संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २४९

त्रेतायुगसन्तानः - अध्यायः २४९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिकेऽथ ततः सर्वे निद्रां जगृहुरेव ह ।
त्रयोदश्यां कृतस्नानार्हणा विदायमाप्नुवन् ॥१॥
लोमशर्षिः सभायां वै ह्युपादिदेश देहिनः ।
श्रद्धायज्ञाः फलवन्तश्चाऽश्रद्धाः फलवर्जिताः ॥२॥
आज्येन पयसा दध्ना सोमेन च फलेन च ।
पूर्णाहुत्या श्रद्धया च फलवन्ति क्रतवस्त्विह ॥३॥
अशक्ताश्च मखे ते तु पुच्छाभिषेचनेन वै ।
अभिषेकेण वा पादरजसा सन्तरन्त्यपि ॥४॥
श्रद्धां पत्नीं विधायैव सुसत्येन व्रतेन तु ।
यजमानो यजेतेशं तरत्येव न संशयः ॥५॥
इष्टं तु दैवतं कृत्वा यजेत श्रद्धया मुहुः ।
भावेनाऽर्पणविधिना तरत्येव स यागकृत् ॥६॥
पुरोडाशः सदा मेध्यो देवानां तृप्तिकारकः ।
सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलोच्चयाः ॥७॥
सर्वा पृथ्वी हरेर्धाम ब्रह्मनिष्ठस्य देहिनः ।
श्रद्धा तु पोषिता येन सा तु पुष्णाति तं जनम् ॥८॥
श्रद्धां निहन्ति यो धर्मे सा हता हन्ति तं जनम् ।
साधूनां श्रद्धधानानां कुर्वतां यज्ञविस्तरम् ॥९॥
फलं सम्पद्यते सर्वं प्रसवित्री हि सा यतः ।
ज्ञानवृद्धं मनोवृद्धं श्रद्धा देवे हि रक्षति ॥१०॥
श्रद्धावृद्धं हरिर्नारायणः क्वापि न मुञ्चति ।
अश्रद्दधानो देवानां नार्हति हविरर्पणे ॥११॥
अहविरन्नदातुश्च भोक्तव्यं नैव सर्वथा ।
अश्रद्धा परमं पाप तन्मयं ग्राह्यमेव न ॥१२॥
पावयित्री ज्यायसी च निवृत्तिदा सुखप्रदा ।
श्रद्धा शान्तिप्रदा परब्रहारूपा हि पावनी ॥१३॥
श्रद्धा ब्रह्मप्रदा तद्वदहिंसा व्रह्मदायिनी ।
अहिंसा सर्वधर्मेभ्यो भूतानां ज्यायसी मता ॥१४॥
सर्वयज्ञेषु वै विष्णुर्भुंक्ते हव्यं हि पायसम् ।
पायसैः सुमनोभिश्च फलैर्गुन्द्रै रसैर्हवः ॥१५॥
पावनस्तृप्तिदो विप्णोर्जायते शुद्धभावनः ।
औषध्यादि पवित्रं वै सर्वं देवार्हमेव तत् ॥१६॥
यथा शरीरं न ग्लेयात्तथौषधैः प्रजीवयेत् ।
कन्दमूलफलाद्यैश्च यज्ञं सन्तोषयेत् सदा ॥१७॥
श्रद्धा वै जननी सर्वफलावाप्तिप्रकारिणी ।
अहिंसा भगिनी तस्यास्ते ह्युभे देवदर्शिके ॥१८॥
जननी नैव हन्तव्या सदा बालोपकारिणी ।
अहिंसा परमो धर्मः स्वधर्मो मातृरक्षणम् ॥१९॥
श्रद्धां हत्वा मातरं च को हि जातु सुखी भवेत् ।
माता शरीरहेतुः सा मात्रा सनाथता सदा ॥२०॥
श्रिया ह्रीनोऽपि सुजनश्चाम्वेति गेहमृच्छति ।
पुत्रपौत्रयुतश्चापि जननीं प्रति बालकः ॥२१॥
असमय विचित्तं वा सुतं माता प्ररक्षति ।
तदा वार्धक्यमायाति दुःखदोषसमन्वितम् ॥२२॥
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते ।
नास्ति मातृसमः कश्चिदाधारो भूतलेऽपि च ॥२३॥
नास्ति मातृसमं त्राणे प्रियं प्राणस्य भाजनम् ।
कुक्षिसंधारणाद् धात्री जननाज्जननी हि सा ॥२४॥
अंगानां वर्धनादम्बा माता मानकरी शिशोः । (अम्बा)
श्रद्धा धात्री स्वर्गकुक्षौ जननी देवयोनिषु ॥२५॥
अम्बाऽक्षरप्रदत्वाश्च माता मुक्तिप्रदा यतः ।
स्वर्गकामो यजेतेति श्रद्धया यजनं मतम् ॥२६॥
ओषध्यः समिधो वृक्षा वीरुदाज्यं. पयो दधि ।
हविर्भूमिर्दिशः श्रद्धा कालः ऋचो यजूंषि च ॥२७॥
सामानि यजमानाग्निः सप्तदशांगकः क्रतुः ।
आज्येन पयसा दध्ना शकृताऽऽमिक्षया फलैः ॥२८॥
रसैश्च श्रद्धया विष्णुः प्रसीदत्येव चाध्वरे ।
ब्राह्मणप्रभवो यज्ञो ब्रह्मार्पणपरायणः ॥२९॥
अनुयज्ञं जगत् सर्वे यज्ञश्चानु जगत् सटा ।
ओमिति ब्रह्मणो नाम नमः स्वाहा स्वधा वषट् ॥३०॥
यस्यैतानि प्रयुज्यन्ते तस्य भयं न विद्यते ।
तस्याऽभयप्रदः श्रीमत्कृष्णनारायणः प्रभुः ॥३१॥
कांभरेयो हरिः साक्षादक्षरात्परतः परः ।
कुंकुमवापिकाक्षेत्रे भवद्भिरीक्षितो मखे ॥३२॥
स एव सर्वयज्ञानां फलं जानाति वै प्रभुः ।
ददात्येव फलं सम्यग् जनन्या चानुमोदितः ॥३३॥
तस्माद् यजेद् याजयेच्च यशं श्रीकृष्णवल्लभम् ।
विधिना यजतः स्वर्गे शाश्वतं चाक्षरात्परम् ॥३४॥
नाऽयं लोकोऽस्त्ययज्ञानां नापि परश्च निश्चितः ।
नापि धर्मोऽस्ति गतिदश्चाऽयज्ञानामिह क्षितौ ॥३५॥
अश्वपाटल उवाच-
कथं लोकोऽयमुत्कृष्टः परलोकस्तथाऽऽप्यते ।
कथं धर्मश्च गतिदः क्षितौ स्यात्तद्वदाऽत्र मे ॥३६॥
श्रीलोमश उवाच-
साध्वाचारस्य च जितात्मनः समस्य देहिषु ।
सर्वसत्कारकार्यस्योत्कृष्टोऽयं लोक इष्यते ॥३७॥
सर्वत्र ब्रह्मदृष्टेश्च ब्रह्मपूजारतस्य च ।
ब्रह्मनिष्ठस्य भक्तस्य परलोकः प्रकाशते ॥३८॥
सर्वप्रसन्नतार्हस्य सर्वोपकारशालिनः ।
अहिंसासत्यधर्मस्य धर्मो वै गतिदो भवेत् ॥३९॥
मायाभावविहीनस्याऽक्षरभावगतस्य च ।
परब्रह्माश्रितस्यैव त्रयं करगतं हि तत् ॥४०॥
सैषोपनिषद्विद्या वै सन्निधियोजिका हरेः ।
ययाऽऽप्यते परब्रह्म धामाऽक्षरं च शाश्वतम् ॥४१॥
ज्ञानेन चाप्यते ब्रह्म ज्ञानं चोपनिषन्मता ।
भक्त्या संप्राप्यते ब्रह्मा भक्तिश्चोपनिषन्मता ॥४२॥
भागवतेन धर्मेणाऽऽप्यते कृष्णः स एव सा ।
वैराग्येण च दुःखेन यदि गत्वा हरिं प्रति ॥४३॥
वासः सञ्जायते येन तत्तदुपनिषन्मता ।
देवस्य मन्दिरे वासो जायते येन हेतुना ॥४४॥
शुभाशयः स वै हेतुर्ब्रह्माप्त्युपनिषन्मता ।
बालः प्रसादलोभेन यदि गच्छति मन्दिरम् ॥४५॥
हरेर्वै सन्निधौ तस्योपनिषत् स प्रसादकः ।
कर्मणा शत्रुणा वापि वाञ्च्छया चेहयाऽपि वा ॥४६॥
हरे सान्निध्यमाप्येत येन सोपनिषन्मता ।
यज्ञेन सेवया चापि सार्थेन स्वार्थकेन वा ॥४७॥
दानेन तृष्णया वापि देवसन्निधिराप्यते ।
येन केनापि वै सात्रोपनिषत् सम्मता भुवि ॥४८॥
साधुसंगोऽतिवेलं यो ब्रह्मप्राप्तिकरोऽस्ति वै ।
स चोपनिषत् संप्रोक्ता सत्संगिना हरिप्रदा ॥४९॥
कथाश्रवणमेवाऽत्र नारीणां ब्रह्मयोगदम् ।
सा चोपनिषद् बोध्यैव येन नारायणो मिलेत् ॥५०॥
स्नेहस्तानं भावना च वृत्तिः रागोऽपि चेद् यदि ।
ब्रह्मप्राप्तिकरस्ते वै सर्वे चोपनिषन्मता ॥५१॥
गोपीनां कामतः प्राप्तिर्विप्राणां यज्ञतस्तथा ।
गोपानां मैत्र्यतः प्राप्तिदैत्यानां द्वेषतोऽपि च ॥५२॥
सुदाम्नो लोभतः प्राप्तिजीवनार्थॆ तु हस्तिनः ।
तपसा च ध्रुवस्याऽपि प्रह्लादस्य तु निश्चयात् ॥५३॥
पूतनाया वैरभावान्नारदस्य तु कीर्तनात् ।
एवं येनैव केनैव हेतुना चाप्यते हरिः ॥५४॥
हेतुः स चोपनिषत् सा ब्रह्मप्राप्तिकरी मता ।
ज्ञानं भक्तिश्च वा कर्म भावना वा समर्पणम् ॥५५॥
सर्वं चोपनिषत् प्रोक्ता यया ब्रह्म ह्यवाप्यते ।
अश्वपट्टल! यज्ञेनाऽनादिकृष्णनरायणः ॥५६॥
प्राप्तस्त्वयाऽत्र वै दिव्यमूर्तिः श्रीकृष्णवल्लभः ।
सोमयज्ञस्तवाऽत्रैवोपनिषत्संमता ध्रुवा ॥५७॥
अनुग्रहेण जीवानां क्वचिद् योगः प्रभोर्मतः ।
क्वचिद् यत्नेन वा क्वचिज्जात्या योगो भवेदपि ॥५८॥
सा तेषां योगिनां हेतुः शुभ्रोपनिषत् संमता ।
यथा कर्माणि सर्वाणि फले परिसमाप्यते ॥५९॥
फलं शान्तौ सा च भोगे ब्रह्मण्येव समाप्यते ।
ब्रह्मभावः परे देवे परमेशे समाप्यते ॥६०॥
यतयस्तं विजानन्ति पश्यन्ति यान्ति तं प्रति ।
निर्द्वन्द्वा निर्बन्धनाश्च विमुक्ताः शुचयोऽमलाः ॥६१॥
अपवर्गे कृतनिष्ठा ब्रह्मिष्ठा ब्रह्मवासिनः ।
विमाया ब्रह्मभूताश्च गतिस्तेषां सनातनी ॥६२॥
अनारंभाः सुधृतयः शुचयो ब्रह्मसंज्ञिताः ।
देवं परेश्वरं यज्ञैस्तर्पयन्त्यनृतैषिणः ॥६३॥
सर्वभूतात्मभूतस्य पश्यतः स्वेतराणि च ।
मार्गं यान्ति तत्प्रदत्तनेत्रवान् तस्य भक्तिमान् ॥६४॥
नवद्वारप्रगुप्तिं च कृत्वा हृदयोद्घाटनम् ।
ब्रह्ममार्गेण यातस्य परब्रह्मगृहे स्थितिः ॥६५॥
अग्निहोत्रं पूर्णमासो दर्शः प्रयाजकास्तथा ।
स्विष्टकृच्चानुयाजाश्च पितृयज्ञोऽङ्गयागकः ॥६६॥
चातुर्मास्यं वैश्वदेवः साकमेधश्च वारुणः ।
सोमयागश्च सवनं चाग्रयणेष्टिरित्यपि ॥६७॥
अवभृथेष्टिश्चोक्थं च षोडशी चातिरात्रकम् ।
अत्यग्निष्टोम एवापि वाजपेयश्च विष्टुतिः ॥६८॥
वायव्यः शतरुद्रीयो वासवो राजसूयकः ।
सौत्रामणिश्चाश्वमेधः पुंमेधः सर्वमेधकः ॥६९॥
गोमेधो ब्रह्ममेधश्च यज्ञा येऽन्ये क्रियापराः ।
ज्ञानपरास्तपःपरा द्रव्यपराश्च ये मखाः ॥७०॥
स्वागतार्थाश्चोपकारास्तथा ये दानदक्षिणाः ।
सर्वे ते कल्पिता कृष्णे मोक्षदा ब्रह्ममार्गिणः ॥७१॥
कृता वा न कृता वापि नास्य किञ्चित् प्रशिष्यते ।
हरिः सन्तोषितः प्राप्तस्तेनाऽऽप्तं सर्वमेव ह ॥७२॥
कृतेष्वपि च यज्ञेषु तोयितेषु सुरेषु च ।
कृष्णभानविहीनेन कृतं चेन्मोक्षदं न तत् ॥७३॥
तस्मात् तेषु चाध्वरेषु कृष्णो धर्मः सनातनः ।
साधवो ब्रह्मयतयो बाह्यद्वारनिरोधिनः ॥७४॥
सर्वयज्ञेषु तं कृष्णं तर्पयन्त्यमृतैषिणः ।
अन्यद्वारं पिधायैव ब्रह्मद्वारं प्रसारयेत् ॥७५॥
अश्वपाटल उवाच-
कथं लोमश द्वाराणि पिधातव्यानि तद्वद ।
पिधानोत्तरमेवापि कृत्यं स्याद् वा फलं वद ॥७६॥
श्रीलोमश उवाच-
अमृतं ब्रह्मकोशेऽस्ति चात्मना रक्षितं परम् ।
अपिहितेन द्वारेण प्रयात्यन्यत्र दुर्लभम् ॥७७॥
देवनं यत्कराभ्यां वै पद्भ्यामन्यत्र धावनम् ।
कामना या च निकृष्टा चासनं त्वन्यचत्वरे ॥७८॥
वर्णनं चान्यविषयं रूपणं लोकमिश्रितम् ।
आस्वादनं प्रसादान्ये घ्राणनं क्लिन्नवर्ष्मणः ॥७९॥
स्पर्शनं मृदुमायायाः श्रवणं चलनाफलम् ।
मननं ममकारस्य बोधनं बहु मे भवेत्। ॥८०॥
चिन्तनं चामरौ मे स्तोऽहंपदं नास्ति मादृशः ।
इत्येवं चामृतं सर्वं जाग्रति स्वप्नकेऽपि च ॥८१॥
सर्वं स्रवत्यजस्रं वै पात्रं रिक्तं भविष्यति ।
तस्मात् पिधानं कर्तव्यं विवेकेन विजानता ॥८२॥
नाऽक्षतुल्यैवैं दीव्येच्च न धावेत् कर्दमस्थलीम् ।
न कामयेन्निकृष्टां क्ष्मां नासीत मोहचत्वरे ॥८३॥
न वर्णयेदुशत्याऽन्यद् रूपयेन्नहि रूपकम् ।
नाऽऽस्वादयेच्चार्पणाऽन्यत् जिघ्रेन्नैव हि दैहिकम् ॥८४॥
न स्पृशेन्मार्दवीं शय्यां शृणुयान्न कथेतरत् ।
मननं मापतेः कुर्याद् बोधनं ब्रह्म मे भवेत् ॥८५॥
चिन्तनं चामृतं मेऽस्तु चाहं तस्मिन् वसामि च ।
इत्येवं द्वारगुप्तिं वै कुर्याच्छ्रीहरिरूपिणीम् ॥८६॥
वृष्टेर्जलाद् यथा भौमं जलं वृद्धिं समेति वै ।
तथा गुप्त्याऽमृतं नैजं ब्रह्मगुप्त्या विवर्धते ॥८७॥
ग्रीष्मतापाद् यथा भौमं जलं शुष्कं विलीयते ।
तथा द्वाराऽपिधाने तु स्वामृतं लयमीयते ॥८८॥
वृथा गच्छेन्न वै लोके वृथाऽऽददीत नैव ह ।
वृथा कामं न भुञ्जीत वृथा नोपाविशेत् क्वचित् ॥८९॥
वृथा भाषां सत्यहीनां कृष्णहीनां न वै वदेत् ।
वृथा रूपं कृष्णहीनं न वै पश्येन्निरर्थकम् ॥९०॥
वृथा स्वाद्ं न गृह्णीयाद् देहयात्रातिरेकिणम् ।
वृथा गन्धं नाऽऽददीत श्वासपूर्तं समाचरेत् ॥९१॥
वृथा स्पर्शं न कुर्वीत हरेः स्पर्शं विना सदा ।
वृथा ददीत कर्णौ न परमेशश्रवं विना ॥९२॥
मनने श्रीहरेः कुर्याच्छ्रीपतेः कमलापतेः ।
बोधनं श्रीपतेः कुर्याच्चिन्तनं श्रीहरेः सदा ॥९३॥
अहन्ता तस्य चैवाऽस्मि नाऽन्यस्याऽहं कदाचन ।
एवं लक्ष्मीपतेरर्थं सर्वं चाहं तदात्मकः ॥९४॥
सर्वेन्द्रियनिवासो मे परमेशे नरायणे ।
भवत्वेवेति वै द्वारगुप्तिर्बोध्याऽमृतार्थिनी ॥९५॥
यस्य द्वाराणि सर्वाणि विहारवर्जितानि वा ।
हरेः प्राप्तिर्भवेत्तस्याऽमृतवार्धि पिबत्ययम् ॥९६॥
गुप्तद्वारस्य भक्तस्याऽमृतं शाश्वततो भजेत् ।
सर्वे यज्ञाः समाप्यन्तेऽमृतशाश्वततार्थिनः ॥९७॥
किं तस्य तपसा कृच्छ्रैर्यज्ञैः क्लेशैस्तथेतरैः ।
अर्जनीयं चार्जितं वै हृदि नारायणामृतम् ॥९८॥
अश्वपाटल! संज्ञात्वा कोशस्थं त्वमृतं निजम् ।
न स्रावयेदमार्गेण मोघतां न नयेत्तथा ॥९९॥
यथापेक्षं त्वम्बरं च यथापेक्षं तृणासनम् ।
यथापेक्षोपधानं च यात्रामात्रादनं तथा ॥१००॥
द्वन्द्वारामान् विहायैवाऽऽन्तरारामं भजेत् सदा ।
अन्यसार्थं विहायैवान्तरसार्थ समाश्रयेत् ॥१०१॥
तेन दीर्घस्य मार्गस्य पारं यायात् सुगत्वरः ।
इत्येव राधिके राज्ञे लोमशः प्राह चामृतम् ॥१०२॥

इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलनृपतये श्रद्धोपनिषदमृतगुप्त्यादिरूपं लोमशदत्तज्ञानमितिनिरूपणनामा नवचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४९॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP