संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २६

त्रेतायुगसन्तानः - अध्यायः २६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
आकर्णय वृषभानुसुते चमत्कृतिं हरेः ।
अन्यां तृतीयवर्षोत्थां कथयामि सुखप्रदाम् ॥१॥
श्रावण्यां ब्राह्मणाः सर्वे कुंकुमवापिकाश्रयाः ।
अश्वपट्टसरस्तीरे ब्रह्मसूत्रक्रतूत्सवे ॥२॥
मिलिता ब्रह्मसूत्रस्य नव संस्कारशुद्धये ।
सहस्रशस्ते ऋषयो लोमशाद्याः सदर्भकाः ॥३॥
सपात्रा हव्यकव्यादिसहिता देहशोधनम् ।
संचक्रुः पञ्चगव्याद्यैः स्नानैः पितृप्रतर्पणम् ॥४॥
देवानां पूजनं चापि चक्रुश्च हवनादिकम् ।
नवं यज्ञोपवीतं च धारयामासुरुज्ज्वलम् ॥५॥
तन्निमित्तं महारुद्रं विष्णुयज्ञं च नैत्यकम् ।
चक्रुर्महोत्सवं तीरे गीतवाद्यप्रनर्तनैः ॥६॥
लक्ष्मीनारायणसंहितायाः कथोपदेशनैः ।
आन्धसिकाः सरस्तीरे वटाऽधस्तान्महानसे ॥७॥
चूर्णमौक्तिकलड्डुकान् पूरिकाऽपूपपायसान् ।
श्रीखण्डक्वथिकाफुल्लवटीव्यञ्जनभाजिकाः ॥८॥
सूपोदनानि च तथा मिष्टतिक्तद्रवाणि च ।
राजिकाराद्धचटनीश्चारनालानि पोलिकाः ॥९॥
पाचयामासुरत्यर्थं कोट्यर्बुदद्विजार्थकम् ।
पक्वान्नानां पर्वताश्च घृतानां पयसां ह्रदा ॥१०॥
तक्राणां सरितश्चापि पायसानां सरांसि च ।
कृतानि करितान्येव कल्पवृक्षैर्महर्षिभिः ॥११॥
मध्याह्ने हवने तत्र प्रवर्तिते मखानले ।
तावद् व्योम्नः समायातं सैन्यं दैत्यजनात्मकम् ॥१२॥
क्रोशमात्रं तु तद् दूरमभवद् यज्ञभूमितः ।
तावदाक्रोशनं तेषां श्रुत्वा वै लोमशो मुनिः ॥१३॥
शीघ्रं चालोकयामास दिव्यदृष्ट्या तु दानवान् ।
दानवीभिः सहिताँश्च धृतशस्त्राऽस्त्रबन्धनान् ॥१४॥
सालेमालस्य तु वैरनिर्यातनार्थमेव तान् ।
समागतान् महाक्रूरान् योद्धुकामानवस्थितान् ॥१५॥
एषः प्रदेशः शत्रोर्नः कृष्णसौधोऽयमेव च ।
द्विजाग्र्यो लोमशश्चायं घ्नन्तु तान्मारयन्तु च ॥१६॥
अनेन बालकृष्णेन मारितोऽस्मत्पिता प्रभुः ।
मर्दयन्तु बालकृष्णं तत्पितरौ च लोमशम् ॥१७॥
एष आश्रमग्रामश्च ब्राह्मणानां द्रुमेष्वपि ।
भिद्यतां छिद्यतां प्रज्वाल्यतां विनाश्यतां क्षणात् ॥१८॥
सालपुत्राः सहस्रं च भृत्या नार्यश्च दासिकाः ।
बान्धवाः सालमालस्य निपेतुः सरसस्तटे ॥१९॥
अन्ये चाकाशमार्गेण समापतन्ति वेगतः ।
कन्यका दैत्यपत्न्यश्च बाला वृद्धाः सुयौवनाः ॥२०॥
यावद्यज्ञक्षितिं नैते चायातास्तावदेव च ।
लोमशः स्तंभयामास त्वाथर्वणैर्विहायसि ॥२१॥
तटस्थान् तटपार्श्वे च स्तम्भयामास तत्क्षणात् ।
पक्वान्नानि तथा यज्ञो यथा गच्छेन्न भ्रष्टताम् ॥२२॥
तथा वै लोमशः कृत्वा सस्मार श्रीपतिं प्रभुम् ।
बालकृष्णः किशोरः सन्नुपाययौ क्षणात् क्रतुम् ॥२३॥
विप्रैः सम्मानितः कृष्णोऽर्चितः सुदर्शनान्वितः ।
प्रार्थितः सगरुडश्च दैत्याऽनीकनिवारणे ॥२४॥
शीघ्रं नत्वा ऋषिभ्यश्च शंखचक्रगदाधरः ।
आरुह्य गरुडं शीघ्रं व्योममार्गं जगाम ह ॥२५॥
सैन्यस्य सन्निधौ गत्वा दध्मौ शंखं हरिः स्वयम् ।
लोमशश्चाथर्वमन्त्रान् वारयामास तावता ॥२६॥
सैन्यं सचेतनं योद्धुं न्यपतत् श्रीहरिं प्रति ।
गदया श्रीहरिः सैन्यं पोथयामास सर्वतः ॥२७॥
पक्षाभ्यां च नखाभ्यां च चञ्च्वा च गरुडस्तदा ।
ताडयामास बहुधा पातयामास भूतले ॥२८॥
द्रावयामास शेषांश्च रक्षयामास योषितः ।
अथ विद्राविता दैत्या धृत्वा शिला द्रुमाँस्तथा ॥२९॥
प्रत्यावृत्त्य निजघ्नुश्च श्रीकृष्णं पुरुषोत्तमम् ।
ततः सुदर्शनं चक्रं मुमोच भगवान् स्वयम् ॥३०॥
कर्तयामास तान् सर्वानसुरान् सालवंशजान् ।
तेषां तेजांसि च हरौ समागत्य विशश्रमुः ॥३१॥
नार्यस्तेषां कन्यकाश्च तुष्टुवुः परमेश्वरम् ।
वंशवटे स्थिताः सर्वा ववुश्च वरदानकम् ॥३२॥
एतेषां कृष्ण दैत्यानां मोक्षं कुरु तथा च नः ।
रक्ष रक्ष कृपासिन्धो शरणं ते प्रदेहि नः ॥३३॥
अनादिश्रीकृष्णनारायणः श्रीगरुडस्थितः ।
चक्रस्य तेजसा तासां पापान्यदाहयत्तदा ॥३४॥
कायाकल्पान् विधायैव दिव्यरूपधराश्च ताः ।
शरण्यो भगवाँस्ताभ्यः शरणं स्वं ददौ मुदा ॥३५॥
लोमशस्याऽऽश्रमे स्थातुं नियुयोज परेश्वरः ।
लोमशस्ता जलेनापि संप्रोक्ष्याऽऽप्लाव्य वारिभिः ॥३६॥
पञ्चगव्येन च शुद्धिं कारयित्वा ततः परम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥३७॥
दत्वा मन्त्रं च तुलसीस्रजं च तिलकादिकम् ।
ताः सर्वा दीक्षयामास वैष्णवीः प्रचकार ह ॥३८॥
ततस्ता भोजयामास शतं पञ्चशतानि च ।
मातॄश्च कन्यकाश्चापि प्रेषयामास चाश्रमम् ॥३९॥
लोमशाद्या ऋषयश्च कृत्वा क्रतुविधिं ततः ।
यज्ञसूत्राणि सन्धृत्वाऽन्तिमं होमं विधाय च ॥४०॥
भोजयामासुरत्यर्थं कन्यकाः कोटिसंख्यकाः ।
कुटुम्बिनस्तथाऽतिथीन् भोजयामासुरैश्वराः ॥४१॥
ददुर्दानानि च तथोत्तमानि विविधानि च ।
गोक्षेत्रारण्यरत्नानि वस्त्रभूषागृहाणि च ॥४२॥
सोपस्कराणि यानानि वाहनाऽन्नजलान्यपि ।
एवं दानानि दत्वैव यज्ञकार्यं समाप्य च ॥४३॥
वदन्तः परमाश्चर्यं स्वस्वगृहं ययुर्मुदा ।
गोपालकृष्णकश्चापि बालकृष्णयुतस्ततः ॥४४॥
निजालयं ययौ पक्षी वैकुण्ठं प्रययौ ततः ।
लोमशाद्या ययुर्नैजाश्रमान् सुखान्वितास्तदा ॥४५॥
एवं वै राधिके सालेमालीया दैत्यपुंगवाः ।
हताः श्रीहरिणा सर्वे ययुर्वैकुण्ठमेव ते ॥४६॥
तत्कन्यका हरिं वव्रुर्लोमशस्याश्रमस्थिताः ।
तन्मातरो दैत्यपत्नो याश्च वैधव्यमाश्रिताः ॥४७॥
आत्मश्रेयः पप्रच्छुस्ता लोमशं मुनिपुंगवम् ।
केनाऽत्र कर्मणा विद्वन् श्रेयः स्यादुभयत्र नः ॥४८॥
तद्वदाऽत्र दैत्यपत्नीः कृपया मुनिपुङ्गव ।
लोमशश्च तदा ताभ्यस्तत्सुताभ्यश्च सर्वथा ॥४९॥
सदाश्रेयस्करान् धर्मानुवाचाऽभ्युदयप्रदान् ।
अहिंसा सत्यमस्तेयं दानं क्षमा दमो दया ॥५०॥
अमानित्वं च शौचं च तपश्च ब्रह्मचारिता ।
शुभा वाक् साधुसेवा च परश्रेयःप्रदायकाः ॥५१॥
त्रयोदशांऽशो धर्मोऽयं नरनारीप्रपालितः ।
ऐहिकं सुखदं श्रेयो ददाति शाश्वतं ह्यपि ॥५२॥
श्रीकृष्णभजनं चाग्निसेवनं स्नानमित्यपि ।
भिक्षादनं गुरोः सेवा गुरोः प्रीत्युपपादनम् ॥५३॥
ऐहिकं सुखदं श्रेयो ददाति ह्यपि शाश्वतम् ।
गुरोर्गेहे वसेन्नित्यं तत्पत्नीं तत्सुतादिकम् ॥५४॥
देवान्मत्वा तथा देवीर्मत्वा संपूजयेत् सदा ।
शुश्रूषयेच्च निर्माना सा मृत्युं जयति ध्रुवम् ॥५५॥
आत्मभावनया साध्वी पितृदेवाऽतिथीनपि ।
सम्यक सम्प्रीणयेद् भक्त्या सा मृत्युं जयति ध्रुवम् ॥५६॥
सदाचारः सदा रक्ष्यो दैत्यैर्देवैश्च मानवैः ।
न चाऽऽचारविहीनाया भद्रमत्र परत्र च ॥५७॥
यज्ञदानतपांसीह सदा भवन्ति भूतये ।
सदाचारविहीनाया निष्फलान्येव तान्यपि ॥५८॥
दुराचारा हि वामाङ्गी नेह नामुत्र नन्दति ।
कार्यां यत्नः सदाचारे स त्वभद्रस्य नाशकः ॥५९॥
सदाचारस्तरुश्चास्ति नारीदेहे हि वर्तते ।
स चापत्यशरीरेऽपि ह्यवातरति सौख्यकृत् ॥६०॥
धर्मो मूलं तरोस्तस्य ह्यर्थः शाखाः सुसम्पदः ।
कामः पुष्पाणि रम्याणि मोक्षः फलं रसान्वितम् ॥६१॥
सोऽयं प्रसेवितो नार्या भद्रदोऽत्र परत्र च ।
ब्राह्मे मुहूर्ते प्रथमं बुध्येदनुस्मरेद्धरिम् ॥६२॥
देवानृषीन् सतीश्चापि वदेत् प्रभातमंगलम् ।
शंकरो वैष्णवश्रेष्ठश्चोक्तवान् मंगलं परम् ॥६३॥
प्रभाते यत् पठन्मर्त्यो मुच्यते पापबन्धनात् ।
प्राभातिकं मंगलं तत्कथयामि निबोधत ॥६४॥
श्रुत्वा स्मृत्वा पठित्वा च सर्वपापैः प्रमुच्यते ।
एतन्मंगलरटनाद् बहवो मोक्षणं गताः ॥६५॥
सर्वावतारजनकोऽक्षरतः परश्चा-
ऽनादिश्चकृष्णभगवान् परमेश्वरश्च ।
मुक्तास्तथाऽगणितसृष्टिषु वर्तमानाः
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥६६॥
राधायुतोऽगणितगोपसुगोपिकाभिः
संसेवितो हृदयपद्मगतश्च कृष्णः ।
लक्ष्मीरमापतिरथाऽस्य च पार्षदाद्याः
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥६७॥
श्रीवासुदेवसहिताः परमेश्वराश्च
नारायणा विविधधामगताश्च मुक्ताः ।
माणिक्यपारवतिकाकमलाप्रभाश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥६८॥
हैरण्यगर्भहरिशंकरसूर्यचन्द्राः
पृथ्वीसुतः शशिसुतो गुरुशुक्रधर्माः ।
आर्षाः शनिः पितर ऐशगणेश्वराश्च.
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥६९॥
रैभ्यश्च गौतमपुलस्त्यमरीचयश्च
भृग्वङ्गिरःपुलहलोमशगालवाद्याः ।
वासिष्ठभार्गवरिभुच्यवनादिकाश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥७०॥
श्रीपार्षदाः सनकनन्दनसत्कुमाराः
सौजातपिङ्गलसनातननारदाद्याः ।
इन्द्रादयो दिगधिपाः सुरकोटयश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥७१॥
सप्तस्वराः क्षितितलाश्च सुसूक्ष्मभूताः
स्थूलाश्च तत्त्वनिकरा गिरिवार्धयश्च ।
तीर्थानि चापगवराश्च पतिव्रताश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥७२॥
रुक्मागदो ध्रुवसुयज्ञकपुण्डरीक
प्रह्लादसूतशतसुव्रतकाऽम्बरीषाः ।
श्रीकृष्णवल्लभदिवोदशुकादिकाश्च
कुर्वन्तु मोक्षफलकं मम सुप्रभातम् ॥७३॥
इत्थं प्रभाते परमं पवित्रं शृणुयात्पठेत् ।
स्मरेद् भक्त्या सुप्रभातं भवेदेव न संशयः ॥७४॥
हरिं स्मृत्वा देहशुद्धिं कृत्वा स्नात्वा विधानतः ।
तर्पणं च तथा सन्ध्यां कुर्याच्छ्रीहरिपूजनम् ॥७५॥
तिलकं चन्द्रकं कुर्याद् देवपूजनमित्यपि ।
सूर्याय नमनं कुर्यात् प्रणमेत् पितरौ पतिम् ॥७६॥
गुरुं नत्वा सतीं नत्वा गां नत्वा होममाचरेत् ।
पश्येत् प्रातर्दधि दूर्वां सर्पिर्धेनुं सवत्सिकाम् ॥७७॥
उदकुंभं च वृषभं सुवर्णं स्वस्तिकं मधु ।
गोमयं चाऽक्षतान् लाजा मृदं ब्राह्मणकन्यकाः ॥७८॥
श्वेतपुष्पाणि सस्यानि वह्निं चन्दनमर्ककम् ।
अश्वत्थं साधुपुरुषं दर्पणं प्रतिमां हरेः ॥७९॥
अतिथिं पूजयेद्भावात् साधुसङ्गं समाचरेत् ।
अर्केऽभ्यङ्गं न वै कुर्यान्मंगले क्षीरमेव न ॥८०॥
बुधे न योषितं गच्छेन् पतिं गच्छेन्न पर्वणि ।
उदक्छिराः स्वपेन्नैव प्रतीचीमस्तको न च ॥८१॥
देवालयं चैत्यतरुं विद्वांसं च चतुष्पथम् ।
गुरुं वृद्धं प्रकुर्यात्तु प्रदक्षिणं वृषप्रदम् ॥८२॥
अन्यधृतं च मलिनं वस्त्रं नैव हि धारयेत् ।
स्नायान्नित्यं ग्रहादौ च देवदानादिकं चरेत् ॥८३॥
सत्सु वसेन्न त्वसत्सु पुण्यदेशेषु संवसेत् ।
बद्धवैरे वसेन्नैव धर्महीने जनेऽपि च ॥८४॥
अभोज्याः सूतिकाः षण्डो मार्जाराखू च कुक्कुटाः ।
पतिताऽपविद्धनग्नाश्चाण्डाला अधमाश्च ये ॥८५॥
ब्राह्मणी ब्राह्मणश्चापि भिक्षुकौ व्यभिचारिणौ ।
तावुभौ सूतिकेत्युक्तौ तयोरन्नं विगर्हितम् ॥८६॥
न जुहोत्युचिते काले न स्नाति न ददाति च ।
पितृदेवार्चनाद्धीनः स षण्डः परिगीयते ॥८७॥
दंभार्थं जपति यश्च तपति पठतीत्यपि ।
न परत्रार्थमुद्युक्तो मार्जारः परिकीर्तितः ॥८८॥
विभवे सति नैवाऽत्ति न ददाति न जुहोति न ।
तमाहुराखु तस्यान्नं भोक्तव्यं नैव धर्मिणा ॥८९॥
सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ।
तमाहुः कुक्कुटं तस्य जलान्नं बहु गर्हितम् ॥९०॥
स्वधर्महाः परधर्मग्राहकः पतितः स्मृतः ।
देवपितृगुरुत्यागी गोविप्रस्त्रीविघातकः ॥९१॥
अपविद्धस्तदन्नं न भोक्तव्यं पापदूषितम् ।
येषां कुले न वेदोऽस्ति न कथा नैव च व्रतम् ॥९२॥
ते नग्नाः कीर्तितास्तेषामन्नं संस्कारदूषितम् ।
आशार्त्तानामदाता च दातुश्च प्रतिषेधकः ॥९३॥
शरणागतसन्त्यक्ता स चाण्डालोऽधमो जनः ।
तेषामन्नं न भोक्तव्यं दोषभागन्यथा भवेत् ॥९४॥
यच्चापि कुर्वतो नात्मा जुगुप्सामेति सर्वथा ।
तत्कर्तव्यमशंकेन यत् स्यात् कल्याणदं परम् ॥९५॥
एवमाचारवत्याश्च सत्या गृहे वनेऽपि वा ।
धर्मार्थकाममोक्षा वै भवन्त्येव न संशयः ॥९६॥
भूमौ शय्या ब्रह्मचर्यं तपोभिश्चात्मदर्शनम् ।
सर्वसंगपरित्यागः श्रीकृष्णस्मरणं सदा ॥९७॥
सर्वार्पणं हरौ कृष्णे गुरौ सर्वान्तरात्मनि ।
यया कृतं न लिप्येत देहजैः कर्मभिः क्वचित् ॥९८॥
भवत्यः सर्वथाऽनादिकृष्णनारायणं हरिम् ।
बालरूपं प्रसेवन्ताम् परो मोक्षो भविष्यति ॥९९॥
अत्र चात्मनिवेदित्वं कृतं यया तु योषिता ।
तस्या धाम्नि परा मुक्तिर्भवत्येव न संशयः ॥१००॥
निद्रायां जाग्रति स्वप्ने स्थूले सूक्ष्मे हृदन्तरे ।
राजसे तामसे सत्वभावे स्मरन्तु माधवम् ॥१०१॥
आत्मना चेन्द्रियैर्वापि देहेन सेवया हरिम् ।
अन्तःकरणैः कर्मभिः प्रसादयन्तु तं पतिम् ॥१०२॥
इत्युक्तास्ताश्च जगृहुर्नाममन्त्रं हि लोमशात् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥१०३॥
इत्यस्य रटणं चक्रुर्दिवारात्रमतन्द्रिताः ।
शतं ता दिव्यतां प्राप्ताः सततं जपकारणात् ॥१०४॥
अनादिश्रीकृष्णनारायणो बालो विमानगः ।
शतेन तु विमानानां सहितः समुपाययौ ॥१०५॥
ताः समारोहयामास विमानाग्र्येषु माधवः ।
निनाय ताः परंधामाऽक्षरादप्युत्तरं हि यत् ॥१०६॥
अथ याः कन्यकास्तास्तु गृहीत्वा लोमशाद् गुरोः ।
उपदेशं च तं कृष्णं बालं मत्वा पतिं निजम् ॥१०७॥
भेजुस्तत्रैव कन्यासु स्थित्वा सहस्रशस्तदा ।
पठनाच्छ्रवणाच्चापि बालकृष्णं लभेत् सती ॥१०८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रावण्यां सरसस्तटे यज्ञसूत्रोत्सवे सालमालवंशीयदैत्यानामागमनं युद्धं प्रभुणा तेषां नाशो मोक्षधर्मा लोमशोपदिष्टाश्चेत्यादिनिरूपणनामा षड्विंशतितमोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : April 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP