संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! त्वेवं दशकोट्यसुरक्षये ।हाहाकारो महानासीदसुराणां कुलेषु वै ॥१॥देशेष्वपि दुराधर्षस्त्रासस्तदा व्यजायत ।राजा नो धर्महीनो वै न्यायवर्ज्यं प्रगृह्य च ॥२॥नाशं निमन्त्रयत्यज्ञो देशराष्ट्रकुटुम्बिनाम् ।धनं राज्यं द्वयं त्वास्ते गर्वस्थानं हि देहिनाम् ॥३॥न्यायेन गर्वः सुखदश्चान्यायजस्तु नाशकः ।अहो माया हि देवस्य वैचित्र्यं कीदृशं यया ॥४॥पद्मावधिधने राज्ये चासमुद्रान्तवर्तिनि ।सत्यप्यज्ञस्य नृपतेः सतीष्वपि प्रियासु च ॥५॥परदारधनसम्पद्गृध्ना तस्य विवर्धते ।शक्तिर्वा बलमैश्वर्यं वस्तुतः शत्रुवन्मतम् ॥६॥दुःखदाः शत्रवो बोध्याः शक्त्याद्यास्तादृशा यदि ।गर्वः कालस्य दूतोऽस्ति पुत्रो धनस्य वर्तते ॥७॥बलस्य दत्तकश्चास्ति शिष्यः परिजनस्य च ।धनं बलं परिजनो वर्तन्ते यत्र वै स्थले ॥८॥तत्र गर्वाः समायान्ति कालस्य कार्यसिद्धये ।जनो जानाति गर्वेण जेष्यामि सकलानपि ॥९॥कालः पश्यति गर्विष्ठे सान्तत्वं सत्वरं क्षणात् ।अन्यायो गर्वपार्श्वस्थ उत्तेजयति मानवान् ॥१०॥परस्त्रीद्रव्यहरणे ततो नाशे जुहोति च ।श्वा स्वरथ्यागृहस्थैर्हि दत्ताऽन्नभोजनादिना ॥११॥तृप्तोऽपि तृष्णया चान्यरथ्यायां याति गर्वतः ।ततश्चान्यैः श्वभिर्दन्तैः पाठ्यतेऽभित उल्बणैः ॥१२॥महिषः क्षेत्रभूम्यादौ लब्ध्वा तृप्तिं तृणादिभिः ।तृष्णया चापि गर्वेणाऽऽरण्यदनेच्छुकः ॥१३॥विदार्यते वने सिंहैस्तृष्णागर्वौ हि नाशदौ ।गर्वान्धस्तारकैर्हीनस्तरणं नैव वेत्त्यपि ॥१४॥मदाविष्टः प्रवाहे च क्षिपत्यात्मानमेकलः ।निमग्नो भ्रमरैस्तूर्णं मरिष्यति न संशयः ॥१५॥भोजनं वसनं छाया जलं भोग्यं हि देहिनाम् ।तदाधारा प्राणयात्रा सा चेद् गच्छति सौख्यतः ॥१६॥वृथाऽऽयासः कथं विज्ञः कुर्यान्मृषाऽवमोहितः ।क्षणं वित्तं क्षणं चित्तं क्षमं गृहं च बान्धवाः ॥१७॥क्षणं राज्यं जीवनं च क्षणं देहविरागिता ।विज्ञायैवं परं श्रेयः साधयेन्न पतेदधः ॥१८॥पतनं जायते गर्वात् तृष्णया भोगलिप्सया ।अशक्त्यारब्धभावाच्च ताँश्च तृप्त्या परित्यजेत् ॥१९॥राधिके! बहवो नष्टा नाशमेष्यन्ति चापरे ।नश्यन्त्यपि वर्तमानाः क्षितिर्नैभिः समं ययौ ॥२०॥धनं सम्पद् गृहं दाराः पतिः पुत्रः कुटुम्बकम् ।नास्ति वास्तविको बन्धो बन्धस्तु तेषु वासना ॥२१॥भोक्तुः सा वर्तते नित्यमशान्तस्याऽविरागिणः ।रागोऽशान्तिश्च जायेते वर्धेते ज्ञानहीनके ॥२२॥यत्र ज्ञानस्य वै शून्यं राजते तत्र सर्वदा ।कामक्रोधादिसंख्या प्रपूर्यते वसतिं गता ॥२३॥कामः क्रोधस्तथा लोभो मोहो मदश्च गर्वकः ।त एते भ्रातरः सर्वे गृहेशस्यापि भक्षकाः ॥२४॥अन्येषां भक्षणे तत्र का कथा खलु राधिके ।मांसानां पिण्डिकाः सर्वा गृध्रास्तुदन्ति चञ्चुभिः ॥२५॥समांस गृध्रान् बलिनस्तुदन्ति च हरन्ति ताः ।पिण्डिकाः सर्वलोकेषु तुल्या देवेन निर्मिताः ॥२६॥स्वपर्याप्ताश्च देवेन प्रदत्तास्तोषलब्धये ।असन्तुष्टास्तत्र ये ते नश्यन्त्यग्नौ पतंगवत् ॥२७॥शुद्धाहारविवेकानामयं सञ्जायते शुभः ।विचारः शान्तिफलदस्तामसानां न सा कथा ॥२८॥तमोऽधिका हि असुरा दैत्या म्लेच्छाश्च दानवाः ।तामसीं वृत्तिमाश्रित्योद्वेजयन्ति जगत् स्थिरम् ॥२९॥उद्वेगाग्नौ प्रहुताश्च मृत्युमामन्त्रयन्ति ते ।राधिके! राज्यमित्युक्तं यत्र धर्मेण राजते ॥३०॥प्रजा यस्य सदा शान्ताः सुखा अन्नधनादिभिः ।युद्धेतयो न विद्यन्ते देशे वर्षति सद्वसौ ॥३१॥परेहाः पापमेवोक्तं फलं दुःखं च तन्मतम् ।युद्धं कार्यं रक्षणार्थं न परास्कन्दनाय तु ॥३२॥पारक्यं युद्धमूलं च युद्धं विनाशकारकम् ।धर्मोऽर्थः काम एवैते मोक्षदाश्चेत् पुमर्थकाः ॥३३॥यदि श्रेयस्करास्ते न नारकास्ते गृहे स्थिताः ।येषां पत्न्यां च पत्यौ वा सन्तोषो नास्ति ते गृहे ॥३४॥नारका एव मन्तव्या असन्तुष्टाः सदाऽऽतपाः ।येषां वाट्यां गृहे क्षेत्रे धने सम्पदि गोधने ॥३५॥अन्ने वस्त्रे यथालब्धे देहनिर्वाहकारिणि ।नास्ति सन्तोषणं ते तु तृष्णावैतरणीस्थिताः ॥३६॥जीवत्स्वपि न शान्त्यास्था मृता का शान्तिरेष्यति ।रसनायां च वा स्पर्शे येषां तृष्णा विवर्धते ॥३७॥तेषां वै नरकं देहे कृतस्थानं विराजते ।कामतृष्णा युगलाख्ये निगडे क्षिपति द्रुतम् ॥३८॥लोभतृष्णा प्रयासाख्ये प्रवाहे क्षिपति द्रुतम् ।मोहतृष्णा चाऽर्जनाख्ये प्रवासे क्षिपति द्रुतम् ॥३९॥क्रोधतृष्णा विवादाख्ये क्लेशे क्षिपति प्राणिनम् ।मदतृष्णाऽहंममत्वक्लेशे क्षिपति देहिनम् ॥४०॥जनकीटपतंगानां विषयाः सर्वथा समाः ।अधिकायासमग्ना ये ते विनाशाय यन्ति वै ॥४१॥दूती राजानमासाद्य नैजं जयं समिच्छति ।दूता दूत्यः समा बोध्याः सदेहा वाऽप्यदेहिनः ॥४२॥नैजं जयं समिच्छन्ति पराभवं तु भूभृतः ।मूर्खो मुग्धो न जानाति निजाऽन्ताऽऽमन्त्रणाविमान् ॥४३॥श्रेष्ठी जानाति वै लाभं कुसीदात्मकमुत्तमम् ।शठो जानाति च धनं मूल देयं न वै क्वचित् ॥४४॥कुसीदं चापि च मूलान्न्यूनं देयं न वै समम् ।ततो नादानता ख्याप्याऽऽगृह्य चापि पुनः पुनः ॥४५॥एवं शठस्तु जयति श्रेष्ठी संह्रियते सदा ।शठा वै भुञ्जते श्रैष्ठ्यं श्रेष्ठी शठाँश्च लम्बते ॥४६॥लम्बमानः पतत्येव निर्लम्बे पतनं कुतः ।धावमानः पतत्येव निषण्णे पतनं कुतः ॥४७॥योद्धा नश्यति युद्ध्यँश्च भोगान् कृत्वा मृषासमान् ।मग्नः प्राणान् विमुञ्चेत् सन्तरन् प्राणान्न मुञ्चति ॥४८॥यदर्थं युद्ध्यते यद्वा यदर्थं च निमज्जनम् ।यदर्थं पतनं तद्वै कियन्ममेति चिन्तयेत् ॥४९॥एवं विवेकः कर्तव्यो राज्ञा वा प्रजया प्रिये ।स्वदेहेन्द्रियराज्यस्य राजा क्रोडोऽपि वर्तते ॥५०॥कीटाद्याः सर्व एवैते राजानः स्वकृतौ मताः ।गृहे तिष्ठन्ति मनुजास्ताननादृत्य कीटकाः ॥५१॥कुर्वन्ति निलयं भित्तौ लूताः कोणेषु जालकान् ।चक्रवाका नलिकाधोभित्तिछिद्रेषु चाऽऽलयान् ॥५२॥मूषका गृहनालेषु भूमौ कीटा वसन्ति च ।काकाः पारावताश्चोर्ध्वं गृहोच्छ्रये वसन्त्यपि ॥५३॥कस्येदं वै गृहं ज्ञेयं यत्सर्वैर्भुज्यते समम् ।मन्यन्ते तु बलात् स्वान् वै ते सर्वे गृहस्वामिनः ॥५४॥मुग्धाश्चापि भवन्त्येव गृहनाशे तु तेऽखिलाः ।यस्य यादृङ्ममत्वं च दुःखं तादृक् तदीयकम् ॥५५॥अहंममताहीनस्य परगृहाधिवासिनः ।मूषिकागृहवासस्य निर्बन्धस्य च भोगिनः ॥५६॥गृहनाशेऽपि शोकांशो नागस्येव न जायते ।एवं जानाति चेद् राजा कथं नाशाय वै स्वयम्॥२७॥मिषमुद्भाव्य जायेत राजधर्मं मृषा विदन् ।राधिके! सर्वथा सर्वं मृषा वै क्लेशदं मतम् ॥५८॥मृषा तु परिहर्तव्यं सत्यं ग्राह्यं सुवेदिना ।विनाशार्थं न योद्धव्यं योद्धव्यं शाश्वतार्थकम् ॥५९॥विषयार्थं च देहार्थं युद्ध्यन्ति पशवोऽपि तु ।अज्ञाना ज्ञानिनां युद्धं तदर्थं तु समं भवेत्। ॥६०॥ज्ञानिनो ज्ञानमासाद्य युद्ध्यन्ति विषयाय चेत् ।ज्ञानं तत् तुषतुल्यं वै कणहीनं च निष्फलम् ॥६१॥राजा यद्वा प्रजा वापि देवो वा मानवोऽपि वा ।विषं यातीति विषयः आत्मा तत्र विषायते ॥६२॥विसिन्वन्तीति विषयाः स्वेषु बध्नन्ति ये मतिम् ।तादृङ्मत्याश्रितश्चात्मा विषयीति निगद्यते ॥६३॥चित्रकेतोः पुरा कोटिस्त्रियस्त्वासंस्तथापि सः ।तृष्णां भोगेन सिञ्चन्वै तृप्तिं नाऽवाप चान्ततः ॥६४॥कोट्यर्बुदानि मे पत्न्यो मद्वियोगं न सेहिरे ।कोट्यर्बुदस्वरूपैश्च भोगस्ताभ्योऽर्पितोऽनिशम् ॥६५॥मयैवं दीयमानेऽपि सर्वदाऽऽनन्दशेवधौ ।न तास्तृप्ता मया ज्ञाताः कदाचित् क्षोभयोगतः ॥६६॥ययातिर्नहि सन्तृप्तो वव्रे तु यौवनं सुतात् ।नहुषोऽपि न सन्तृप्तो पौलोम्यामकरोन्मनः ॥६७॥नरनारायणौ तृप्तौ सदाऽऽसेते तपःस्थितौ ।दत्तात्रेयश्च कपिलो लोमशः सनकादिकाः ॥६८॥नित्यतृप्ता न वाञ्च्छन्तीन्द्रियसाहाय्यमल्पकम् ।सती तृप्ता सदा शंभुं विना नाऽन्यं समिच्छति ॥६९॥सन्तः साध्व्यः सदा तृप्ता हरौ मुह्यन्ति नेतरे ।यदर्थं यतते देही स देहो यदि नश्यति ॥७०॥यत्नः कीदृक् स वै प्रोक्तो वृश्चिकीबालसदृशः ।येनाऽयं शोभते राजा तद्राष्ट्रं यदि नश्यति ॥७१॥कीदृग् राज्यं कृतं तेन कार्पासेऽग्निकणादिवत् ।दिव्यास्ताराः पतन्त्येव पश्यन्ति नित्यमक्षिभिः ॥७२॥स्वेषां पातं न पश्यन्ति शाखास्था मूलघातिनः ।देयं दूरं कृतं येन लेयं येन धृतं पुरः ॥७३॥इष्टं स्वल्पं बह्वनिष्टं लेयं द्वेधा स एष्यति ।लेयं दूरं कृतं येन देयं येनाग्रतः कृतम् ॥७४॥इष्टं फलं तु विपुलं तस्याग्रे स्वयमेष्यति ।राधिके! त्वेकदा विश्वावसुः कन्याशतत्रयम् ॥७५॥स्वयंप्रकाशऋषयेऽर्पयितु स समाययौ ।ननाम परया प्रीत्या सूर्याभं मुनिसत्तमम् ॥७६॥अवाप्य स्वागतं विश्वावसुः प्राह मनोगतम् ।ऋषे भवान् महायोगी वर्ततेऽनेकरूपधृक् ॥७७॥ऊर्ध्वरेतास्तथा चास्ते कृष्णनारायणानुगः ।एतत्कन्याशतान्यत्र तव योग्यानि सन्ति हि ॥७८॥गृहाण तासां परमं श्रेयः स्याद् यदि मन्यसे ।तेजस्विनां न दुर्धर्षं लालनं पालनादिकम् ॥७९॥स्वयंप्रकाशस्तं प्राह सत्यं ते मानसं तु यत् ।कन्याश्रेयो विधातव्यं पितॄणां धर्म एष वै ॥८०॥योग्याय तु प्रदातव्या तदिच्छाशालिने सदा ।अनिच्छवे तु तद्दानं कन्याक्लेशाय जायते ॥८१॥अहमनिच्छुः कन्यानां देह्यन्यस्मै महर्षये ।अहमात्मा द्वन्द्वहीनो द्वेहो द्वन्द्वभरोऽधिकः ॥८२॥प्रातः सायं मध्यसूर्ये मध्ये च प्रहरादिके ।मूत्रं मलं तथा लालां लिट्रूपं स्वेदमित्यपि ॥८३॥ष्ठीवनं छिक्कनं वायुसरणं मेहनादिकम् ।अकस्मात् प्रकटीत्य स्ववशं मां करोति हि ॥८४॥तस्य सेवा प्रशुद्ध्यर्थं मया निर्वर्त्यते सदा ।परिश्रमस्य शान्त्यर्थं प्रस्वापो दीयते मया ॥८५॥याने च भोजने पाने होमे जपे तथाऽऽसने ।पार्श्वभावे स्थितौ वक्रीभावे वा गमनादिके ॥८६॥परिश्रमं परं प्राप्य गुरुर्भवत्यभीक्ष्णशः ।तच्छान्त्यर्थं न मे कालश्चाधिकः समपद्यते ॥८७॥भवत्त्रिशतकन्यानां कृते गान्धर्वराट् कुतः ।समयं प्राप्य सेवाद्यैः प्रीणयेयं सुखार्थिनीः ॥८८॥एकदेहस्य सेवां वै कर्तुं न पारयामीह ।शतत्रयैकदेहानां सेवनं पारये कुतः ॥८९॥तस्मान्मया न चेष्टव्या दातव्या न त्वयाऽनघ ।अपूर्णं ब्रह्म तद् बोध्यं यदन्यस्मात् सुखेषणा ॥९०॥पूर्णं ब्रह्म तु तद् बोध्यं यदात्मानन्दपूर्णता ।परेभ्यः सुखलौल्येन प्रवर्तन्ते तदाप्तये ॥९१॥मध्ये एव विनश्यन्ति सामुद्रमौक्तिकेहुकाः ।ततो विश्वावसुः कन्याशतत्रयं तु शार्ङ्गिणे ॥९२॥अनादिश्रीकृष्णनारायणाय प्रददौ तदा ।निरञ्जनाय कृष्णाय पुमुत्तमाय भावतः ॥९३॥ताः सर्वाः श्रीपतिः कृष्णो ददौ लोमशकालये ।रक्षितुं चाज्ञया दिव्यो लोमशस्ता ररक्ष ह ॥९४॥तस्माज्ज्ञानयुता नैव सज्जन्ते क्लेशमूर्तिषु ।राधिके! धनदारश्रीराज्याद्याः क्लेशमूर्तयः ॥९५॥तत्राऽऽसक्तस्य तु राज्ञो जुमासेम्लाभिधस्य वै ।सर्वनाशः समुत्पन्नः प्रतीक्षते क्षणान्तरम् ॥९६॥कदा विमानं गृह्णामि स्पृशामि कन्यकाः कदा ।कदा विमानमारुह्य पृथ्वीं वशे करोम्यपि ॥९७॥इत्यभूद् बहुधा तृष्णा सा न जीर्यति जीर्यतः ।भूत्वा युवती राजानं प्रचकर्ष प्रमन्त्रणे ॥९८॥राजा चाज्ञापयामास सैन्याधिपाँस्तदा मुहुः ।विचारार्थं विनाशस्य विमानस्य वशस्य वा ॥९९॥मन्त्रणाबोधकं शीघ्रं बिगुलं समनादयत् ।निर्धारिताश्च वै सैन्याऽधिपास्तूर्णं समाययुः ॥१००॥यानं नाशयितव्यं वा वशीकर्तव्यमेव वा ।तदुपायान् रचयन्तु रक्षकाऽनलनाशकान् ॥१०१॥अन्तिमो रणसंग्रामश्चाऽयं कार्यो हिताऽहितः ।वयं स्मो वा, न वा स्मो वा, भेतव्यं नात्र धीवरैः ॥१०२॥इत्युक्ता मन्त्रयामासुः रक्तवार्ध्यादयोऽसुराः ।द्व्यशीतिसंख्यकाः शूरा ये युद्धे न हताश्च ते ॥१०३॥दूरतः सैन्यवाहाश्च सैन्ययोधनदर्शकाः ।सैनापत्यपदभूषा विचारं त्वाचरँस्तदा ॥१०४॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीकृष्णराधिकाकृतविवेकाविवेकादिविज्ञानवर्णननामा द्विपञ्चाशत्तमोऽध्यायः ॥५२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP