संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः १७२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके केतुमालाख्ये कुमारिकाभ्य एव तु ।
कुमाराणां प्रदाने वै फलं श्रेष्ठं प्रजायते ॥१॥
नारी तत्र स्वतन्त्राऽस्ति कुमारे स्वत्वयामिनी ।
पत्नीवचो महत्तत्र पत्न्याज्ञा पारमेश्वरी ॥२॥
पत्नी वर्चस्वधर्त्री हि पतिर्दाससमस्ततः ।
पतिस्तु बीजदो मात्रं क्षेत्रं प्रधानमुत्तमम् ॥३॥
क्षेत्रं वै रक्षकं पातृ जनयितृ नियामकम् ।
स्थायि सर्वाधिकाराप्तं पारम्परर्यस्य सूचकम् ॥४॥
अवभृथप्रदानेन धर्मो कुमारदानकम् ।
प्रवृत्तस्तत्र तत्कालाद् बालकृष्णेच्छया परः ॥५॥
गांगेयादींस्तदा श्रीमद्बालकृष्णः परेश्वर ।
अशिक्षयत् कुमाराणां दानविधिं स्वयं प्रभुः ॥६॥
मखभूमौ च वा देवमन्दिरे वा गुरोर्गृहे ।
शृंगारिते च वाद्याद्यैर्ध्वानिते च समाजिते ॥७॥
शुभे निरुद्यमे वारे आराधनादिने प्रगे ।
यायात् कन्याकुटुम्बं तु नीत्वा कन्यां सुशोभिताम् ॥८॥
सुवेषां योग्यशृंगारभासितां पूर्णयौवनाम् ।
सर्वदृश्याननां चित्रवस्त्रां छत्रान्वितां ततः ॥९॥
महासिंहासने धर्मगुरुं नत्वा निषादिताम् ।
मात्रा दत्तपुष्पमालां गुरुणाऽऽशीःप्रयोजिताम् ॥१०॥
अन्यैश्चदर्शकैर्मित्रैः सुहृदादिभिरर्चिताम् ।
आचार्यः श्रावयेद्धर्मान् नीतीश्वरादिमिश्रितान् ॥११॥
तावत्तत्र समागच्छेत् कुमारेणान्वितं तदा ।
कुटुम्बं तु कुमारस्य मित्रसुहृत्समन्वितम् ॥१२॥
सुशोभितं कुमारं च कन्यापार्श्वे निषाद्य च ।
पुष्पहारादिकं दद्याच्चाशीर्वादान् गुरुस्तदा ॥१३॥
परमेशानमन्त्राँस्तौ श्रावयेद् धर्मभक्तिवित् ।
ततस्तौ द्वौ गुरुः पुष्पादिभिः संपूज्य मन्दिरे ॥१४॥
पुष्पहारौ स्वहस्तेन दद्यात् तत्कण्ठयोः पृथक् ।
गुच्छौ दद्यात् सुगन्धादि दद्यानमालाद्वयं करे ॥१५॥
परस्परं निदध्याच्च मालां कण्ठे वधूर्वरः ।
गुरुः कुमारहस्तं च दद्यात्कुमारिकाकरे ॥१६॥
कुमारिका च गृह्णीयात् करं पत्युस्तदा ततः ।
कुमारस्य करे दद्यात् करं नैजं कुमारिका ॥१७॥
कुमारस्तं च गृह्णीयात् प्रेमभावेन लोकयन् ।
ततः परस्परं कुर्यात् मिथो हस्तादिचूम्बनम् ॥१८॥
परस्परं परस्परकरौ धृत्वा च नर्तनम् ।
ततस्तौ प्रणमेतां च परेश्वरं गुरुं तथा ॥१९॥
अथ द्वयोः पक्षिणश्च दद्युर्हरिद्वयं तदा ।
प्रत्येकस्य गले सर्वे सुगन्धादि शुभास्पदम् ॥२०॥
सुखिनौ भवतां चापि भवतां चिरजीविनौ ।
भवतां पुत्रपुत्र्यादिफलिनौ प्रेमकोशिनौ ॥२१॥
इत्याशीर्वादसम्प्राप्तौ नमेतां धर्मपुस्तकम् ।
गुरुं ततो भवेन्नृत्यं पश्येतां द्वन्द्वयोजितम् ॥२२॥
भोजनं च समाजेन गृह्णीयातां सहस्थितौ ।
ताम्बूलकादिकं प्राप्य गुरुणाऽऽशीःप्रयोजितौ ॥२३॥
गच्छेतां च समुत्थाय यथेष्टं कन्यकागृहम् ।
कन्याज्ञया च वा गच्छेतां तदानीं वरगृहम् ॥२४॥
स्वतन्त्रं वा गृहं कीर्तिलभ्यं वासाय योजितम् ।
कुमारः कन्यकाज्ञां च लोपयित्वा न सञ्चरेत् ॥२५॥
वधूः सा स्वामिनी नित्यं स्वामिनो वै नियामिका ।
वर्तेत सर्वथाऽधीनो वरस्तस्या मतौ मते ॥२६॥
एवं कुमारदानं वै कुमार्यै देवमन्दिरे ।
उत्सवेन च भोज्येन हारतोरादिभिर्मतम् ॥२७॥
गायनेन च नृत्येन वाद्यादिभिः सुशोभितम् ।
नात्र यज्ञविधिर्वह्नौ देवसाक्ष्ये ह्यपेक्ष्यते ॥२८॥
अबन्धनो विधिश्चायं यथेष्टगृहयापनः ।
यदि प्रेम्णः क्षतिश्चास्ते न चेत् स्वभावमेलनम् ॥२९॥
पुरुषो वै भवत्येव त्यक्तव्यो योषिता तदा ।
द्वितीयश्चापि कर्तव्यः स्वतन्त्रया तु योषिता ॥३०॥
इत्येवं राधिके कन्यायै कुमारप्रदानके ।
विधिस्तेऽत्र सतीवश्यः प्रोक्तो वै केतुमालके ॥३१॥
ततः श्रीमद्बालकृष्णो रात्रौ विश्रान्तिमाप ह ।
विवाहाः कोटिशस्तत्र जाता वै द्वादशीदिने ॥३२॥
अध्वरे मण्डपे दानं विवाहविधिनाऽभवत् ।
मध्याह्ने भोजयित्वा च महीमानान् समस्तकान् ॥३३॥
विदाये बहुदानानि तेभ्यो ददौ हरिः स्वयम् ।
याः सर्वा उपदास्तत्रागतास्तास्तु प्रसादजाः ॥३४॥
कृत्वा मत्वा ददौ कृष्णो जगृहुः सर्वदेहिनः ।
मुक्तास्तथाऽवताराश्च भगवन्तो नरायणाः ॥३५॥
ईश्वरा ईश्वराण्यश्च मुक्तान्यः शक्तयस्तथा ।
तत्त्वानि तत्त्वविज्ञाश्च सत्यश्च ब्रह्मचारिणः ॥३६॥
साधवः पितरो देवाः ऋषयो देवतोपमाः ।
राजानो मानवा दैवगन्धर्वाद्याः सुरप्रजाः ॥३७॥
लोकपाला दिशांपाला वनानि तीर्थभूमयः ।
पातालस्था जलवासा व्योमवासाश्च भूस्थिताः ॥३८॥
जडाश्च चेतनाश्चापि महीमानास्तु ये तदा ।
यज्ञे समागताश्चासन् विदायं जगृहुश्च ते ॥३९॥
श्रीहरेस्त्वाज्ञया सर्वे पूजयित्वा परेश्वरम् ।
ययुर्विमानयानैश्च वाहनैः स्वालयाँस्ततः ॥४०॥
सौराष्ट्रीयाः प्रजाश्चापि ययुर्विमानमार्गगाः ।
ब्रह्मप्रियाः सर्वकन्याः कुटुम्बं श्रीहरेस्तदा ॥४१॥
ऋषयो लोमशाद्याश्च नीलकर्णवृकादयः ।
राजभिश्चार्थिताः सर्वे न्यूषुस्तत्र मखस्थले ॥४२॥
अश्वपट्टसरोदेवाः क्षेत्रपा देवतादिकाः ।
ईशानो राजगुरवो मखाचार्याश्च तद्भवाः ॥४३॥
गांगेयाश्चामुकप्रजा न्यूषुस्तत्र तु संगमे ।
हरेर्दर्शनलाभार्थं नेतुं हरिं निजाऽऽलयान् ॥४४॥
भुक्त्वा रात्रौ तदा चक्रुर्विश्रान्तिं च प्रगे पुनः ।
हरिरुत्थाय विधिवत् स्नानपूजां चकार ह ॥४५॥
त्रयोदश्यां तु मध्याह्ने भोजयामास मानवान् ।
राजा सम्राट् करौ बध्वा प्रार्थयामास माधवम् ॥४६॥
मे गृहं पावनं कृष्ण पादन्यासैर्विधेहि च ।
तथाऽस्त्विति हरिः प्राह ततश्चोरलकेतुकः ॥४७॥
राजा त्वाज्ञापयामास प्रधानान् स्वागताय वै ।
विमानानि सुसज्जानि त्वानयामासुरुत्सुकाः ॥४८॥
प्रधानाद्यास्ततो यज्ञपरिहारं प्रचक्रिरे ।
सामग्रीणां तु शिष्टानां रक्षणं दधिरे तथा ॥४९॥
यानाब्धेर्भूपवर्गास्तु प्रजाश्च श्रेष्ठिनस्तथा ।
निन्युः स्वस्वालयान् स्तंभपटमण्डपपात्रिकाः ॥५०॥
राजभिस्त्वर्थितस्तत्र श्रेष्ठिभिश्चार्थितः प्रभुः ।
स्वस्वदेशगृहाण्येव पवित्रयितुमादरात् ॥५१॥
हरिस्तथाऽस्त्विति प्राह स्वस्वर्षिमतमावहन् ।
सर्वालयानहं समागमिष्यामि सुखाय वः ॥५२॥
राजानः सर्व एवाऽतो यान्तु निजालयानितः ।
गुरवस्तु मया साकं गांगेयाः सन्तु संस्थिताः ॥५३॥
प्रतीक्षन्तु क्रमेणैव ममागमं दिनोत्तरे ।
प्रादक्षिण्यक्रमेणैवागमिष्यामि च वो गृहान् ॥५४॥
इत्युक्ताः प्रययुः सर्वे राजानो निजराज्यकम् ।
विमानेषु समारुह्योरलभूपेन वन्दिताः ॥५५॥
श्रीहर्याद्या ययुर्व्योम्ना राजधानीं तु मोक्षदाम् ।
मोक्षकपत्तनाख्यां च बहुशोभार्हशोभिताम् ॥५६॥
गोपुराणि स्वर्णरूप्यमयानि तोरणान्यपि ।
सूर्यचन्द्रप्रभातुल्योपज्ज्वलानि शोभितान्यपि ॥५७॥
राजमार्गाः शोभिताश्च कृत्रिमोद्यानपुष्पकैः ।
रंगवल्ल्यादिभिः स्तंभैः कादलैः पद्मपत्रकैः ॥५८॥
जलकुंभैः स्वागताद्यैर्ध्वजैश्चित्रैर्मखात्मकैः ।
यशोश्लोकान्वितै रम्यै रंगपटादिराजितैः ॥५९॥
पताकाभिः शोभितानि फटाकाभिश्च शालिकाः ।
गन्धजलैः प्रसक्तानि वर्त्मानि वीथयस्तथा ॥६०॥
राजमार्गाः सुगन्धाद्यैः पुष्पैरंगैः शुभाः कृताः ।
जयस्वागतमानादिसूचिकामुद्रिकान्विताः ॥६१॥
सर्वयन्त्रान्वितां रम्यां विशालां बहुमानवाम् ।
दशयोजनवृत्तां च स्मृद्ध्यादिभिः प्रपूरिताम् ॥६२॥
श्वेतचम्पकतुल्याभैर्मानवैः परिशोभिताम् ।
वृक्षवल्लीगृहोद्यानै रम्यां मनोहरां पुरीम् ॥६३॥
बहुवादित्रनिनदैस्तूपस्फोटनगर्जनैः ।
राजसैन्यैः कृतमानो बालकृष्णो विवेश ताम् ॥६४॥
विमानादवरुह्यैव चतुर्दन्तकरिस्थितः ।
शुशोभ भगवांस्तत्र वर्धितो जनकोटिभिः ॥६५॥
छत्रचामरशोभाढ्यो राज्ञा राज्ञ्या गजान्तरे ।
जयकारेण मानेन प्रेम्णा निभालितो मुहुः ॥६६॥
राजमार्गे पूजितश्च वन्दितो नमितो मुहुः ।
प्रसन्नतां दर्शयन् तान् हरिर्नृपालयं ययौ ॥६७॥
अवातरत् शनैर्देवो मातृपितृसमन्वितः ।
कुटुम्बिभिर्युतो महर्षिभिर्युक्तोऽङ्गणे शुभे ॥६८॥
महोद्यानमये राजसौधाग्रे भूतले तदा ।
ब्रह्मप्रियास्तथेशानादयो ह्यवातरँस्तदा ॥६९॥
विमानेभ्यो व्योममार्गात् महोद्याने शुभाश्रये ।
राजसौधे महादिव्ये निनाय पुरुषोत्तमम् ॥७०॥
ऊरुकीर्तिर्नृपपुत्रश्चोरलकेतुभूपतिः ।
पुपूज बहुधा भक्त्या जलान्नमधुपर्ककैः ॥७१॥
चन्दनाक्षतगन्धाद्यैः कस्तूरीगन्धसारकैः ।
बहुस्वर्णमयैः पात्रं रत्नाढ्याभरणादिभिः ॥७२॥
दिव्यवस्तूपसामग्रीबाहुल्यैरार्चयद्धरिम् ।
नीराजनं ततश्चक्रे स्वर्णमुद्रास्तु कोटिशः ॥७३॥
ददौ दाने तु हर्यग्रे मणिहारान् ददौ गले ।
पादौ प्रक्षाल्य च तदा सकुटुम्बो जलं पपौ ॥७४॥
शतं पुत्रा दश पुत्र्यस्तथाऽन्या बालबालिकाः ।
द्वे पत्न्यौ दासिकाश्चापि पपुर्वारि प्रसादजम् ॥७५॥
कृतकृत्यं तदात्मानं मेनिरे राजयोगिनः ।
सर्वे कुटुम्बिनो राज्ञस्त्रिंशत्कन्या विशेषतः ॥७६॥
जहृषुः श्रीहरिं प्राप्य मनसैच्छन् सदा प्रभुम् ।
यवक्रीतो महर्षिश्च पुपूज परमेश्वरम् ॥७७॥
राज्ञाऽर्पितं धनं चान्यद् ददौ महर्षये हरिः ।
कन्याभिश्चार्थितः कृष्णः कुमारदानधर्मतः ॥७८॥
नृपालयेऽभवत् कृष्णेच्छया कुमारदानकम् ।
कन्यास्तत्र हरिं प्राप्य जाताः पूर्णमनोरथाः ॥७९॥
पितॄन् वृद्धान् मातृवर्गान् प्रणम्याऽऽज्ञां समर्ज्य च ।
साकं श्रीहरिणा स्थातुं सर्वदैव मनो व्यधुः ॥८०॥
प्राप्य मन्त्रान् वैष्णवांश्च पावन्यः कन्यकास्तु ताः ।
पवित्रहृदयैर्ब्रह्मप्रियामध्ये स्थिताः सदा ॥८१॥
राज्ञा तत्र कृता सेवा राज्ञ्यादिभिश्च सेवकैः ।
प्रधानैः श्रेष्ठिभिश्चापि दासदासीभिरित्यपि ॥८२॥
भोजनैः पानदानैश्च मर्दनैः रंजनादिभिः ।
नगरेऽपि हरिं नीत्वा श्रेष्ठिनश्चाऽऽर्चयन् प्रभुम् ॥८३॥
आप्रातः श्रीहरिं रम्यं बालकृष्णं परेश्वरम् ।
श्रेष्ठिनः स्वालयान्नीत्वा पुपूजुर्बहुभावनाः ॥८४॥
बह्वर्पणानि प्रददुश्चात्मार्पणं व्यधुर्मुदा ।
एकान्तिनश्च ते भक्ता जाता नराः स्त्रियोऽखिलाः ॥८५॥
परमा वैष्णवाः सर्वे बालकृष्णस्य सेवकाः ।
बालकृष्णाश्रयं मुक्त्यै चक्रिरे तु समुत्सुकाः ॥८६॥
विद्युत्प्रकाशके तत्र नगरे भ्राजितेऽभितः ।
परिबभ्राम भगवान् कुटुम्बेन सहाऽच्युतः ॥८७॥
महर्षिभिस्तथेशानमण्डलेन पुरीं ततः ।
प्रातः स्वस्थानमासाद्य विश्रान्तिं चाप वै मनाक् ॥८८॥
गृहीत्वा योगनिद्रां च सूर्योदये विहाय ताम् ।
समुत्तस्थौ निजं ध्यानं कृत्वा चकार चाप्लवम् ॥८९॥
उष्णोदकैश्चन्दनाद्यैरर्चितो मर्दितस्तथा ।
राज्ञ्यादिभिस्तथा भक्ताभिश्च सस्नौ जगद्विधिः ॥९०॥
पूजां संध्यां ततः कृत्वा सद्योजातं च भोजनम् ।
प्रचकार महाराजः सभायां तत आययौ ॥९१॥
पूजितः सप्रजाभिश्च शोभते जयते हरिः ।
राजते राजसन्मानैः श्रीहरिः कृष्णवल्लभः ॥९२॥
तावत् तत्र सभायां वै कृष्णदेहास्तु मानवाः ।
समाययुर्विरूपाश्च कृशा दुःखान्वितास्तदा ॥९३॥
प्रणिपत्य हरिं प्राहुः कुरु नो मोक्षणं प्रभो ।
वयं त्वत्रोरलदेशे वसामोऽगतिका जनाः ॥९४॥
वासनायुक्तचित्ताश्च पूर्वजा राजमानिनाम् ।
श्रुत्वैवं भगवाँस्तान् जलपानमकारयत् ॥९५॥
राज्ञां तु पूर्वजास्ते संत्यक्त्वा कालुष्यमुल्बणम् ।
दिव्यदेहाः समभवन् चतुर्भुजा विमानगाः ॥९६॥
पार्षदैर्नीयमानास्ते विष्णोर्धाम ययुः परम् ।
एतद् विलोक्य नृपतिस्त्वाश्चर्यं परमं महत् ॥९७॥
नत्वाऽऽत्मानं कृतकृत्यं मेने मोक्षं स्वकं ह्यपि ।
मोक्षार्थं त्वर्थयामास श्रीमत्कृष्णनरायणम् ॥९८॥
तथाऽस्त्विति प्रभुः प्राह प्राप्ते काले भविष्यति ।
मोक्षणं सकुटुम्बस्येत्येवं वरं ददौ तदा ॥९९॥
अथैवं राधिके त्रयोदश्यां विदायमाप्य च ।
राज्ञा सन्मानितश्चापि प्रस्थापितो हरिस्ततः ॥१००॥
हारादिभिः शोभितः श्रीभगवान् गन्तुमुत्सुकः ।
प्रजाभिः पूजितः सायं सर्वानुपादिदेश ह ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कुमारदानविवाहविधिः, महीमानानां विदायः, उरलकेतुराजधान्यां मोक्षिकायां प्रभोर्गमनं, नगरे भ्रामणं पूजनं, राजपूर्वजानां मोक्षणं चेत्यादिनिरूपणनामा द्वासप्तत्यधिकशततमोऽध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP