संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५० Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽश्वपाटलस्तु श्रुत्वा श्रीलोमशं पुनः ।पप्रच्छ त्यागमार्गं च प्रत्यक्षं फलदं तथा ॥१॥अश्वपाटल उवाच-त्यागमार्गेण प्रत्यक्षं यत्फलं समजायते ।तद्वदाऽत्र महर्षे मे किं प्रत्यक्षं च किं फलम् ॥२॥किमत्र प्रत्यक्षतमं यदुपास्ते भवानिह ।प्रत्यक्षे खलु सर्वेषां समानताऽवलोक्यते ॥३॥भवानपीह शोकं च यथा हर्षं च विन्दति ।इन्द्रियार्थाश्च भवतः समानाः सर्वदेहिनाम् ॥४॥समानानां हि सर्वेषां किं प्रत्यक्षं निरामयम् ।भवतो हि किमाधिक्यं गृहमेधित एव यत् ॥५॥श्रीलोमश उवाच-हरौ त्यागस्त्यागमार्गः किमन्यत् त्यजनेन वै ।सर्वस्वार्पणरूपोऽयं त्यागः सर्वोत्तमो हरौ ॥६॥तेनाऽऽत्मनो हि साक्षात्त्वं तत्प्रदत्तदृशा खलु ।फलं चात्मसुखं चापि परमेशप्रसादतः ॥७॥अहमुपास्से प्रत्यक्षं बालकृष्णनरायणम् ।अनादिश्रीकृष्णनारायणं श्रीकंभरासुतम् ॥८॥चक्षुषोर्मनसश्चापि यः प्रत्यक्षतमोऽत्र वै ।आत्मन्येव परब्रह्म स एवाऽऽस्ते श्रियाः पतिः ॥९॥लक्ष्मीपतिः सतां स्वामीमुक्तपतिः परेश्वरः ।कुंकुमवापिकाक्षेत्रलालः श्रीकृष्णवल्लभः ॥१०॥ब्रह्मप्रियापतिश्चात्मपतिर्विद्यापतिः प्रभुः ।मुक्तिपतिश्चाऽक्षरेशो धामेशाधिपतिर्हरिः ॥११॥स प्रत्यक्षतमो मेऽत्र राजँस्तं त्वं विलोकय ।हर्षं शोकं प्रविन्दामि राजन् नाट्यस्य वेषवत् ॥१२॥समानानीन्द्रियाण्येव देहे समानताऽपि च ।ग्रहणादिव्यवहारः समानोऽपि तथापि तु ॥१३॥भूतावेशितवन्नित्यं चरामि परमात्मना ।स भोक्ता स नियन्ता च स एवाऽऽलोचनादिमान् ॥१४॥सर्वभूताधिभूतेनाऽऽवेशितोऽहं चरामि यत् ।हर्षं शोकं स एवाऽत्र देहे वेत्ति न देह्ययम् ॥१५॥तथापि नाट्यवत्सर्वं दर्शयामि यथा मयि ।अहं वेद्मि तथा वेत्ति मार्कण्डेयो महामुनिः ॥१६॥वेत्ति सनत्कुमारश्च नारदो वा नरायणः ।स्वयंप्रकाशः शंभुर्वा वेत्ति नान्यो भुवंगतः ॥१७॥कपिलाद्याश्च वर्तन्ते जले कमलवद्धि ते ।निर्लेपास्ते वयं कृष्णलिप्ता अपि विलेपिनः ॥१८॥राजाद्याः स्वार्थलिप्ताश्च प्रत्यक्षं सुखिदुःखिनः ।वयं सन्तः कृष्णनारायणाऽजस्रपरायणाः ॥१९॥तदर्थकृतसर्वस्वास्तन्मयास्तद्विशेषिताः ।चिन्तारोगो न चास्माकं साधूनां विद्यते यतः ॥२०॥यो रोगो जीवतां देहेन्द्रियात्मवादिनां त्विह ।स रोगो विगतो नश्च तस्मान्निरामया वयम् ॥२१॥वासना रोगमूलं च सा च नारायणेऽर्पिता ।धन्वन्तरिमहावैद्ये नाडिका सर्वतोऽर्पिता ॥२२॥तस्यान्निरामयाः स्मोऽत्र राजँस्त्वं तादृशो भव ।हरिप्रदत्तज्ञानेन विहरामोऽत्र वर्ष्मसु ॥२३॥तत्प्रेरितं प्रकुर्मश्च सर्वमर्थ्यं निरामयम् ।तत्कृतं समनुष्ठानं सर्वं चास्ते निरामयम् ॥२४॥तत्प्रदत्तं च विज्ञानं शोकं जहाति मूलतः ।तं विना स्वार्थवृत्त्युत्थं ज्ञानं नाशयति प्रजाः ॥२५॥अतो वयं ज्ञानवन्तो निरामया हि भूपते ।ऐकात्म्यं ब्रह्मणा नारायणेनाप्तं निरामयम् ॥२६॥तत्त्वमबुद्ध्वा बहवश्चाहंकारवशंगताः ।वादबला न जानन्ति निरामयत्वमीदृशम् ॥२७॥ततो भवन्ति ते ब्रह्मस्तेना मोहवशंगताः ।तमोभावनिमग्नानामेषां तमः परायणम् ॥२८॥प्रकृतिं स्वां दोषरूपां दंभाऽनृतमदात्मिकाम् ।प्राकृताः सम्प्रयान्त्येव ब्राह्मास्तदूर्ध्ववर्तनाः ॥२९॥एवमान्तरबोधास्ते सन्त्यजन्ति शुभाशुभम् ।परां गतिं प्रपश्यन्तः सन्तो नारायणे रताः ॥३०॥दानमध्ययनं यज्ञः प्रजा सन्तानमार्जवम् ।हरिं विना साऽऽमयं तन्मोक्षः कृत्वाऽपि नास्ति चेत् ॥३१॥धिक्कारपदमेतद् वै श्रमः सर्वो निरर्थकः ।राज्येषु स्त्रीषु लोकेषु देहेन्द्रियाऽर्थभुक्तिषु ॥३२॥वर्तमानोऽपि चेत् कृष्णार्पणः सोऽयं निरामयः ।निर्वस्त्रो निर्जनश्चापि निष्पात्रो निष्परिग्रहः ॥३३॥सर्वसहोऽपि वै कृष्णार्पणं विना क्षयाऽऽमयः ।तस्माद् राजन् भव काण्डैस्त्रीभिश्चापि निरामयः ॥३४॥शुष्कज्ञप्त्या कर्मणा वा का निरामयता भवेत्? ।कृष्णभक्त्याऽर्पणभक्त्या ध्रुवं निरामयो भवेत्। ॥३५॥नामसंकीर्तनं शब्दब्रह्म बोध्यं निरामयम् ।तत्र निष्णाततां प्राप्य परब्रह्माऽऽगमं व्रजेत्। ॥३६॥एवं शुद्धसमाचारश्चात्मा भवति ब्राह्मणः ।कृष्णे त्यागक्रियावांश्च परिग्रहविवर्जितः ॥३७॥मनःसंकल्पसंसिद्धो विशुद्धबोधनिश्चयः ।जन्म कर्म च विद्या च शुक्ला यस्य हरौ मताः ॥३८॥प्रत्यक्षब्रह्मपरमः श्रद्दधानः परावरे ।सत्संगतो भावितात्मा शीलसन्तोषसद्व्रतः ॥३९॥धर्म भागवतं कृच्छ्रे सत्यप्याचरतीह यः ।तस्य ब्रह्मसुतस्यैव ब्रह्मांकशयनस्य वै ॥४०॥निरामयत्वं चास्त्येव शाश्वतं निरुपद्रवम् ।नास्य वै वर्तते किंचिद् विधातव्यं दिवं प्रति ॥४१॥प्रायश्चित्तं न चैवास्य कर्मणां चार्पणाद्धरौ ।एवं बहुविधा विप्रा यज्ञकर्मपरायणाः ॥४२॥शुचयो व्रतवन्तश्च त्र्यवदाना हरिस्थिताः ।यजन्तोऽहरहर्यज्ञैराशाबन्धनवर्जिताः ॥४३॥ऋजवः शमजित्याश्च ब्रह्मकर्मपरायणाः ।ब्रह्म येषां परो धर्मः परार्थो ब्रह्म नित्यदा ॥४४॥कामोऽपि ब्रह्म चैतेषां मोक्षो ब्रह्म सनातनम् ।न्यूनं वाऽऽधिक्यमेवापि वर्तनं ब्रह्म शाश्वतम् ॥४५॥व्युत्क्रमश्च क्रमश्चापि येषां ब्रह्म परात्परम् ।तेषां कृष्णात्मनां ब्रह्मसत्तमानां तु शाश्वतम् ॥४६॥स्वर्गं स्वर्गोत्तमं नित्यं निरामयं महासुखम् ।शाश्वतानन्दपूर्णं ते यन्ति तत्परमं पदम् ॥४७॥गृहे यद्वा वने यद्वा न्यासे वा ब्रह्मणि स्थिताः ।यन्ति ते सात्वता राजन् परब्रह्म परेश्वरम् ॥४८॥सकामास्ते तु दृश्यन्ते दिवि ज्योतिर्मयाः सुराः ।धिष्ण्येषु बहुभोगाश्च नक्षत्रतारकागणाः ॥४९॥अकामा नैव दृश्यन्ते दूरं पारं परं गताः ।सकामाश्च पुनः सन्तो भूत्वा यास्यन्ति तत्पदम् ॥५०॥ब्रह्मात्मनामतृष्णानां तेषामनामयं ध्रुवम् ।धामाऽक्षरं परब्रह्मस्थानं परं निरामयम् ॥५१॥सामयस्य कृते धर्मः परोपकारसंज्ञकः ।पुण्यदः पुण्यशीलस्य गृहे जन्मप्रदस्तथा ॥५२॥पुण्यजन्मतया चार्थः पुण्यलाभोऽस्य जायते ।कामना रागहीना च कृतात्मनः प्रजायते ॥५३॥त्यागसन्तोषसिद्धिश्च प्रज्ञा विशारदी भवेत् ।अपवर्गमतिश्चापि ब्रह्मधर्मपरो भवेत् ॥५४॥ब्रह्मणः पदमन्विच्छन् ब्रह्मलोकं प्रयाति च ।गच्छन् क्षेमं समन्विच्छन् दुर्बलोऽत्राऽवसीदति ॥५५॥भुंक्ते दत्ते च यजते प्राप्ताभिर्वस्तुभिर्यदि ।परिग्रहः शुभोऽप्यस्य न त्यागसुखसदृशः ॥५६॥कर्मपाकः शरीरं वै ज्ञानपाको निरीहता ।भक्तिपाको ब्रह्मता च ब्रह्मपाकः परं पदम् ॥५७॥दया क्षमा च सन्तोषः सत्यं शान्तिरहिंसनम् ।आर्जवं ह्रीस्तितिक्षा च मानगर्वविवर्जनम् ॥५८॥सत्संगो भक्तिभावश्च सेवा सतां सुरार्चनम् ।पन्थानो ब्रह्मणस्त्वेते प्राप्नोत्येतैः परं पदम् ॥५९॥गतिं गच्छन्ति सन्तो यां तामाहुः परमां गतिम् ।संसारो वासनावर्गः सन्तोषस्त्वपवर्गकः ॥६०॥साम्येऽपीन्द्रियवर्गेऽपि सामयाऽमयते नृप ।एते निदेशिते तेऽत्र निरामयत्वमावह ॥६१॥अश्वपाटल उवाच-धर्मार्थकामान् सततं चामनन्तीह देहिनः ।मोक्षं केचित् समिच्छन्ति तस्माद्वै बलिनस्त्रयः ॥६२॥तत्र लाभो विशिष्टो वै कस्याश्रयेण देहिनः ।किं फलं कीदृशं चेति तन्मे लोमश दर्शय ॥६३॥लोमश उवाच-राजन्पुरा ह्यहं कल्पे गतोऽभवं वनान्तरे ।पुष्करारण्यसंज्ञे च तत्र विप्रो विशालिकः ॥६४॥आसीत्तेन कृता मे च पूजा फलजलादिभिः ।तपस्विना दुर्बलेन निर्धनेन च रागिणा ॥६५॥ततोऽहं पृष्टवाँस्तस्य कुशलं स जगाद माम् ।दारिद्र्यं दुःखदं लोके तन्निराकुरु लोमश ॥६६॥ततस्तं च समादाय गतोऽहं चोत्तरां दिशम् ।कुबेरनगरं दिव्यं व्योम्ना द्रव्यप्रलिप्सया ॥६७॥कुबेरः स्वागतं चक्रे ददौ धनं यथेष्टकम् ।विशालिकः प्रसन्नोऽभूद् द्रव्यं जग्राह शेवधिम् ॥६८॥अथापि धनराजेन निशि निजपुरे शुभे ।रक्षितौ मन्दिरे रम्ये त्वावामास्व च निद्रितौ ॥६९॥अहं जानामि तत्सर्वं निद्रायां ब्राह्मणेन यत् ।विलोकितं महाश्चर्यं कल्मषाढ्यं हि तच्छृणु ॥७०॥अपश्यत जनान् काँश्चिद्धर्माढ्यान् शुद्धमानसान् ।काँश्चित्कामाभिभूताश्च नृत्यगीतपरायणान् ॥७१॥काँश्चित्स्वर्णमणिरत्नद्रव्याभूषणसंभृतान् ।कुबेराद् द्रव्यमादाय गच्छतः स्वपुरीं प्रति ॥७२॥तावद् भूकम्पनं जातं भूतनाशकरं मुहुः ।पृथ्वीगर्तगतास्ते वै मृता निष्पेषिता मृदा ॥७३॥तत्रायाता यमदूता नेतुं मृताननेकशः ।कामिनो नीतवन्तस्ते दृढबन्धनबन्धितान् ॥७४॥धनिनोऽपि नीतवन्तो विना बन्धनमेव तान् ।ततो ददर्श कामं च क्रोधं लोभं भयं मदम् ॥७५॥निद्रां तन्द्रां महालस्यं पापं चावृत्य तान स्थितान् ।निरोधयितॄन् स्वर्गाणि भयदान् याम्यदुःखदान् ॥७६॥विविधान् निरयाख्याँश्च पुरुषान् परितः स्थितान् ।तानेव विप्रः स्वद्रव्ये ददर्श लीनतां गतान् ॥७७॥भयं चावाप वै स्वप्ने विप्रो दोषान् विलोक्य च ।तावद् देवाः समायाता धार्मिकान् नेतुमेव ह ॥७८॥विमानैः शुभशोभैश्च स्मृद्धैः सम्मानितान् मृतान् ।धार्मिकान् देवतुल्याँश्च कृत्वा निन्युर्हि तापसान् ॥७९॥हर्षितान् धार्मिकान् प्राप्तदिव्यलोकान् विलोक्य सः ।विप्रो विचारयामास तपोद्रव्यं परं सुखम् ॥८०॥धनं दोषभृत चास्ते कामः कल्मषसंभृतः ।निरयाणां कारणे तौ धनकामौ न शान्तिदौ ॥८१॥अथोऽनर्थस्वरूपोऽस्ति कामो दुःखस्वरूपवान् ।तपोधर्मः स्वर्ग एव धर्मं चरामि वै ततः ॥८२॥चरिष्येऽपि ततो धर्मं लोमशस्य कृपावशात् ।अस्याऽनुग्रहमाप्यैव सुखं प्राप्स्ये वृषोद्भवम् ॥८३॥पृथिवीं रत्नपूर्णां वा महान्तं रत्नसंचयम् ।अवाप्य याम्यलोकानां द्वारं नैष्ये कदाचन ॥८४॥इत्युक्त्वा तु धनं प्रातस्त्यक्त्वा तत्रैव मन्दिरे ।तं कुबेरं नमस्कृत्य ययौ वै तपसे द्विजः ॥८५॥लोमशेन समं श्रेष्ठं तपो दिव्यं चकार ह ।देवार्चनपरो नित्यं नित्यं चातिथिपूजनः ॥८६॥लोमशाश्रयमासाद्य पर्णाहारो बभूव ह ।जलाहारस्ततश्चासीद् वायुभक्षो बभूव च ॥८७॥दिव्यदृष्ट्या द्विजश्चापि यमपुर्यां नृपान् गतान् ।कुण्डे राजसहस्राणि मग्नानि निरये तदा ॥८८॥ददर्श तपसा चापि नारकान् काममोहितान् ।ततः स्वप्नं क्षणात्तस्य तत्रैवान्तरधीयत ॥८९॥विशालिको द्रुतं शय्यां त्यक्त्वा श्रीलोमशं मुनिम् ।प्रणनाम जगादापि दृष्टं सर्वमनिष्टकम् ॥९०॥कामोऽर्थश्च सदा याम्यलोकदौ दुःखदौ गुरो! ।मया दृष्टौ यमपुर्यां धर्मः स्वर्गप्रदो मतः ॥९१॥धर्माद् दृष्टा गतिः श्रेष्ठा तपसा स्वर्गसंभृता ।देवताः सविमानाश्च पूजयन्तीह धार्मिकान् ॥९२॥न धनाढ्यान्नापि चात्र कामिनः पूजयन्ति ते ।धर्मे सुखकला चास्ते चरिष्यामि वृषं हितम् ॥९३॥नेदं धनं मया ग्राह्यं दुःखदोषानुसेवितम् ।सर्वे दोषा निवसन्ति धने दृष्टा मया गुरो ॥९४॥अद्य स्वप्ने मया दृष्टं कम्पनं वै भुवः खलु ।धनारंभे महद्दुःखभरं यद्दर्शनं त्विह ॥९५॥तदेवाऽमंगलं मेऽद्य तद्धनं न प्ररोचये ।इत्युक्त्वा धनदायैव धनं दत्वा तु भूसुरः ॥९६॥लोमशेन मया सार्धं चायात् कुंकुमवापिकाम् ।भेजे कृष्णं परब्रह्म तपसा धर्मसंभृता ॥९७॥भक्तिं जगाम परमां भक्त्या नारायणस्य च ।वैशालिकं हि तत्तीर्थं जातं चात्र पुरा नृप ॥९८॥तस्माद्धर्मो महास्वर्गमोक्षदः सुखशान्तिदः ।निर्दोषः श्रीहरो न्यस्तो धर्मो निष्कामसात्त्वतः ॥९९॥सात्त्वतानां समाचारस्तपो ध्यानं क्रतुक्रिया ।भजनं सेवनं देवदेवस्याश्रयणं सदा ॥१००॥तन्मयत्वं तत्परत्वं तदर्थत्वं तदात्मता ।तस्य सम्बन्धवत् सर्वं दिव्याचरणमेव यत् ॥१०१॥स्नानसन्ध्यादिकं दैह्यं स्मृत्याराधनमान्तरम् ।पूजार्चाद्यं सामयिकं सत्संगाद्यं तु सार्थजम् ॥१०२॥सर्वं वै पावनं पुण्यं धर्माख्यं चात्मनो हितम् ।पापनाशकरं चापि याम्यदूतनिरोधकम् ॥१०३॥विष्णुधामप्रदं स्वर्ग्यं शाश्वतानन्ददायकम् ।इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ॥१०४॥राजा धर्मे मनः कृत्वा पुनः पप्रच्छ वै गुरुम् ।लोमशं ज्ञानदं दिव्यात्मानं ब्रह्मपरायणम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलकृतस्त्यागमार्गप्रत्यक्षफलप्रश्रः, निरामयप्रश्रः, त्रिवर्गेषु किंश्रेष्ठप्रश्नः, लोमशकृतोत्तरं चेत्यादिनिरूपणनामा पञ्चाशदधिकद्विशततमोऽध्यायः ॥२५०॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP