संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १८२

त्रेतायुगसन्तानः - अध्यायः १८२

लक्ष्मीनारायणसंहिता


N/Aश्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणो हरिः ।
इष्टलवर्ष्युपादिष्टस्थले निजविमानकम् ॥१॥
अवातारयदुद्याने विशाले भूतले शुभे ।
त्रिवरायाश्चापगायास्तटस्थे सुद्रुमाकुले ॥१॥
रामपुर्या नगर्यास्तु निकटे वाद्यनादिते ।
जिनवर्द्धिनृपोऽमात्यैः कुमारैर्बान्धवैः सह ॥३॥
प्रजाभिश्च हरेस्तत्र सुस्वागतं चकार ह ।
पुष्पहारान् हीरकाढ्यस्वर्णहारान् गले ददौ ॥४॥
बहिश्चावतरन्तं श्रीहरिं विमानकात् प्रजाः ।
सर्वाश्चन्दनलाजाभिश्चाक्षतैः कुसुमादिभिः ॥५॥
जयशब्दैर्हर्षनादैर्नमनैरर्हृणां व्यधुः ।
पितरौ बान्धवान् सर्वान् भगिनीं च गुरूनृषीन् ॥६॥
ब्रह्मप्रियाश्च सर्वे ते पुपूजुर्हारचन्दनैः ।
अथ सैन्यसहाये च गजयाने सुवर्णजे ॥७॥
हरिमारोहयामास राजा तु जिनवर्धकः ।
महीमानान् समस्ताँश्चारोहयामास भूरिषु ॥८॥
वाहनेषु विमानेषु गन्त्रीषु शकटीष्वपि ।
वाद्यकीर्तनसंह्रादोत्सवैः कृष्णनरायणम् ॥९॥
रामपुर्यां नगर्यां सम्भ्रामयामास सर्वशः ।
राजमार्गेषु सर्वत्र प्रजाभिः पूजितो हरिः ॥१०॥
फलपुष्पाक्षतरौप्यस्वर्णमुद्राम्बरादिभिः ।
एवं वै दर्शनं दत्वा राजसौधं समाययौ ॥११॥
वर्धितो जनताभिश्च शुशुभे परमेश्वरः ।
आनन्दपूर्णहृदयः सायं सभामकारयत् ॥१२॥
लक्षावधिमनुष्याणां प्रियकार्यार्थहेतवे ।
जलपानं हरिः कृत्वोपादिदेश प्रजास्तदा ॥१३॥
दिव्ये सिंहासने तत्रासीनः प्रसन्नभावनः ।
भगवत्कार्यकर्तारो भगवच्चरणाश्रयाः ॥१४॥
भगवद्ध्यानसम्पन्नाः प्रयान्ति परमां गतिम् ।
सतां सेवाप्रकर्तारः सतां वा चरणाश्रयाः ॥१५॥
सतां मार्गे प्रगन्तारः प्रयान्ति परमां गतिम् ।
स्मृद्धयो भूमिकाजन्याश्चान्ते भूमौ विशन्ति हि ॥१६॥
ता यदि स्युः सतामर्थे हर्यर्थे मोक्षदाश्च ताः ।
पृथ्वी ददाति चान्नानि मेघा अपो ददत्यपि ॥१७॥
वह्निः पाकं करोत्येव वायुः करोति रूक्षताम् ।
संविधायैव ते सर्वे शय्याभोग्यधनानि च ॥१८॥
मानवार्थे ददत्येव मानवैरर्प्यमीश्वरे ।
विनाऽर्पणं परेशे तु सम्पदो विपदो ननु ॥१९॥
नारकिण्यो भवन्त्येवान्तेऽपि निरयसम्प्रदाः ।
तस्माद् भूतैस्तु या दत्ता विभूतयोऽतिगौरवात् ॥२०॥
अर्पणीया हरौ सर्वास्तास्तदा मोक्षदाः खलु ।
समुद्रोऽपि कृतस्तेन पृथिवी तेन निर्मिता ॥२१॥
सस्यानि तेन देवेन कृतानि कणदानि तु ।
देहस्तेन कृतश्चापि बीजं तेन विनिर्मितम् ॥२२॥
सजातीयं कृतं तेन भोग्यं दत्तं समानकम् ।
येन दत्तमिदं सर्वं तस्मै देयं परात्मने ॥२३॥
स एव भगवानत्र भूतले लोकहेतवे ।
देहिनां श्रेयसे चास्ते दृग्गोचरः सुखप्रदः ॥२४॥
सेवनीयस्तोषणीयः प्रयत्नेनाऽवगत्य च ।
एवं ज्ञात्वा मम सेवां करिष्यन्ति तु ये जनाः ॥२५॥
तानहं तूद्धरिष्ये वै जन्मसंसारवारिधेः ।
अहं दण्डप्रदाताऽस्मि दण्डो मया विनिर्मितः ॥२६॥
यदाश्रयं विना दण्डपात्राणि देहिनः खलु ।
दण्डदातारमेवात्र मामाश्रयन्तु सर्वथा ॥२७॥
राजसु यो मया क्षिप्तो दण्डो वश्यः स मे सदा ।
यमे चापि मया न्यस्तो दण्डो विकर्मिशासकः ॥२८॥
दण्डः शास्ति प्रजाः सर्वा धर्मदण्डः प्ररक्षति ।
दण्डो जागर्ति सुप्तेषु धर्मार्थकाममोक्षकृत् ॥२९॥
धान्यं धनं स्त्रियः पुत्रा भृत्याः पुत्र्यश्च वाटिकाः ।
धर्मो न्यायश्च मर्यादा रक्ष्यन्ते दण्डभीतितः ॥३०॥
मातृदण्डभयाद्बाला कलहं न प्रकुर्वते ।
राजदण्डभयादेके पापाः पापं न कुर्वते ॥३१॥
देवदण्डभयाद् दुष्टा अन्यायं नाश्रयन्ति हि ।
यमदण्डभयाश्चापि परलोकभयादपि ॥३२॥
परस्परभयाश्चापि नियम्यन्ते प्रजा इह ।
एवं सांसिद्धिको लोको भयाद्धर्मे व्यवस्थितः ॥३३॥
दण्डस्यैव भयात्सर्वे न खादन्ति परस्परम् ।
राजदण्डो धर्मदण्डो यमदण्डस्तथाऽपरः ॥३४॥
देवदण्डः प्रधानास्ते रक्षन्ति विविधाः प्रजाः ।
अदण्डिकाः प्रजाश्चेत्स्युर्निमज्जेयुर्महान्धसि ॥३५॥
अदान्तानप्यशिष्टाँश्च दमयत्येव दण्डकः ।
आज्ञादण्डो ममाऽस्त्येव ममाज्ञा वैदिकी हि सा ॥३६॥
तामनुत्सृज्य गन्तारो यान्ति दण्डस्य पारताम् ।
नेताऽहं सर्वसृष्टीनां शासको रक्षकस्तथा ॥३७॥
राजस्वाविश्य तिष्ठामि वर्तयामि च शासने ।
प्रजाः सर्वास्तथा सर्वान् नृपान् नियमरूपवान् ॥३८॥
यत्र दण्डो मम याति चरते सूद्यतः सदा ।
प्रजास्तत्र न मुह्यन्ति नेयुः सन्मार्गभ्रंशताम् ॥३९॥
मनुष्याः पशवः पक्षवन्तोऽपि कीटमक्षिकाः ।
दण्डस्यैव भयादेते यथार्थे वर्त्मनि स्थिताः ॥४०॥
नाऽभीतो यजते कश्चिन्नाऽभीतो दातुमिच्छति ।
नाऽभीतश्च जनः कश्चित् समये स्थातुमिच्छति ॥४१॥
रुद्रः स्कन्दो महेन्द्रश्च वह्निश्च वरुणो यमः ।
कालो वायुः कुबेरश्च रविर्मृत्युः शनिस्तथा ॥४२॥
वसवो मरुतः साध्या विश्वेदेवाश्च राक्षसाः ।
एतेऽपि भयमापन्ना दण्डस्य नियमे स्थिताः ॥४३॥
एतान् प्रजास्तथा भीताः प्रणमन्ति मुहुर्मुहुः ।
भयं न चेद् भवेल्लोके विनश्येयुः परस्परम् ॥४४॥
दण्डस्यैव भयाद्भीतो धर्मे सर्वः प्रवर्तते ।
चातुर्वर्ण्यप्रमोदाय सुनीतिरक्षणाय च ॥४५॥
दण्डभीतिस्तु विहिता धर्मार्थौ रक्षितुं सदा ।
ताभ्यां मोक्षो भवेत् पश्चाद् योऽस्ति मन्मूर्तिमाश्रितः ॥४६॥
यदि धर्मान्न बिभियुः श्वापदाद्या विजातयः ।
अद्युर्ज्ञातिं निजां सिंहादयः क्रूरा वनश्रिताः ॥४७॥
मनुष्याश्चापि संभूय चाद्युः प्रसह्य वै मिथः ।
विश्वक् लोपः प्रवर्तेत भिद्येरन्नीतिसेतवः ॥४८॥
चरेयुर्नाश्रमं कर्म कन्या नोद्वहनं लषेत् ।
युवती नाश्रयेत् कान्तं प्रेष्या त्वाज्ञां न चोद्वहेत् ॥४९॥
नरस्तिष्ठेन्न नियमे शीले धर्मभयं विना ।
धर्मे स्वर्गो मनुष्याणां लोकश्चायं प्रतिष्ठितः ॥५०॥
धर्मो भक्त्याश्च सहितो निर्गुणत्वाय कल्पते ।
नात्यन्तं गुणवत् किञ्चिन्न चाऽप्यत्यन्तनिर्गुणम् ॥५१॥
उभयं सर्वलोकेषु दृश्यते साध्वसाधु वा ।
साधु विचार्य कर्तव्यं त्यक्तव्यं यन्न साधु तत् ॥५२॥
सतां समागमः साधुः श्रीहरेर्मे सदाश्रयः ।
सर्वार्पणविधानेन कर्तव्यो मे समागमः ॥५३॥
अवध्ये शासके कृष्णे मयि न्यस्ता हि ये जनाः ।
न ते वै कालमायादेर्भयेन स्युः प्रपीडिताः ॥५४॥
तस्माद् भागवतं धर्मं पालयन्तु प्रजाजनाः ।
ममाऽऽज्ञा दण्डरूपाऽस्ति सुखदा भयवर्जिता ॥५५॥
निर्भयाः सन्तु सर्वेऽत्र मानवा इष्टलीस्थिताः ।
स्वस्ति वोऽस्तु जिनवर्द्धे इष्टलवाश्रयस्थिते ॥५६॥
इत्युक्त्वा विररामाऽसौ भगवान् पुरुषोत्तमः ।
ततो नीराजनं चक्रुः पूजनं श्रीहरेस्तदा ॥५७॥
पित्रोश्च बान्धवानां च राजाद्याः सुसमुत्सुकाः ।
राज्ञ्याद्याः पूजनं चक्रुर्ब्रह्मप्रियादियोषिताम् ॥५८॥
उपदाश्च न्यधुः सर्वाः स्वर्णरूप्यकहीरकान् ।
आभूषणानि वस्त्राणि मणीन् पात्राणि मौक्तिकान् ॥५९॥
रत्नानि चोपकरणान्यधुर्विविधकानि च ।
मन्त्राँश्च जगृहुः सर्वे नरा नार्योऽवशेषिताः ॥६०॥
ततश्चक्रुः परिहारं सभायाः श्रीहरिस्ततः ।
बुभुजे दुग्धपुरिकादिकं चान्येपि सर्वशः ॥६१॥
महीमाना बुभुजुश्च प्रसादं जगृहुः प्रजाः ।
राजाद्याश्च ततो नैजं स्थानं ययुस्ततो हरिः ॥६२॥
निद्रां जग्राह रात्रौ च प्रातरुत्थाय वै हृदि ।
ध्यात्वा रूपं परं नैजं शुश्राव मंगलस्वनान् ॥६३॥
नित्यविधिं विधायैव यावत्स्वस्थोऽभवत्तदा ।
राजा पक्वान्नपात्राणि दुग्धादीन्यानिनाय ह ॥६४॥
आर्पयद्धरये प्रघूणिकेभ्यस्तेऽदनं व्यधुः ।
अथ मध्याह्नकाले च भुक्त्वा विश्रान्तिमाययुः ॥६५॥
हरिं तु भुक्तवन्तं वै राज्ञी कन्याश्च सप्त वै ।
सेवितुं त्वागताः पुष्पहाराद्यर्पणमाचरन् ॥६६॥
भूषणानि विचित्राणि धारयामासुरीश्वरम् ।
आभूषयित्वा श्रीकृष्णं नारायणं सुरूपिणम् ॥६७॥
करे च जगृहुः कन्याः सप्त विवाहकर्मणा ।
कृतकृत्या बभूवुश्च प्राप्य श्रीकृष्णवल्लभम् ॥६८॥
ब्रह्मप्रियासु मिलिता वैष्णव्यः सुखपूरिताः ।
अथ राधे तदा सर्वे पुपूजुर्युगलानि वै ॥६९॥
ततश्चैकं महाश्चर्यमभूच्छृणु वदामि ते ।
कश्चिद् दीनजनोऽनाथ इवाऽऽयातो हरेः पुरः ॥७०॥
आक्रोशन्नाह भगवन् मम बालं कुमारकम् ।
पुत्रीं चैकां जहारात्र राक्षसः कश्चिदेव ह ॥७१॥
प्रजापुत्रान् प्रजापुत्रीर्हरन्ति राक्षसाः परे ।
मारयन्ति जनाँश्चापि पृष्ठे गच्छन्ति तानपि ॥७२॥
धृत्वा हरन्ति चाद्रौ तान् वृद्धान् यूनोऽपि राक्षसाः ।
तस्माद् रक्ष महाराज नारायण परेश्वर ॥७३॥
पर्वतीयप्रजाः सर्वाः कृपानाथ कृपां कुरु ।
इत्युक्तः श्रीहरिस्तूर्णं राधे सज्जो बभूव ह ॥७४॥
धृत्वा सुदर्शनं सूक्ष्मं चांगुल्यां चोर्मिकासमम् ।
गूढतेजोऽन्वित शीघ्रं गन्तुं चेयेष तत्स्थलम् ॥७५॥
तावद् राजा जिनवर्द्धिश्चापि शस्त्रसमन्वितः ।
सज्जोऽभवच्च हरिणा सार्धं दीनाऽवनोद्यतः ॥७६॥
तावत्तत्र समायातो राजा नाम्नाऽल्पकेतुकः ।
आल्पपर्वतराज्येशः प्राह नत्वा हरिं तदा ॥७७॥
मम राज्यं पावनं त्वं कुरु श्रीपरमेश्वर ।
आप्यायनो महर्षिश्च तथैवाऽऽर्थयदीश्वरम् ॥७८॥
तथाऽस्त्विति हरिः प्राह जगादोदन्तकं तथा ।
राक्षसस्य क्रूरकर्माऽनाथस्य परिरक्षणम् ॥७९॥
अल्पकेतुश्च तच्छ्रुत्वा शस्त्रसज्जो विमानके ।
निषसाद विमानेऽपि हन्तुं राक्षसपुंगवम् ॥८०॥
विमानैश्च तदा सर्वसैन्यान्यपि च सत्वरम् ।
शस्त्रास्त्रयन्त्रयुक्तानि युद्धार्थं चाम्बरेऽभवन् ॥८१॥
राज्ञा राज्ञ्यादिभिश्चापि प्रजाभिः पूजितः प्रभुः ।
अल्पकेतोर्गृहं यास्यन् हनिष्यतीति राक्षसम् ॥८२॥
विज्ञाय च श्रीहरये दत्तान्युपायनान्यपि ।
गृहीत्वा सुविदायं सर्वेभ्यो दत्वा शुभाशिषः ॥८३॥
विदायतूर्यनिनदान् युद्धभेरीप्रगर्जनाः ।
श्रुत्वा धृत्वा पुष्पहारान् यानमध्यारुरोह च ॥८४॥
अन्ये प्राघूणिकवर्गाः सार्थाः सर्वे हरेस्तदा ।
विमानानि समारुह्य जयशब्दान् प्रचक्रिरे ॥८५॥
अनाथोऽपि जनः कृष्णविमाने दर्शकोऽभवत् ।
तन्निदर्शितमार्गेण यानानि गतिमाचरन् ॥८६॥
क्षणमात्रेण शैलं तम् अपिनायं प्रपेदिरे ।
पूर्ववार्धिखाडिकायाः पश्चिमे चायताद्रिकम् ॥८७॥
दुर्गमं कण्टकारण्यैः पाषाणैर्गण्डशैलकैः ।
हिंस्रप्राणिनिवासैश्च राक्षसैश्च विशेषतः ॥८८॥
ज्वालमालावृतशैलरसविघ्नैर्विशेषतः ।
आकाशात्पर्वतेऽधित्यकायां तु गह्वरं महत् ॥८९॥
यन्मुखे राक्षसा आसन् वृक्षोऽधःकृतकेतनाः ।
भयंकरा विवस्त्राश्च पशुमांसाशना अपि ॥९०॥
नरमांसादनाश्चापि दिगम्बरा भयंकराः ।
अस्थिशस्त्रान्विता मन्त्रजालशस्त्रविदस्तथा ॥९१॥
विमानस्थोऽनाथभक्तो दर्शयामास तां दिशाम् ।
हरिर्विलोक्य बुबुधे राक्षसानां तदालयम् ॥९२॥
नरनाट्यधरः कृष्णो वेत्ति सर्वं तथापि वै ।
तदा प्राह महायुद्धं दारुणं संभविष्यति ॥९३॥
इमे तु राक्षसा घोरा विना रुद्रं तु शंकरम् ।
अशक्या हन्तुमेवात्रेत्युक्त्वेशानमुवाच ह ॥९४॥
रुद्र रुद्र महाबाहो मम बाहो सुरेश्वर ।
योधनार्थं प्ररक्षार्थं मया त्वमत्र वै सदा ॥९५॥
मम पार्श्वे रक्षितोऽसि कार्यं ते समुपस्थितम् ।
धारयोग्रं महद्रूपं संहरैतान् महासुरान् ॥९६॥
मारयैतानीशसंज्ञेशानदेवोऽर्थवान् भव ।
इत्येवं स्वविमानस्थं क्षेत्रपालेश्वरं हरम् ॥९७॥
महारुद्रं महाराजः प्रोक्त्वा युद्धार्थमैरयत् ।
तावद् रुद्रो महेशानस्त्यक्त्वा शान्तं तु भावनम् ॥९८॥
विकरालं स्वरूपं सन्दधार शैलसदृशम् ।
आकाशे तु विमानानि हरिणा चक्रसदृशम् ॥९९॥
व्यूहं प्रकारयित्वैव स्थिरीकृतानि सर्वथा ।
जिनवर्द्धिमहाराजस्तथाऽल्पकेतुभूपतिः ॥१००॥
आज्ञां चक्रतुर्वाद्यानां युद्धावेदननर्दने ।
युद्धवाद्यान्यवाद्यन्त शूरा रक्तदृशोऽभवन ॥१०१॥
शंखा भेर्यो बिगुलानि तदाऽवाद्यन्त सर्वशः ।
जयशब्दाश्च वीराणां युद्धार्थमभवँस्तदा ॥१०२॥
राक्षसा दशसाहस्रा मारीशायां तदाऽभवन् ।
ते च शर्वे विदित्वैवाकस्माद् युद्धनिनादकान् ॥१०३॥
सज्जा भूत्वा निर्ययुश्च मारीशानगरीमुखात् ।
आकाशमार्गगा सर्वे गह्वरं प्राप्य विस्मिताः ॥१०४॥
नष्टभाना इव चासन् महायुद्धजयार्थिनः ।
राधिके तु तदा रुद्रगोमुखं व्यनदद् बहु ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जिनवर्धिनृपराज्ये रामपुरीं पावनीकृत्योपदिश्य भुक्त्वा विश्रम्य पूजां प्राप्य जनहारिराक्षसविनाशार्थं सविदायम्
अपिनायाऽद्रिं हरिर्जगामेत्यादिनिरूपणनामा द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP