संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २८४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २८४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८४ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे! राशियानादिकदेशोद्भवा अपि ।कृष्णकान्ताः कन्यकाश्चारुरुहुर्यद् विमानकम् ॥१॥शिबिदेवो नृपः कन्याशतेन सह वै तदा ।आरुरोह विमानं स्वं कुटुम्बादिसमन्वितः ॥२॥थर्कूटस्थो महाराजः पञ्चाशत्कन्यकान्वितः ।आरुरोह विमानं स्वं वरयात्रार्थमुत्सुकः ॥३॥वीरजारो महाराजः शतकन्यासमन्वितः ।आरुरोह विमानं स्वं वरयात्रार्थमुत्सुकः ॥४॥शक्त्यक्षिक्ष्मापतिश्चापि षष्टिकन्यासमन्वितः ।एकाधिकशतपिशाचिनीकन्यायुतस्तथा ॥५॥आरुरोह विमानं स्वं वरयात्रार्थमुत्सुकः ।कालिमाशनृपकन्याः शते द्वे च विमानकम् ॥६॥पितृभ्यां सहिताः सर्वाश्चारुरुहुर्विभूषिताः ।अनादिश्रीकृष्णनारायणस्तदा च राधिकाम् ॥७॥माणिक्यां श्रीं रमां लक्ष्मीं पद्मजां च विमानके ।अम्बां हासां सद्गुणां मञ्जुलां चापि विमानके ॥८॥पराविद्यादिकाश्चापि चत्वारिंशत् शतं तथा ।न्यषादयद् विमाने वै सर्वशृङ्गारपूर्वकम् ॥९॥उरलकेतुको राजा त्रिंशत्कन्यासमन्वितः ।विमानं सुभगं चाध्यरोहद् यात्रार्थमुत्तमम् ॥१०॥क्रथको नृपतिः पञ्चकन्यायुतो विमानकम् ।आरुरोह तथा सौम्यो काशीयात्रार्थमुत्तमम् ॥११॥पृथुराजस्तदा नैजं विमानं चारुरोह वै ।विंशतिकन्यकाभिश्च सहितो यात्रिकोत्तमः ॥१२॥उष्ट्रालस्य दशकन्या आरुरुहुर्विमानकम् ।हंकारनृपतिः कन्यापञ्चकेन समन्वितः ।आरुरोह विमानं च काशीयात्रार्थमेव सः ॥१३॥जयकाष्ठलनृपतिः पञ्चकन्यासमन्वितः ।आरुरोह विमानं च काशीयात्राकृते तदा ॥१४॥तीराणनृपतिः कन्याषट्केनापि समन्वितः ।आरुरोह विमानं च काशीयात्रार्थमेव तु ॥१५॥आल्वीनरः पञ्चकन्यायुतो विमानमुत्तमम् ।आरुरोह काशीयात्राकृते कुटुम्बवाँस्तथा ॥१६॥जीनवर्द्धिनृपः सप्तकन्यायुतो विमानकम् ।आरुरोह काशीयात्राकृते तत्र समुत्सुकः ॥१७॥अनाथविप्रस्तत्रैककन्यया सह वै तथा ।आरुरोह विमानं च रथयात्राकृते तदा ॥१८॥राक्षसेभ्यो मोचिता या प्रकीर्णकास्तु कन्यकाः ।आरुरुहुर्विमानानि शते द्वे च सहस्रकम् ॥१९॥अल्पकेतुर्नृपः सप्तकन्याभिश्च विमानकम् ।जयकृष्णवराजर्षिश्चैककन्यायुतस्तथा ॥२०॥समारुरुहतुश्चैकं विमानं वरयात्रिकम् ।परीशानो नृपश्चैकविंशतिकन्यकायुतः ॥२१॥आरुरोह विमानं च सर्वशृंगारसंभृतम् ।इन्दुरायो नृपः कन्याद्वययुक्तो विमानकम् ॥२२॥आरुरोहातिसंहृष्टः सर्वशृंगारसंभृतम् ।मुद्राण्डो नृपतिः पञ्चदशकन्यासमन्वितः ॥२३॥आरुरोह विमानं च योगयात्राकृते तदा ।गण्डराजो नवकन्यायुतो विमानमुत्तमम् ॥२४॥आरुरोह समृद्धं च काशीयात्रार्थमित्यपि ।लीनोर्णनृपतिः कन्याचतुष्टयसमन्वितः ॥२५॥आरुरोह विमानं च कृष्णयात्रार्थमुत्सुकः ।वृहच्छराख्यो नृपतिश्चैकादशसुतायुतः ॥२६॥आरुरोह विमानं च योगयात्राकृते तदा ।बललीनो नृपश्चत्वारिंशत्कन्यासमन्वितः ॥२७॥स्मृद्धं नैजं विमानं चाध्यारुरोह विभूषितम् ।वरसिंहो नृपः कन्यापञ्चकेन समन्वितः ॥२८॥आरुरोह विमानं च काशीयात्राकृते तदा ।रायगामलभूपश्च पञ्चकन्यायुतस्तदा ॥२९॥आरुरोह विमानं चाऽपरकन्यात्रयाऽन्वितः ।स्मृद्धं राज्ञीद्वयं चाप्यारुरोह च विमानकम् ॥३०॥फेनतन्तुनृपः कन्याद्वययुक्तो विमानकम् ।आरुरोह तदा स्मृद्धं काशीयात्रार्थमेव ह ॥३१॥स्तोकहोमनृपश्चैककन्यायुक्तो विमानकम् ।आरुरोह समृद्धं च काशीयात्राकृते तदा ॥३२॥काष्ठयाननृपस्याऽपि कन्यैका जनकान्विता ।आरुरोह विमानं च सुस्मृद्धं योगयात्रिकम् ॥३३॥कोलकक्ष्मापतेः कन्या चैका तदा विमानकम् ।आरुरोह सुसमृद्धं काशीयात्राकृते तदा ॥३४॥इत्येवं राधिके गौर्यः कृष्णकान्तार्थमेव ताः ।उत्सुकाः कृतशृंगारा विभूषिता मुदं ययुः ॥३५॥दिनमानार्कनृपतिः कन्याद्वयसमन्वितः ।आरुरोह विमानं स्वं योगयात्राप्रसिद्धये ॥३६॥रायकिन्नरराजश्च सर्वस्मृद्धे विमानके ।आरुरोहैकपञ्चाशत्कन्याभिः स्मृद्धिशोभनः ॥३७॥रायरोकीश्वरो राजा चैकविंशतिकन्यकाः ।आदाय स्वविमानं च समारुरोह वै तदा ॥३८॥रायरणजिद्भूपश्च विंशतिकन्यकायुतः ।आरुरोह विमानं स्वं स्मृद्धं यात्रार्थमुत्तमम् ॥३९॥रायवाकक्षको राजा कन्यात्रयसमन्वितः ।आरुरोह विमानं स्वं दिव्ययात्रार्थमेव ह ॥४०॥रायमारीशभूपश्च कन्यात्रयसमन्वितः ।आरुरोह विमानं स्वं स्मृद्धं यात्रार्थमेव च ॥४१॥रायबलेश्वरो राजा कन्यात्रयसमन्वितः ।आरुरोह विमानं स्वं काशीयात्रार्थमुत्सुकः ॥४२॥रायलम्बारभूपश्च कन्याषट्कयुतस्तदा ।आरुरोह विमानं च स्मृद्धं यात्राकृते तदा ॥४३॥रायनवार्कभूपश्च कन्यकासप्तकाऽन्वितः ।आरुरोह विमानं स्वं स्मृद्धं यात्राकृते तदा ॥४४॥रायहुण्डेशभूपश्च नवकन्यासमन्वितः ।आरुरोह विमानं च सर्वस्मृद्धिभृतं ततो ॥४५॥रायकूपेशभूपश्च ह्येककन्यासमन्वितः ।आरुरोह विमानं च काशीयात्रार्थमित्यथ ॥४६॥कालीमण्डलीनभूपश्चतसृकन्यकायुतः ।आरुरोह विमानं च स्मृद्धं यात्रार्थमुत्तमम् ॥४७॥वनजेलेशभूपश्च पञ्चकन्यासमन्वितः ।समारुरोह च तदा विमानं शोभनं स्वयम् ॥४८॥पारावारपिबक्ष्मेशः कन्यात्रयसमन्वितः ।आरुरोह विमानं च सर्वस्मृद्धिभृतं तदा ॥४९॥अथ कोटीश्वरो राजा कन्याद्वयसमन्वितः ।आरुरोह विमानं च सर्वस्मृद्धं तदा शुभम् ॥५०॥श्रीसतीशनृपकन्यास्तिस्रः पित्रा समं तदा ।आरुरुहुर्विमानं च स्मृद्धं यात्रार्थकं शुभम् ॥५१॥त्रेताकर्कशराजश्च सप्तकन्यासमन्वितः ।आरुरोह विमानं च स्मृद्धं यात्राकृते तदा ॥५२॥आण्डजरानृपश्चापि चतुःकन्यासमन्वितः ।काशीयात्राकृते नैजं विमानं चारुरोह च ॥५३॥बाल्यरजोनृपश्चैककन्यायुक्तो विमानकम् ।आरुरोह तदा स्मृद्धं कृष्णयात्राकृते शुभम् ॥५४॥रायसोमनभूपश्च कन्यात्रयसमन्वितः ।आरुरोह विमानं च कृष्णयात्राकृते तदा ॥५५॥उरुगवाक्षनृपतिः कन्याद्वयसमन्वितः ।आरुरोह विमानं स्वं स्मृद्धं यात्राकृते तदा ॥५६॥पराङव्रतस्तथा भूपः कन्याद्वयसमन्वितः ।आरुरोह विमानं च काशीयात्राकृते तदा ॥५७॥ईशानपानराजा च स्मृद्धं निजं विमानकम् ।आरुरोह चैकचत्वारिंशत्कन्यासमन्वितः ॥५८॥राजा रायपतिर्भूपः रमृद्धं निजं विमानकम् ।त्रयस्त्रिंशत्सुताभिश्च सहारुरोह यात्रिकम् ॥५९॥राजारायनृपस्यापि भगिनी स्वविमानकम् ।कृष्णनारायणपत्नी समारुरोह कन्यका ॥६०॥मंगला ललिता रेवा भार्गवी च सरस्वती ।रमा गंगा दया भक्तिर्मुक्तिश्चैकादशी रतिः ॥६१॥कामदुघा च तुलसी कमला विरजा सती ।मूर्तिश्च गोमती स्वर्णरेखा जया च नन्दिनी ॥६२॥वनिता मोहिनी दोला पुष्पा प्रीतिः कलावती ।माधवी बदरी चम्पा कुशला च मनुर्मणिः ॥६३॥शान्तिः शान्ता रमा हैमी ऊर्जा विमानमास्थिताः ।लोमशेन शमं अन्याश्चापि विभूषिताः ॥६४॥उक्तानां चापि सर्वासां सख्यश्चाप्यर्बुदा हि ताः ।विभूषिता हि कौबेर्यो माहेन्द्र्यो यमकन्यकाः ॥६५॥वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्र्यश्च वह्निजाः ।श्रावण्यश्चापि खानिज्यः सांवत्सर्यश्च गोपिकाः ॥६६॥प्राचीन्यश्च पिशंगिन्यो राशियान्यः समुष्ट्रिकाः ।रोमायन्यश्च पारश्यो धैवर्यः किन्नरीगणाः ॥६७॥अमर्यश्च तथा गौर्यः पर्यो हारितिकास्तथा ।आब्रिक्त्यश्चापि पाताल्यः स्वर्ग्यश्चाप्सरसस्तथा ॥६८॥ब्रह्मसरसौ गान्धर्व्योऽर्बुदकन्याश्च भूषिताः ।लोमशेन समं स्वस्वपित्रा समं विमानकम् ॥६९॥आरुरुहुः स्वं स्वमर्घ्यं स्मृद्धं सामग्रिकाऽन्वितम् ।इत्येवं राधिके कृष्णकान्ताः सज्जास्तदाऽभवन् ॥७०॥अथाऽन्ये कृष्णयात्रायामागता महीमानकाः ।हेमशालायनाद्याश्चर्षयः सेदुर्विमानकम् ॥७१॥चक्रवाक्युर्वशी चापि हनुमान् समगस्त्यकः ।मंकणकाद्याः ऋषयो देवायतनकोऽपि च ॥७२॥मेषायनाद्याः ऋषयो मुनिर्लालासनः प्रधीः ।पञ्चसाहस्रसन्तश्च तथा वृकायनादयः ॥७३॥यवक्रीतादयश्चापि श्वेतव्यासादयस्तथा ।सनत्कुमारप्रभृतयो निषेदुश्च विमानकम् ॥७४॥तुषितश्च हारितश्च दिविमानायनादिकाः ।कुशला योगिनी चापि सांख्ययोगिन इत्यपि ।शावदीना महाकाली वारिनरश्च क्षेत्रपः ॥७५॥आर्यायनाद्याः ऋषयो द्वारपो ब्रह्मनादकः ।वशिष्टाद्याः ऋषयश्च वालखिल्यादिकास्तथा ।आरुरुहुर्विमानानि कृष्णयात्राकृते तदा ॥७६॥राधिके! चाऽक्षरमुक्ता मुक्तान्यश्च समन्ततः ।अवताराः समस्ताश्चाऽवतारिण्यस्तथा तदा ॥७७॥आरुरुहुर्विमानानि सर्वशृंगारभूषिताः ।पार्षदा धामगाः सर्वे तथा वैकुण्ठवासिनः ॥७८॥वासुदेवादयश्चापि भूमा विष्णुर्विराजकः ।सात्त्विका मुनयश्चापि सिद्धाश्च साधवस्तथा ॥७९॥आरुरुहुर्विमानानि सुस्मृद्धानि विभूषिताः ।पितरस्त्वर्यमाद्याश्च लोकपाला दिशां प्रपाः ॥८०॥आदित्या वसवश्चापि कुमारावश्विनौ तथा ।आरुरुहुर्विमानानि कृष्णयात्राकृते तदा ॥८१॥मरुतः सिद्धयश्चापि निधयश्च ग्रहाः शुभाः ।सूर्याचन्द्रौ सप्तर्षयो ध्रुवौ च मातरो दिशः ॥८२॥कामदेवो मनवश्च कलाश्च तिथयस्तथा ।तत्त्वानि भानि च गुणास्तीर्थानि सरितो नदाः ॥८३॥ब्रह्मचारा न्यासवन्तो दिव्यदेवाख्यपादपाः ।कल्पवल्ल्यः कल्पशिला गृहदेवादयस्तथा ॥८४॥देवालयास्तथा चैत्याश्चारुरुहुर्विमानकम् ।नागाः सर्पाश्च दैत्याश्च दानवा राक्षसास्तथा ॥८५॥सूताश्च मागधाश्चापि बन्दिनश्चारणास्तथा ।विप्राश्च पण्डिताश्चापि किंपुंसः किन्नरास्तथा ॥८६॥गान्धर्वाः कथकाश्चापि दासा दास्यश्च कोटिशः ।आरुरुहुर्विमानानि सर्वशृंगारशोभनाः ॥८७॥शिल्पिनः स्वर्णकाराश्च धनाढ्या मखिनस्तथा ।गुरवो लोमशोक्ताश्च सर्वा कुंकुमवापिका ॥८८॥आरुरुहुर्विमानानि प्रोद्वाहः कृष्णयोरिति ।मही तत्र समायाता संस्मृता मेदिनी स्वयम् ॥८९॥ऋतवश्च समायाता धर्मदेवः स्वयं स्मृताः ।नरश्चापि समायातो बदरीवनतस्तदा ॥९०॥पीठिका च समायाता देवी त्वक्षरवासिनी ।मर्दनानि सुमूर्तानि द्रवाणि चाध्यरोहयन् ॥९१॥मण्डपाख्यस्तथा मुक्तः समायातः स्मृतस्तदा ।माणिक्यस्तंभ एवापि श्रीकृष्णाग्रे समाययौ ॥९२॥सुदर्शनं तथा चक्रं क्षेत्ररक्षाकरो हरः ।श्रीहरेः सन्निधौ नत्वा कृतमानाः शुभासने ॥९३॥निषेदुस्ते ततः श्रीमद्गोपालकृष्णकः पिता ।नवैतान् कुंकुमवापीक्षेत्ररक्षार्थमाह च ॥९४॥रक्षन्तु क्षेत्रमेतद्वै वयं यामो वराणसीम् ।इत्युक्त्वा योग्यसामग्रीर्हेतींश्च पारितोषिकम् ॥९५॥दत्वा सज्जं प्रचकार विमानं सूर्यवर्चुलम् ।शृंगारितं बालकृष्णं भ्रातॄन् भगवदादिकान् ॥९६॥भ्रातृपत्नीस्तथा पितृवर्गानाबालवृद्धकान् ।कुटुम्बिनो जनान् सम्बन्धिनः सर्वान् विमानके ॥९७॥नरनारीवर्गसम्बन्धिनः परम्परागतान् ।न्यषादयद्विमानेषु जयनादानकारयत् ॥९८॥दुन्दुभयोऽप्यवाद्यन्त यात्राप्रस्थानसूचकाः ।व्यंगुलानां शुभशब्दाः सर्वश्रवणयोगदाः ॥९९॥अभवँश्च तदा गान्धर्वाणां वाद्यनिनादकाः ।तूपशब्दा मेघवच्चाऽभवन् यात्राप्रयाणके ॥१००॥अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।इत्युवाच तदा वाणी दिव्या व्योमविहारिणी ॥१०१॥पुष्पाक्षतादिमांगल्यैर्वर्धितं देविकादिभिः ।बालकृष्णविमानं च पूर्वाशां गतिमाचरत् ॥१०२॥गीतिकानादितान्येव विमानानि तदाऽम्बरे ।सहर्षजनशोभानि तत्पश्चाद् गतिमाचरन् ॥१०३॥इत्येवं राधिके चाग्रे ययौ विमानवाहिनी ।कृष्णयात्रात्मिका शीघ्रं स्वर्गं यातीव शोभते ॥१०४॥मुदं ममौ न हृदये प्रत्येकस्य च देहिनः ।उज्जगाम महानन्दः प्रोद्वाहः कृष्णयोरिति ॥१०५॥मरुदेशं समुल्लंघ्य कोशलान् मध्यदेशकान् ।प्रयागं च समुल्लंघ्य वाहिनी काशिकां ययौ ॥१०६॥कृष्णयानीं गर्जमानो सहस्रचन्द्रसदृशीम् ।विमानरूपिणीं वीक्ष्य शिवेश्वरोऽतिहर्षितः ॥१०७॥काशीवासाः प्रजाश्चापि समुत्सुका ययुः प्रति ।वदन्त्यो राधिके! यामः प्रोद्वाहः कृप्णयोरिति ॥१०८॥इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महीमानानां राज्ञां कन्यकादीनामृषीणां च विमानेष्वारोहणं, कृष्णयान्याः काशीं प्रतिगमनं चेत्यादिनिरूपणनामाचतुरशीत्यधिकद्विशततमोऽध्यायः ॥२८४॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP