संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २९६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २९६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २९६ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके यत्र भगवान् समुवाह च मण्डपे ।कन्यकास्तत्र वै तीर्थमुद्वाहसंज्ञकं सदा ॥१॥वरणायां तथा कोटितीर्थं मोक्षप्रदं शुभम् ।कोट्यर्बुदाऽब्जरूपेण भगवांस्ता गृहीतवान् ॥२॥तदा शिवपुरं तीर्थं पार्वतीपत्तनं तथा ।मण्डपाख्यं यज्ञतीर्थं सारभूतलमुच्यते ॥३॥पंचम्यां त्रिप्रहरान्ते विदायं शंकरो ददौ ।कृष्णपक्षसमस्तेभ्यो बहुद्रव्याणि सन्ददौ ॥४॥कृष्णस्य पूजनं चक्रे पितुश्चापि क्षमापनम् ।महीमानादिवर्गाणां न्यूनसेवाक्षमापनम् ॥५॥अर्थयामास सगलत्कण्ठो वै शिवराट् स्वयम् ।शिवछत्रोऽपि राजाऽसौ क्षमां तदाऽऽर्थयन्मुहुः ॥६॥भोज्यपानादिकं श्रेष्ठं प्रपक्वान्नं घृताक्तकम् ।पाथेयं प्रददौ चापि रक्षकप्रापकार्थकम् ॥७॥यौतकं च न्यधात् सर्वं श्रेष्ठे विमानके हरः ।वैमानिकं ददौ चापि गणं विमानवाहकम् ॥८॥अथ वाद्यान्यवाद्यन्त विदायसूचकानि तु ।यन्त्रशब्दा अजायन्त गीतिशब्दाः शुभास्तदा ॥९॥शिवेश्वरो मिमेलाऽपि गोपालं कृष्णकं हृदा ।क्षमापनीयः सेवायां न्यूनत्वेहमुवाच ह ॥१०॥आगन्तव्यं निजं मत्वा गृहं मां च कुटुम्बकम् ।पुत्री च भवदीयेति मत्वा रक्ष्या हि मानद ॥११॥कुशलं लेखनीयं च प्राप्य कुंकुमवापिकाम् ।तद्भातृभ्यो लक्ष्मिणश्च कुटुम्बिजनतस्तथा ॥१२॥भाववद्भ्यस्तथा भ्रातृपुत्रेभ्यः सकलो हरिः ।देवमयसमस्तेभ्यः क्षमामयाचतेश्वरः ॥१३॥अक्षरान्मुक्तवृन्दाश्च वासुदेवात्तथा क्षमाम् ।प्रद्युम्नादनिरुद्धाच्च भून्मश्चापि विराजकात् ॥१४॥अवतारसमस्तेभ्यो नारायणान्नरात्तथा ।विष्णोश्चापि महाविष्णोर्ब्रह्मणः शंकरात्तथा ॥१५॥अर्यम्णश्च सनत्कुमारादिभ्यश्च सतस्तथा ।मुनिसाधुदेवदेवीर्नारीभ्योऽयाचत क्षमाम् ॥१६॥नृपविप्रलोकपालदिक्पालदेवधिष्ण्यगात् ।मानवेभ्यो बालकृष्णसम्बन्धिस्त्रीभ्य इत्यपि ॥१७॥क्षमामयाचताऽथाऽपि योग्यं विदायकं ददौ ।नागलोकगतेभ्यश्च भूसंस्थसर्वदेहिनः ॥१८॥सौराष्ट्रीयनरनारीभ्योऽयाचतेश्वरः क्षमाम् ।विदायं जलपानं च मिष्टमिष्टं सुमस्रजः ॥१९॥ददावेभ्यः शिवस्वामी मिमेल वक्षसा च तान् ।पूज्याऽऽर्याभ्याः क्षमामयाचत हस्ताञ्जलिर्हरः ॥२०॥शिवा च पार्वती देवी सर्वा मातॄस्तदा द्रुतम् ।कंभरां श्रीं नमस्कृत्य क्षमां ताभ्योऽभ्ययाचत ॥२१॥अन्या आर्याः समर्च्यैव नत्वा दीनस्वभाविनी ।क्षमामयाचताऽभ्यो वाग्दोषात्मिकां च सेवने ॥२२॥वस्तुदाने रक्षणे च मानने स्वागते तथा ।भोजने स्वापने पाने न्यूने क्षमामयाचत ॥२३॥मम पुत्री तव पुत्री मातस्तां त्वं प्ररक्षय ।वृत्तान्तं च क्वचित् हृद्यं सम्प्रेषय सुवत्सले ॥२४॥वधूटीभ्यः क्षमामयाचत रक्षत नैजिकीम् ।लक्ष्मीं चेति समुवाच विदायं तूचितं ददौ ॥२५॥पुष्पहारान् ददौ चापि जलपानादिकं ददौ ।शिवछत्रोऽपि च तदा क्षमां वरमयाचत ॥२६॥शिवेश्वरोऽपि च तदा क्षमां वरमयाचत ।शैवछत्री नृपी क्षमां कम्भराया अयाचत ॥२७॥कान्ताः सर्वा मातापितॄन् नेमिरे चाश्रुलेक्षणाः ।जयाद्याश्चन्द्रपालाद्यास्तेऽपि क्षमामयाचिरे ॥२८॥॥ज्येष्ठाऽशोका स्वसा लक्ष्म्याः ननान्दृतस्तदा द्रुतम् ।सन्तोषाया वरस्वसृतः क्षमामप्ययाचत ॥२९॥भातृजायाः क्षमामयाचिरे स्त्रियोऽपरास्तदा ।एवं परस्परं नार्यः क्षेमं च कुशलं नराः ॥३०॥पृष्ट्वा दत्वा विदायं च पुष्पहारान् ददुर्मिथः ।कन्यापक्षा महीमाना श्रीकृष्णाद्यास्ततः परम् ॥३१॥संकर्षणस्तथा रुद्रः शंकरः शेष इत्यपि ।महाकालो यमश्चापि यक्षेशो भूतभैरवाः ॥३२॥स्कन्दो गणेशो नन्दी च वीरभद्रादयस्तथा ।कोटिकोट्यधिकाः सर्वे तथा चण्ड्यादिशक्तयः ॥३३॥बालकृष्णात् कांभरेयात्तथा गोपालकृष्णतः ।वासुदेवाद्व्यासदेवात् कपिलाच्च नरायणात् ॥३४॥विष्णोर्धर्माद् विराजाच्च क्षमां तदा ययाचिरे ।कुशलं च सुखं क्षेमं स्नेहभावं ययाचिरे ॥३५॥राधा लक्ष्मीः सती दुर्गा सरस्वती नरायणी ।कमला ऋषिपत्न्यश्च देव्यश्च गणिकास्तथा ॥३६॥गणाश्च सेवकाश्चापि कंभरामातरं तदा ।महालक्ष्मीं तथा लक्ष्मीं सावित्रीं वैष्णवीं तथा ॥३७॥सूर्यं चन्द्रं वसून् साध्यान् संज्ञां च रोहिणीं तथा ।नत्वाऽऽभ्योऽयाचन् क्षमां तु देवीर्देव्यः सुखं च शम् ॥३८॥विदायं प्रददुश्चापि पुष्पहाराऽक्षतादिकम् ।एवं सर्वे महीमानाः सृष्टित्रयनिवासिनः ॥३९॥नरा नार्यो मिलित्वैव क्षमां मिथो ययाचिरे ।श्रीहरये च कान्ताभ्यश्चाशीर्वादान् ददुस्तदा ॥४०॥सज्जा बभूवुः सर्वे वै स्वस्वपक्षा नराः स्त्रियः ।कृष्णः कान्ताश्चोपविष्टुं यदा विमानमाययुः ॥४१॥मातापितृपदे न्यस्य मस्तकानि च कन्यकाः ।क्षणं तु रोदनं चक्रुस्तदा स्नेहवियोगजम् ॥४२॥जानक्याद्या मातरश्च कन्याः कृत्वा स्ववक्षसि ।मुमुचुश्चाश्रूणि चैव सिषिचुर्नेत्रजैर्जलैः ॥४३॥जीवामश्च कथं पुत्र्यो वो विना प्राणदुर्लभाः ।नो गृहाच्छ्रीबालकृष्णगृहं याथ हि वत्सिकाः! ॥४४॥इत्युक्त्वा पुत्रिका नैजा न्यषादयन् विमानके ।पितरोऽपि तदा धैर्यं ददुर्न्यषादयन् सुताः ॥४५॥मुमोचाऽप्यश्रूणि स्वामी बालकृष्णोऽपि मायया ।विमानं चारोहयामास श्रीगोपालकृष्णकः ॥४६॥पुत्रं कान्ताः कुटुम्बं च तदा शिवादयः खलु ।विशिष्टं यौतकं चाप्यर्पयामासुः समुत्सुकाः ॥४७॥गजाँश्च तुरगान् दासीः किंकराँश्च सुवर्णकम् ।रत्नान्यमूल्यभूषाश्च पात्राणि सुरभीस्तथा ॥४८॥अम्बराण्यासनोपकरणान्यपि शुभानि च ।सज्जाः सर्वे निजपक्षाः पुष्पहारादिपूजिताः ॥४९॥आरुरुहुर्विमानानि नैकोऽप्यत्राऽवशिष्यते ।तत्र भेरीनिनादश्च गतेरश्रूयतोत्तमः ॥५०॥वादित्राणां निनादैर्मिश्रितो व्यङ्गुलनादनैः ।जयारावैर्वर्धितश्चाऽव्याप्नोत् समन्ततस्तदा ॥५१॥द्रुतं सर्वाण्यपि विमानानि कामगमानि वै ।व्योम्ना ययुः सुखं पश्चिमां दिशं वै सहस्रकम् ॥५२॥आगन्तव्यरवास्तत्राऽजायन्त शिवयोगिनाम् ।शिवस्वामी तदा कृष्णनरायणात् परेश्वरात् ॥५३॥अप्रार्थयद् द्रुतं नैजामन्तिमां जन्ममोक्षिकाम् ।कदा नाथ कृपासिन्धो चास्मान् सम्मोक्षयिष्यसे ।जातिस्मरोऽस्मि देवेश लक्ष्मीर्लब्धा त्वया तव ॥५४॥श्रीबालकृष्ण उवाच -वर्षोत्तरं मोक्षयिष्ये स्मर मां हृदयेऽन्वहम् ।आमन्त्रयामि सर्वाश्चाऽऽगन्तव्यं मे जनुर्दिने ॥५५॥कुंकुमवापिकाक्षेत्रे चोर्जकृष्णाष्टमीदिने ।ततो मनोरथं शंभो पारयिष्ये तवाऽर्थितम् ॥५६॥इत्युक्त्वा भगवान्नैजं विमानं चैरयत्तदा ।शिवेश्वरश्चाऽऽप्रयागं नैजविमानकेन वै ॥५७॥काशीराजस्तथा कृष्णः संकर्षणादयोऽपि च ।प्रहितुं प्रययुश्चापि पीत्वा त्रिवेणिकाजलम् ॥५८॥न्यवर्तन्त ततः सर्वे प्रावर्तन्त पुरोऽम्बरे ।इन्द्रप्रस्थवनं व्योम्नो दृष्ट्वा वीक्ष्य सरस्वतीम् ॥५९॥आनर्त्तं चाययुः क्षेत्रं कुंकुमवापिकाऽक्षरम् ।सायं प्रापुश्चाऽश्वपट्टसरस्तीरं विशालकम् ॥६०॥तदा वाद्यान्यवाद्यन्त जयशब्दाश्च खेऽभवन् ।भूतले जनताशब्दा जयबोधास्तदाऽभवन् ॥६१॥शावदीना महाकाली क्षेत्रपा मुमुदे तथा ।वारिनरः क्षेत्रपालो मुमुदे च जगर्ज च ॥६२॥जयनादान् प्रचक्रुश्च देवास्तीर्थानि पादपाः ।मण्डपाख्यस्तथा मुक्तो भूमिपाश्च समागताः ॥६३॥प्रजा जयनिनादाँश्च प्रचक्रुश्चातिहर्षिताः ।यात्रिका जयनादाँश्च चक्रुस्तदा प्रवीक्ष्य खम् ॥६४॥दर्शनार्थं प्रजाः सर्वा दुद्रुवुरम्बरदृशः ।हरिं प्रसस्मरुश्चापि हरिणीः सस्मरुस्तथा ॥६५॥अवतेरुर्विमानानि सहस्रं व्योममार्गतः ।यथावकाशं भूमौ तु हरेर्विमानमित्यपि ॥६६॥पश्चिमे शोभने भागेऽवाततार सुशोभनम् ।श्रीमद्गोपालकृष्णश्चाऽवतीर्य सर्वसंगतः ॥६७॥प्रविश्य स्वपुरीं रम्यां कारयामास मंगलम् ।वाद्यानि वादयामास द्रुतं मनोहराणि वै ॥६८॥कम्भरा चामरीदेव्यस्तथाऽन्या योषितस्तदा ।लक्ष्मीं तस्याः सखीः सर्वा विलोक्य सत्वरं तदा ॥६९॥अक्षरब्रह्मणा तत्र स्वस्मान्नवं विनिर्मितम् ।कोट्यर्बुदाब्जकन्यानां कान्तानां भिन्नवेशनम् ॥७०॥ब्रह्मप्रियापत्तनं च प्रभुं श्रीकृष्णमीश्वरम् ।चतुःकोटिचतुर्लक्षषट्पञ्चाशत्सहस्रकाः ॥७१॥कान्ताः प्रवेशयामासुर्लक्ष्मीं चाभ्युदये क्षणे ।मंगलं कारयामासुः प्रवेशविधिपूर्वकम् ॥७२॥गणेशादेः पूजनं च मण्डपस्य प्रपूजनम् ।गुरोश्च पूजनं यूपपूजनं देवतार्चनम् ॥७३॥विप्राद्यैः कारयामासुर्जलपानं ददुस्ततः ।महीमाना महामण्डपोत्तमे जग्मुरेव ह ॥७४॥ततो गोपालकृष्णो वै भोजनानि निशागमे ।कारयामास सर्वांश्च महीमानान् प्रजा अपि ॥७५॥सर्वान् दासान् दासिकाश्च क्षेत्रपान् कर्मचारिणः ।हरिणीर्बालकृष्णं च भोजयामास कंभरा ॥७६॥चतुर्विधं भोजयित्वा मुक्तानीशान् सुरादिकान् ।महीमानान्नरान्नारीर्मुनीन्नृपाँश्च बान्धवान् ॥७७॥सृष्टित्रयनिवासाँश्च विप्रान् भट्टान् निजान् परान् ।ताम्बूलादि प्रदायैव परिहारं चकार ह ॥७८॥धनं च दापयामास विप्रेभ्यो दक्षिणास्तदा ।सुरत्नानि विचित्राणि धनान्यपि बहूनि च ॥७९॥मंगलं कारयामास गोपालः कृष्णरंजनम् ।भुक्त्वा विश्रान्तिमापुश्च प्रस्वापं लेभिरे ततः ॥८०॥युवत्यो बालकृष्णस्य प्रतिस्त्रीरूपयोगिनः ।प्रतिगृहं प्रचक्रुश्च सेवनं नवहर्षिताः ॥८१॥अविप्लुतमहासत्त्वमहावीर्यः परेश्वरः ।परब्रह्मनिजानन्दं ददौ ताभ्यो ह्यसीमकम् ॥८२॥महानन्दसमाधौ मूर्छिताः क्षणेन सदृशीम् ।निशां बुबुधुः कामिन्यो कान्तकृतां युगायिताम् ॥८३॥राधिके रासरात्रिर्मे तस्या अग्रे लवायते ।परेशस्य तु सामर्थ्यं केनापि नैव पार्यते ॥८४॥अथ श्रीशिवदेवाऽद्याः प्रयागात्प्रययुर्गृहम् ।वर्णयन्तो गुणान् स्वेषां सम्बन्धिपारमेश्वरान् ॥८५॥धन्यभाग्यान्यमन्यन्त कृष्णाद्या अपि माधवाः ।पार्वतीपत्तनं गत्वा सर्वेऽपि बुभुजुस्ततः ॥८६॥पानताम्बूलकं लब्ध्वा सुष्वुपुः सुखनिद्रया ।षष्ठ्या प्रातर्विनिद्राश्चाभवन् मंगलवाद्यकैः ॥८७॥कृतस्नानार्हणाः सर्वे दुग्धपानं व्ययधुस्ततः ।भोजनानि प्रचक्रुश्च मिष्टान्नपायसानि च ॥८८॥जलपानानि जगृहुस्ताम्बूलकानि वै तथा ।मध्याह्ने च प्रलेभुस्ते विश्रान्तिं च ततः परम् ॥८९॥सम्मिलित्वा नरा नार्यः सम्बन्धिनः सुहृज्जनाः ।गोप्य ईशान्यश्च सत्यः साध्व्यो देव्यस्तथाऽऽर्षिकाः ॥९०॥मानव्यश्च सुराण्यश्च गण्यश्च फणिकास्तथा ।भूत्यश्चापि तथाऽन्याश्च गणाश्च पार्षदास्तथा ॥९१॥गोपाश्च कुशलं क्षेमं न्यूनसेवाक्षमापनम् ।परस्परं समभ्यर्थ्य शिवेश्वरश्च पार्वती ॥९२॥क्षमां तु महीमानानां याचित्वाऽथ विदायकम् ।ददतुश्च यथायोग्यं तथोचतुस्तदा खलु ॥९३॥भवतां चागमैः सर्वविधिः सुशोभनोऽभवत् ।सर्वेषामुपकार्योऽस्मि क्षन्तव्यो मेऽपराधकः ॥९४॥गिरिजाऽपि सतीभ्यश्च क्षमामयाचताऽपि वै ।पुनश्चागन्तव्यमत्राऽपि कृपा कार्या सदा मयि ॥९५॥इत्युवाच ततो विदायकं धनादिकं ददौ ।पुरुषान् वै शिवस्वामी पूजयामास हारकैः ॥९६॥नारीवर्गान् हिमपुत्री तथाऽशोककुमारिका ।पूजयामासतुश्चापि विदायं ददतुस्तथा ॥९७॥भूषाम्बराणि पात्राणि साधनान्युत्तमान्यपि ।ततश्चक्रे परिहारं महीमानाश्च वै ततः ॥९८॥सज्जा भूत्वा विमानानि चारुरुहुः समस्तकाः ।श्रुत्वा गमनवाद्यानां घोषान् व्योम्नि द्रुतं तदा ॥९९॥गमयामास सहसा विमानानि समन्ततः ।यथामार्गं ययुः सर्वे शिवराजस्ततः खलु ॥१००॥आज्ञापयामास गणान् चक्रुस्ते परिहारकम् ।शिवपुरं मण्डपं च पार्वत्यानगरं तथा ॥१०१॥कैलासं सहसा तिरोऽभावयन्नतिवेगतः ।शिवेश्वरः शिवछत्रः पारितोषिकमुत्तमम् ॥१०२॥कर्मचारिभ्य एवापि ददतुश्च यथोचितम् ।विश्रान्तिं चावायतुश्च स्मरन्तौ कृष्णमीश्वरम् ॥१०३॥अनादिश्रीकृष्णनारायणं च भेजिरे सदा ।राधिके लोकरीत्यैव लोकेशाश्चाचरन्त्यपि ॥१०४॥पाथेयानि चोत्तमानि प्रार्पितानि दिनान्तरे ।प्राघूणिकेभ्य एवैते प्रशंसन्तो ययुर्गृहान् ॥१०५॥विदायं बहुमानं च गृहीत्वा यश उत्तमम् ।शिवशक्तिप्रेरिताश्च ययुर्नैजालयानिति ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रोद्वाहतीर्थं कोटितीर्थं यज्ञतीर्थं, महीमानानां विदायं, मिथः क्षमायाचना, वियोगे शोकः, विमानानां प्रगमनं, कुंकुमवापिक्षेत्रागमो दानं मंगलं गृहप्रवेशो भोजनानि नागरीणामानन्दविहारानिद्रादि चेतिनिरूपणनामा षण्णवत्यधिकद्विशततमोऽध्यायः ॥२९६॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP