संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ४४ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ४४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४४ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! पश्चाद् राजा सिद्धिसमाश्रितः ।पत्तनं रचयामास सोमवेलाह्वयं महत् ॥१॥यत्र सौवर्णसौधाँश्च दशसहस्रसंख्यकान् ।रौप्यसौधाँस्तावतश्च मणिसौधान् सहस्रशः ॥२॥उद्यानानि विचित्राणि वाटिकाः पद्मसारसीः ।कारयामास बहुधा वासयामास देवताः ॥३॥कल्पवल्लीं ददौ तत्र प्रत्येके चालये ततः ।यक्षान् किंपुरुषान् बन्दीन् चारणान् भूसुरांस्तथा ॥४॥मानवान् वासयामास कोटिशो देवसदृशान् ।एवं कृत्वा सोमवेलाभिधं द्वादशगोपुरम् ॥५॥नगरं पश्चिमे भागे सोमतीर्थान्मनोहरम् ।ततः श्रीसोमनाथस्य सौवर्णं मन्दिरं पुनः ॥६॥कारयामास जीर्णं चोत्तार्य वै नूतनं महत्॥सहस्रहस्तोच्छ्रायं च साप्तभौमं च गोपुरम् ॥७॥पञ्चाशद्धस्तविस्तारं शिखरं पर्वतोपमम् ।तत्र देवः सोमनाथो व्योमस्थो राजतेऽश्रितः ॥८॥सुवर्णशृंखलाबोध्यो घण्टो यत्र विराजते ।दशयोजनसंश्रावः शतभारगुरुत्ववान् ॥९॥शतमानवसंबोध्यो यन्त्रमात्रेण शब्दितः ।यस्य शिखरकलशः सौवर्णः सप्तभागवान् ॥१०॥पञ्चाशद्धस्तकोच्छ्रायः सूर्यसन्निभभासुरः ।पञ्चाशद्धस्तकध्वजो दण्डोऽस्य शतहस्तकः ॥११॥यत्राऽभ्राणि प्रतिष्ठन्ति चातुर्मास्ये निरन्तरम् ।यत्र स्थितो मनुष्यश्च हंसवत् प्रविलोक्यते ॥१२॥तत्र भोगान् ब्राह्मणाँश्च योजयामास पूजने ।विशेषतश्च राजाऽसावन्नसत्रं बबन्ध ह ॥१३॥यत्राऽयुतं च नारीणां नराणामयुतं तथा ।पञ्चायुतानि बालानां बालिकानां तथैव च ॥१४॥भुञ्जते मिष्टमिश्राणि घृतान्नानि च नित्यशः ।एवं रणेगमो राजा यज्ञपुण्यप्रभावतः ॥१५॥अनादिश्रीकृष्णनारायणस्योपास्तिवैभवात् ।लोकपाल इवासीद्वै पृथ्व्यां विमानगोऽभवत् ॥१६॥अथायं पौषपूर्णायां ययौ वै दक्षिणां दिशम् ।पारेसमुद्रं यानेन वैहायसा प्रवीक्षितुम् ॥१७॥दक्षिणं तु ध्रुवं द्रष्टुं ययौ चाग्रे महाबलः ।भोज्यपानं दासवर्गं वेषं कल्पलतां तथा ॥१८॥साधनानि सह नीत्वा ययौ विमानगोऽम्बरे ।सौराष्ट्राद् दक्षिणं देशं सिंहारण्यं विलोक्य च ॥१९॥शतयोजनकं देशं क्रान्त्वा चाग्रे ययौ नृपः ।समुद्रं च ददर्शाऽसौ दक्षिणां दिशमाश्रितम् ॥२०॥तत्र ददर्श च लाक्षादीपद्वीपं सुशोभनम् ।ततश्चाग्रे ययौ व्योम्ना मालद्वीपं ददर्श सः ॥२१॥तं दृष्ट्वा प्रययौ व्योम्ना स्वेष्टद्वीपं ददर्श सः ।तं विलोक्याऽभितः पश्चान्मुरशेषाभिधं शुभम् ॥२२॥द्वीपं चालोकयामास यत्राऽभवन्मुराऽसुरः ।स च योद्धुं समायातो व्योम्ना रणंगमेन वै ॥२३॥कल्पवल्ल्या समुत्पाद्य वारुणं पाशमुल्बणम् ।राज्ञा चाऽऽबद्ध्य च दैत्यः प्रक्षिप्तः सागरे तदा ॥२४॥यथाकञ्चित् प्राणेन सहितः स्वालयं ययौ ।अथ राजा ययौ चाग्रे द्वीपे कुरुजटं तदा ॥२५॥ददर्श परितस्तत्र जटायूमानवान् ततः ।ययावग्रे विमानेन ददर्शाऽऽन्तरबीजकम् ॥२६।द्वीपं शीतमयं यत्र मकरास्या हि मानवाः ।प्रायशो जलवासाश्च राज्ञा तेनावलोकिताः ॥२७॥ततो ययौ विमानेन वैहायसेन दक्षिणाम् ।दिशं तत्र ददर्शाऽयं पृथ्वीं श्वेतां सुवर्तुलाम् ॥२८॥अप्करकां सशैवालां रूपवच्च प्रभान्विताम् ।यत्र चापोमयीभूश्च देहिनः श्वेतभास्वराः ॥२९॥अप्करकादनाः सर्वे जले शैलनिवासिनः ।नरा नार्यो झषाकारा जलपांशुसहाः सदा ॥३०॥पिबन्तश्च जलं शीतं खादन्तो जलशर्कराम् ।शैवालं जलपाकाँश्च भुञ्जन्तो निर्वहन्ति ते ॥३१॥गृहाणि जलपाषाणैः कृतान्यत्र वसन्ति च ।शीतचन्द्रसमाभासा जलोत्थाऽमृतभोजनाः ॥३२॥एवंविधान् जनान् पश्यन् ददर्श दक्षिणं ध्रुवम् ।प्रथमं कारकीं भूमि ततो द्रष्टुं व्यवर्तत ॥३३॥विमानस्थेन राज्ञा सा वर्तुला वीक्षिता क्षितिः ॥जलरूप्यमयी सर्वा वृक्षहीना वसुन्धरा ॥३४॥यत्र मेघाः सदा सन्ति सूर्यतापो न विद्यते ।सामुद्रप्रस्तराः सन्ति धातवः करकामयाः ॥३५॥रसश्चामृतमिष्टो वै जलीयः करकोद्भवः ।जलं शैवालपुटिका जलपत्राणि वल्लयः ॥३६॥श्वेतवर्णाः श्वेतफलाचन्द्रखण्डनिभाश्च ताः ।जलशाकानि भोज्यानि जलपाषाणजा गृहाः ॥३७॥सामुद्रक्षारकरका जलानां मिष्टशर्कराः ।जलपाषाणकन्दाश्च भोज्यास्तन्मानवैः सुखैः ॥३८॥एतत् सर्वं विलोक्यैव वारुणं भवनं तथा ।दक्षिणध्रुवगोलस्य मध्यबिन्द्वाश्रयं स्थलम् ॥३९॥विलोक्य पुनरायाच्च राजा रणंगमस्तटम् ।तत्र कम्पप्रदेशं च ततः कटिसरं पुरः ॥४०॥विलोक्य सर्वतः पश्चाद् राजसं च प्रदेशकम् ।ददर्श चाग्रतो गत्वा देशं तु कन्यकालयम् ॥४१॥ततश्चाग्रे ददर्शाऽसौ काणाक्षं सुप्रदेशकम् ।ततोऽप्यग्रे ददर्शाऽयं सग्रीवं देशमुत्तमम् ॥४२॥अद्रिघ्नं च ततो देशं ददर्श जलशैलजम् ।यातदेशं च वीक्षारिप्रदेशं स ददर्श ह ॥४३॥ग्रीष्मशून्यकदेशं च कुस्थदेशं ततः परम् ।ध्रुवबिन्दुं विलोक्यैव ददर्शाऽन्तार्किवर्तुलम् ॥४४॥एवं भूगृह्यदेशं तं शीतमात्रकृतास्पदम् ।शीतलं संविलोक्यैव तस्माद् यावन्निवर्तते ॥४५॥तावद् भूतलगर्भाच्च श्वेतपर्वतसदृशः ।पुमान् कश्चित् समायातो राधिके व्योममार्गगः ॥४६॥अनन्तवीर्यो ब्रह्माण्डोदरवासः कुटुम्बवान् ।श्वेतवर्णः श्वेतवस्त्रः श्वेततेजप्रभान्वितः ॥४७॥श्वेतश्मश्रुः श्वेतरसः श्वेतशैलगदायुतः ।यन्मस्तकेऽलगन् मेघाः पादयोः श्वेतपर्वताः ॥४८॥यत्कट्यां श्वेतशैवाला यन्मुखे स्तनयित्नवः ।यच्छब्दो दक्षिणध्रुवमभिव्याप्य प्रवर्तते ॥४९॥विद्युद्वेगा गतिर्यस्य श्वासः समुद्रकम्पनः ।अट्टहासं दिशामन्तेष्वभिव्याप्य निवर्तते ॥५०॥रणंगमश्च तं दृष्ट्वा भयं चावाप वै क्षणम् ।तावत्स शुक्लपुरुषश्चाऽऽजुहाव रणंगमम् ॥५१॥एह्येहि दिव्यदेव! त्वं वैहायसविहारकृत् ।किं ते भयं नु मत्तोऽस्ति कल्पवल्लीश्रितस्य वै ॥५२॥अनादिश्रीकृष्णनारायणो यस्य हृदि स्थितः ।तादृशस्त्वं महाभक्तो बलवान् राजसे भुवि ॥५३॥धन्योऽसि राजन्परमेश्वराश्रय-स्त्वंभौतिकोऽपीश्वरनाथदृष्टितः ।विराजसे देववदीश्वरः स्वयंपारंगतस्त्वं भवसागरस्य यत् ॥५४॥आगच्छ मद्धाम पुनीहि मामकंगृहं सदा भूमिसुगर्भवासितम् ।मया सदाऽऽराध्यत एव यस्त्वयारणंगमाऽऽराध्यत ईश्वरेश्वरः ॥५५॥अहं हि शेषस्य सुवंशजो जनोवसामि गर्भेऽत्र हि लक्ष्मणाभिधः ।अनादिनारायणकृष्णबालकंभजामि नित्यं ससमस्तबान्धवः ॥५६॥गृहाण सत्कारमनुत्तमं मयाकृतं तथा चार्पय दर्शनं तव ।निवेदयिष्येऽर्चनयोग्यकोपदा-स्ताबालकृष्णाय च दातुमर्हसि ॥५७॥नमो नमस्ते मम नाथभक्त नमो नमस्ते परमात्मवेदिन् ।नमो नमस्ते परमेशभक्त महाक्रतुकृद् भवते नमोऽस्तु ॥५८॥इत्येवं राधिके तेन लक्ष्मणेन सुसत्कृतः ।वाग्भिर्विश्वासमापन्नो रणंगमः स्थिरोऽभवत् ॥५९॥तावच्छ्रीलक्ष्मणस्तत्र रूपं कृत्वा तु मानवम् ।सौम्यं सुरूपं भक्तस्य विश्वास्यं तिलकान्वितम् ॥६०॥वैष्णवं तुलसीयुक्तं गृणन्तं कृष्णनाम च ।ननाम परया प्रीत्या रणंगमोऽतिभावतः ॥६१॥लक्ष्मणश्चाह पश्यात्र विश्वासार्थं च मे हृदि ।अनादिश्रीकृष्णनारायणो विराजते प्रभुः ॥६२॥रणंगमो ददर्शाऽस्य हृदये परमेश्वरम् ।अनादिश्रीकृष्णनारायणं चाश्वसरःस्थितम् ॥६३॥राधापतिं प्रभेशं पारवतीशं सुमञ्जुलम् ।लक्ष्मीशं हंसनाथं च श्रीमद्गोपालनन्दनम् ॥६४॥सगुणेशं कम्भरालालितं भक्तविनोदकम् ।दिव्यकटकमुकुटोर्मिकाहारविभूषितम् ॥६५॥कोटिकन्दर्पशोभाधिरूपरूपानुरूपितम् ।उज्ज्वलं मन्दहास्यस्थं पश्यन्तं तु रणंगमम् ॥६६॥एवंविधं तद्धृदये विलोक्य स्वेष्टमाधवम् ।रणंगमो महाभक्तो विश्वासमगमत्पुनः ॥६७॥ततः स लक्ष्मणं नागं नरमानवरूपिणम् ।विमाने हस्तमादायाऽऽरोहयामास सत्वरम् ॥६८॥तेन दर्शितमार्गेण विमानं वाहितं निजम् ।प्राप्तं पृथ्वीगुप्तबिन्दुं जलपाषाणभूगतम् ॥६९॥दक्षिणध्रुवगोलस्य मुखस्य सन्निधौ महत् ।विवरं तत्र चायातं भूगर्भं गन्तुमेव च ॥७०॥वर्तुलं योजनमानं श्वेतनागैः सुरक्षितम् ।शीतपाषाणसोपानं शीतप्राकाररक्षितम् ॥७१॥लक्ष्मणाऽऽदिष्टमार्गेण विमानं विवरान्तरे ।विवेश क्षणतो यत्र जयशब्दास्तदाऽभवन् ॥७२॥द्वारपानां महाशब्दैर्भूगर्भे चान्तराम्बरे ।विद्युन्मणिप्रकाशानां चन्द्रप्रभासमुज्ज्वले ॥७३॥कन्याभिर्वर्धितं लाजैः पूजितं पुष्परत्नकैः ।विमानं चान्तरे देशे गत्वा पृथ्व्यामवातरत् ॥७४॥तत्र वै पृथिवी रम्या श्वेता कृष्णा च पाण्डुरा ।ओषधयश्च विविधा द्रुमाः फलसुशोभिताः ॥७५॥सस्यानां स्मृद्धयश्चापि स्वर्णवर्णा विलोकिताः ।नद्यो नदा वाटिकाश्च दीर्घिका जलपूरिताः ॥७६॥अमृतैः संभृताः कूपा रणंगमेन लोकिताः ।गावः श्वेताः पाण्डुराश्च सपक्षा व्योमगास्तथा ॥७७॥कामरूपधराश्चान्ये पशवो दुग्धदास्तदा ।विलोकिता नरा नार्यः सर्वे भूषाविभूषिताः ॥७८॥उज्ज्वलाश्चन्द्रसदृशा मणिहारविराजिताः ।शीताश्चन्द्रनिभाः सर्वे पद्मपत्रनिभेक्षणाः ॥७९॥सुरूपाः पिङ्गनेत्राश्च रक्तनखोष्ठपत्तलाः ।वहिशुद्धांऽशुकाः सर्वे दृढाः श्वेतान्नभोजनाः ॥८०॥यथा भूपरि भागेऽस्मिन् वर्तते सर्वथाऽत्र च ।तथा तत्राऽपि राजा स विभूतीन् सन्ददर्श ह ॥८१॥प्रासादाः श्वेतवर्णाश्च सर्वोपकरणानि च ।नगराणि सुराज्यानि पर्वता जलभूमयः ॥८२॥श्वेताः सर्वा मनुष्याश्चेत्यालोक्य विस्मयं गतः ।लक्ष्मणेन विमानं तन्महानगरसम्मुखम् ॥८३॥चालितं यत्र पुष्पाढ्योद्यानानि सुबहून्यपि ।परितः सन्ति सौधाश्च प्रासादाः पर्वतोपमाः ॥८४॥तत्राऽस्योच्छ्रयभूभागे प्राकारान्तरशोभितः ।लक्ष्मणस्य तु राज्ञो वै प्रासादः पर्वतोपमः ॥८५॥लक्ष्मणाभिधवर्णाऽङ्कोऽन्तरीक्षे ध्वजशोभितः ।शतभौमो राजते यो दृष्टो रणंगमेन वै ॥८६॥विमानं लक्ष्मणेनात्रोद्यानांगणेऽवतारितम् ।तदा वाद्यान्यवाद्यन्त राजरीत्या हि राधिके ॥८७॥जयशब्दाः सैन्यपाला राज्यवच्चोपतस्थिरे ।राजधानी स्वर्गसमा रणंगमेन लोकिता ॥८८॥भूगोलस्यान्तरे भागे सृष्टिं दृष्ट्वाऽतिमानुषीम् ।आश्चर्यं परमं प्राप रणंगमो जहर्ष च ॥८९॥अथ वै लक्ष्मणो निन्ये रणंगमं सभान्तरे ।यत्र वै शतराज्ञ्यश्च कन्यकाद्विसहस्रकम् ॥९०॥कुमाराः पञ्चसाहस्रा वर्तन्ते लक्ष्मणस्य ह ।लक्ष्मणेन सभामध्ये पुण्ये सिंहासने स्थितः ॥९१॥प्रतिष्ठितो देवहर्म्ये कृष्णनारायणः प्रभुः ।स्वर्णप्रतिमास्वरूपो दर्शितो भगवान् हरिः ॥९२॥रणंगमाय च ततोऽर्घ्यं मधुपर्कमुत्तमम् ।ददौवमृतपानं सुपुष्पहारादिकं ददौ ॥९३॥अथ सिंहासने सौम्ये न्यषादयच्च तं ततः ।कन्यैका पुष्पमालां सङ्गृह्य तत्र निदेशतः ॥९४॥समायाता ददर्शैनं रणंगमं शुभास्पदम् ।स्वागतार्थं ललाटेऽस्य कुंकुमाऽक्षतचन्द्रकम् ॥९५॥चक्रे ददौ पुष्पमालां कण्ठेऽस्य च करे ददौ ।गुच्छं सुगन्धपुष्पाणां चक्रे सुगन्धकोक्षणम् ॥९६॥युवानं वैष्णव रक्तवर्णं दृढं च सुन्दरम् ।दृष्ट्वा सा कन्यका नाम्ना मालिनी यौवनोद्भरा ॥९७॥मुमोह मनसा श्रेष्ठं वरं मेनेऽनुरूपकम् ।अथाऽयं लक्ष्मणो ज्ञात्वा ददौ रणंगमाय ताम् ॥९८॥सापि भक्तं पतिं लब्ध्वा मुमुदे हृदि सर्वथा ।अथाऽयं श्रीकृष्णनारायणमन्त्रं जगाद ताम् ॥९९॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।लक्ष्मणार्यस्तदा कृष्णनारायणं पुनर्मुदा ॥१००॥प्रसस्माराऽतिभावेन धन्यं मत्वा निजं गृहम् ।तावच्छ्रीभगवाँस्तत्राऽनादिकृष्णनरायणः ॥९०१॥विदित्वा भक्तसद्भावं प्रत्यक्षः संबभूव ह ।दिव्यकिशोररूपश्च सर्वलावण्यशेवधिः ॥१०२॥युगपत्सूर्यसाहस्राधिकतेजोविराजितः ।रूपानुरूपावयवः सभायां प्रकटोऽभवत् ॥१०२॥उत्थिताः सहसा सर्वे नेमुर्नारायणं प्रभुम् ।तेजसा छन्ननेत्रास्ते क्षणं तस्थुर्जडा इव ॥१०४॥शीघ्रं तेजोविमलत्वे दत्तासनः प्रभुर्हरिः ।लक्ष्मणार्यकृतां पूजां जग्राह दिव्यवस्तुभिः ॥१०५॥निवेदितान्नं मिष्टान्नं जलं ताम्बूलकं तथा ।जग्राह सुहसन् कृष्णनारायणस्तु तत्क्षणम् ॥१०६॥स्वस्तीत्युक्त्वा कुशलं ते कल्याणं शाश्वतं तव ।वदँस्तिरोऽभवच्छीघ्रं कन्यकास्तु सहस्रशः ॥१०७॥मुग्धास्तं श्रीहरिं दृष्ट्वा वव्रिरे मनसा पतिम् ।अभिप्रायं पिता ज्ञात्वा मनसा हरयेऽर्पयत् ॥१०८॥अथ यात्रा निमित्तेन प्रयाणं प्रचकार सः ।लक्ष्मणार्यः कुमारैश्च कन्याभिर्मातृभिः सह ॥१०९॥गृहीत्वा कोटिरत्नानि स्वर्णरूप्यधनानि च ।मणिमाणिक्यमुक्ताश्च रणंगमविमानकम् ॥११०॥अध्यारुरोह सुखतः कृत्वा राज्यममात्यसात् ।कामगे संकल्पमात्राद् विस्तृते योजनायते ॥१११॥भूद्वारनिर्गमयोग्ये रणंगमो रुरोह च ।सभास्थानं महापुण्यं यत्र श्रीभगवान् स्वयम् ॥११२॥प्रत्यक्षोऽभूत्परं तीर्थं नत्वा तूर्णं विहायसा ।देशं विसृज्य भूद्वारान्निर्गम्याऽन्ताऽर्किवर्तुलम् ॥११३॥जलपाषाणदेशं तं समुल्लंघ्याऽन्तरीक्षके ।समद्रोपरि दीर्घं तद्विमानं वेगवद्ध्यभूत्। ॥११४॥यथा सूर्यः समायाति यद्वा चन्द्रः प्रयाति च ।दृष्टं जलस्थलावासैः राधिके द्योतयद् दिशः ॥११५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रणंगमस्य दक्षिणध्रुवदर्शनार्थं विमानेन गतस्य अन्तार्किवर्तुलदेशमध्ये भूविवरे प्रविष्टस्य लक्ष्मणार्यकृतस्वागतं प्रभोर्दर्शनं लक्ष्मणस्य राज्ञः सकुटुम्बस्य तद्विमानेन यात्रार्थं पृथ्व्यागमनप्रयाणं चेत्यादिनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP