संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १७५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १७५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके पश्चाद् यदाह भगवान् स्वयम् ।नक्षत्रेषु विशेषेण शुभाशुभादि कर्म च ॥१॥रोहिणी चोत्तरास्तिस्त्रो ध्रुवासंज्ञा मता यतः ।तासु देवालयं ग्रामखातं नृपाभिषेचनम् ॥२॥स्थिरकार्याणि सर्वाणि कारयेत्तु स्थिराण्यतः ।मृगश्चित्राऽनुराधा च रेवती मृदुसंज्ञिकाः ॥३॥मित्रभावास्ततस्तासु कुर्याद् गीतं रतिं तथा ।भूषां मांगल्यकं वस्त्रं धारयेत् सुखदं सदा ॥४॥पुष्याश्विन्यभिजिद्धस्तं लघु क्षिप्रमुदाहृतम् ।तत्र भूषौषधज्ञानं गमनं शिल्पिता रतिः ॥५॥ज्येष्ठार्द्रा मूलमाश्लेषा तीक्ष्णं दारुणमुच्यते ।तत्र भेदो वधो बन्धो मन्त्रभूतादिसाधनम् ॥६॥श्रवणादित्रिभं स्वातिः पुनर्वसुचरं चलम् ।तत्र वाजिगजारोहो वाटिकारचनादिकम् ॥७॥भरणी च मघा पूर्वा क्रूरमुग्रमुदाहृतम् ।विषशस्त्राग्निशतादि तत्रेच्छेदविनाशनम् ॥८॥विशाखा कृत्तिका चापि मिश्रं साधारणं मतम् ।वृषोत्सर्गोऽग्निकार्यं च मिश्रकार्यं च सिद्ध्यति ॥९॥गुरौ पुष्यं चोत्तराश्च तिस्रो वा रोहिणी मृगः ।श्रवणं चाश्लेषिका वा पूर्वाषाढा भवेद् यदि ॥१०॥गुरुर्वा तत्परः स्याच्चेद् गृहारंभ सुतप्रदः ।राज्यप्रदश्च वा स्याच्च सर्वसौख्यप्रदस्तथा ॥११॥अश्विनी चित्रिका शतभिषाऽऽर्द्राः शुक्रके यदि ।शुक्रो वा तत्परः स्याच्चेद् गृहारम्भोधनाऽन्नदः ॥१२॥रेवतीपुष्यहस्ताश्च पूर्वाषाढा मघा तथा ।मूलं भौमे च वा भौमस्तत्परः स्यात्तदा गृहम् ॥१३॥आरब्धं वह्निदग्धं स्याद् यद्वा पुत्रप्रपीडकम् ।रोहिण्यश्विन्युत्तराफाल्गुनीचित्रकहस्तिकाः ॥१४॥बुधे वा तत्परः स स्याद् गृहारंभः सुतप्रदः ।भाद्रद्वयानुराधास्वातिज्येष्ठाभरणीभिधाः ॥१५॥शनौ वा तत्परः शनिर्गृहारम्भोऽत्र चेद् यदि ।भूतराक्षसवासः स्याद् गृहे तत्र न संशयः ॥१६॥कृत्तिकोपरि सूर्यो वा चन्द्रो वा च भवेत्तदा ।आरब्धं तु गृहं सद्यो वह्निभस्म प्रजायते ॥१७॥पापग्रहैर्युते यद्वा विद्धे चन्द्रे च तारके ।चन्द्रताराबले हीनेऽपि पुष्ये भे क्रियाः खलु ॥१८॥सिद्धयन्त्येव न सन्देहो समस्तमंगलानि वै ।एवं विचार्य खातादि कर्तव्यं क्रथकेति वै ॥१९॥योगनामानि च सप्तविंशतिं प्रवदामि ते ।विष्कुंभः प्रीतिरायुष्मान् सौभाग्यः शोभनस्तथा ॥२०॥अतिगण्डः सुकर्मा च धृतिः शूलश्च गण्डकः ।वृद्धिर्ध्रुवश्च व्याघातो हर्षणो वज्रकस्तथा ॥२१॥सिद्धिश्च व्यतीपातश्च वरीयान् परिघः शिवः ।सिद्धिः साध्य शुभः शुक्लो ब्रह्मा ऐन्द्रश्च वैधृतिः ॥२२॥यथा नाम तथा ते वै फलदाः सार्थका मताः ।वैधृतिं च व्यतीपातं वर्जयेत् सर्वथा शुभे ॥२३॥वज्रविकुम्भयोस्त्याज्यं घटिकात्रयमादिमम् ।परिघार्धं परित्याज्यं घटिकाः पञ्च शूलके ॥२४॥गण्डातिगण्डयोः षट् च व्याघाते घटिका नव ।त्याज्या वै शुभकार्ये च विरुद्धयोगपादकम् ॥२५॥करणान्यथ ते वच्मि किस्तुघ्नं बवमित्यपि ।बालवं कौलवं चापि तैत्तिलं च गरं तथा ॥२६॥वणिजं विष्टिं शकुनिं चतुष्पादं च नागकम् ।बवे पौष्टिककर्माणि द्विजकर्माणि बालवे ॥२७॥कौलवे स्त्रीसुहृत्कर्म तैत्तिले पत्निकाप्रियम् ।गरे बीजप्ररोपश्च वाणिज्यं वणिजे चरेत् ॥२८॥दाहपातादिकं विष्ट्यां न शुभं तत्र सञ्चरेत् ।शकुनावौषधं मन्त्रसाधनं पौष्टिकं चरेत् ॥२९॥राज्यं गोविप्रयोः कार्यं पितृकार्यं चतुष्पदे ।सौभाग्यं दारुणं नागे किस्तुघ्ने मगलं चरेत् ॥३०॥एकादश्यां चतुर्थ्यां च शुक्ले भद्रा पराह्णके ।अष्टम्यां पूर्णिमायां च भद्रा पूर्वाह्णिके मता ॥३१॥तृतीयायां दशम्यां च कृष्णे भद्रा पराह्णके ।सप्तम्यां च चतुर्दश्यां भद्रा पूर्वाह्णिके तथा ॥३२॥मुखे पञ्चघटिका सा कण्ठे चैकघटीर्हि सा ।हृदि दशघटीर्भद्रा नाभौ पञ्चघटीर्हि सा ॥३३॥कट्यां षड्घटिका भद्रा पुच्छे सा घटिकात्रयम् ।एवं त्रिंशद्विभागैश्च भद्रांगानि तु षट् तथा ॥३४॥क्रमात् फलानि चांगानां कार्येष्वेतानि तद्यथा ।कार्यनाशो मृतिर्लक्ष्मीनाशो बुद्धिलयः कलिः ॥३५॥तस्माद् विष्टिः परित्याज्याऽऽवश्यके चाननं त्यजेत् ।देवर्क्षयोगे सोमे च बुधे शुक्रे गुरौ यदि ॥३६॥भद्रा भवेत् सुकल्याणी सा सर्वकार्यसाधिका ।तिथेः पूर्वार्धजा रात्रौ दिने भद्रा परार्धजा ॥३७॥न वै दोषप्रदा बोध्या कार्ये त्वावश्यके सदा ।मेषे वृषे च मिथुने वृश्चिके चन्द्रके स्थिते ॥३८॥भद्रा तिष्ठति वै स्वर्गे शुभा सा सर्वदा मता ।धने तुलायां कन्यायां मकरे चन्द्रिके सति ॥३९॥भद्रा पातालवासाऽऽस्ति सापि शुभा सदा मता ।कुंभमीनकर्कसिंहेष्ववस्थिते तु चन्द्रके ॥४०॥भद्राऽस्ति मानवे लोके सा त्याज्या शुभकर्मसु ।व्यतीपातो वैधृतिश्च भद्रा भौमः पराह्णके ॥४१॥शुभाः सर्वे तथा दुष्टताराश्चापि शुभा मताः ।जन्मराशिस्थिते चन्द्रे पुष्टिः फलं प्रजायते ॥४२॥द्वितीयस्थानगे नैव सुखं स्याद्वै कदाचन ।तृतीये धनलाभश्च चतुर्थे रोगसंभवः ॥४३॥पञ्चमे कार्यनाशश्च षष्ठे द्रव्यागमो महान् ।सप्तमे भूपसन्मानं चाष्टमे मरणं ध्रुवम् ॥४४॥नवमे तु भयं ज्ञेयं दशमे कार्यसम्पदः ।एकादशेऽर्थलाभश्च द्वादशे विविधाऽऽपदः ॥४५॥द्वितीयः पञ्चमश्चन्द्रो नवमो धवले शुभः ।कृष्णे तारा वलवत्यो ग्राह्याः शुभप्रदास्तु ताः ॥४६॥चतुष्कोणं कोष्टकं च दीर्घं तु नवखण्डकम् ।विशालं तु त्रिखण्डं च कृत्वा सप्त च विंशतिम् ॥४७॥खण्डाँस्तेष्वाद्यनवके देया अंकाः क्रमान्नव ।द्वितीये नवके दशाऽष्टादशांकाः क्रमात्तथा ॥४८॥तृतीये नवके चैकोनविंशसप्तविंशतिः ।एवं दत्वा नवके च जन्मसंपत् विपत्तथा ॥४९॥क्षेमं चर्म सधनं च निधनं मैत्री मित्रता ।नाम्नी तारा तु सा बोध्या जन्मतारा नवात्मिका ॥५०॥प्रथमे नवके सा च द्वितीये तु कर्मात्मिका ।तृतीये नवके सा च आधाना प्रोच्यते सदा ॥५१॥त्रिष्वपि नवकेष्वेव प्रथमा च द्वितीयका ।अष्टमी तारका मध्यफलदा सम्प्रकीर्तिता ॥५२॥द्वितीया पञ्चमी सप्तमी तारा ह्यधमा मता ।चतुर्थी षष्ठी नवमी तारा श्रेष्ठा फलप्रदा ॥५३॥अशुभं चन्द्रमशुभां तिथिं भं चाशुभं तथा ।विमृद्य फलदा तारा षटचतुर्थनवस्थिता ॥५४॥यात्रायुद्धविवाहेषु जन्मतारा न शोभना ।अन्येषु शुभकार्येषु शुभा प्रवेशनेऽपि च ॥५५॥मेषे सिंहे धने चन्द्रः पूर्वे भवति सर्वथा ।वृषे मकरे कन्यायां दक्षिणे चन्द्रमा मतः ॥५६॥कुंभे तुलायां मिथुने पश्चिमे चन्द्रमा मतः ।कर्के मीने वृश्चिके चोत्तरे वै वर्तते शशी ॥५७॥सन्मुखे चार्थलाभं तु दक्षिणे सुखसम्पदः ।पश्चिमे कुरुते मृत्युं वामे चन्द्रो धनक्षयम् ॥५८॥करणर्क्षवारसंक्रान्तिकुतिथिकुलिककम् ।प्रहरचतुष्घटीमंगलशनिरविग्रहम् ॥५९॥राहुं केतुं चान्यदोषान् हरतीन्दुस्तु सन्मुखः ।राश्येकस्थोऽपि च चन्द्रो वर्तते सर्वदिक्ष्वपि ॥६०॥पूर्वे सप्तदशघट्यः पञ्चदश तु दक्षिणे ।एकविंशतिः पश्चे चोत्तरे घट्यस्तु षोडश ॥६१॥पुनः सप्तदश पूर्वे चतुर्दश तु दक्षिणे ।विंशतिः पश्चिमे पञ्चदशघट्यस्तथोत्तरे ॥६२॥तत्तद्दिशाफलं ददात्येकराशिस्थितोऽपि सः ।उत्सवे च विवाहे च गुरुर्वै बलवान् मतः ॥६३॥राजसम्मीलने सूर्यबलं सर्वत्र चेष्यते ।भौमबलं तु संग्रामे विद्याभ्यासे बुधो बली ॥६४॥शुक्रबलं तु यात्रायां दीक्षायां च शनेर्बलम् ।सर्वकार्येषु चन्द्रस्य बलं पूर्णफलप्रदम् ॥६५॥एकादश्यां गुरुः षष्ठ्यां भौमः शुक्रः त्रयोदशे ।नवम्यामष्टम्यां प्रतिपदि वारो रविर्भवेत् ॥६६॥द्वितीयायां नवम्यां च दशम्यां सोमवारकः ।तत्र बोध्यः सिद्धियोगः सर्वारंभप्रसिद्धिकृत् ॥६७॥नन्दा शुक्रे बुधे भद्रा शनौ रिक्ता कुजे जया ।गुरौ पूर्णा भवेत् सिद्धिर्योगकृत्कार्यसिद्धिदा ॥६८॥रवौ हस्तो मृगश्चन्द्रे गुरौ पुष्यं कुजेऽश्विनौ ।अनुराधा बुधे शुक्रे रेवती रोहिणी शनौ ॥६९॥अमृतसिद्धियोगः स्यात् सर्वकार्यार्थसिद्धिकृत् ।पञ्चम्यां चेद् भवेद्धस्तो रवियुक्तो न शोभनः ॥७०॥षष्ठ्यां मृगशिरा चन्द्रयुक्तोऽपि स न शोभनः ।सप्तम्यामश्विनी भौमयुक्तापि न च शोभना ॥७१॥अष्टम्यामनुराधा बुधयुक्ताऽपि न शोभना ।नवम्यां तु गुरुयुक्तं पुष्यं नैव शुभावहम् ॥७२॥यद्यप्यमृतसिद्धिः सा त्यक्तव्या शुभकर्मसु ।अन्येऽमृतसिद्धियोगाः सर्वकार्यप्रसाधकाः ॥७३॥उद्वाहे गुरुपुष्यं च प्रवेशे तु कुजाश्विनीम् ।त्यजेदेतत् प्रयत्नेन प्रयाणे शनिरोहिणीम् ॥७४॥सोमभीमबुधगुर्वन्यतमे वारके दिने ।एकपञ्चषट्दशैकादशान्यतमाया तिथौ ॥७५॥अनुराधारोहिणीपुनर्वसुमघान्यतमे ।हस्तविशाखमूलश्रवणप्राग्भाद्रान्यतमे ॥७६॥नक्षत्रे स्यात् श्रेष्ठः कुमारयोगः सर्वसिद्धिकृत् ।रविभौमबुधशुक्रान्यतमे वारके दिने ॥७७॥द्वात्रसप्तद्वादशपञ्चदशान्यतमातिथौ ।भरणीमृगपुष्यप्राक्फाल्गुनीचित्रान्यतमे ॥७८॥अनुराधाप्राक्षाढाधनिष्ठोत्तराभाद्रान्यतमे ।राजयोगो भवत्येव श्रेष्ठः कार्यार्थसाधकः ॥७९॥गुरुशन्यन्यन्तरे चतुरष्टनवान्यतमे ।त्रयोदशचतुर्दशान्यतरे तिथिविशेषके ॥८०॥कार्तिकार्द्राश्रवणोत्तराफाल्गुनीस्वात्यन्यतमे ।ज्येष्ठोत्तराषाढाशततारकारेवत्यन्यतमे ॥८१॥ऋक्षे स्थविरयोगश्च श्रेष्ठः कार्यार्थसाधकः ।भौमगुरुशन्यन्यतमे द्वासप्तद्वादशान्यतमे ॥८२॥मूलचित्राधनिष्ठान्यतमे द्विपुष्करयोगः ।श्रेष्ठः कार्यार्थदः प्रोक्तः कार्यारम्भः सुखप्रदः ॥८३॥भौमगुरुशन्यन्यतमे द्वासप्तद्वादशान्यतमे ।कृत्तिकापुनर्वसूत्तराफाल्गुनिकाऽन्यतमे ॥८४॥विशाखाप्राग्भाद्रपदोत्तराषाढाऽन्यतमर्क्षे ।त्रिपुष्करयोगश्च सर्वकार्यार्थसाधकः॥८५॥रवौ हस्ते च पञ्चम्यामशुभो मृत्युयोगकः ।सोमे मृगे षष्ठिकायामशुभो मृत्युयोगकः ॥८६॥भौमेऽश्विन्यां च सप्तम्यामशुभो मृत्युयोगकः ।बुधेऽनुराधायामष्टम्यामशुभो मृत्युयोगकः ॥८७॥गुरौ पुष्ये नवम्यां चाशुभो वै मृत्युयोगकः ।रवावार्द्रायां द्वादश्यामबलायोगकोऽशुभः ॥८८॥एकादश्यां मृगे सामेऽबलायोगोऽप्यशुद्धकः ।बुधे द्वये च रोहिण्यामबलायोगकोऽशुभः ॥८९॥कृत्तिकायां शनौ पञ्चेऽबलायोगोऽप्यशुद्धकः ।कृत्तिकायां रवौ द्वादश्यां भवेद् विषयोगकः ॥९०॥शतभिषायां सप्तम्यां भौमे विषयोगोऽशुभः ।द्वितीयायामाश्लेषायां शनौ विषयोगोऽशुभः ॥९१॥भरण्यां च रवौ दग्धयोगोऽशुभः सदा मतः ।सोमे चित्रायां च दग्धो योगोऽशुभः सदा मतः ॥९२॥मंगले चोत्तराषाढायां च दग्धोऽशुभः सदा ।धनिष्ठायां बुधे दग्धो योगोऽशुभः सदा मतः ॥९३॥गुरावुत्तराफाल्गुन्यां दग्धो योगोऽशुभः सदा ।ज्येष्ठायां शुक्रके दग्धो रेवतीयुक्शनावपि ॥९४॥दग्धोऽशुभः सदा बोध्यः कार्यहानिकरो हि सः ।मघायां च रवौ यमघण्टयोगोऽशुभस्तथा ॥९५॥विशाखायां चन्द्रके स आर्द्रायां मंगलेऽपि सः ।मूले बुधे यमघण्टः कृत्तिकायां गुरौ च सः ॥९६॥रोहिण्यां शुक्रके सोऽपि हस्ते शनौ स चापि वै ।यमघण्टः सदा वर्ज्यः शुभं नैव ददाति सः ॥९७॥सूर्यभात् चन्द्रनक्षत्रे तुर्ये षष्ठे त्रयोदशे ।विंशे च नवमे रवियोगः सर्वशुभप्रदः ॥९८॥अनेकदोषसंघानां ध्वंसकः शुभदः सदा ।इत्येवं राधिकेऽनादिकृष्णनारायणः प्रभुः ॥९९॥क्रथकं प्राह यत् सर्वं मयोदितं तु ते तथा ।ज्ञानदं शुभकालानां कार्याणां फलकृत्तथा ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नक्षत्रेषु शुभाऽशुभकार्यतत्फलयोगकरणभद्राचक्र-शुभाशुभ-चन्द्रफलताराबलचन्द्रबलभ्रमणसिद्धियोगचक्रशुभाशुभयोग-रवियोगबलानीत्यादिनिरूपणनामा पञ्चसप्तत्यधिकशततमोऽध्यायः ॥१७५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP