संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ३८ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ३८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३८ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! कृष्णनारायणो हि पञ्चमे ।वर्षे वैशाखमासे च धवले पूर्णिमातिथौ ॥१॥सायं ब्रह्मवाटिकायां पूर्वस्यां दिशि संययौ ।कुन्दकुसुमसौगन्ध्याऽनिलोद्याने वयस्ययुक् ॥२॥इतस्ततो विहरति रमते याति बालकैः ।प्रायः सायं समयस्य सन्निधौ परमेश्वरः ॥३॥वाटिकायां समुद्भूतां मकायीं जारिकां तथा ।पश्यन् हरिद्रसपत्रां डोडिकाकणशोभनाम् ॥४॥गृह्णन तड्डोडिकास्तासां वह्नौ सेकं विधाय च ।बालकैः सह संभुक्ते डोडिकानां कणाँस्तदा ॥५॥अथ पार्श्वे पवनैश्च पक्वान्याम्रफलान्यपि ।पतितानि समादाय भुङ्क्ते वयस्यकैः सह ॥६॥नारङ्गिसन्तरामिष्टमुसम्बिखर्जुरादकान् ।भुंजते बालकाः सर्वे वाटिकायां मुदाऽन्विता ॥७॥अथाऽऽययुस्तदा तत्र त्रयो वे राक्षसाः खलाः ।बालरूपा बभूवुस्ते सहचोष्यं प्रचक्रिरे ॥८॥रेमिरे बुभुजुस्तत्र वहन्ते वाहयन्त्यपि ।धावन्ति चापि कूर्दन्ति हसन्ति हासयन्ति च ॥९॥ध्येनादिश्रीकृष्णनारायणं हन्तुं समिच्छुकः ।एको वै राक्षसस्तत्राऽभवच्छकटरूपधृक् ॥१०॥वाटिकायां प्लक्षवृक्षस्याऽधो वासं विधाय सः ।बालकृष्णं नाशयितुं समीक्षतेऽतिरागतः ॥११॥द्वितीयो राक्षसस्तत्र वाराहं रूपमास्थितः ।बालका यत्र वै क्षेत्रे क्रीडां कुर्वन्ति तत्पुरः ॥१२॥गत्वा दन्तं विनिष्कास्य घूणं क्रूरं प्रदर्शयन् ।पुच्छं विधुन्वन् नैजां स गर्जनां सम्प्रवर्तयन् ॥१३॥धावँस्ततश्चातिवेगान्मारयितुं समाययौ ।बालास्ते विकरालं वै दृष्ट्वा गन्त्रीं विलोक्य च ॥१४॥प्लक्षं प्रत्येव शीघ्रं तु धावन्ति स्म भयान्विताः ।चक्रुशुः शीघ्रमेवैताः शकटं प्राप्य वै द्रुतम् ॥१५॥चक्राद् धुराद् यथामार्ग गन्त्री त्वारुरुहुस्तदा ।कृष्णस्तत्र प्रसस्मार कालीकेसरिणं द्रुतम् ॥१६॥काल्याः श्रीक्षेत्रपालिन्या वाहनं सिंह एव सः ।तूर्णं तत्राऽऽययौ दिव्यो दिशो निनादयन् दृढः ॥१७॥गर्जनां परितः कृत्वा शकटस्थान् प्रणम्य च ।उत्प्लुत्य सूकर तं च राक्षसं धृतवान् बलात् ॥१८॥सूकरोऽपि तु सिंहेन युयुधे बलतस्तदा ।सिंहरूपं दधाराऽथ क्षणेन गर्जयन् मुहुः ॥१९॥निनादयन् दिशः सर्वाः पूरयन् युयुधे भृशम् ।कृत्रिमस्याऽस्य सिंहस्य किं बलं कृत्रिमं मृषा ॥२०॥कालीसिंहेन सहसा लीलया विधृतो गले ।कट्यां च नखरैस्तीक्ष्णैरुदरे भेदितस्तदा ॥२१॥व्यापादितः समन्ताच्चाऽऽक्रोशन्मृतः क्षणादनु ।तदात्मा श्रीकालिकायाः सिंहे चाभिन्नतां गतः ॥२२॥अथाऽत्रावसरे ज्ञात्वा शकटं च निराश्रयान् ।स्वाधीनान् बालकान् सर्वानम्बरे चोच्छ्रितं ह्यभूत् ॥२२॥आकाशपथमाश्रित्य बालान्नाशयितुं तदा ।प्रक्षिप्तुं भूतले व्योमचरं भूत्वा ययौ द्रुतम् ॥२४॥तावच्छ्रीबालकृष्णेन गुरुत्वं स्वस्य वर्धितम् ।अतिभारेण शकटं भूतलं प्रत्यवातरत्। ॥२५॥यथा बाला न नश्येयुः कृष्णस्तथाऽवतारयत्॥बालकाश्चाऽवतीर्यैव प्लक्षमूलं समाश्रिताः ॥२६॥बालकृष्णस्ततो गन्त्र्यास्त्रिवेणीमूलतः क्षितौ ।पादं वामं प्रलम्बं च कृत्वाऽथ दक्षिणं पदम् ॥२७॥त्रिवेण्युपरि संस्थाप्य कराभ्यामवलम्ब्य ताम् ।यावत् समावतरितुं यतते तावदेव तु ॥२८॥शकटाख्याऽसुरेणाऽधस्त्रिवेण्याः कीलको महान् ।शंकुवद् वर्धितः कृष्णं प्रहन्तुं तूदरान्तरे ॥२९॥त्रिशंकुकीलकश्चातितीक्ष्णो दीर्घो हरिं प्रति ।लम्बमानस्तीक्ष्णधारो दृष्टो वै बालकैस्तदा ॥३०॥हरिं प्राहुस्तु ते बाला बालकृष्णोऽपि लीलया ।नाऽवातरद् यतो यावदुदरं स्वं ररक्ष वै ॥३१॥लम्बमाने वामपदे सक्थिनी मूलसन्निधौ ।शंकुस्तीक्ष्णः शकटेन प्रसह्य सम्प्रवेशितः ॥३२॥सक्थिमध्यात्तदा रक्तधारा सुस्राव राधिके ।बालकृष्णस्तदा शीघ्रं समुत्प्लुत्य तु गन्त्रिकाम् ॥३३॥पुनश्चावाऽऽरुरोहाऽथ ज्ञात्वा दुष्टं महासुरम् ।हन्तुं पुनर्गुरुत्वं च शैलतुल्यं दधार ह ॥३४॥तेन भारेण नमितं शकटं भग्नमेव च ।पतितं चोन्धिका चेषा चोष्ट्रश्चक्रे धरोऽर्दिताः ॥३५॥अदृश्यशैलभारेण शकटश्चूर्णतां गतः ।विसिस्मिरेऽर्भकाः सर्वेऽसुरश्च जीवतो हतः ॥३६॥तत्तेजो निःसृतं गन्त्र्या बालकृष्णे तिरोऽभवत् ।अथैवं शकटं नष्टं वीक्ष्य नष्टं च सूकरम् ॥३७॥तृतीयो राक्षसो बालस्वरूपस्त्रासमावहत् ।मरणं त्वन्तिकं ज्ञात्वाऽविचारयद्धरेर्मृतिम् ॥३८॥कथं बालः प्रहन्तव्यश्चैवमेव मयाऽत्र वै ।विना शैलस्वरूपं न बालस्याऽस्य विघातनम् ॥३९॥तस्माच्छैलो भवाम्येव निपतामि द्रुतं तथा ।इत्यध्यवस्य सहसा व्योममार्गं गतोऽभवत् ॥४०॥तत्र शैलस्वरूपोऽभूद् यावत्पतितुमिच्छति ।तावत् कृष्णो गरुडं स्वं प्रेरयामास वेगतः ॥४१॥गरुडो दिव्यरूपश्च सप्रकाशं विहायसा ।उड्ड्यमानः पद्भ्यां तं शैलं जग्राह यत्नतः ॥४२॥तावद्धरिणा चक्रं स्वं सुदर्शनं बहूल्बणम् ।ज्वालामालाभरं शैलदाहकं संविधाय च ॥४३॥मुक्तं भूभृदधोभागे शैलस्तेन द्रुतं महान् ।विद्युज्ज्वालानिभचक्रवह्निना दग्धतां गतः ॥४४॥तद्भस्म भूतले वह्नियोगात् सहायिवायुना ।उड्डीयोड्डीय पतितं विप्रकीर्णासु भूमिषु ॥४५॥गौरमृद् सा बभूवाऽपि पाण्डुरा भूतलस्त्तरे ।गरुडः सूक्ष्मतां प्राप्य चक्रं भूत्वा च शीतलम् ॥४६॥स्वस्थानं तु समायाते कृष्णो बाला निरामयाः ।निर्विघ्ना: सुखिनौ जाता बालकृष्णस्य सक्थिनि ॥४७॥रक्तं च निःसृतं यत्तु तत्र पृथ्व्यां स्वयं तदा ।नीरुजीकरणायाश्चोषध्याः पत्ररसोऽर्पितः ॥४८॥शीघ्रं शान्तिस्तदा जाता शंकुचिह्नं तु सर्वदा ।ध्यानिनां ध्यानयोगार्थं क्षतरूपं प्ररक्षितम् ॥४९॥सर्वदा राधिके बालकृष्णसक्थ्नः शुभावहम् ।चिह्नं तद् विद्यते मूर्तौ ध्यानाय नेत्रवन्महत् ॥५०॥आर्धनारीश्वरभावव्यञ्जकं वामसक्थिजम् ।चिह्नं वै शाश्वतं दृष्ट्वा कन्या देव्यस्तदर्चयत् ॥५१॥पृथ्वी पूजां चकाराऽस्य चिह्नस्य चन्दनादिभिः ।लोमशाद्याः ऋषयश्च ध्याने चिह्नं दधुस्ततः ॥५२॥बालाः सायं गृहं याताः काली सिंहादिसेविता ।स्वस्थानं चोत्तरभूमौ सरसस्तत्र संययौ ॥५ ३॥कालिकातश्च बालेभ्यः श्रुत्वा राक्षसघातनम् ।पित्राद्या विस्मिताः सर्वे विघ्नशान्तिं व्यधुस्तदा ॥५४॥ददृशुः सूकरं गन्त्रीचूर्णं च गौरभस्म च ।राक्षसास्ते मृता यत्र तत्र गत्वा हि मानवाः ॥५५॥आश्चर्ये लेभिरे सर्वे क्रोशदेहं तु सूकरम् ।गन्त्रीचूर्णं क्रोशलग्नं गौरभस्म द्वियोजनम् ॥२६॥महासामर्थ्यवान् बालः कृष्णो येन महासुराः ।विघातितास्त्रयस्त्वेते घातका बालघातिनः ॥५७॥सम्यक्कृतं निहननं त्वेतेषां बालदेहिना ।पुत्रास्तु रक्षिता नश्च वर्धन्तां बालकाः सदा ॥५८॥एवमाशीर्वचः प्राहुः प्रसन्ना भेजुरीश्वरम् ।राधिका प्राह भगवन् राक्षसाः के त्रयोऽपि ते ॥५९॥आसन् यैरिह चागत्य हरेर्नाशो विचिन्तितः ।श्रीकृष्णः प्राह राशेशि! शृणु तां पुण्यपावनीम् ॥६०॥कथां धर्मवती रम्यां देवद्रोहोत्थितां पराम् ।पूर्वं चिन्तयतः सृष्टिं ब्रह्मणस्त्वण्डजन्मनः ॥६१॥वालखिल्याः समुत्पन्ना मानसाः शुद्धरूपिणः ।अष्टाशीतिसहस्राणि बभूवुश्चोर्ध्वरेतसः ॥६२॥तत्र वनस्पतिर्नाम सर्वश्रेष्ठोऽभवन्मुनिः ।पुनश्चिन्तयतस्तस्य प्रजाकामस्य वेधसः ॥६३॥सहस्रऋषयो जाता गृहस्थाः स्कन्नधर्मिणः ।सदारा वनवासश्च रागद्वेषादिमानसाः॥६४॥तत्र नभस्पतिर्नाम गृहिश्रेष्ठोऽभवन्मुनिः ।पुनश्चिन्तयतस्तस्य रजसा मोहितस्य तु ॥६५॥वालखिल्याः पुनर्जाताः षष्टिसहस्रसंख्यकाः ।सर्वे वै दारसहितास्तपःस्वाध्यायतत्पराः ॥६६॥कामक्रोधादिहृदयाः स्नानपूजापरायणाः ।महारण्यनिवासाश्च कैलासशैलसन्निधौ ॥६७॥आराधयन्ति त्रिनेत्रं कृशा धमनिसन्तताः ।व्रतोपवासनिरताः सहस्रवर्षतापसाः ॥६८।तेषु सरस्पतिर्नाम व्रतश्रेष्ठोऽभवन्मुनिः ।गृहिधर्मपरश्चापि यज्ञस्वाध्यायतत्परः ॥६९॥तान् समाराधयतोऽपि नैव तुष्यति शंकरः ।तदा श्रीपार्वती देवी सदया प्राह शंकरम् ॥७०॥तेषां क्लेशक्षयं शंभो विधेहि कुरु मे दयाम् ॥७१॥कथं न दीयते सिद्धिर्गतेऽप्यब्दसहस्रके ।शुष्कस्नाय्वस्थिदेहानां तपतां गृहधर्मिणाम् ॥७२॥तच्छ्रुत्वा शंकरः प्राह धर्मस्य गहनां गतिम् ।देवि त्वं नैव जानासि न ते कामविवर्जिताः ॥७३॥न च क्रोधेन निर्मुक्ताः केवलं मूढतापसाः ।नैते धर्मं विजानन्ति ततो न दीयते फलम् ॥७४॥सती प्राह कथं ह्येते कामक्रोधादिदूषिताः ।मे प्रदर्शय तच्छंभो परं कौतूहलं हि मे ॥७५॥शंभुः प्राह सति! चात्र तिष्ठ पश्य कुतूहलम् ।अहं गच्छामि तपतामाश्रमेषु कुचेष्टया ॥७६॥इत्युक्त्वा वस्त्ररहितो नग्नो भूत्वा हि शंकरः ।वनमालासुगन्धाढ्यो युवा सर्वांगसुन्दरः ॥७७॥भिक्षाकपालभृद् देहि भिक्षामुक्त्वाऽऽश्रमान् ययौ ।तं विलोक्याऽऽश्रमप्राप्तं योषितो ब्रह्मवादिनाम् ॥७८॥सुराजसस्वभावैस्तं नग्नं दृष्ट्वा प्रमोहिताः ।नीत्वा मूलं फलं भिक्षां गृहाणेत्यन्तिकं ययुः ॥७९॥शंभुर्भिक्षाकपालं तत्प्रसार्य बहुसादरम् ।दत्त भिक्षां शिवं वोऽस्तु भवतीनां तपःप्रियाः ॥८०॥मुहुर्हसन् चेष्टमानः कुर्वाणो लिङ्गजाग्रतिम् ।मनांसि प्रजहाराऽसौ बभूवुस्ताः स्मरातुराः ॥८१॥नार्यः प्राहुस्त्वया कोऽयं व्रतधर्मः प्रसेव्यते ।नग्नेन भिक्षुवेषेण हृद्योऽसि त्व सुभिक्षुक ॥८२॥एहि त्वस्मद्गृहान् कुर्मः सेवनं मर्दनं तव ।इत्यूचुस्ताः शिवः प्राह रहस्यं मे व्रतं खलु ॥८३॥न प्रकाश्यं व्रतं मेऽत्र यूयं यात गृहान्निजान् ।नार्यः प्राहुर्गृहानस्माकमेहि रञ्जनोऽसि यत् ॥८४॥इत्युक्त्वा तं जगृहुस्ताः सकामाः पाणिपल्लवैः ।काचिद्धस्तेऽपरा कण्ठेऽन्या जान्वोरितरा हनौ ॥८५॥परा केशेषु कट्यां च पादयोः पार्श्वपृष्ठयोः ।एवं विचेष्टितं शंभुं तथा क्षोभं च योषिताम् ॥८६॥ध्याने ते तापसा वीक्ष्य तपो विहाय दुद्रुवुः ।हन्यतामिति संभाष्य काष्ठपाषाणयष्टयः ॥८७॥निजघ्नुर्वर्ष्मणि शंभोस्तत्र त्रयस्तु मूर्धजाः ।वनस्पतिर्महर्षिस्तु काष्ठमादाय सत्वरम् ॥८८॥नभस्पतिस्तु पाषाणं समादाय तदा द्रुतम् ।सरस्पतिस्तु संगृह्य लोष्ठस्य दात्रकं द्रुतम् ॥८९॥लिङ्गं शंभोर्जाग्रतं तत्पातयामासुरीश्वराः ।अन्ये दर्भैस्तथा यष्ट्या निजघ्नुः कटिपार्श्वतः ॥९०॥लिङ्गे तु पतिते शंभुस्त्वन्तर्धानं जगाम ह ।सतीं प्राप्य तदा तस्थावदृश्यः शंकरस्ततः ॥९१॥लिङ्गं तूत्पत्य तूत्पत्य जगत्क्षोभं चकार ह ।ब्रह्माण्डं क्षोभमापन्नं श्रीशंभुर्दुःखितोऽभवत् ॥९२॥सती लिङ्गविहीनं संवीक्ष्य शशाप तान् द्विजान् ।वनस्पतिः काष्ठभावं नभस्पतिः शिलात्मताम् ॥९३॥सरस्पतिर्दत्ररूपं प्राप्नुवन्तु हि निर्दयाः ।मम पत्युस्त्वपराद्धं भवद्भिस्त्वतिनिष्ठुरम् ॥९४॥ततो यूयं राक्षसाः स्वलिङ्गहीना भवन्त्वपि ।इति शप्तास्त्रयस्ते हि प्रधानाः ऋषयो द्रुतम् ॥९५॥वनस्पतिः सर्जवृक्षोऽभवत्तत्र वनान्तरे ।कामरूपधरः काष्ठरूपवान् राक्षसोऽपि सः ॥९६॥नभस्पतिर्बभूवापि शैलो दारुवने तदा ।कामरूपधरः कृष्णशिलारूपोऽपि राक्षसः ॥९७॥सरस्पतिस्तदा जातो दत्रयुक्तो हि सूकरः ।लिङ्गहीनो राक्षसः सः कामरूपधरोऽपि हि ॥९८॥त्रयस्ते राक्षसा जाता दारुद्रुमवनान्तरे ।अन्ये शप्ता वालखिल्याः स्तबकास्ते जलोपरि ॥९९॥समूला अपि निर्ग्रन्थाः पत्रमात्रसमृद्धयः ।अलिङ्गा जलवासास्ते बभूवुर्जलमस्तके ॥१००॥अपृथ्वीभोजनाः सर्वे ब्रह्मपुत्रनदादिषु ।वालखिल्याः स्तबकास्ते जलमात्रप्रजीविनः ॥१०१॥शापकाले दुःखमग्ना मनसा तुष्टुवुः सतीम् ।समुद्धारो यथाऽस्माकं भवेत्तत् संविधीयताम् ॥१०२॥न वयं विद्मः सद्भावं शंकरस्य महात्मनः ।अपराद्धं ततोऽस्माभिः शापान्तो नो विधीयताम् ॥१०३॥ऋषिपत्न्यस्तु रुरुदुस्तुष्टुवुर्मातरं सतीम् ।तदा प्राह सती कृष्णनारायणपरेश्वरः ॥१०४॥सौराष्ट्रे पश्चिमेदेशे कम्भराश्रीसुतः प्रभुः ।अनादिश्रीकृष्णनारायणः श्रीभगवान् हरिः ॥१०५॥वर्तते तस्य योगेन व उद्धारो भविष्यति ।ऋषीणां प्रसमुद्धारं स प्रभुः संकरिष्यति ॥१०६॥इत्युक्त्वाऽदृश्यभावं सा गता सुदुःखिता सती ।अथ ये ऋषिपुत्राद्या अपराधविवर्जिताः ॥१०७॥अन्येऽपि चर्षयस्तत्र दर्शका ब्राह्मणादयः ।ते तु दृष्ट्वा महाक्षोभं ब्रह्माण्डस्य लयप्रदम् ॥१०८॥ब्रह्माणं सस्मरुस्तत्र ब्रह्माणं शरणं ययुः ।देवाद्याः प्रार्थयामासुर्लिंगवह्निप्रशान्तये ॥१०९॥ब्रह्मणा बोधितास्ते च ब्रह्मधर्मैः पृथग्विधैः ।तेजस्विनं ब्रह्मनिष्ठं ब्रह्मरूपं सनातनम् ॥११०॥कामधर्मैरबद्धं ते विज्ञाय ग्राम्यधर्मिणम् ।अपराद्धं कृतवन्तस्ततः क्षोभो महानयम् ॥१११॥लिंगपूजनधर्मेण शान्तिमेष्यति नान्यथा ।अहो मुग्धाः ऋषयस्ते क्रोधस्य वशतां गताः ॥११२॥देहे चात्मनि यद्ब्रह्म नियतं निर्मलं च तत् ।तपसा कर्मणा वापि शुद्धहृदोऽपि चीयते ॥११३॥कामक्रोधादिभावानां निष्कासनं हि शुद्धता ।तन्मनः शोधयेद्धीमान् ज्ञानयोगमुपक्रमैः ॥११४॥शुद्धिमाप्नोति पुरुषः संशुद्धे यस्य वै मनः ।ऋषयः क्रोधकामाभ्यामभिभूताऽऽश्रमे स्थिताः ॥११५॥कामक्रोधाभिभूतानां यज्ञो दानं वृषस्तपः ।व्रतं कृच्छ्र धृतिर्ध्यानं सर्वं निष्फलतां व्रजेत् ॥११६॥तस्मात् प्रयान्तु तत्स्थानं कामक्रोधौ विहाय च ।आराधयन्तु तं देवं शंकरं कामभासिनम् ॥११७॥लिंगं प्रपूजयन्त्वेव ततः शान्तिर्भविष्यति ।इत्युक्ताः प्रययुः सर्वे लिङ्गं पुपूजुरादरात् ॥११८॥यथास्थानं च तल्लग्नं सलिंगः शंकरोऽभवत् ।यत्रैतत् पतितं तत्र ज्योतिर्लिंगानि जज्ञिरे ॥११९॥द्वादशधा तु तद्भिन्नं दिव्यं मोक्षप्रदं हि तत् ।इत्येव शान्तिमापेदे जगत् सर्वं हि राधिके ॥१२०॥अथ तेऽपि त्रिमुनयः शापजा राक्षसाः खलु ।जातिस्मराः स्वमोक्षोर्थे सौराष्ट्रं त्वाययुस्ततः ॥१२१॥वनस्पतिः काष्ठरूपः शकटात्मा व्यजायत ।नभस्पतिः शिलारूपः पर्वतः समजायत ॥१२२॥सरस्पतिर्दन्तमाँश्च सूकरः समजायत ।हरेः कृष्णस्य योगेन मुक्ताः शापात्तदाऽभवन् ॥१२३॥अस्तुवँस्ते हरिं दिव्याः ऋषयो वै तपोधनाः ।शेषर्षीणां तु सर्वेषामुद्धारार्थं पुनः पुनः ॥१२४॥तदा श्रीभगवानाह यान्तु तत्राऽप्यहं शुभम् ।दारुवनं समागत्योद्धारयिष्यामि शापतः ॥१२५॥गरुडं तु समारुह्य भगवान् बालकृष्णकः ।वालखिल्यस्तम्बरूपानुद्दधार हरिः स्वयम् ॥१२६॥सर्वे ते दारुवनजास्तपः कुर्वन्ति राधिके ।ततः शान्तारयः सर्वेऽभवन् ऋषिस्वरूपिणः ॥१२७॥तद्वंशा वालखिल्याश्च स्तम्बा भवन्ति वारिषु ।हरिरुद्धारयित्वा तान् प्राप्य पूजनमादरात् ॥१२८॥आययौ कुंकुमवापीक्षेत्रं स्वं गरुडान्वितः ।पठनाच्छ्रवणाद् राधे शापपापं प्रशाम्यति ॥१२९॥आश्चर्यं भक्तियुक्तेषु राक्षसत्वे ह्युपस्थिते ।द्वेषभावेन मुक्तिर्वै देवमाया हि तादृशी ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वनस्पतिनभस्पतिसरस्पतिमहर्षीणां सतीशापाद् राक्षसभावमापन्नानां वाटिकायामुपद्रवः, प्रभुणा शापमोक्षणं, नग्नशंकरस्य तापसाश्रमेषु भ्रमणं ऋषिकृतापराधः लिंगपातनं शापकारणं चेत्यादिनिरूपणनामाऽष्टत्रिंशोऽध्यायः ॥३८ ॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP