संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ६७

त्रेतायुगसन्तानः - अध्यायः ६७

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
श्रीमत्कृष्णस्य च राधे यज्ञोपवीतकोत्तरम् ।
महीमाना निवासेषु ययुस्तस्मात् सभास्थलात् ॥१॥
ततो गोपालकृष्णो वै तथा श्रीकम्भरासती ।
गुणातीतास्तथा मुक्तास्तथा कन्या ह्यसंख्यकः ॥२॥
ऋषयस्तन्निवासाश्च तीर्थानि मूर्तवल्लयः ।
तत्त्वान्यपि च दिव्यानि श्रीमुख्याः शक्तयस्तथा ॥३॥
भोजनावसरे जाते द्वारपं ब्रह्मनादकम् ।
सूचयामासुरेवाऽत्र आह्वानार्थं क्षणाच्च सः ॥४॥
ब्रह्मघण्टां मिष्टरवां सृष्टित्रयाप्तनादिनीम् ।
नादयामास मधुरस्वरां भोजनबोधिकाम् ॥५॥
अवतारेश्वराणां च भगवतां च पंक्तयः ।
मुक्तानां धामसंस्थानां मुक्तानीनां तदाऽभवन् ॥६॥
वासुदेवप्रभृतीनां वैराजान्तकदेहिनाम् ।
दिव्यानामीश्वरीणां च पंक्तयः शतशोऽभवन् ॥७॥
दिव्याऽर्बुदाऽब्जपद्मानि कन्यानां विदधुस्तदा ।
धामानीतात्मभोज्याद्यमृतानां परिवेषणम् ॥८॥
भक्ष्यभोज्यानि दिव्यानि लेह्यचोश्यानि तत्तथा ।
मिष्टपेयानि चान्यानि पाकशाकानि तानि च ॥९॥
रसान् दिव्यान् चारनालान् द्रवान् दिव्यान् तथाविधान् ।
योग्यान् ब्रह्मह्रदोद्भूतान् ब्रह्मवाटीसमुद्भवान् ॥१०॥
ब्रह्मप्रियाभिः पक्वाश्च ताभिः सुसंस्कृतान् शुभान् ।
अपाराणि च ताः परिवेषयामासुरादरात् ॥११॥
स्थालेषु स्वर्णपात्रेषु चोपपात्रेषु वै शुभम् ।
घृतं दधि पयो दुग्धपाकं मधु च शर्कराम् ॥१२॥
ओदनानि द्विदलाश्च सूपं मिष्टान्नकानि च ।
पायसान्नानि सर्वाणि मेशुभान्यपि सर्वथा ॥१३॥
मोहस्थालानि मिष्टानि तथाऽपूपानि मौक्तिकान् ।
सूत्रफेनीं लड्डुकाँश्च चतुष्कान् शष्कुलींस्तथा ॥१४॥
शाटकान् घृतपूराँश्च मिष्टान्तःपोलिकास्तथा ।
फुलवटीः राजतृप्तान् क्वथिका भर्जिकास्तथा ॥१५॥
कलिका सेविकाश्चापि संयावं भाजिकास्तथा ।
चटनीर्विविधाश्चापि तिक्तलावण्यसंभृतान् ॥१६॥
रुक्षसंस्कृतभक्ष्याँश्च भोजयामासुरादरात् ।
जलानि मिष्टपेयानि तक्राणि नवनीतकम् ॥१७॥
फलानि फलबीजानि सौगन्धिकदलानि च ।
ददुस्ततोऽतिमग्नाश्च चक्रुर्भाजनमीश्वराः ॥१८॥
ईश्वराण्यथ ता मुक्ता मुक्तस्य परमेश्वराः ।
ब्रह्मसख्यः प्रसह्यैव ददुर्भोज्यादिकानि तु ॥१९॥
आकण्ठं भोजयामासुस्तृप्ताश्चुलुकमादधुः ।
जलपानं प्रचक्रुश्च ताम्बूलानि च जगृहुः ॥२०॥
मुखमिष्टानि चूर्णानि जगृहुस्ते ततः परम् ।
ययुर्नैजनिवासाँश्च ब्रह्मसृष्टीशसृष्टिकाः ॥२१॥
अथ ब्रह्माणमारभ्य विष्णुशंकरतत्प्रजाः ।
देवा देव्यः पितरश्च सत्यादिभुवरान्तकाः ॥२२॥
साध्या विश्वे च दिक्पाला सुरेश्वरादयस्तथा ।
सुराण्यः कन्यका सर्वा निषेदुस्तत्र पंक्तिषु ॥२३॥
तेभ्यस्ताभ्यो ब्रह्मकन्याः कार्ष्ण्यश्चापि मुदा मुहुः ।
आसनानि ददुः परिवेषणं विदधुर्मुहुः ॥२४॥
सत्योद्भवानि मिष्टान्नपानपात्राणि वै ददुः ।
मिष्टान्नान्यमृतान्नानि भक्ष्यभोज्यानि तानि च ॥२५॥
लेह्यचोष्याणि सर्वाणि स्वाद्यपेयानि वै तथा ।
अन्नशाकरसचूर्णप्रभृतीनि ददौ मुहुः ॥२६॥
भुक्तवन्तश्च ते देवा जलं पपुस्ततः परम् ।
ताम्बूलादिमुखाऽऽवासं जगृहुश्चाऽऽलयं ययुः ॥२७॥
अथर्षयो मनुष्याश्च पार्थिवासनदेहिनः ।
चतुःखनिसमुत्पन्ना निषेदुः पंक्तिषु द्रुतम् ॥२८॥
दिव्याऽदिव्यास्तथा मूर्ताऽमूर्ताश्चराऽचरास्तथा ।
निषेदुर्भोजनपंक्तिवर्तुलेषु मुदान्विताः ॥२९॥
लोमशाश्रमकन्याश्च पात्राणि चासनानि च ।
ददुस्तेभ्योऽपि परिवेषयामासुः समुत्सुकाः ॥३०॥
अष्टकल्पस्य दैवस्य सर्गस्य कन्यकास्तदा ।
अष्टदैवप्रसर्गाश्च चक्रुर्भोजनमुत्सुकाः ॥३१॥
अमृतानि ह्यनन्तानि मिष्टान्नानि द्युमन्ति च ।
रसान् भोज्यान् भक्ष्यचोष्यान्लेह्यान् पेयान् रसान्वितान् ॥३२॥
तत्तद्देवनिकायेभ्यो योग्यान् ददुश्च तास्तदा ।
तृप्ता भुक्त्वा तु ते पानं पपुश्च मुखवासकम् ॥३३॥
ताम्बूलकादि जगृहुर्ययुश्चाऽऽवासमुत्सुकाः ।
अथाऽतलादिलोकानां वासिनां पंक्तयस्तदा ॥३४॥
दैत्यानां दानवानां चासुराणां रक्षसां तथा ।
नागानां भोगिनां जलेशयानां पंक्तयोऽभवन् ॥३५॥
तत्तल्लोकार्हभोज्यानि भक्ष्याणि विविधानि च ।
लेह्यान्यपि च चोष्याणि आस्वाद्यान्यपि सर्वथा ॥३६॥
व्यञ्जनानि च पेयानि रससाराणि कन्यकाः ।
योग्यपात्रादिषु परिवेषयामासुरुत्सुकाः ॥३७॥
मूर्तानां चाऽमूर्ततत्त्वोत्तमानां गुणशालिनाम् ।
गुणानां कर्मणां सर्वतीर्थानां पावनार्थिनाम् ॥३८॥
दीनाऽन्धकृपणानां च नरनारीनपुंजुषाम् ।
श्रेण्यश्चराऽचराणां चाऽभवन् योग्याश्च दासिकाः ॥३९॥
दासा विप्राश्च तान् परिवेषयामासुरत्यति ।
भोजयामासुरत्यर्थं पेयं ददुः सुशीतलम् ॥४०॥
वनसारान् जलसारान् वह्निसारान् क्षितेः रसान् ।
धेनुसाराँस्तृणसारान् कन्दसारान् प्रमेदकान् ॥४१॥
देहसारान् पंकसारान् पुष्पसारान् रसादिकान् ।
पत्रसारान् मूलसारान् कृतिसारान् समुद्भवान् ॥४२॥
जरासारान् कोशसारान् बीजसारान् फलोत्तमान् ।
मञ्जरीसारकान् स्तम्बसारान् नालोद्भवाँस्तथा ॥४३॥
खनिसारान् व्योमसारान् मेघसारान् ऋतूद्भवान् ।
वृष्टिसारान् पुण्यसारान् श्रद्धासारान् हृदुद्भवान् ॥४४॥
स्वाप्नसारान् कालसारान् द्रव्यसारान् गुणोद्भवान् ।
कर्मसारान् योगसारानैश्वर्यकृतविग्रहान् ॥४५
सर्वविधान् भोज्यसारान् योग्येभ्यः कन्यका ददुः ।
लक्ष्मीः श्रीः कमला हंसा रमा यत्र प्रदायिकाः ॥४६॥
तत्र का न्यूनता राधे भोज्यपानोपकारिषु ।
सत्री यत्र स्वयं कृष्णः लक्ष्मीर्यत्राभिदायिनी ॥४७॥
कल्पवल्ल्यः समाहर्त्र्यस्तत्र का नाम निम्नता ।
सर्वधामानि लोकाश्च मूर्ता भजन्त एव च ॥४८॥
यत्र तत्त्वानि तिष्ठन्ति तत्र का नाम निम्नता ।
यत्र वह्निः स्वयं पक्ता तृप्तिर्यत्परिवेषिका ॥४९॥
अमृताऽक्षरभोज्यानि तत्र का नाम निम्नता ।
नित्यानन्दमहातृप्ता यन्महे परमेश्वराः ॥५०॥
सर्वैश्वर्यचमत्कारसिद्धयः कल्पपादपाः ।
चिन्तामणयो वर्तन्ते तत्र का नाम निम्नता ॥५१॥
इत्येवं राधिके! भोज्यपरिहारोत्तरं स्वयम् ।
लोमशो भोजनं चक्रे ततश्च बालकृष्णकः ॥५२॥
सूदाश्च परिवेषादिकर्त्र्यश्च बुभुजुस्ततः ।
कार्ष्ण्यस्ततोऽथ बुभुजुस्ततो गोपालबान्धवाः ॥५३॥
बुभोज च ततः श्रीमद्गोपालकृष्ण एव तु ।
ततश्च बुभुजे श्रीमत्कंभराश्रीः सुतान्विता ॥५४॥
दासेभ्यः प्रददौ माता भोजनान्युत्तमानि च ।
कीटमत्स्यपतंगेभ्यो भाग्यजीविभ्य इत्यपि ॥२५॥
अनिश्चिताऽदनेभ्यश्च ददौ भोज्यानि कम्भरा ।
सुवर्णरूप्यरत्नानि कोटिशो दक्षिणा ददौ ॥५६॥
क्षणं विश्रम्याऽपराह्णे सभा तु मानवर्धिनी ।
परमेश्वरदेवानां समस्तदेहिनां ह्यभूत् ॥५७॥
सुवर्णासनसंदिप्ता कोटिक्तवादिपूरिता ।
मध्ये श्रीशः कृष्णनारायणो विराजतेऽम्बरे ॥५८॥
उच्छ्रये गजशोभाढ्यासने पार्श्वे पिता तथा ।
माता कृष्णस्तथा राधा श्रीश्च नारायणस्तथा ॥५९॥
हेमन्तो भगवाँश्चोभौ स्थितौ धृत्वाऽस्य चामरे ।
अवतारा अवतारिण्य ईशा ईशनीगणाः ॥६०॥
देवा देव्यः पितरश्च पित्र्यो मुनय आर्षिकाः ।
असुरा असुराण्यश्च मानवा योषितस्तथा ॥६१॥
पशवः पक्षिणः स्तम्बा नागा दैत्याश्च तस्त्रियः ।
राजन्ते सा सभा दीर्घा विशाला जडचेतनैः ।
तत्त्वैरुच्चावचैर्युक्ता दिव्याऽदिव्यैः सुदेहिभिः ॥६२॥
ततो नृत्यं नर्तकीनां प्रावर्तत सुशोभनम् ।
अप्सरसां गीतयश्च गन्धर्वाणां सुवादनम् ॥६३॥
प्रावर्तत शुभं गन्धर्वीणां नृत्यं समुत्तमम् ।
नृत्ये परिहृते मल्ला युद्धकौशल्यमावहन् ॥६४॥
दर्शयामासुरत्यर्थं समरांगणभूमिकाः ।
ततो दृश्या नटानां च नाट्ययोगेन खेलिताः ॥६५॥
प्रावर्तन्ताऽम्बररज्जुकौशल्यालम्बनादयः ।
उड्डयनं स्वर्गयुद्धं चेन्द्रजालिकदर्शनम् ॥६६॥
विद्युद्वैभवदृश्यानि निर्वर्तितानि वै ततः ।
गायनानि समभवन् कृष्णयशोभराणि च ॥६७॥
विद्याध्राणां समभवन् व्याख्यानान्युत्तमानि च ।
सिद्धानामुपदेशाश्चाऽभवँस्तत्रातिहृद्गमाः ॥६८॥
भाटचारणबन्दिज्ञाः प्रशंसकाः कविप्रथाः ।
वर्णयासुरेवैनमुत्सवं प्रजगुः स्त्रियः ॥६९॥
नारदः श्रीसनत्कुमाराज्ञया प्रशशंस ह ।
उत्सवं परमं दिव्यं न भूतं भावि नैव च ॥७०॥
अनादिश्रीकृष्णनारायणो यत्र परेश्वरः ।
यज्ञसूत्रस्य पात्रं चाऽवतारा महीमानकाः ॥७१॥
सृष्टित्रयं यन्महेऽस्ति सम्भूतं सत्कृतिप्रदम् ।
सर्वरसाः सर्वगन्धा यत्राऽऽनन्दाश्च सर्वशः ॥७२॥
सर्वसत्यो यत्र सन्ति श्रीभूलीलाविभूतयः ।
नैतादृशो महो भावी महोऽयं सर्वतोऽधिकः ॥७३॥
कर्तव्यं स्मरणं चाऽस्य श्रवणं मननं तथा ।
निदिध्यासनमस्यैव साक्षान्मुक्तिर्हरेः पदे ॥७४॥
तदेव लोके कर्तव्यं यत्कृते मोक्षमाविशेत् ।
कृतेन येन संसारे बन्धनं नैव जायते ॥७५॥
अनादिश्रीकृष्णनारायणस्यैते महोत्सवाः ।
कर्तव्याः सर्वदा भक्तैर्येन बन्धाद् विमुच्यते ॥७६॥
भवजलधिमग्नानां कुटुम्बिभारमज्जताम् ।
शरणं श्रीहरेरत्र तारकं नौस्वरूपकम् ॥७७॥
संश्रिता ये हरिं नारायणं गुरुं परेश्वरम् ।
कमलेशं न ते यान्ति धर्मराजप्रदेशकम् ॥७८॥
सा जिह्वा या हरिं स्तौति तच्चित्तं माधवेऽर्पितम् ।
तौ श्लाघ्यौ तु करौ बोध्यौ यौ श्रीकृष्णार्चने रतौ ॥७९॥
अन्यथा स्तम्बशाखाख्यौ शुष्कौ सेवाविवर्जितौ ।
कण्ठः स जम्बुककण्ठो यो न गायति माधवम् ॥८०॥
रोगो महान् स एवाऽस्ति यत्र नास्ति हरेः स्मृतिः ।
स एव शोच्यः सजीवो न योऽर्चयति केशवम् ॥८१॥
अनादिश्रीकृष्णनारायणोऽयं परमेश्वरः ।
सर्वाऽवतारपूज्योऽयं पूजनीयः पुमुत्तमः ॥८२॥
पूजका नहि शोच्यास्ते मृता अपि हि मुक्तिगाः ।
सर्वं चराचरं चात्र बालकृष्णे विराजते ॥८३॥
अस्य पूजा कृता येन तेनाऽर्चितं चराचरम् ।
रत्नाकरगुणा यद्वदसंख्याः श्रीहरेर्गुणाः ॥८४॥
राधाप्रभापारवतीलक्ष्मीपतिं श्रियः पतिम् ।
समाश्रिता न संसारे दुःखिता मोक्षगा यतः ॥८५॥
शूलध्वजधनुर्बाणमीनस्वस्तिकचक्रवान् ।
पूज्यते येन बालोऽयं करे सप्तकचिह्नितः ॥८६॥
ऊर्ध्वरेखाऽधिकैश्चिह्नैः षोडशाख्यैः पदाब्जयोः ।
सहितः पूज्यते येन बालकृष्णोऽयमीशिता ॥८७॥
सर्वायुधधरः सर्वकलाकौशल्यवारिधिः ।
पूज्यते येन बालोऽयं मोक्षभाक् स न संशयः ॥८८॥
यदन्तःकरणे कृष्णो यदात्मनि नरायणः ।
कृष्णनारायणव्याप्तो न मृत्योर्भयवान् क्वचित् ॥८९॥
परायणं प्रपन्नानां बालकृष्णजुषां क्वचित् ।
निम्नायनं न चैवाऽस्ति परधाम्नोऽधिकारिणाम् ॥९०॥
अनादिश्रीकृष्णनारायणभक्ताः परात्परम् ।
सतां मोक्षं चाप्नुवन्ति राधारमादिशंसितम् ॥९१॥
संग्रामिणां धार्मिकाणां सात्त्विकानां महात्मनाम् ।
गतेः परा गतिश्चास्ते भगवद्वेदिनां शुभा ॥९२॥
सूक्ष्मं सर्वगतं कृष्णं भक्ताः पश्यन्ति नेतरे ।
तथा पश्यन्ति तं कृष्णं महात्मानः कृपालयाः ॥९३॥
सर्वाः क्रियाः कृष्णपरा यस्य भवन्ति चार्पिताः ।
सर्वकर्ताऽप्यकर्ता स न बध्यते प्रमुच्यते ॥९४॥
हरिर्येषां प्रियो नित्यं ते प्रियाश्च हरेः सदा ।
हरिं ध्यायेच्च यस्तं ध्यायति हरिः पदाश्रितम् ॥९५॥
कल्यमुत्थाय भक्त्याऽयं स्मर्तव्यो बालकृष्णकः ।
श्रवणीयः श्रावणीयो दुर्गाणां तारको हि सः ॥९६॥
अस्य कृष्णस्य तु कथामृतपानास्तरन्ति हि ।
अत्र श्रीबालकृष्णे ये भक्तिरव्यभिचारिणीम् ॥९७॥
करिष्यन्ति गमिष्यन्ति ते यत्राऽऽस्ते हरिः स्वयम् ।
कृष्णसेवाप्रसक्तानां या गतिः परधामनि ॥९८॥
सा तु जन्मसहस्रेण तपोभिर्नहि लभ्यते ।
किं जपैः किं मन्त्रवाग्भिः किमाश्रयैः प्रयत्नकैः ॥९९॥
किं यज्ञैः किं प्रदानैश्च किं धर्मैः कीर्तिभिश्च किम् ।
किं तस्य बहुभिश्चाऽन्यैर्येनाऽऽप्तः श्रीहरिर्यदि ॥१००॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मन्त्रः सर्वार्थदाता चेज्जप्तः किं तस्य विद्यया ॥१०१॥
हरिर्येषां जयस्तेषां मोक्षस्तेषां परात्परः ।
लाभस्तेषां च मांगल्यं येषां हृत्स्थः परः प्रभुः ॥१०२॥
तीर्थकोटिसहस्राणि दानकोटिशतानि च ।
कृष्णनारायणनतेः कलां नाऽर्हन्ति षोडशीम् ॥१०३॥
कृष्णनारायणनाम्ना सर्वतीर्थफलं भवेत् ।
कृष्णनारायणध्यानाद् योगितो गतिरुत्तमा ॥१०४॥
कृष्णनारायणपूजां कुर्वन्ति जलमात्रतः ।
तेऽपि यास्यन्ति साधूनां स्थानं पुण्यकृतां परम् ॥१०५॥
त्रिसन्ध्यं श्रीकृष्णनारायणं स्मरन्ति याः पतिम् ।
तासां देहस्थितानां च मोक्ष एव न संशयः ॥१०६॥
नरा नार्यः सुरा देवा ईशा ईशान्य इत्यपि ।
सेवमाना बालकृष्णं परां गतिमवाप्स्यथ ॥१०७॥
धन्या राधारमाद्याश्च धन्याः कारुः कुमारिकाः ।
धन्या कुंकुमवापी च यत्कान्तो भगवान् स्वयम् ॥१०८॥
धन्या वयं महीमाना यन्महेऽस्य समागमः ।
इत्युकत्वा नारदः श्रीमान् प्रणनाम पुनः पुनः ॥१०९॥
भगवन्तं बालकृष्णं शुकं श्रीवल्लभ तथा ।
माला रत्नमयी कण्ठेष्वार्प्य ननाम नारदः ॥११०॥
पुनर्विलोक्य च सभां दिर्घकण्ठेन नारदः ।
हस्तमुत्क्षिप्य च प्राह शृण्वतां यावतां पुनः ॥१११॥
महीमानाः प्रश्वृण्वन्तु सत्यं सत्यं वदाम्यहम् ।
लोके कृष्णावतारास्तु भविष्यन्ति सहस्रशः ॥११२॥
परं त्वेतादृशः कृष्णनारायणः परेश्वर ।
अवतारी परिपूर्णतमोत्तमोत्तमः क्वचित् ॥११३॥
अद्य जातः समारम्भे पुनर्नैव भविष्यति ।
अन्ये कृष्णा अस्य लीलामाश्रयिष्यन्ति भक्तितः ॥१८॥
आनरवात्तु शिखां यावत् अस्य मूर्तौ स्थले स्थले ।
सहस्रशस्तु चिह्नानि विद्यन्ते परमात्मनः ॥११५॥
शतैकं पादयोरस्य दशके जंघयोस्तथा ।
विंशकं च तथा सक्ष्मोलिगे च पञ्चकं तथा ॥११६॥
त्रिंशत्तु जघने चास्योदरे तु पञ्चविंशतिः ।
वक्षसि शतकं चास्य पृष्ठे पार्श्वे शतत्रयम् ॥११७॥
कण्ठे स्कन्दे द्विशतं च मुखे शतं गले त्रयम् ।
हस्तयोः शतचिह्नानि पछाशत्तलयोस्तथा ॥११८॥
प्रकोष्ठे दशकं चापि नेत्रयोः पञ्चविंशकम् ।
गण्डयोः षोडश भाले पञ्च षट् कर्णयोस्तथा ॥११९॥
जिह्वायां चोष्ठयोश्चास्य क्रमाद् दश च विंशतिः ।
नासिकायां दशरेखा भ्रुकुटी शतसद्गुणाः ॥१२०॥
केशेषु विंशतिश्चापि चिबुके तु चतुष्टयम् ।
रोमसु सर्वतः सन्ति हैरण्यगुणराशयः ॥१२१॥
यावद्गुणाः स्वभावाश्च रेखास्तिलाश्च सन्धयः ।
संयोगाश्चापि संस्थाना घटनाः सुव्यवस्थितिः ॥१२२॥
एकैकांगस्य च मया वर्णयितुं न शक्यते ।
सर्वं सर्वात्मकं श्रैष्ठ्यं विद्यतेऽत्र समन्ततः ॥१२३॥
एतन्मूर्तेः समादाय खण्डांशान् मूर्तयः पराः ।
भविष्यन्तीतरे देवा ईश्वराः परमेश्वराः ॥१२४॥
नाऽस्मान्मयाऽधिकं वाच्यं प्रमाणं सदसि स्थिताः ।
अवतारास्तथा मुक्ता भवन्तः परमेश्वराः ॥१२५॥
वामने विश्वरूपे तु मध्ये रोम्णोर्द्वयोर्द्वयोः ।
कोटिचिह्नानि तिष्ठन्ति नैषां स्याद् गणनार्हता ॥१२६॥
सृष्टित्रयस्वरूपं हि मूर्तौ भगवतः स्थितम् ।
सर्वसृष्टेस्तु चिह्नानि वर्तन्तेऽस्यैव वर्ष्मणि ॥१२७॥
कण्ठोपरि चोत्तमांगे सूक्ष्मसूष्टिः प्रतिष्ठिता ।
कण्ठादधः करेरूर्ध्व कार्यसृष्टिर्व्यवस्थिता ॥१२८॥
कटेरधो निकृष्टा च आनखान्तं व्यवस्थिता ।
कोट्यर्बुदाऽब्जचिह्नानि वर्तन्तेऽस्य तु वर्ष्मणि ॥१२९॥
इत्युक्त्वा विररामाऽसौ नारदः सनदाज्ञया ।
राधिके च ततः पारितोषिकान्यर्पयत् पिता ॥१३०॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महीमानानां भोजनदानं, ततः सभायोजना, नारदोक्त- पराविद्योपदेशश्चेत्यादिनिरूपणनामा सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP