संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२ Translation - भाषांतर श्रीकृष्ण उवाच-राधिके त्वेकदा पूर्वे महान् वै तपसां निधिः ।ऋषिवर्यश्च्यवनाख्यो भार्गवेन्द्रो महातपाः ॥१॥कुर्वन् तीर्थानि पातालं ययौ यदृच्छया स्वयम् ।ततो रसातलं प्राप तत्र ददर्श शोभनम् ॥२॥महत् पुरं दानवानां प्रविवेश स तत्पुरम् ।चचार नागकन्याभिः पूज्यमानः समन्ततः ॥३॥तमेनं च्यवनं वीक्ष्य प्रह्लादाख्यो रसाधिपः ।भृगुपुत्रस्य सम्पूजां चक्रे त्वग्र्यां यथार्हतः ॥४॥परस्परं सुकुशलं पप्रच्छतुर्निरामयम् ।उपविष्टं मुनिं नत्वा प्रह्लादः प्राह भार्गवम् ॥५॥अद्य ते दर्शनादस्मि सम्प्राप्तः कृतकृत्यताम् ।साधूनां दर्शनं पापहरं पुण्यप्रदं शुभम् ॥६॥साधवस्त्वादृशा लोकाँस्तारयन्ति च मादृशान् ।कृपालवः पर्यटन्ति पापिनां तारणाय ते ॥७॥मदुद्धारपरः साधो त्वमत्र यदुपागतः ।पावितोऽस्मि ऋषे चाऽहं दैत्यदानवमध्यगः ॥८॥वसाऽत्र चर धर्मं च क्रतुं चापि जपादिकम् ।तवैवेदं मम राज्यं सेवयिष्यामि दासवत् ॥९॥ऋषिः प्राह तव भक्त शोभते वैष्णवो यतः ।त्वयि शासति भक्तेन्द्रे देवब्राह्मणपूजके ॥१०॥मखान् भूमौ नृपतयो यजन्ते विधिवत् सदा ।ब्राह्मणाद्यास्तपो धर्मं तीर्थं यात्रां च कुर्वते ॥११॥देवाः सन्ति च निश्चिन्ताः सन्ति धर्माः प्रजासु च ।त्वयि राज्ये स्थिते दैत्य धर्मस्थे तिष्ठते वृषः ॥१२॥रसातलेऽथवा भूमौ स्वर्गे वा समता मम ।यत्र भक्तस्तत्र सर्वं स्वर्गं मे सम्मतं नृप ॥१३॥तवेच्छापूरणार्थं वै स्थास्याम्यत्रोत्तरायणम् ।ततो यास्यामि वै दर्शनार्थं बालप्रभोर्ध्रुवम् ॥१४॥प्रह्रादस्तु तदा प्राह यद्यप्येतन्मया श्रुतम् ।दैत्यमुखाद्धरिस्तत्र कृष्णनारायणः प्रभुः ॥१५॥पृथ्व्यां संराजते बालस्तथापि वद मेऽधिकम् ।कः कथं कीदृशश्चाऽऽस्ते पावनः पुरुषोत्तमः ॥१६॥द्रष्टुमिच्छाम्यहं त्वेनमनादिपुरुषोत्तमम् ।चमत्कारान् वद तस्य तीर्थान्यन्यानि मे वद ॥१७॥श्रेष्ठानि कानि तीर्थानि पृथिव्यां कानि चाम्बरे ।रसातले च कानि स्युरेतद् वद ततोऽप्यहम् ॥१८॥तीर्थयात्रां गमिष्यामि कर्तुं कर्तुं च दर्शनम् ।अनादिश्रीकृष्णनारायणस्य परमात्मनः ॥१९॥च्यवनो हि तदा प्राह प्रह्लादं भक्तपुंगवम् ।सौराष्ट्रे परमं तीर्थं चाऽश्वपट्टसरोवरम् ॥२०॥पृथिव्यां नैमिषारण्यं चान्तरीक्षे तु पुष्करम् ।रसातले चक्रतीर्थं पाताले हाटकेश्वरम् ॥२१॥पर्वते बदरीतीर्थं चारण्ये नारसिंहकम् ।जले क्षीरोदशायि स्वर्गे च मेरौ हरेर्गृहम् ॥२२॥इत्येवं सन्ति तीर्थानि पावनानि तु पापिनाम् ।श्रत्वैवं भार्गववाक्यं दैत्यराजस्तु राधिके ॥२३॥तीर्थानि गन्तुकामोऽभूद् दानवानिदमब्रवीत् ।उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थानि वै भुवि ॥२॥द्रक्ष्यामः परमात्मानं कृष्णनारायणं प्रभुम् ।इत्युक्ता दानवा दैत्या आसुरा राक्षसास्तथा ॥२५॥चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात् ।सहितास्ते च्यवनेन ययुः श्रीहाटकेश्वरम् ॥२६॥विधिना स्नानपूजादि कृत्वा श्रीहाटकेशितुः ।पातालादूर्ध्वमायाताः सौराष्ट्रे विवरैर्भुवम् ॥२७॥कुंकुमवापिकाक्षेत्रे चाऽश्वपट्टसरोवरे ।लोमशस्याऽऽश्रमपूर्वे स्नानं चक्रुर्मुदान्विताः ॥२८॥स च्यवनः स प्रह्रादः सर्वदैत्यसमन्वितः ।अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ॥२९॥सर्वावतारसंजुष्टं मुक्तकन्यादिसेवितम् ।ददर्श पूजयामास दध्यौ सर्वमनोहरम् ॥३०॥ततः श्रीकम्भरालक्ष्मीं नत्वा गोपालकृष्णकम् ।लोमशं पूजयित्वा च सरो वै पुष्करं ययौ ॥३१॥सरस्वतीं चावगाह्य धर्मारण्यं गतोऽभवत् ।मेरोः कृत्वा सुतीर्थानि ततः श्रीबदरीं ययौ ॥३२॥नरनारायणौ यत्र तेपाते तप उत्तमम् ।समुन्नतजटाभारौ तपस्यासक्तमानसौ ॥३३॥अतिसौम्यस्थरूपौ च कृष्णाजिनधरौ मुनी ।ददर्श विमलौ देवौ पुपूजाऽतीव भावतः ॥३४॥स्नात्वा गंगां शालवृक्षं नैमिषारण्यसन्निधौ ।ययौ दैत्येन्द्र एवासौ ददर्श तत्र तौ पुनः ॥३५॥शालद्रुमकृतावासौ तापसा तौ नरोत्तमौ ।तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते ॥३६॥शार्ङ्गमाजगवं चाप्यक्षय्यावपि महेषुधी ।शालवृक्षं महाशाखं शरैश्चितं च हेतिभिः ॥३७॥ददर्श बाणानपरान् मुखे लग्नान् परस्परम् ।ततस्तानद्भुताकारान् बाणान्नागोपवीतकान् ॥३८॥दृष्ट्वाऽतुलं रुषं चक्रे दैत्यो द्विरूपदर्शनात् ।तापसौ तौ सशस्त्रौ च दृष्ट्वाऽमन्यत दाम्भिकौ ॥३९॥बलगर्वेण च व्याप्तः प्रोवाच पुरुषोत्तमौ ।किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥४०॥क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ ।अथोवाच नरो दैत्यं का ते चिन्ता परकृते ॥४१॥सामर्थ्ये सति यत् कुर्याद् घटते तस्य तत्तथा ।आवां वै तापसौ रक्षाकरौ दैत्यनिषूदनौ ॥४२॥उभयं कुर्वो दैत्येन्द्र याहि मा वह गर्वकम् ।अथोवाच दितीशस्तौ का शक्तिर्युवयोरिह ॥४३॥दैत्यनाशकरी धर्मरक्षके मयि तिष्ठति ।नरः प्राह च दैत्येन्द्र आवाभ्यां शक्तिरर्जिता ॥४४॥न कश्चिच्छक्नुयाज्जेतुं नरनारायणौ युधि ।अनादिश्रीकृष्णनारायणात्मानौ परेश्वरौ ॥४५॥प्रह्लादस्तु ततो गर्वात् प्रतिज्ञामकरोत् पुरः ।यथाकथञ्चिद् जेष्यामि नरनारायणौ रणे ॥४६॥च्यवनस्तं तदा प्राह मा वोचः श्रीहरिं प्रति ।नाऽयं जय्यो हि भगवान् क्षय्येन तु त्वया क्वचित् ॥४७॥दैत्यः प्राह प्रतिज्ञा सा मयोक्ता नान्यथा भवेत् ।करिष्ये सर्वथा यत्नं विजेष्यामि ध्रुवं हि तौ ॥४८॥इत्युक्त्वा च्यवनं नत्वा सज्यं चापं वितत्य च ।चकार गर्जनं ज्यायास्तलध्वनिं चकार च ॥४९॥संक्षिप्तं स्वबलं स्थाप्य वने युद्धार्थमुद्यतः ।ततो नरस्त्वाजगवं चापमानम्य वै शरान् ॥५०॥मुमोच तान् पृषत्कैश्च चिच्छेद दैत्यपुंगवः ।छिन्नान् समीक्ष्याऽथ नरो बाणान् दैत्येन तत्क्षणम् ॥५१॥महाबाणान् मुमोचापि क्रमशो दैत्यनाशकान् ।नरश्चैकं दितिजो द्वौ नरस्त्रीन् चतुरोऽसुरः ॥५२॥नरः पञ्च दितिजः षड् बाणान् मुमोच नाशकान् ।नरः सप्त दितिजोऽष्टौ नरो मुमोच त्रीणि षट् ॥५३॥दैत्यो दश नरश्चैकादश दैत्यश्च षोडश ।नरो द्वात्रिंशत्पृषत्कान् दैत्यः षष्टिशराँस्तदा ॥५४॥शतं नरो मुमोचाऽपि दैत्यः शतद्वयं पुनः ।नरः शतत्रयं दैत्यः षटशतानि ससर्ज वि ॥५५॥नरः सहस्रं दैत्यश्च पारेसहस्रमाहिनोत् ।एवं चाऽसंख्यबाणाँस्तौ मिथो गर्वान्ममोचतुः ॥५६॥नरोंसख्यशरव्रातैरवास्तरत् खदिग्भुवः ।दैत्योऽप्यसंख्यबाणैस्तान् छिच्छेद बहुयत्नतः ॥५७॥तदा वरास्त्रैर्युध्येतां समन्त्रेर्नरदानवौ ।वह्निं नरो जलं दैत्यो वाय्वस्त्रं पर्वतास्त्रकम् ॥५८॥नागास्त्रं गारुडास्त्रं च धूमास्त्रं तैजसास्त्रकम् ।नार्यस्त्रं च नरास्त्रं च षण्ढास्त्रं यौवनास्त्रकम् ॥५९॥एवं परस्परं तौ च चिक्षिपतुर्जिघांसया ।ब्रह्मास्त्रं दैत्यवर्यः स मुमोचातिभयंकरम् ॥६०॥नारायणाऽस्त्रमग्रं च नरो मुमोच तत्क्षणम् ।संहृते ते ह्युभे चाथ प्रल्हादः क्रोधमूर्छितः ॥६१॥गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात् ।नारायणश्च तं वीक्ष्य समायान्तं गदायुतम् ॥६२॥नरं स्वपृष्ठतः कृत्वा योद्धुमग्रगतोऽभवत् ।दैत्यो भ्रान्त्वा गदां वेगान्मूर्ध्नि कृष्णमताडयत् ॥६३॥ताडितस्य हरेर्नेत्रद्वयाद् वार्यपतद् बहु ।गदापि शतधा भिन्ना न्यपतद् भुवि खण्डशः ॥६४॥दैत्यस्तूर्णं रथे स्थित्वा कार्मुकं प्रसमाददे ।बाणान् शिलीमुखान् तीक्ष्णान् मुमोचार्धशशिप्रभान् ॥६५॥हरिविच्छेद् तान् बाणैर्निर्बिभेद च दानवम् ।दानवोऽपि हरिं बाणैर्विव्याध च शिलीमुखैः ॥६६॥एवं परस्परं चाविध्येतां मर्मसु रोषतः ।तदाऽम्बरे दिदृक्षूणा देवानां देहिनां तथा ॥६७॥सन्निपातोऽभवद् व्योम्नि दुन्दुभयो महास्वनाः ।अवाद्यन्त तथा पुष्पवर्षं चाभूत् तयोः कयोः ॥६८॥अथैवं बलमापन्नौ दैत्यनारायणावुभौ ।बबन्धतुस्तदाऽऽकाशं सुतीक्ष्णशरवृष्टिभिः ॥६९॥सर्वदिशोऽच्छादयतामयुध्येतामसुग्लहम् ।नारायणस्तु दैत्यं तं शरैर्बिभेद मर्मसु ॥७०॥दैत्यो बिभेद हृदये बाह्वोर्मुखे नरायणम् ।नारायणोऽर्धचन्द्रेण चिच्छेद दैत्यकार्मुकम् ॥७१॥दानवश्चापरं सज्यं धनुः कृत्वा शरैर्हरिम् ।ववर्ष तान् हरिश्छित्वा दैत्यं बाणैरवाकिरत् ॥७२॥कार्मुकं च क्षुरप्रेण चिच्छेद चापरं ततः ।तृतीयं च चतुर्थं च चिच्छेद पञ्चमं धनुः ॥७३॥अथ दैत्यो लोहमयं जग्राह परिघं दृढम् ।भ्रामयामास यावत्तं चिच्छेद भगवान् शरैः ॥७४॥प्रह्लादो मुद्गरं भ्रान्त्वा चिक्षेप च नरायणे ।हरिर्दशभिर्नाराचैश्चिच्छेद मुद्गरं यदा ॥७२॥दैत्यः पाशयुतस्तूर्णं दुद्राव श्रीहरिं प्रति ।हरिः पाशं तु बाणेन चिच्छेद बहुखण्डशः ॥७६॥दैत्यः शक्तिं सप्ततालदीर्घामादाय माधवम् ।प्रति चिक्षेप च हरिस्तां चिच्छेद क्षुरप्रकैः ॥७७॥दैत्यश्च पर्वतशृंगं चिक्षेप माधवोपरि ।हरिः शक्त्या विदार्यैतद् दानवस्य तु वक्षसि ॥७८॥शूलं शक्तिसमं वेगात् प्राहिणोद् दानवस्तदा ।प्रभिन्नहृदयो राधे पपात रथमध्यगः ॥७९॥विसंज्ञं सारथिर्ज्ञात्वा तमपोवाह वै रणात् ।नारायणो विशश्राम तावत् संज्ञान्वितोऽसुरः ॥८०॥सुदृढं चापमादाय भूयो योद्धुमुपागतः ।तावत् सायं हरिर्दृष्ट्वा प्रत्युवाच महासुरम् ॥८१॥गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ।एवमुक्तो ययौ नत्वा नैमिषं चाह्निकं व्यधात् ॥८२॥एवं नित्यं महायुद्धं प्रववृते तयोर्दिने ।रात्रौ विश्रान्तिसमये चिन्तयत्यपि दानवः ॥८३॥कथं जेष्यामि तं वीरं दाम्भिकं साध्यमीश्वरम् ।अथैवं दानवस्तेनाऽयुध्यत बहुवत्सरान् ॥८४॥न चाऽजयत् तदा वर्षसहस्रान्तेऽजितं हरिम् ।नारायणं समभ्येत्य दानवो वाक्यमब्रवीत् ॥८५॥किमर्थं देवदेवेश त्वामहं साध्यमीश्वरम् ।विजेतुं नात्र शक्नोमि तस्य मे कारणं वद ॥८६॥नारायणश्च तं प्राह दुर्जयोऽहं सुराऽसुरैः ।अपि कोट्यस्त्रशस्त्राद्यैर्बलैः सर्वविधैरपि ॥८७॥प्रह्लादस्तु तदा प्राह यद्यसाध्यश्च दुर्जयः ।प्रतिज्ञातं मया जेतुं तदसत्यं भवेदिह ॥८८॥ख्यातो हतप्रतिज्ञोऽहं कथं जीवेयमीश्वर ।तस्मात्ते सन्निधौ विष्णो सन्त्यक्ष्ये जीवनं मम ॥८९॥इत्युक्त्वा निषसादाऽग्रे गृणन् ब्रह्मसनातनम् ।हरिः प्राह कृपालुः स्वं भक्तं श्रद्धान्वितं परम् ॥९०॥गच्छ जेष्यसि भक्त्या मां न युद्धेन कदाचन ।प्रह्लादश्च तदा प्राह त्रैलोक्यं विजितं मया ॥९१॥परं न विजितोऽसि त्वं लोकरक्षाकरो यतः ।धर्मप्रवर्तनार्थाय तपश्चर्यां समास्थितः ॥९२॥तत्त्वां जेतुं परां भक्तिं करिष्ये जयदां शुभाम् ।शुश्रूषां तव देवेशाऽऽराधनां सेवनादिकम् ॥९३॥करिष्ये येन युद्धेन त्वं पराजयमाप्नुयाः ।तद् युद्धं वै प्रतिज्ञातं फलदं मे भविष्यति ॥९४॥शस्त्रं भक्त्यात्मकं कृष्णे योजयिष्ये ह्यतः परम् ।इत्युक्त्वा दैत्यवर्यः स हिरण्याक्षसुताऽन्धकम् ॥९५॥समाहूयाऽब्रवीत् हृष्टः साध्यं साधयितुं व्रती ।दैत्याश्च दानवाश्चापि परिपाल्यास्त्वयाऽन्धक ॥९६॥मयोत्सृष्टमिदं राज्यं प्रतीच्छ परिपालय ।अहं युद्धेन तपसा भक्त्याऽऽराधनया तथा ॥९७॥विजेष्ये श्रीहरिं देवेश्वरं दाम्भिकमीश्वरम् ।इत्युक्तोऽन्धकदैत्यश्च जग्राह राज्यमुत्तमम् ॥९८॥प्रह्लादः प्रययौ पुण्यं हरेर्बदरिकाश्रमम् ।यावास्तां नैमिषे क्षेत्रे शालग्रामे च यौ प्रभू ॥९९॥तावेव वीक्ष्य देवौ स नरनारायणावुभौ ।कृताञ्जलिपुटो -भूत्वा ववन्दे चरणौ तयोः ॥१००॥नारायणश्च तं प्राह मामजित्वा महासुर ।किमर्थं प्रणतोऽस्यत्र वद यत्ते समीहितम् ॥१०१॥प्रह्लादः प्राह भगवन् कस्त्वां जेतुं प्रभुः पुमान् ।कस्त्वत्तोऽस्ति पुमान् श्रेष्ठस्त्वमेव पुरुषोत्तमः ॥१०२॥त्वमेव तपसा द्योतज्जटाजूटधनुर्धरः ।त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः ॥१०३॥जपन्ति स्नातकास्त्वां च यजन्ते त्वां च याज्ञिकाः ।रामयन्ति च रामास्त्वां पूजयन्ति पतिव्रताः ॥१०४॥ऐन्द्रियिकस्तपर्यन्ति त्वामेव परमेश्वरम् ।त्वममर्त्यो हृषीकेशश्चक्रपाणिर्धराधरः ॥१०५॥महामीनो हयशिरास्त्वमेव कच्छपाकृतिः ।क्रोडरूपः केसरी त्वं ब्रह्मा श्रीशः सतीपतिः ॥१०६॥कुबेरो वरुणस्त्वं च समीरो भास्करः शशी ।सर्वभूतात्मभूतस्त्वं कस्त्वां जेष्यति माधव ॥१०७॥भक्त्या चेत् त्वं वशं याहि भक्तिं कर्तुं समागतः ।इत्युक्त्वा च पुनस्तस्य पादयोः प्रणनाम सः ॥१०८॥नारायणश्च तं प्राह परितुष्टोऽस्मि तेऽनघ ।भक्त्या त्वनन्यया चाहं त्वया चाद्य पराजितः ॥१०९॥पराजितश्च पुरुषो जेत्रे दण्डं प्रयच्छति ।दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥११०॥प्रह्लादः प्राह मे पापं शारीरं मानसं च वा ।वाग्भवं नाशमायातु यन्मया युध्यता कृतम् ॥१११॥या या जायेत मे बुद्धिः सा सा विष्णो त्वदाश्रिता ।देवार्चनेऽतिनिरता त्वच्चित्ता त्वत्परायणा ॥११२॥त्वत्पादपद्मयोर्नित्यं रतिश्चास्तु परा मम ।नारायणश्च तं प्राह तथैवाऽस्तु सदा तव ॥११३॥अपरं चास्तु भक्तेन्द्रो नित्यमेवाऽक्षयोऽव्ययः ।अजरश्चामरश्चापि मत्प्रसादाद्भविष्यसि ॥११४॥इतो गच्छ परं श्रेष्ठं चाश्वपट्टसरोवरम् ।कुंकुमवापिकाक्षेत्रे यत्राऽऽस्ते पुरुषोत्तमः ॥११५॥अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।तं दृष्ट्वा श्रीहरिं ध्यात्वा निधाय हृदि तं प्रभुम् ॥११६॥लोमशाच्च महामन्त्रं गृहीत्वा पावनस्ततः ।गच्छ त्वं भक्तशार्दूल स्वमावासं क्रियारतः ॥११७॥प्रशासयन् सर्वदैत्यान् राज्यं पालय शाश्वतम् ।स्वजातिसदृशं दम्भं कुरु भक्तिं च शासनम् ॥११८॥न कर्मबन्धो भवतो मच्चित्तस्य भविष्यति ।हितोपदेष्टा दैत्यानां दानवानां गुरुर्भव ॥११९॥एवमुक्तो हरिं नत्वा क्षमाप्य श्रीहरिं नरम् ।ययौ च्यवनसंयुक्तः सौराष्ट्रे लोमशाश्रमम् ॥१२०॥कुंकुमवापिकाक्षेत्रे ददर्श पुरुषोत्तमम् ।अश्वपट्टसरोवारिस्नानं कृत्वाऽऽर्च्य केशवम् ॥१२१॥औं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।मन्त्रं प्राप्य मासमात्रमुषित्वा प्रययौ गृहम् ॥१२२॥अश्मकं नाम नगरं शशास च रसातलम् ।दृष्टः सभाजितश्चापि दानवैरन्धकादिभिः ॥१२३॥भक्तिं चकार नवधा ध्यानमाराधनादिकम् ।अनादिश्रीकृष्णनारायणमूर्तिं प्रपूजयन् ॥१२४॥इत्येवं कथितं राधे भक्त्या जय्यो जनार्दनः ।दैत्येनापि पराभक्त्या विजितः परमेश्वरः ॥१२५॥द्वितीयेऽब्दे हरेर्दैत्यश्च्यवनो मार्गशीर्षके ।न्यूषतुस्तन्महत्तीर्थं च्यावनं दक्षिणे तटे ॥१२६॥अश्वपट्टसरसो वै प्राह्लादिकं तथोच्यते ।प्रह्लादो दैत्यदनुजान् बोधयामास तन्मनुम् ॥१२७॥रसातलमतास्तेऽपि भक्ता बभूवुरैश्वराः ।अनादिश्रीकृष्णनारायणं भेजुरहर्निशम् ॥१२८॥इत्येतत् कथितं राधे सर्वपातकनाशकम् ।परमं साधनं दैत्योद्धारकं चाक्षयं दृढम् ॥१२९॥जयदं शान्तिदं स्मृद्धिप्रदं शाश्वतमोददम् ।हरेश्चरणदं पाठश्रुतिभ्यां मोक्षदं परम् ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने च्यवनयोगेन प्रह्लादस्य रसातलात्तीर्थार्थं भूमावागमनं नरनारायणेन सह युद्धं भक्त्या नारायणपराजयः, प्रह्लादच्यवनयोर्लोमशाश्रमागमश्चेत्यादिनिरूपणनामा द्वाविंशतितमोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP