संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९६ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे ततः श्रीमान् बालकृष्णः परेश्वरः ।विमानादवतीर्याऽऽद्ये रम्येऽश्ववाहने शुभे ॥१॥व्यराजत् स्वर्णशोभाढ्ये छत्रचामरयोजिते ।और्णचित्रादलिकास्तरणगद्दिसमन्विते ॥२॥फेनतन्तुनृपः कृष्णं पुपूज पुष्पहारकैः ।स्वर्गहारैश्चन्दनाद्यैरमूल्यवरवस्तुभिः ॥३॥राज्ञी राजकुटुम्बं च फालनादमुनिस्तथा ।प्रजाश्चापि तदाऽऽनर्चुः श्रीपतिं गौरिकापतिम् ॥४॥राजा सैन्येन सहितः स्वागतेन विवर्धयन् ।हरिं वै भ्रामयामास त्रिनयायां समन्ततः ॥५॥राजधान्या गोपुरे तं प्रधानाः समपूजयन् ।राजमार्गे राजभृत्याः श्रेष्ठिनश्चत्वरादिके ॥६॥प्रतिहट्टं क्रयिणश्च विक्रयिणः प्रजाजनाः ।चन्दनैः कुंकुमैः पुष्पैर्दिव्यैः श्रीफलभूषणैः ॥७॥वर्धयामासुरत्यर्थे गौर्यः स्थले स्थले तदा ।नेमुश्चाक्षतलाजाभिर्वर्धयामासुरच्युतम् ॥८॥प्रजाजन्मफलं लेभुर्दर्शनेन हरेस्तदा ।गौर्यो नेत्राऽऽयतलाभं प्रापुः कृष्णं विलोक्य च ॥९॥त्रिनयानगरी सर्वा जनसंकुलिता तदा ।हरेर्दर्शनकार्यार्थं त्यक्ताऽन्यकार्यिकाऽभवत् ॥१०॥एवं सर्वत्र संस्थानेष्वखिलेष्वपि माधवः ।दत्वा स्वदर्शनं राजसौधं सन्मानितोऽगमत् ॥११॥तत्रोपदेशं प्रददौ प्रजाभ्यो भगवान् स्वयम् ।विराजमानः सौवर्णे सिंहासनेऽतिभास्वरः ॥१२॥जेतव्यं च मनो नित्यं संसारवासनाश्रितम् ।इन्द्रियाणि तथाऽर्थेभ्यो जेतव्यानि विशेषतः ॥१३॥निवर्तितव्यं सततं विषयेभ्यश्च देहिभिः ।वृथा चिन्ता न कर्तव्या विहाय परमेश्वरम् ॥१४॥दिनं व्यर्थं न नेतव्यं भक्तिं भगवतो विना ।आयुर्व्यर्थं न नेतव्यं साधूनां सेवया विना ॥१५॥आयासो न वृथा कार्यः सत्संगमन्तरा जनैः ।वाणी व्यर्था न नेतव्या विना मे कीर्तनं क्वचित् ॥१६॥दैहिकं न वृथा क्षेप्यं विना समर्पणं मयि ।रात्रिर्व्यर्था न वै क्षेप्या विना ध्यानं हरेर्मम ॥१७॥धनं व्यर्थं न कर्तव्यं विना मन्मन्दिरादिकम् ।आत्मा व्यर्थो न योक्तव्यो विना मां परमेश्वरम् ॥१८॥माया व्यर्था भवेत् सर्वा यद्यहं नास्मि तत्र च ।तथा व्यर्थं भवेत् सर्वं यत्राऽहं नास्मि पूजितः ॥१९॥पूजिते तु मयि कृष्णे सर्वे भवति पूजितम् ।मय्यर्पिते मनाक् चार्थे सर्वार्थो निर्गुणो यतः ॥२०॥नैर्गुण्येन सदा भाव्यं भक्तैर्मानुषविग्रहैः ।अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥२१॥सत्यं धृतिः स्मृतिर्दान्तिश्चोपरतिर्विलुब्धता ।गुणा ह्येतेऽर्पिताः कृष्णे मयि नैर्गुण्यमाप्नुयुः ॥२२॥तेन मुक्तिर्भवेदेव मोक्षदोऽहं च निर्गुणः ।सर्वैश्वर्यचमत्कारदिव्यगुणादिसंभृतः ॥२३॥भक्ते नैर्गुण्यमासञ्ज्य तारयामि न संशयः ।अहिंसा सत्यवचनमानृशंस्यं दमो घृणा ॥२४॥एतत्तपो महत्प्रोक्तं तेन तुष्याम्यहं सदा ।देहस्य शोषणाच्छ्रेष्टं मनःशोषणमेव ह ॥२५॥मनसः शोषणात् सेवा दास्यं श्रेष्ठं मतं मम ।आज्ञानुसारसंस्थानं सर्वेभ्योऽप्यधिकं मम ॥२६॥आज्ञांकितो जनो नित्यं दूरोऽपि निकटेऽस्ति वै ।अनाज्ञाकृन्निकटेऽपि विदूरेऽस्तीति मे मतम् ॥२७॥तस्मादाशा पालनीयाः गुरोः पित्रोर्हरेः स्त्रियाः ।पत्युश्च पूज्यवर्गस्य विशेषज्ञस्य सर्वदा ॥२८॥मया वेदा हि रचिता आज्ञा वै विधयश्च ताः ।ऋषिभिस्ताः श्रेयसे च स्मर्यन्ते देहिनां मुहुः ॥२९॥प्रजाभ्यस्तूपदिश्यन्ते वर्तन्ते तदनुसृताः ।ये ते मुक्तिं प्रयान्त्येव भुक्त्वा स्वर्गानि भूरिशः ॥३०॥सन्मानयेत्पूजयेच्च ऋषीन् वाचा च कर्मणा ।कुर्याच्च प्रियमेतेभ्यो नाऽप्रियं किञ्चिदाचरेत् ॥३१॥ऋषयः साधवो दिव्या मम मूर्तय एव ते ।सर्वथा गुणकोशास्ते मत्स्वरूपा विमुक्तिदाः ॥३२॥नहि दोषो गुणो वेति निरूप्यस्तेषु दृश्यते ।य एवं वर्तते नित्यं साधुसत्संगमण्डले ॥३३॥यत्र क्वापि स्थितः तेऽत्र कल्प्यते यशसे चिरम् ।परे स्वर्गे मम धाम्नि गत एव स कल्प्यते ॥३४॥लोकोऽयं त्वापदां स्थानं क्षणे क्षणे विपत्प्रदः ।सतां योगाऽज्ञानलब्ध्या विलीयन्ते तदापदः ॥३५॥आपदो द्विविधाः सन्ति बाह्याश्चाभ्यन्तरास्तथा ।स्वेन वान्येन वा सर्वाः प्राविर्भवन्ति नित्यशः ॥३६॥आभ्यन्तरा भवन्त्येव स्वेन कृतेन कर्मणा ।बाह्यास्त्वन्यसमुत्पन्ना विना कृत्यं भवन्त्यपि ॥३७॥आभ्यन्तराः सहनेन ज्ञानेन निर्वहेण च ।बाह्या अनुनयेनाऽनुसृत्या दानेन यान्ति च ॥३८॥शक्त्याऽन्नदानं सततं द्रव्यदानं ह्यपेक्षितम् ।आर्जवं मार्दवं चाति तितिक्षा पूजनादिकम् ॥३९॥प्रसन्नीकरणं चापि बाह्यापदां निवारकम् ।सर्वापदां नाशकन्तु सतामाशीर्वचो मतम् ॥४०॥श्रीहरेर्मे श्रयणे तु सर्वसौख्यप्रदं मतम् ।सुखानां शेवधिश्चाऽहं यत्र भक्तैः सुपूजितः ॥४१॥रक्षितश्च धृतश्चापि तत्राऽऽनन्दस्य वारिधिः ।न तत्राऽऽपत्प्रलेशोऽपि यत्राऽहं सुखसागरः ॥४२॥यत्र नाऽहं तत्र चौरा दुष्टा घ्नन्ति पुरीपतिम् ।प्रजा घ्नन्ति सत्प्रामाण्यं घ्नन्ति विना प्ररक्षकम् ॥४३॥पुरा काकलतो नाम्ना मुनिरासीद् द्रुमाश्रयः ।काकं स शिक्षयामास मानुषैः सहवासनम् ॥४४॥काकास्तु बहवस्तस्य वृक्षे तिष्ठन्ति पञ्जरे ।काकविद्यां चिरेणासावधीतवान् समागमात् ॥४५॥वाणीं सर्वां ज्ञातवाँश्च शनैः शनैः प्रसंगतः ।शकुनानि विजानाति जानात्यशकुनानि च ॥४६॥काकान् स पंजरे कृत्वा पर्यचरति पत्तने ।कोसलायां नगर्यां स ययौ वसतिसन्निधौ ॥४७॥वदन् जनान् भाग्यदर्शी प्रवृत्त्यर्थी पुनः पुनः ।अधीध्वं वायसीं विद्यां शंसन्ति मम वायसाः ॥४८॥अनागतमतीतं च वर्तमाने च वेद्म्यहम् ।एवं भ्रमन् चतुर्मास्सु नगर्यां च गृहे गृहे ॥४९॥सर्वेषां राजभृत्यानां दुष्कर्म परिदृष्टवान् ।सर्वेऽन्यायेन गृह्णन्ति धनानि राजसेवकाः ॥५०॥मद्यं मांसं च खादन्ति चौर्यं कुर्वन्त्यशीलिनः ।निर्दयाश्च प्रजाः सर्वाः पीडयन्त्यप्रकाशितम् ॥५१॥राजानं हन्तुमिच्छन्ति राज्याप्तयेऽपि तेऽनुगाः ।एतत्सर्वं काकवाचा परिज्ञाय ययौ नृपम् ॥५२॥सर्वज्ञोऽस्मीति नृपतिं प्राह भृत्यादिवर्तनम् ।अमात्यं प्राह नृपतेर्वचनादपि काकपः ॥५३॥इदं द्रव्यं चोरितं चामुत्रेदं च त्वया कृतम् ।असावत्र राजकोशस्त्वया हृतो विनाशितः ॥५४॥अन्ये कोशहराश्चापि भवन्तीमेऽनुगास्तव ।एवमाख्याति काकोऽयं सत्यमेतन्मयोदितम् ॥५५॥राजा प्रगृह्य तान् सर्वान् कोशद्रव्यममार्गयत् ।सर्व सत्यं प्रजातं तत् नाऽनृतं कथितं तु यत् ॥५६॥तेन राज्ञा दण्डितास्ते प्रधानाद्यास्ततः परम् ।अन्ये भृत्या भीतिमाप्ता दण्डस्य काकवाचिनः ॥५७॥रात्रौ सुप्तस्य विप्रस्य बाणैः काकमवेधयन् ।अन्ये काका भिन्नजालात्पञ्जरान्निर्ययुस्ततः ॥५८॥मृतं काकं प्रसमीक्ष्य विप्रो गत्वा नृपं प्रति ।प्राह राजँस्तव क्षेमं याचे त्वां निर्भयं तथा ॥५९॥वचनात्ते मया सत्यं प्रोक्तं काकोदितं तु यत् ।दण्डिताश्च त्वया भृत्या अन्ये भीतास्ततो न्विमम् ॥६०॥काकं मे हतवन्तस्ते दुष्टा भृत्यास्तवाऽहिताः ।राजा यत्र बली नास्ति तत्रेयं मे दशाऽऽगता ॥६१॥काकद्रव्यं हतं मेऽत्र काकाश्चान्ये गतास्तथा ।त्वत्तः प्राप्तं न वै किञ्चित् प्राणभीतिं विनाऽपरम् ॥६२॥बहुमित्रा हि राजानो बह्वमित्राश्च ते तथा ।राजसंगप्रसक्तस्य नाशः पूर्वं प्रवर्तते ॥६३॥नैकान्तेनाऽप्रमादो हि कर्तव्यः स्यान्महीपतौ ।प्रमादिते महीपतौ विश्वस्तो यः स नश्यति ॥६४॥प्रमादाद्धि स्खलेद् राजा स्खलिते नास्ति जीवनम् ।राजानं सेवयेत् प्राज्ञो मृतोऽस्मीत्यभिमत्य वै ॥६५॥दुर्व्याहृतादनादेशाद् दुःस्थिताद् दुरधिष्ठितात् ।दुरासिताद् दुर्व्रजिताद् ईंगितादंगचेष्टितात् ॥६६॥शंकमानः प्रवर्तेत प्राज्ञो नृपस्य सन्निधौ ।वैश्वानर इव क्रुद्धश्चेद् यावत् प्रदहेन्नृपः ॥६७॥तस्मान्नाऽहं निवत्स्येऽत्र मम क्षेमाय केवलम् ।परं निबोध मे राजन् यत्र राजा न विद्यते ॥६८॥तत्रापदः प्रजास्वेव जायन्ते दुष्टनोदिताः ।यत्र राजा निर्बलश्चाऽद्रष्टाऽज्ञाताऽविवेकवान् ॥६९॥तत्रापि चापदो गुर्व्यो भवन्त्येव प्रजास्वपि ।भवद्राज्ये वसन्त्येव भृत्या आदानतत्पराः ॥७०॥अभूतिकामा भूतानां विनाशचौर्यहारिणः ।ये वा भवद्विनाशेन राज्यमिच्छन्त्यनन्तकम् ॥७१॥तेषामहं भयाद् राजन् गमिष्याम्यन्यमाश्रयम् ।यथा काको मृतस्तैश्चाभिसन्धितशरेण मे ॥७२॥तथाऽहं वा तथा त्वं वा मा बाणस्य गतिं गतः ।स्यां स्या वेति विनिश्चित्य तीर्णोऽस्मि काकदानतः ॥७३॥बहुनक्रझषग्राहां तिमिंगिलगणैर्युताम् ।तव राज्यात्मिकां दुष्टां नदीं मरणदायिनीम् ॥७४॥गहनं तव राज्यं वै ह्यन्धकारमयं ननु ।नेह विश्वसितुं शक्यं भवताऽपि कुतो मया ॥७५॥अतो नात्र शुभो वासो वधो यत्राऽग्रगोऽस्ति वै ।सुकृतं वध्यते यत्र रक्ष्यन्ते दुष्प्रकर्मिणः ॥७६॥नेह युक्तं चिरं स्थातुं चात्मनः क्षेममिच्छता ।मधुप्रपातं राज्यं ते भोजनं विषसंयुतम् ॥७७॥आशीविषैः परिवृतं चासद्भिः खादितं पृथक् ।श्वगृध्रगोमायुयुतं राजँस्तत्परिशोधय ॥७८॥त्वया पुष्टास्त्वया राज्येऽधिकृताः परिपालिताः ।त्वामेव चाभिसन्धाय जिघांसन्ति तवाऽनुगाः ॥७९॥भवतोऽर्थे मम काको हतस्तैर्दुष्टमानसैः ।तस्माद् यामि महाराज कारणं नान्यदस्ति यत् ॥८०॥अरेर्हि दुर्हृदात् सर्वैर्भेत्तव्यं क्षेमयाचिभिः ।इत्युक्तश्च नृपः प्राह काकिनं सत्यवादिनम् ॥८१॥अहं रक्षां करिष्ये ते सत्कारेणाऽपि भूयसा ।तोषयिष्ये काकपालिन् भूयो वस गृहे मम ॥८२॥एवं तं कथयन्तं च राजानं प्राह काकपः ।मा कुरु त्वं साहसं वा वेगं राजन् विधाविह ॥८३॥किन्त्वेकैकं प्रदण्डेन प्रगृह्य दुर्बलीकुरु ।ततो दोषानुसारेण प्रत्येकं पुरुषं जहि ॥८४॥एवं कृते विजयस्ते नाऽन्यथा सहसा कृते ।कण्टका बहवो युक्ता हिंसन्ति हस्तिनं दृढाः ॥८५॥मृदवो बहवो युक्ता हिंसन्ति बलिनं नृपम् ।अदृश्या बहवो दोषा निघ्नन्ति वर्ष्मणः पतिम् ॥८६॥तस्मादेकैकशो दोषा इव क्षय्या हि शत्रवः ।एवमुक्ते चकारैवं राजा जघान वै क्रमात् ॥८७॥शत्रून् निष्कष्टकं राज्यं कृत्वा श्रीकोसलाधिपः ।शशास पृथिवीं पश्चात् कृत्वा सत्कर्मशोभनम् ॥८८॥व्रतं तपस्तीर्थविधिं कृत्वा सेवां गुरोः सताम् ।कृत्वा च भजनं दिव्यं ययौ धाम सुखास्पदम् ॥८९॥तथा देहनगर्या वै राजा कौशलनामकः ।आत्माऽयं वर्तत दस्युवर्यक्रोधादिपीडितः ॥९०॥गुरुः काकी शास्त्रकाकान् सह नीत्वा पुरीपतिम् ।क्रोधादीनां तु दुष्टत्वं वदत्येव पुनः पुनः ॥९१॥दोषाः शास्त्रविहन्तारोऽतिदृढा बलिनस्तथा ।मायायां स्थितमात्मानं जिघांसन्ति च संहताः ॥९२॥तद्विज्ञाय नृपेणैवाऽऽत्मानं भाव्यं ससत्तकम् ।दोषाः क्रमाच्छनैरेव हन्तव्या निजसत्तया ॥९३॥ततो निष्कण्टके राज्ये कुर्याच्छ्रीकृष्णसेवनम् ।तेनाऽऽनन्दो महाँश्चापि मुक्तिराज्यं भवेदिह ॥९४॥इत्येवं राधिकेऽनादिकृष्णनारायणो हरिः ।उपादिश्य विरराम ददौ मन्त्रं च वैष्णवम् ॥९५॥तावत् कन्याद्वयं राज्ञो राज्ञा साकं सभास्थले ।प्रपूज्य परमं कान्तं जग्राह श्रीहरेः करम् ॥९६॥विवाहविधिना प्राप्य प्रभुं जाते कृतार्थिके ।हरिं राजा प्रजाः सर्वे पूजयामासुरेव तु ॥९७॥भूपतिः कारयामास भोजनं विविधं ततः ।सर्वे विशश्रमुः सायं रात्रौ चक्रुर्महोत्सवम् ॥९८॥प्रातरुत्थाय भगवान् फालनादाय सर्वथा ।उपदावस्तुसर्वस्वं प्रददौ परमेश्वरः ॥९९॥कृताह्निको दुग्धपानं कृत्वा गन्तुं मनोऽकरोत् ।तावद्राजा स्तोकहोमो नेतुं कृष्णमुपाययौ ॥१००॥फेनतन्तुं समापृच्छ्य हरिः सज्जोऽभवद् द्रुतम् ।राजदत्तां परिगृह्य पूजां विमानगोऽभवत् ॥१०१॥अन्ये सर्वे महीमाना विमानगास्तदाऽभवन् ।विदायतूर्यनिनदास्तदा जयरवैः सह ॥१०२॥अम्बरे दिक्षु सर्वत्राऽव्याप्नुवन् प्रजया कृताः ।हर्षनादाः समभवन् शृण्वन् तान् श्रीहरिर्ययौ ॥१०३॥स्तोकहोमनृपराज्यं स्वादुवदनराष्ट्रकम् ।समुद्रखाडिकां मुक्त्वा देशं ददर्श सौभगम् ॥१०४॥राजा ययौ पुरस्तत्र स्वागतार्थं हरेः खलु ।ऋषिः स्वादननामापि ययौ पुरस्तदाऽम्बरात् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने फेन- तन्तुनृपस्य त्रिनयानगर्यां श्रीहरेरवतरणं भ्रामणं पूजनम् उपदेशनं भोजनं विश्रमणं रत्र्यनन्तरं भाद्रकृष्णाऽमायां प्रातर्दुग्धपानोत्तरं स्तोकहोमनृपराष्ट्रागमनमित्यादि निरूपणनामा षष्णवत्यधिकशततमोऽध्यायः ॥१९६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP