संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २२३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके श्रीहरिं भ्रामयितुं स्वपत्तने नृपः ।
रायग्रामानगर्यां वै सैन्यं सज्जं समानयत् ॥१॥
हरिं न्यषादयत्तत्र श्वेताऽश्वरथके शुभे ।
कुटुम्बं च तथा कन्या ब्रह्मप्रिया रथेषु च ॥२॥
वादित्रनिनदैर्गीतैः सह कृष्णं पुरे नृपः ।
अभ्रामयत् सुखं तत्र गोपुरे तु प्रधानकाः ॥३॥
पुपूजुः परमात्मानं चत्वरे श्रेष्ठिसत्तमाः ।
रथ्यामुखेषु नार्यश्च मार्गे हट्टेषु वै प्रजाः ॥४॥
सुवर्णरूप्यमुद्राभिश्चन्दनाऽक्षतकुंकुमैः ।
अम्बरैः पुष्पहारैश्च नारिकेलफलादिभिः ॥५॥
एवं भ्रमित्वा नगरीं हरी राज्यालयं ययौ ।
उरुगवाक्षनृपतिः पुपूज परमेश्वरम् ॥६॥
चक्रेऽभिषेकं पयसा पादयोः परमात्मनः ।
ततो मिष्टजलैश्चापि शुद्धोदकेन वै ततः ॥७॥
पपुः राजकुटुम्बाद्याः श्रीहरेश्चरणामृतम् ।
राज्ञी पूजा चकाराथ नीराजनं व्यधादपि ॥८॥
कन्यके द्वे तदा कृष्णकण्ठे मालां तु कौसुमीम् ।
वरमालात्मिकां दीर्घां ददतुः शोभनव्रते ॥९॥
कृतकृत्ये तु ते जाते प्राप्य कान्तं श्रियाः पतिम् ।
राजा राज्ञी च मेनाते कृतकृत्ये तदा हृदि ॥१०॥
तदुत्सवं तदा राजा कारयामास शोभनम् ।
भोजयामास कृष्णं च महीमानान् समन्ततः ॥११॥
हरिर्द्रव्यं ददौ मानत्रिवेदमुनयेऽखिलम् ।
ततश्चोपादिदेशापि प्रजाभ्यस्तत्र माधवः ॥१२॥
वृत्तीनां विलये कृष्णो भासते हृदये सदा ।
ध्यानगम्यो भवत्येव नारायणपरेश्वरः ] ॥१३॥
ध्यानयोगेन मुनयः परां सिद्धिं गताः पुरा ।
गच्छन्ति च गमिष्यन्ति योगिनश्च परे तथा ॥१४॥
ध्यानज्ञानमहातृप्ता निर्वाणहृदया जनाः ।
नाऽऽवर्तन्ते हि संसारे मुक्ताः संसारकर्दमात् ॥१५॥
रागद्वेषपरित्यक्ताश्चात्मभावे व्यवस्थिताः ।
नित्यसत्त्वस्थिता मुक्ता नावर्तन्ते पुनः क्वचित् ॥१६॥
शान्तिप्रदानि कर्माणि संगहीनानि यानि च ।
वादमायारहितानि कुर्वन्मां याति भक्तिमान् ॥१७॥
प्रातरुत्थाय च मनो नियम्य मम सन्निधौ ।
मम मूर्तौ धारयेद्वै चिन्तयेत् प्रतिमां मम ॥१८॥
शब्दं स्पर्शं च रूपं वा रसं गन्धं ह्युपस्थितम् ।
गृह्णीयान्नैव मद्ध्याता चिन्तयेन्नान्यवस्तुकम् ॥१९॥
इन्द्रियाणि मनः पिण्डीकृत्य मयि निरोधनम् ।
कुर्याद् यस्तस्य मन्मूर्तिस्फुरणं हृद्ये भवेत् ॥२०॥
चञ्चले वै मनो ध्याने मीनवद् यदि जायते ।
समादध्यात्पुनर्मूर्तौ परावृत्त्य प्रसह्य तत् ॥२१॥
सभूषाम्बरवेषाढ्ये मयि ध्यानं पुरा चरेत् ।
ततो वेषं विलीयैव मूर्तिमात्रं विचिन्तयेत् ॥२२॥
ततो दिव्यं हसन्तं च वदन्तं मां विचिन्तयेत् ।
ततश्चानन्ददातारं त्वेकरूपं विचिन्तयेत् ॥२३॥
एवं मूर्तौ चेन्द्रियाणि मनोऽहंकारबुद्धयः ।
विलीयन्ते शनैः प्रेम्णा तदा मोक्षमवाप्नुयात् ॥२४॥
योगिनां प्रगतिश्चैषा कर्मिणां न्यासलक्षणा ।
बहिर्वृत्तानीन्द्रियाणि कृष्णार्थानि समानि च ॥२५॥
अर्पितानि विधेयानि सर्वार्पणेन कर्मिभिः ।
शुद्धः सिद्धो मम भक्तः सर्वार्पणेन जायते ॥२६॥
शनैर्यत्रेन्द्रियग्रामो वेगलग्नो भवत्यपि ।
विज्ञाय विषयं तं च मूर्तौ सम्परिकल्पयेत् ॥२७॥
तत्र तत्र स्थिरं चित्तं कर्तव्यं तु शनैः शनैः ।
इष्टविषयदानेन तृप्तं स्थैर्यं व्रजिष्यति ॥२८॥
ततस्तं विषयं मूर्तौ विलीय प्रतिमां मम ।
चिन्तयेत्तु शनैर्भक्तश्चैवं चिरेण शुद्ध्यति ॥२९॥
प्रसन्ने मम योगेन चित्ते सत्त्वोद्भवोत्तमः ।
तेन स्नेहो मम भक्तिस्तेन मुक्तिर्भवेदनु ॥३०॥
ध्यानं तपो दमं क्षान्तिं व्यापारं चिन्तनादिकम् ।
वाणीं चेष्टां गतिं सर्वां प्रवृत्तिं मयि चार्पयेत् ॥३१॥
एवं प्रवर्तकं यज्ञं मयि त्यक्त्वा सुखी भवेत् ।
यद्वा सर्वविधेयानि पृष्ठे कृत्वा च निष्क्रियः ॥३२॥
भूत्वा प्रचिन्तयेन्मां वै मनसा मां जपेत् सदा ।
विषयेभ्यो नमस्कुर्याद् व्यवहारं न भावयेत् ॥३३॥
हृद्युद्भाव्य च मन्मूर्तिं तत्र लग्नो भवेत्ततः ।
एवं मद्योगमापन्नश्चान्ते याति परं पदम् ॥३४॥
सर्वत्यागकृतश्चैवं निरिच्छस्य तु योगिनः ।
ब्राह्म्यास्तन्वाः समवाप्तिर्मत्तुल्यो जायतेऽक्षरे ॥३५॥
मम मूर्तिं स्मरेन्नित्यं जपेन्नाम ममोत्तमम् ।
मदर्थं त्वाचरेत् सर्वं मम लोकमवाप्नुयात् ॥३६॥
ब्रह्मस्थित्या च निर्लिप्तो भूत्वा मायाऽऽमयोर्ध्वगः ।
अमृतं चामृतपदं परात्मानं प्रपद्यते ॥३७॥
प्राप्तीनामुत्तमप्राप्तिः परेश्वररुचिः सदा ।
सतां प्राप्तिर्हरेः प्राप्तिर्धामप्राप्तिर्न चेतरा ॥३८॥
अहंकारकृता लोकाः सर्वे निरयगामिनः ।
ब्रह्मकारकृता लोकाः सर्वे त्वक्षरगामिनः ॥३९॥
आत्मघाती जनो याति निरयान् यमरक्षितान् ।
ब्रह्मसम्बन्धमाप्तो वै नात्मघाती च धामगः ॥४०॥
अभिध्यानं भवेद् यत्र प्रेतभावे च तत्र च ।
जीवो याति पुनर्भावं ब्रह्माभिध्यानमाचरेत् ॥४१॥
ऐश्वर्यध्यानपरमो याति मायां तु सात्त्विकीम् ।
पुनर्भावप्रदां तस्माद् ब्रह्मध्यानपरो भवेत् ॥४२॥
ऐश्वर्यैः समधिव्याप्तो मदगर्वाद्यधिष्ठितः ।
वर्तते मायया यश्च स एव निरयोऽस्य वै ॥४३॥
यस्य तृष्णा यक्षिणी च राक्षसी चेषणा स्थिता ।
चिन्ता पिशाची यस्यास्ति तास्तिस्रो निरयात्मिकाः ॥४४॥
रागश्च राक्षसो यस्य मोहो यक्षोऽस्ति यस्य च ।
द्वेषः पिशाचो यस्यास्ति ते त्रयो रौरवात्मकाः ॥४५॥
त्रयो यत्र भवन्त्यस्य तत्र तत्रोपपद्यते ।
दुर्बुद्धिर्जायते तैश्च ताभिश्च मोहवर्तनम् ॥४६॥
अकृतप्रज्ञकस्तेन मृत्युं याति हि रौरवम् ।
दुष्प्रज्ञानेन निरया बहवोऽत्र भवन्ति वै ॥४७॥
यज्ज्वाला देहिनश्चात्र दाहयन्ति क्षणे क्षणे ।
नह्यतृप्तस्य सौख्यं वै निर्दुःखं समजायते ॥४८॥
दुःखमिश्रं सुखं यत्तन्निरयाख्यं मतं त्विह ।
माया निरय एवास्ति निर्दुःखा न कदापि सा ॥४९॥
मायादेहवतः सौख्यं नैकान्ताऽत्यन्तकं न हि ।
तस्मात् सौख्यं निरयात्म विनाऽक्षरपदं ध्रुवम् ॥५०॥
वर्णयामि निरयान् वै ह्युच्चावचान् हि मायिकान् ।
प्राकृतान् लयजुष्टाँश्च ब्रह्मभावे तु निष्फलान् ॥५१॥
मानवानां तु संभोगा निरया एव गोचराः ।
देवानां च ऋषीणां च संस्थानानि गृहाणि च ॥५२॥
तादृशा एव निरया देहिनां देहसंस्थिताः ।
लोकपानां दिशापानां ग्रहाणां मरुतां तथा ॥५३॥
साध्यानां विश्वदेवानां गान्धर्वाणां गृहाणि च ।
रुद्रादित्यवसूनां च सिद्धानां परमेष्ठिनः ॥५४॥
दिव्यानि कामचाराणि विमानानि सभालयाः ।
उद्यानानि च पद्मिन्यः काञ्चनेयगृहाणि च ॥५५॥
अमृतानि च भोगाश्च तेजोऽम्बराणि यानि च ।
समृद्धयः सुरादीनां देहाश्चामृतभोजिनः ॥५६॥
दिव्यांगना दिव्यशय्या दिव्यगन्धरसादयः ।
मायापाका निरयास्ते ब्रह्मधामाग्रतो मताः ॥५७॥
ईश्वराणां विराजानां प्रधानपुरुषस्य च ।
मायाधाम्नां च ये भोगाः सत्त्वमयाश्च मायिकाः ॥५८॥
ते सर्वेऽपि महत्तत्त्वात्मजा निरयसंज्ञकाः ।
अनादिश्रीकृष्णनारायणधामाऽग्रतो मताः ॥५९॥
गोलोकस्य तथा धाम्नो वैकुण्ठस्य समीपतः ।
मायामयाश्च ये लोका भोगास्ते निरया मताः ॥६०॥
ब्रह्मलोकसमं नान्यद्धामाऽस्ति दिव्यशाश्वतम् ।
गोलोकं चापि वैकुण्ठं ब्रह्मधामात्मकं हि तत् ॥६१॥
मायानिरयशून्यं वै चामायिकं हि मोक्षदम् ।
अहं श्रीकृष्णरूपोऽस्मि राधादिभिः प्रसेवितः ॥६२॥
गोलोके गोपगोपीभिर्मद्रूपाभिः प्रसेवितः ।
दिव्यशाश्वतरूपोऽस्मि यत्र माया न विद्यते ॥६३॥
अहं नारायणरूपो वैकुण्ठे परमे स्थितः ।
लक्ष्मीरमादिभिर्दिव्याभिः शक्तिभिः सुसेवितः ॥६४॥
पार्षदैर्दिव्यरूपैश्च सेवितो दिव्यशाश्वतः ।
दिव्यशाश्वतरूपोऽस्मि यत्र माया न विद्यते ॥६५॥
वासुदेवस्वरूपोऽस्मि त्वव्याकृते परे स्थले ।
यत्र माया न चाऽस्त्येव सोऽहं दिव्यस्वरूपवान् ॥६६॥
एवं यत्र मया स्थानं कृतं दिव्यं हि तन्मम ।
मद्योगाद् दिव्यतां प्राप्तं निरयस्तन्न विद्यते ॥६७॥
मद्वियुक्तानि सौधानि स्थानानि स्मृद्धयस्तथा ।
स्वामिनः स्थानिनः सर्वे निरया मायया हताः ॥६८॥
इत्येवं संविलोक्यैव प्रज्ञया मत्प्रदत्तया ।
मद्योगं सर्वथा कुर्यान्निरयत्वं विलीयते ॥६९॥
दिव्यत्वं प्राप्यते चापि मदर्थयोगतां गतम् ।
यत्र मे नास्ति सम्बन्धश्चार्पणात्मक इत्यपि ॥७०॥
तत्र सम्पद्यते कालो मत्सम्बद्धे स न प्रभुः ।
अहं कालस्य शास्ताऽस्मि मयि प्रवर्तते न सः ॥७१॥
यत्राहं तत्र भक्तो मे गत्वा नैव हि शोचति ।
ईदृशं परमं स्थानं ब्रह्मसम्बन्धिनां सताम् ॥७२॥
तद्भिन्नानि तु निरयाः सर्वे एव यथायथम् ।
तद्विचार्य तु मतिमान् मत्सम्बन्धं समाचरेत् ॥७३॥
जडं वा चेतनं वापि मत्सम्बद्धं विधापयेत् ।
तदेवाऽनिरयं प्रोक्तं दिव्यं दिव्यसुयोगतः ॥७४॥
एवं ज्ञात्वाऽर्पयित्वैव भक्ता मे दिव्यतां गताः ।
सृष्टौ ते नैव जायन्ते कालग्रासे न यान्ति च ॥७५॥
अदुःखं सुखमाप्यैव वर्तन्ते शाश्वते सुखे ।
ममानन्दे परे धाम्न्यश्नुवते सर्वकामनाः ॥७६॥
मम जापप्रकर्तारो मम मूर्तिपरायणाः ।
अमृताश्चामृतं प्राप्य ब्रह्मभूता भवन्ति ते ॥७७॥
ब्रह्मस्थानमनावर्त्तमेकमक्षरसंज्ञकम् ।
अदुःखमजरं शान्तं प्रयान्ति मम योगिनः ॥७८॥
सरागश्चेक्षते लोकान् सर्वान्निरयसंज्ञिकान् ।
मद्युक्तः सर्वतो मुक्तोऽक्षरे तु रमते सुखम् ॥७९॥
नैकधा मम मूर्तौ स रमते च मया सदा ।
ममानन्दभृतो मुक्तो मत्तो न्यूनो न वर्तते ॥८०॥
इत्येवं चोपदिश्यैव ततो मन्त्रान् ददौ हरिः ।
प्रजाभ्यश्च नृपस्यापि कुटुम्बाय नृपाय च ॥८१॥
अथ कृष्णो मनश्चक्रे गन्तुं राजा तदा पुनः ।
द्रव्यं च यौतकं चापि विदायं बहुधा ददौ ॥८२॥
वाद्यघोषैः प्रजाद्वारा सम्मानं बहुधा व्यधात् ।
तावत् तत्र समायातो राजा पराङ्व्रताऽभिधः ॥८३॥
अलंत्रातर्षिसहितश्चाऽऽशनापुरीश्वरः ।
पारावातराष्ट्रपतिः प्रार्थयत्परमेश्वरम् ॥८४॥
मम देशान् समागत्य पावयाऽस्मान् कृपालय ।
हरिः श्रुत्वा तथाऽस्त्वाह सज्जोऽभूत् सकुटुम्बकः ॥८५॥
शीघ्रं पूजां परिगृह्य तदा विमानगोऽभवत् ।
ब्रह्मप्रियाद्याः कन्याश्च ऋषयोऽप्यखिलास्तदा ॥८६॥
विमानस्था अभवँश्च विमानं प्रससार ह ।
वेगेन चागतं पारावातराष्ट्रं तदा नृपः ॥८७॥
पराङ्व्रतो हि सहसाऽम्बरात् पूर्वमवाऽतरत् ।
स्वागतं निजसैन्येन श्रीहरेस्तु समाचरत् ॥८८॥
तदा वाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ।
प्रजाः स्वाञ्जलिभिः सुस्थाः स्वागतं वै समाचरन् ॥८९॥
राजदर्शितमार्गेणावातरद् वै विमानकम् ।
उद्याने सुभगे चाऽऽशासनापुर्याः समीपगे ॥९०॥
हरिं दृष्ट्वा प्रजा राजा राज्ञी प्राधानिकास्तथा ।
अन्येऽपि चागताः सर्वे स्वागतं नमनं व्यधुः ॥९१॥
राजा पुपूज पुष्पाद्यैः स्वर्णहारैः सुमौक्तिकैः ।
राज्ञी नीराजनं चक्रे हरिं न्यषादयत्ततः ॥९२॥
गजे स्वर्णाम्बालिकया युते चान्यान् रथादिषु ।
आशासनानगर्यां तु भ्रामयामास माधवम् ॥९३॥
पुपूजुर्मानवाः सर्वे सायं रत्नाम्बरादिभिः ।
द्रव्यसौवर्णमुद्राभिः पुष्पाक्षतस्रगादिभिः ॥९४॥
भ्रामयित्वा राजसौधं त्वानयामास केशवम् ।
पूजयामास च पुनर्भोजयामास भूपतिः ॥९५॥
ततः कन्याद्वयं राज्ञो मात्राज्ञया परेश्वरम् ।
पुपूज च हरिं वव्रे पतिं च वरमालया॥९६॥
कण्ठे समर्प्य मालां ते कन्यके त्वर्पिते तदा ।
अभवतां स्वयं कृष्णे सर्वेशे परमेश्वरे ॥९७॥
राजा मुमोद हृदये राज्ञी प्रसन्नतामगात् ।
कृतकृत्ये कन्यके च जाते नृपो महोत्सवम् ॥९८॥
कारयामास वै रात्रौ हरिश्चोपादिदेश ह ।
राधिके राजसौधे वै सर्वेषां मोक्षसाधनम् ॥९९॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः रायग्रामानगर्यां भ्रमणम् उपदेशनं पूजनं विदायं ततः पराङ्व्रतनृपस्य पारावातराज्ये गमनम् आशासनापुर्यां
स्वागतं आश्विनकृष्णचतुर्थ्यां सायं भ्रमणं चेत्यादिनिरूपणनामा त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥२२३॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP