संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १५६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १५६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५६ Translation - भाषांतर श्रीकृष्ण उवाच-ततः श्रीभगवानाह देवायतनकाय यत् ।स्नानविध्यादिकं सर्वं तद् राधे कथयामि ते ॥१॥गुरुः स्नानस्य शालायां कृत्वा तु वेदिकात्रयम् ।कृत्वोत्तरोत्तरं चाथ स्नपनद्रव्यसंभृतिम् ॥२॥कृत्वा च पञ्चगव्येन भूमिं संप्रोक्ष्य वेदिकाः ।वालुकायुक्तवेद्यां वै दक्षिणायां तदाऽक्षतैः ॥३॥स्वस्तिकं तु समुल्लिख्य भद्रपीठं विधाय च ।पश्चाच्च वेदिकायास्तु कलशान् षड् निधापयेत् ॥४॥वारिपूर्णान् पल्लवाढ्यान् तथा पञ्चाऽपरानपि ।मृत्पल्लववृक्षीयकषायगोमूत्रगोमयैः ॥६॥भस्मगन्धोदकैर्भृत्वा पञ्चदेवप्रसंज्ञकान् ।उदक्संऽस्थपंक्तिरीत्या घटान् निधापयेत् ततः ॥६॥अन्त्यस्थपतिकलशम् वेद्याः पश्चे ह्येकादश ।स्थाप्यैतान् भद्रपीठस्योत्तरवेद्यां घटाष्टके ॥७॥परितः पूर्वक्रमशः क्षीरं दधिं घृतं सुराम् ।इक्षुरसं दूर्वोदकं दर्भोदकं निधाय च ॥८॥हिरण्यगर्भादिमन्त्रैर्विन्यस्येत् तद्घटाष्टकम् ।ततोऽन्ये पश्चिमे वेद्या दश मृतिकया क्रमात् ॥९॥गोमूत्रेण गोमयेन भस्मना पञ्चगव्यकैः ।क्षीरेण दध्ना घृतेन मधुना खण्डया युताः ॥१०॥घटाः स्थाप्यास्तथा तत्र चतुर्दशघटाः पुनः ।शुद्धजलैर्भृताश्चान्येऽप्यथ पञ्चत्रिंशद्घटाः ॥११॥स्थापनीयास्तेषु मध्ये पञ्च पञ्चामृतैर्युताः ।पञ्चजलयुताश्चाथ पञ्च पत्रकषायिणः ॥१२॥पुनर्दश क्रमात् पुष्पैः फलै सौवर्णवारिभिः ।गवां शृंगोदकैश्चापि धान्यैः सहस्रछिद्रकैः ॥१३॥सर्वौषधिभिश्च पञ्चपल्लवैदूर्वया तथा ।नवरत्नैर्युता कार्या अविशिष्टा दशाऽथ तु ॥१४॥पूरणीया स्वच्छवारिभिः कदम्बादिपल्लवैः ।तत्राऽऽवाह्य लोकपालान् आजिघ्रकलशं धरेत् ॥१५॥कादम्बं शाल्मलीपत्रं जाम्बवं चाऽप्यशोकजम् ।प्लक्षपत्रमुदुम्बरदलं वटदलं तथा ॥१६॥बिल्वपत्रं नागवल्लीपत्रं पलाशपत्रकम् ।तथाऽन्यान्यपि वस्तूनि सूक्ष्मवस्त्रं सुगन्धि च ॥१७॥सुतैलं यवचूर्णं चोद्वर्तनार्थं तथाऽपरम् ।सुगन्धामलकीचूर्णं जटामांस्यादिकं शुभम् ॥१८॥सर्वमासादयेत्तत्र वेदीमध्ये घटेषु च ।अन्त्यस्थपतिसंज्ञं च घटं तीर्थोदकान्वितम् ॥१९॥कृत्वा देवसमीपे च तीर्थान्यावाहयेज्जले ।गंगे च यमुने सरस्वति चेरावति तथा ॥२०॥मेनकांगे ब्रह्मपुत्रि नारायणि तथोरले ।कंगो नाये च वाल्गे चैमे कारुलिंगिके मकि ॥२१॥दीनाप् नीपे तथार्थे च नर्मदे गण्डकि हरे ।स्वर्णरेखे पुष्करं च मानसं चाश्वपट्टकम् ॥२२॥बालकृष्णं तथा नारायणं चापि सरोवरम् ।सागराश्चापि तीर्थानि विशन्त्वत्र घटे शुभाः ॥२३॥ततो जलेन देवं वै स्नापयेद् वेदमन्त्रकैः ।यजमानः प्रदद्याच्च शिल्पिभ्यः पारितोषिकम् ॥२४॥अथाचार्यो बलिं दद्यात् सिद्धार्थघृतपायसैः ।दिक्पालेभ्यः सर्वदिक्षु पूर्वादिक्रमतो बहिः ॥२५॥आचमनं प्रकुर्याच्च पूर्वे इन्द्राय वै बलिम् ।अर्पयामि दिशं रक्ष यजमानोदयं कुरु ॥२६॥आग्नेय्यामग्नये सांगायाऽर्पयामि बलिं नमः ।दक्षिणे यमदेवाय चार्पयामि बलिं नमः ॥२७॥नैर्ऋत्ये निर्ऋतये चार्पयामि बलिं नमः ।पश्चिमे वरुणायैवाऽर्पयामि च बलिं नमः ॥२८॥वायव्यां वायवे चार्पयामि बलिं च ते नमः ।उत्तरे च कुबेराय अर्पयामि बलिं नमः ॥२९॥ईशाने चेशदेवाय चार्पयामि बलिं नमः ।बलिं दत्वाऽऽचम्य देवं प्रस्नापयेद् विधानतः ॥३०॥अग्निर्मूर्द्धेति च मृदा यज्ञायेति कषायकैः ।गोमूत्रेण च गायत्र्या गन्धेति गोमयेन च ॥३१॥भस्मना मानस्तोकेति गायत्र्या गन्धवारिणा ।पञ्चदैवत्यकलशैः स्नापयेच्च ततः परम् ॥३२॥नमःशिवेतिचाद्येन हंसेतिद्वितीयेन च ।यातेति तृतीयेनापि विष्णोश्चतुर्थकेन च ॥३३॥ब्रह्मेति पञ्चमेनापि शुद्धोदकेन वै ततः ।पुष्पाक्षताद्यैः संपूज्याऽऽच्छाद्य पिताम्बरेण च ॥३४॥द्वितीयायां च वै वेद्यां भद्रासनं निधाय च ।प्रागग्रगान् कुशानास्तीर्य च देवं निधाय च ॥३५॥उदङ्मुखो महाचार्यः कुंकुमसूत्रकेण ह ।मूर्तिमावेष्ट्य च ततो हिरण्यगर्भमन्त्रतः ॥३६॥पात्रे मधुघृतं मिश्रिं मधुवातेतिमन्त्रयेत् ।ततो मधुघृताक्तां च शलाकां कानकीं धरेत् ॥३७॥ओं चित्रं देवानामुदगादनीकंचक्षुर्मित्रस्य वरुणस्य अग्नेः ।ओं अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहासूर्य्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ॥३८॥ओं अग्निर्वर्चो ज्योतिर्वर्चः स्वाहासूर्यो वर्चोज्योतिर्वर्चः स्वाहा ।ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहेतिकल्पयेत् प्रतिमायास्तु नेत्रके ॥३९॥ओं आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।हिरण्मयेन सविता रथेनादेवो याति भुवनानि पश्यन् ॥४०॥इत्यनेन पद्मपुटद्वये कुर्यात् कनीनिकाम् ।नेत्रोन्मीलनकाले न द्रष्टव्यं देवसन्मुखे ॥४१॥आदर्शस्वर्णभक्ष्यपायसफलानि दर्शयेत् ।सौम्या शुभा भवेद् दृष्टिर्देवस्य तु तथाकृते ॥४२॥शिल्पी शस्त्रेण च रेखामुल्लेखयेद् विधानतः ।गुरुरभ्युज्य मधुना घृतेनाभ्युक्ष्य मन्त्रतः ॥४३॥स्नापयेन्मृद्गोमयेन शस्त्रदोषनिवृत्तये ।स्वर्णपात्रशलाकादि वस्त्रादि शिल्पिनेऽर्पयेत् ॥४४॥गोदानं गुरवे चापि दत्वा कुण्डे हवं चरेत् ।दिक्पालेभ्यो बलिं दत्वा ब्राह्मणान् चतुरः शुभान् ॥४५॥भोजयित्वा दक्षिणादि प्रदत्वा तान् विसर्जयेत् ।इति नेत्राञ्जनं कृत्वा संकीर्त्य देशकालकौ ॥४६॥महास्नानं कारयेच्च देवस्य परमात्मनः ।भद्रासनात् प्रतिमामुत्थापयेन्मन्त्रकं गृणन् ॥४७॥ओं उत्तिष्ठ ब्रह्मणस्पते देवयंतस्त्वेमहे ।उपप्रयन्तु मरुतः सुदानव इन्द्र प्रासूर्भवा सचा ॥४८॥इत्युत्थाप्य भद्रं कर्णेभीति वेद्याम् उदङ्दिशि ।भद्रासने स्थापयित्वा पादपीठं प्रकल्पयेत् ॥४९॥ओं समुद्रेतिमन्त्रैश्च स्नापयेच्चतुर्भिर्घटैः ।दधिदूर्वाऽक्षताद्यैः सम्पूज्याऽऽरार्त्रिकमाचरेत् ॥५०॥नमस्तेऽर्चे सुरेशानि प्रकृते विश्वकर्मणः ।प्रभाविताऽशेषजगद्धात्रि तुभ्यं नमो नमः ॥५१॥त्वयि सम्पूजयामीशं नारायणं परात्परम् ।हरिताशेषदोषे त्वम् ऋद्धियुक्ता सदा भव ॥५२॥ततो दक्षे करे चौर्णसूत्रं वितस्तिमात्रकम् ।यदा वघ्नन्नितिमन्त्रैर्बध्नीयात्प्रणमेत्तथा ॥५३॥इदमापेतिमन्त्रैश्च प्रस्नापयेच्चतुर्घटैः ।अग्निर्मूर्द्धेति च मृदा ततः शुद्धोदकेन च ॥५४॥गोमयेन गोमूत्रेण भस्मना शुद्धवारिणा ।पञ्चगव्येन शुद्धाद्भिः क्षीरेण शुद्धवारिणा ॥५५॥दध्ना शुद्धजलेनापि मधुना च जलेन च ।शर्करया जलेनापि स्नापयेन्मार्जयेत्ततः ॥५६॥पञ्चामृतानां मन्त्राँश्चोच्चारयेत् स्नानकारकः ।यज्ञायेति सुगन्धेन तैलेन चाभियोजयेत् ॥५७॥ओं द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।पूतं पवित्रेणेवाऽऽज्यमापः शुन्धन्तु मैनसः ॥५८॥यवशालिगोधूमादिमसूरबिल्वचूर्णकैः ।उद्वर्त्य ओं यातेति च लिम्पयेद् यक्षकर्दमैः ॥५९॥कस्तूर्यंशद्वयं कुंकुमांशत्रयं शश्येककम् ।चन्दनांशत्रयं यक्षकर्दमः सोऽयमुच्यते ॥६०॥जटामांस्याऽनुसंलिप्य घटद्वयेन स्नापयेत् ।मानस्तोकप्रतद्विष्णुमन्त्रद्वयं समुच्चरेत् ॥६१॥पञ्चनद्य इतिपञ्चामृतेन च पृथकपृऽथक् ।तत्तन्मन्त्रेण संस्नाप्य शुद्धोदकेन वै ततः ॥६२॥गन्धोदकेन च पञ्चपत्रकषायवारिणा ।ओषधीकलशेनापि सितपुष्पोदकेन च ॥६३॥शान्तिघटोदकेनापि फलघटोदकेन च ।स्वर्णोदकघटेनापि हिरण्येतिमनुं गृणन् ॥६४॥ततः शृंगोदकेनापि ततो धन्योदकेन च ।सहस्रधाराकलशैः सर्वौषधीजलेन च ॥६५॥पत्रोदकेन च दूर्वोदकेन च रत्नवारिभिः ।तीर्थोदकेन च वार्धिघटैः संस्नापयेत्ततः ॥६६॥क्षारोदकेन च क्षीरकुंभोदकेन वै ततः ।दधिकुंभेन च घृतेनेक्षुरसेन वै ततः ॥६७॥सुरोदकेन च ततः स्वादूदकेन वै ततः ।नारिकेलजलेनापि लोकपालघटैस्ततः ॥६८॥कदम्बपत्रकुंभेन शाल्मलीकुंभकोदकैः ।जम्बूपत्रघटेनापि चाशोकपत्रवारिणा ॥६९॥प्लक्षपल्लवसलिलैश्चूतपत्रघटेन च ।वटपत्रोदकेनापि बिल्वपत्रोदकेन च ॥७०॥नागवल्लीदलेनापि पालाशपल्लवेन च ।रुद्राक्षवारिणा चापि संस्नाप्य चावमार्जयेत् ॥७१॥देवमावाहयेन्मन्त्रैरेहि चात्र स्थिरो भव ।यज्ञभागं गृहाणेमं परमेश नमोस्तु ते ॥७२॥हिरण्यपात्रपाद्यं च दद्यादर्घ्यं तथा शुभम् ।आचमनं चन्दनादि दद्यात्तथोपवीतकम् ॥७३॥वेदाहमेतमिति सूत्र युवास्विति तथाऽम्बरम् ।वेदाहेत्युत्तरीयं च इदं विष्णुः सुपुष्पकम् ॥७४॥धूरसीति ततो धूपं चन्द्रमा इति दीपकम् ।अन्नपते च नैवेद्यं करोद्वर्तनमाचमम् ॥७५॥ताम्बूलकं फलं यज्ञेनेति पुष्पाञ्जलिं तथा ।दत्वा च शिल्पिने पात्रवस्त्रादि सर्वमर्पयेत् ॥७६॥अन्नाधिवासनं कुर्यात् कोणे तु मण्डपस्य वै ।सप्तसु धान्यशृंगेषु देवानामुपवेशनम् ॥७७॥कृत्वा देवेश्वरं शय्यायां तु समधिवासयेत् ।ब्राह्मणादीन् भोजयेच्च द्वादश प्रीयतामिति ॥७८॥गोदानं च ततः कृत्वा प्रासादमुखदक्षगाम् ।कोणगां शयनीं कृत्वा स्तुत्वा देवमुत्थापयेत् ॥७९॥रथे त्वारोपयेच्चापि प्रादक्षिण्येन मन्दिरात् ।आनीय यागमण्डक्ष्मां निवेश्य द्वारि पश्चिमे ॥८०॥मध्यवेद्याः पश्चपीठे प्राङ्मुखं तं निधाय च ।दद्यान्मन्त्रैर्मधुपर्कं पुरुष एवेदमितिना ॥८१॥पाद्यं चार्घ्यं मधुपर्कं मन्त्रैर्दद्यात्ततः परम् ।मध्यवेद्यां धान्यपुञ्जे काष्ठशय्यां तु प्राक्शिराम् ॥८२॥आस्तीर्य शुक्लवसनेऽक्षतस्वस्तिकमालिखेत् ।प्रागग्रगान् कुशानास्तीर्य पूर्वादिषु पूजयेत्। ॥८३॥पूर्वे नमो विष्णवे दक्षे मधुसूदनाय च ।पश्चिमे त्रिविक्रमायोत्तरे वामनकाय च ॥८४॥आग्नेय्यां श्रीधरायेति ऋषिकेशाय निर्ऋतौ ।वायव्ये पद्मनाभायेशान्यां दामोदराय च ॥८५॥नमः सम्पूजयामीति ततस्तान् त्रिःपरिक्रमेत् ।देवं च शयने कृत्वा त्रिभिः पट्टदुकूलकैः ॥८६॥आच्छाद्य च शिरोदेशे निद्राकलशमान्यसेत् ।सहिरण्याम्बरम् आपोदेवीमन्त्रेण सन्न्यसेत् ॥८७॥आपो अस्मान्मातरश्चेतिमन्त्रैः प्रतिष्ठापयेत् ।आप्यायस्वेति मधुना घृतेनाऽभ्यंजयेत्ततः ॥८८॥या ते रुद्रेतिमनुनोपलिपेत्तैलसर्षपैः ।गन्धाद्यैरभ्यर्च्य सितं परिधानं समर्पयेत् ॥८९॥बृहस्पतेति मनुना करे दद्यात्तु कंकणम् ।विश्वतेति पादनाभिवक्षःशिरस्स्वालम्भनम् ॥९०॥पुरतः पादुके पार्श्वयोः शान्तिकुंभकौ तथा ।दक्षे छत्रं व्यजने च पुरतश्चासनं तथा ॥९१॥घण्टां भक्ष्यं जलं दर्पणादिकं स्थापयेत्ततः ।समन्ताद् भस्मना दर्भतिलैः प्राकारकत्रयम् ॥९२॥कृत्वा च मण्डपाद् बाह्ये लोकपेभ्योऽर्पयेद् बलिम् ।दिक्षु दत्वा वलिं कुण्डमागत्य होममाचरेत्। ॥९३॥ओं पराय विष्णवात्मने नमः स्वाहेदं विष्णवे ।अष्टोत्तरशतंहोमं कुर्यात् तिलयवादिभिः ॥९४॥न्यासान् कुर्याद् यथा यं पादयोः ऊं हृदये तथा ।मं ललाटे इति रीत्या मूर्तौ प्रणवमर्पयेत् ॥९५॥भूः पादयोर्भुवौ हृदि स्वर्भाले व्याहृतीर्न्यसेत् ।अं तालौ आं मुखे इं दक्षे ईं वामे च नेत्रके ॥९६॥उं दक्षे ऊं वामकर्णे कं दक्षिणगण्डके ।ऋं वामगण्डके लं दक्षिणनासापुटे तथा ॥९७॥लूं वामे नासिकापत्रे एं ऊर्ध्वे ओष्ठके तथा ।ऐं अधरोष्ठे ओं दन्तेषु औं दन्तेषु अधःसु च ॥९८॥अं ललाटे अः जिह्वायां यं त्वचि रं तु चक्षुषोः ।लं नासायां वं दशनेषु शं श्रोत्रयोः षं चोदरे ॥९९॥सं करौ हं हृदि क्षं नाभ्यां लं लिंगे न्यसेत्तथा ।पफबभम दक्षिणे बाहौ तंथंदंधंनं वामके ॥१००॥टंठंडंढंणं दक्षायां जंघायां चंछंजंझंञं वामायाम् ।कंखंगंघंङं चांगुलिषु मातृकान्यासमाचरेत् ॥१०१॥ओं रविचन्द्राभ्यां नेत्रयोर्भौमाय हृदये तथा ।स्कन्धे बुधाय जिह्वायां बृहस्पतये वै तथा ॥१०२॥लिंगे शुक्राय च शनैश्चराय तु ललाटके ।राहवे पादयोश्चापि केशेषु केतवे तथा ॥१०३॥रोहिणीभ्योऽपि हृदये मृगशिरसे मस्तके ।आर्द्रायै चापि केशेषु पुनर्वसवे भालके ॥१०४॥पुष्याय तु मुखे आश्लेषाभ्यो नासापुटे तथा ।मघाभ्यो दन्तवर्गेषु न्यासान् समाचरेत्तथा ॥१०५॥दक्षकर्णे तु पूर्वाफाल्गुनीभ्यो वामकर्णके ।उत्तराफाल्गुनीभ्यश्च हस्ताय हस्तयोस्तथा ॥१०६॥चित्रायै दक्षिणभुजे स्वात्यै च वामबाहुके ।विशाखानुराधाभ्यां स्तनयो दक्षिणे त्वथ ॥१०७॥कुक्षौ ज्येष्ठाभ्यो मूलाय वामकुक्षौ ततस्तथा ।कट्यां च पार्श्वयोः पूर्वाषाढाभ्यो लिंगके तथा ॥१०८॥उत्तराषाढाभ्य एव वृषणे श्रवणाय तु ।धनिष्ठायै तथा नेत्रे शतभिषाभ्य एव च ॥१०९॥ऊर्वोः पूर्वाभाद्रपदोत्तराभाद्रपदाभ्यां तथा ।रेवतीभ्योऽश्विनीभ्यश्च नाभ्यां ध्रुवाय वै नमः ।सप्तर्षिभ्यः कण्ठदेशे मातृकाभ्यः कट्यां नमः ॥११०॥विष्णुपदेभ्यः पादयोस्ताराभ्यो रोमकूपिषु ।नागवीथ्यै चांगवीथ्यै वनमालायां नमः ॥१११॥कौस्तुभेऽगस्तिमुनये नमो ग्रहेभ्य इत्यपि ।हरिः राधे न्यासभेदानाह प्रोक्ता मयाऽपि ते ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने स्नानकलशस्थापनदिक्पालबलिस्वर्णशलाकानेत्रांजनबहुघटस्नानपत्रस्नानपू जनाऽऽभरणनैवेद्यहोमप्रणवन्यासमातृकान्यासनक्षत्रन्यासादिनिरूपणनामा षट्पंचाशदधिकशततमोऽध्यायः ॥१५६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP