरुस्तद्देशवासिनाम् ।
मंचूराणां प्रजादीनां मंकिरयो गुरुर्मतः ॥८६॥
भूतानां तु प्रभूतानः पन्नामानामनामयः ।
प्राक्चयनप्रदेशानां चयनर्षिर्गुरुर्मतः ॥८७॥
अंगशिक्षांगदेशानामंगश्यामलको गुरुः ।
आराकाणामारकर्णः खसीनानां तु खासनः ॥८८॥
एते तद्देशराजानां प्रजानां गुरवः सदा ।
महर्षयो मया दत्ता महाभागवतोत्तमाः॥८९॥
स्वीचक्रुस्तेऽपि राजानो वैष्णवा वैष्णवान् गुरून् ।
हर्षं प्रापुश्च ते सर्वे ऋषयो भूभृतः प्रजाः ॥९०॥
अथ श्रीभगवान् भक्तहृदयज्ञः प्रजाऽऽर्त्तिहा ।
अब्जरूपधरो भूत्वा मिमिले सर्वदेहिनः ॥९१॥
चरणौ प्रददौ सर्ववक्षस्सु चिह्नशोभितौ ।
अष्टकोणश्चोर्ध्वरेखा स्वस्तिको यववज्रकौ ॥९२॥
जाम्बूफलं ध्वजोंऽकुशः पद्मं दक्षपदेऽभवन् ।
त्रिकोणः कलशश्चापि गोष्पदं च धनुष्यकम् ॥९३॥
मीनाऽर्धचन्द्रकौ व्योम वामे तु चरणेऽभवन् ।
कच्छपश्च गरुडश्च शिखरं करिहंसकौ ॥९४॥
विमानं सूर्यमेवैते पादग्रन्थेरधोऽभवन् ।
दक्षे पदे हरेस्तत्र घुटिकाऽड्गुष्ठदिग्भवा ॥९५॥
वामे तु घुटिकानिम्ने लक्ष्मीः सौधं द्रुमश्च गौः ।
सिंहासनं च पञ्चैते पदे समभवन् हरेः॥९६॥
अथ मीनध्वजधनुश्चक्रस्वस्तिकशूलिनम् ।
पद्मबाणदण्डयुतं दक्षं करं तु सिद्धिदम्॥९७॥
निर्भयचक्रसहितं श्रीरेखं समयूरकम् ।
वंशीचिह्नं कल्पवल्लीयुतं चाऽश्ववृषान्वितम्॥९८॥
वामं करं तु शुभदं कृत्वा द्वयोस्तदाऽञ्जलिम् ।
प्रजानां च नृपादीनां प्रददौ मूर्द्धसु प्रभुः॥९९॥
मुद्रिकाः कल्पफलदाः प्रददौ प्रतिमानवम् ।
कल्पमूर्तिं निजां पूजाकर्मणे प्रददौ प्रभुः ॥१००॥
अन्नवस्त्रर्द्धिबाहुल्यं प्रददावाशिषस्तथा ।
ददौ दिव्यं दर्शनं च परधामविराजितम् ॥१०१॥
राधिके! कृपया यत्र प्रसन्नः परमेश्वरः ।
तत्र त्रिगुणजीवानां समो लाभो हरेर्भवेत् ॥१०२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्राग्ज्योतिषादिदेशानां वैष्णवनृपव्यवस्था, ऋषिव्यवस्था, कृपावर्षणं, दिव्यदर्शनं चेत्यादिनिरूपणनामा
दशाधिकशततमोऽध्यायः ॥११०॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP