संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २४३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २४३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४३ Translation - भाषांतर श्रीकृष्ण उवाच-श्रूयतां च त्वया राधे वामदेवस्य कन्यकाः ।पञ्च विज्ञाय वै भ्रातुर्वासं त्वश्वपट्टसरोवरे ॥१॥मातरं दिव्यमुक्तानीं सत्यलोके स्थितां सदा ।पृष्ट्वा समाययुः सर्वाश्चाऽश्वपट्टसरोवरम् ॥२॥अनादिश्रीकृष्णनारायणं श्रीकृष्णवल्लभम् ।द्रष्टुं च वरितुं चापि लब्धुं च कृतकृत्यताम् ॥३॥दिव्यदेहाः कौमुदिका यथा चान्द्र्यस्तथाविधाः ।कृतशृंगारसर्वस्वा नारायणस्य तुष्टये ॥४॥मायांशवर्जिताश्चापि परब्रह्मांशमोहिताः ।व्योममार्गेण सहसा चिरंजीव्यः समाययुः ॥५॥मार्गशीर्षस्य वै षष्ठ्यां कृष्णे दलेऽक्षरक्षितौ ।आगत्य भ्रातरं नैजं नेमुश्च वामनं प्रभुम् ।पुपूजुः परया प्रीत्या भ्राता स्वागतमाचरत् ॥६॥मात्राज्ञां चानुजायापि कथयामासुरेव ताः ।भ्राता प्रसन्नतां प्राप्तो भगिन्यो यद्धरिप्रियाः ॥७॥यासां प्रसादतो जाता पञ्चकल्पान्तजीविता ।तासां नारायणीत्वं वै श्रुत्वा मुमोद चाति हि ॥८॥सप्तम्यां प्रातरेवैताः कृत्वा शृंगारशोभनाम् ।मात्रा समं ययुः श्रीमद्बालकृष्णालयं प्रगे ॥९॥सपूजाद्रव्यहस्ताश्च वरमालान्वितास्तथा ।सर्वस्वार्पणभावाश्च कृष्णवल्लभसन्निधौ ॥१०॥तत्र स्थितां मातरं श्रीकम्भरां प्रथमं तु ताः ।पुपूजुः परया प्रीत्या ददुः परिचयं निजम् ॥११॥पितरं चापि नत्वैव स्वसारं चाग्रजावपि ।अमृतां भ्रातृपत्नीं च ततो नारायणं मुहुः ॥१२॥नत्वा नत्वा पूजनं सप्रचक्रुर्बहुवस्तुभिः ।भ्रात्रा निवेदितास्तास्तु सर्वस्वार्पणमागताः ॥१३॥हरिर्भावं विलोक्यैव तथास्त्विति समग्रहीत् ।भ्रात्रा पंकिलमुनिना तासां करा हरेः हरे ॥१४॥अर्पिताः श्रीहरिं प्रेम्णा करान् जग्राह वै तदा ।आपस्तम्बी प्रथमा च द्रुमस्तम्बी द्वितीयका ॥१५॥मरुत्स्तम्बी तृतीया च फेनस्तम्बी चतुर्थिका ।धूम्रस्तम्बी पञ्चमीति पत्न्योऽभवन् हरेः प्रियाः ॥१६॥पूजयित्वा निजं कान्तं वरमाला ददुर्गले ।हरिः पार्श्वे निजे ताश्च निषाद्य वरमालिकाः ॥१७॥तासां कण्ठेष्वधात्तत्र प्रसादं प्रददौ ततः ।ताश्च भुक्त्वा सह भ्रात्रा लोमशस्याऽऽश्रमं ययुः ॥१८॥निदेशतो हरेः राधे ब्रह्मप्रियासु चाऽवसन् ।इत्येवं प्राप्य राधेशं राधावत् ताः सदाऽभवन् ॥१९॥अथाऽन्यत्पावनं रम्यं प्रिये शृणु कथानकम् ।स्वर्णांगदस्य राज्ञो वै सौराष्ट्रीयस्य वंशजः ॥२०॥हैमकल्गिनामवाँश्च राजाऽभूद् धर्मवर्मवान् ।अनादिश्रीकृष्णनारायणभक्तो हि सात्त्वतः ॥२१॥भजते श्रीपतिं नित्यं क्रियास्वपि दिवानिशम् ।मालां न दूरमाधत्ते स्मरणं न त्यजत्यपि ॥२२॥भोजने शयने कृष्णं हृदये संप्ररक्षति ।बालकृष्णेति कृष्णेति हरिकृष्णेति वै मुहुः ॥२३॥अनादिश्रीकृष्णनारायणेत्याह दिवानिशम् ।वाक्यान्ते बालकृष्णेति कांभरेयेति सर्वदा ॥२४॥प्रवक्त्येवेति रटणं करोति परमात्मनः ।तस्य पूजनवेलायां यत्र क्वापि गृहे वने ॥२५॥सरस्तटे समुद्याने मण्डपे मन्दिरेऽथवा ।निर्जने सजने मर्दे रहो वा प्रेमबन्धनः ॥२६॥बालकृष्णो हि साक्षाद्वै गत्वा तिष्ठति चाग्रतः ।गृह्णात्येवाऽर्पितद्रव्याण्यखिलानि प्रपूजने ॥२७॥नैवेद्यं च फलं खाद्यं पायसाद्यं च पूरिकाः ।सर्वं भुक्त्वा बालकृष्णः शेषं ददाति भूभृते ॥२८॥ततस्तिरोभवत्येव राजा गृह्णाति भोजनम् ।इत्येवं हेमकल्गेर्वा भक्त्या श्रीपतिरीश्वरः ॥२९॥वशस्तस्य वर्तते स्म राधिके सुप्रसादितः ।राज्ञी तस्य कुमुदाक्षीनाम्नी तथैव वर्तते ॥३०॥सापि शीघ्रं समुत्थाय स्नात्वाऽन्नं मिष्टमुत्तमम् ।पाचयत्येव भक्त्याढ्या बालकृष्णस्य तुष्टये ॥३१॥पायसान्नं गवां क्षीरं सशर्करं सहौदनम् ।पूरिका घृतपक्वाश्च तथाऽन्यद् ऋतुसम्मतम् ॥३२॥गुन्द्रपक्वान्नमेवापि लड्डुकान् माषपिष्टजान् ।कृत्वा ददाति प्रातर्वै राज्ञे पूजानिवेदने ॥३३॥ताम्बूलकं जलं मिष्टं मधुरं शीतमुष्णकम् ।यथाकालं ददात्येवाऽभ्यंगद्रव्याणि यानि च ॥३४॥नित्यं सा गायति सौधे सखीमध्ये सुकीर्तनम् ।सख्यस्तामनुगायन्ति तालीवादयुताः सह ॥३५॥श्रीबालकृष्णो जनसौख्यकारीश्रीकांभरेयो जनपापहारी ।राजाधिराजो मम भाग्यधारी गोपालबालो जयते मुरारिः ॥३६॥राधाविहारी भवभीतिहारी गोपीविचारी मम भोज्यकारी ।स्नेहप्रसारी निजभक्ततारी नारीजनाऽऽर्तिक्षपणप्रकारी ॥३७॥चक्षुःप्रकाशी हृदयाभिकाशी विज्ञानवासी बहुधामवासी ।मायाविपाशी निजभक्तदाशी सेवाभिलाषिप्रसरत्प्रकाशी ॥३८॥भक्तेर्विकासी निजरूपवासी लोकेऽस्युदासी वदतीति दासी ।सा पालनीया सततप्रवासी गृहाभिवासी भव मेऽन्तरासी ॥३९॥इत्येवं राधिके नित्यं राज्ञीं सखीसमायुता ।गायत्येवाऽर्थयत्येव गुणान् गुणिनमेव तम् ॥४०॥बालकृष्णोऽपि तच्छ्रुत्वा जायते तुष्टमानसः ।एवं काले गते कृष्णो ददौ वर्मभयच्छिदम् ॥४१॥यद् धृत्वा निर्भयश्चास्ते राजा राज्ञीयुतः सदा ।महाकालोऽपि तद्वर्म दृष्ट्वा प्रयाति दूरतः ॥४२॥योगसिद्धिप्रबन्धं तन्मध्यकौस्तुभराजितम् ।परितः प्रान्तभागेषु चाष्टैश्वर्यसमन्वितम् ॥४३॥मस्तके वर्मणो यस्य राजते तु सुदर्शनम् ।स्कन्धे गदा च कुक्षौ तु पाशो यस्य विराजते ॥४४॥एतादृशं सुवर्णातिसुवर्णं तैजसं मृदु ।क्रूरं च रक्षणे सौम्यं दर्शने धारणे लघु ॥४५॥वर्म वस्त्रस्वरूपं वै बालकृष्णेन चार्पितम् ।राजा दधार तद्वर्म नैरन्तर्येण कञ्चुकम् ॥४६॥यस्माज्जरा प्रयात्येव दूरं दण्डो यमस्य च ।संकर्षणस्य संहारो दूरं यात्यपि वर्मतः ॥४७॥पाशो वरुणदेवस्य भयं प्राप्नोति वर्मणः ।कवचाच्छंकरगणा वेपन्ते मार्गगा अपि ॥४८॥मृत्युर्मृत्युपदं याति यदि वर्मपथं गतः ।तादृशं बालसामर्थ्ययुतं तु कवचं हि तत्। ॥४९॥राधिके नृपतिर्धृत्वा मुक्तवन्मोदते भुवि ।यस्य कृष्णः स्वयं पार्श्वे का भीतिर्वद राधिके ॥५०॥यस्य नारायणः पार्श्वे का भीतिर्वद भामिनि ।राधिकेव रमेवाऽयं निर्भीको नृपतिर्वने ॥५१॥अरण्ये विहरत्येव भजन् कृष्णनरायणम् ।अथ राजा ययौ व्याघ्रारण्ये विहर्तुकाम्यया ॥५२॥सिंहारण्यं ततश्चापि ययौ व्योम्ना विमानगः ।प्रययौ दण्डकारण्यं धर्मारण्यं ततो ययौ ॥५३॥नैमिषारण्यकं चापि माहेन्द्रारण्यमित्यपि ।एवं विहृत्य वै राज्ञ्या साकं सौराष्ट्रकं ययौ ॥५४॥तद्विमानं महत् क्षात्रतेजोभृतं विलोक्य तु ।पर्शुरामः क्षत्रहन्ता चकम्पे कालनोदितः ॥५५॥महेन्द्रपर्वताच्छ्रीघ्रं गृहीत्वा परशुं निजम् ।धनुर्धृत्वा शराँश्चापि खड्गं धृत्वाऽतिरोषवान् ॥५६॥निपपात विमानस्य पृष्ठे व्योम्ना स सत्वरम् ।महातेजःप्रगोलो वै पृष्ठे त्वायाति शीघ्रगः ॥५७॥राजा नैतत्प्रजानाति निर्भयो हि विमानगः ।प्रजानां हृदयेष्वासीत् क्षोभोऽनिलेऽन्तरीक्षके ॥५८॥ग्रहचक्रं तदाक्षुब्धं चासीत् भाविभयंकरम्।चकम्पे पृथिवी चापि तदा तेजोद्वयाऽसहा ॥५९॥सम्पाते प्रलयो भावी तेजसोरविनाशिनोः ।एवं त्रेसुस्तदा देवा दिव्यनेत्राश्च योगिनः ॥६०॥महर्षयोऽतिसंविग्नास्तदासन् भाविभीतितः ।दिक्पालाः क्षेत्रपालाद्याः क्षयं लोकस्य मेनिरे ॥६१॥प्रतुष्टुवुस्तदा सिद्धा विष्णुं नारायणं प्रभुम् ।मा भूद्वै जगतां नाशः पर्शुवर्मसमागमे ॥६२॥अथ राज्ञो विमानं तु मनोवेगं क्षणाद् द्रुतम् ।अश्वपट्टसरस्तीरं समायातमवातरत् ॥६३॥राजा चक्रे जलपानं बालकृष्णं मुदा स्मरन् ।राज्ञी पानं प्रचक्रेऽपि पाययित्वा निजं प्रभुम् ॥६४॥तावदाकाशमार्गेण सूर्यवत् क्रूरगोलकः ।तेजोमयो रक्तवर्णः सत्वरं समवातरत् ॥६५॥पृथिवी चुक्षुभे वारि सरसश्चुक्षुभे तदा ।भयं तु मेनिरे तीर्थवासिनः कष्टमागतम् ॥६६॥तर्कयन्ति व्योममार्गे दृष्ट्वा परशुगोलकम् ।ग्रहो वा क्षुभितश्चायं भ्रष्टो वा स्थानतो निजात् ॥६७॥सूर्यखण्डोऽथवाऽऽयाति वह्निज्वालासमन्वितः ।यद्वा वह्निः स्वयं चास्ते किं वा कोपसमन्वितः ॥६८॥किंवा संकर्षणो देवः शेषो वाऽऽयाति रोषवान् ।ब्रह्मशस्त्रं च वा क्षिप्तं केनचिदप्यवारितम् ॥६९॥लोकानामपुनर्भावायाऽऽयात्यत्र तु वा किमु ।यद्वा वै वाडवश्चाग्निः समुद्रादुत्थितः पुनः ॥७०॥दग्धुं लोकान् समायाति को वाऽयं क्रूरदर्शनः ।इत्येवं चाऽतर्कयँश्च मानसानि हि देहिनाम् ॥७१॥तावत् सन्निधिमापन्नः स्फुटमूर्तिरदृश्यत ।विकरालाननो हस्ते परशुध्रग्जटाधरः ॥७२॥सकच्छः सायुधश्चापि ब्रह्मसूत्रसमन्वितः ।स्फारचक्षुःप्रदंष्ट्रौष्ठप्रान्तश्चोत्फुल्लविग्रहः ॥७३॥कोऽयं क्षात्रकुले चास्ते जीवति पर्शुयोगिनि ।विमानेन विनाशाय प्रच्छन्नोऽत्र प्रकाशते ॥७४॥इत्येवं व्याहरँस्तूर्णं सरस्तटमवातरत् ।तावक्त्रोकैः स विज्ञातः पर्शुरामोऽन्तकृद् द्विजः ॥७५॥दुद्रुवुर्मानवा भीताः पशवः पक्षिणोऽपि च ।हैमकल्गेर्विमानाग्रे पर्शुध्रः समुपस्थितः ॥७६॥आश्वपट्टतटे रम्ये गर्वगंजनशार्ङ्गिणः ।बालकृष्णस्याऽऽक्षराख्ये क्षेत्रे कौपीनभूसुरः ॥७७॥यावद् भूमौ पदं नैजं धृतवान् पर्शुधारकः ।तावदंगुष्ठस्य नखः कंकरेण विभेदितः ॥७८॥जातं विप्रस्य वै तच्चाऽमांगल्यं विजयार्थिनः ।तथापि मानभावेन हन्तुं हैमं समाययौ ॥७९॥कस्त्वं क्षत्रियदायाद मत्पर्शुक्षुत् प्रशिष्यसे ।वद शीघ्रं प्रयुद्धस्व यमलोकाभिगो भव ॥८०॥इत्युक्तो नृपतिर्हैमः शीघ्रं क्षात्रेण तेजसा ।विप्रस्य तु यथा न स्यादपराधो जगाद तम् ॥८१॥विप्राः पूज्या जामदग्ने मा क्षत्रेण पराभवः ।मा त्वं पूज्यश्च प्रयुङ्क्ष्वाऽत्राऽस्थाने पर्शुं बलं च वा ॥८२॥सम्भावितस्य चाऽस्थाने पराभवो गुरुर्मृतः ।क्षात्रोऽहं ब्राह्मणे विप्र नापराद्धुं प्रकांक्षये ॥८३॥मा रोषं कुरु विप्रेन्द्र मा पुण्यं क्षालय द्विज ।पूज्योऽस्यवध्य एवासि चातताय्यसि भूसुर ॥८४॥तस्मात्पूजां प्रगृह्णासि क्षन्तुमर्हसि चानयम् ।इत्युक्त्वा हैमराजो वै विप्रं पूजयितुं पुरः ॥८५॥यावद्गच्छति राधे स तावत्पर्शुधरो द्विजः ।हन्तुं प्रतत्परो जातो रोषतो युद्धमुद्रया ॥८६॥हैमकल्गिद्रुतं स्मृत्वा श्रीमत्कृष्णनरायणम् ।पर्शुध्रं बन्धयामास सुदर्शनीयरश्मिभिः ॥८७॥चक्रं सुदर्शनं दिव्यं श्रीहरिणाऽर्पितं तु यत् ।तत् स्वकिरणैर्वाह्नेयैर्जालं कृत्वा बबन्ध तम् ॥८८॥पर्शुरामं सरोषं वै सायुधं सबलं क्षणात्॥पर्शुध्रस्तेजसा तत्र चक्रस्याऽऽवृतशक्तिकः ॥८९॥जड इव क्षणाज्जातः पतात पृथिवीतले ।राजा प्राह क्षमस्वाऽत्र श्रीमान् मामपराधिनम् ॥९०॥विप्रेऽवमानकर्तारं मुञ्च क्रोधं द्रुतं व्रज ।पर्शुध्रः प्राह मुञ्चस्व न मे शक्तिः प्रवर्तते ॥९१॥राजँस्तव प्रसन्नोऽस्मि वरदानं ददामि ते ।पाशान् जालान् चक्रदेवं पूजयामि व्रजामि च ॥९२॥द्रुतं मुञ्चस्व मां दह्यमानं चक्रस्य रश्मिभिः ।राजा प्राह हरेर्भक्तं मा जिघांसतु वै भवान् ॥९३॥क्षात्रं विप्रात् समुत्पन्नं भक्तं विप्रो न हन्तु तत् ।वरं त्वेकं पालयस्वाऽपरं चात्रैव संवस ॥९४॥अश्वपट्टसरःक्षेत्रे तिष्ठ मूर्तिस्वरूपधृक् ।इत्युक्तः पर्शुरामो वै वरौ द्वौ प्रददौ तदा ॥९५॥राज्ञा तु मन्दिरे पर्शुरामः संस्थापितस्ततः ।स्नापितोऽश्वजले चापि पूजितश्चोपचारकैः ॥९६॥राधिके तु ततस्तत्र परशुरामतीर्थकम् ।पूर्वदिशि समभवत् हैमकल्गिप्रतीर्थकम् ॥९७॥पर्शुरामो हरिं पूजयित्वा ययौ हि मन्दरम् ।मूर्तिरूपस्तत्र नित्यं त्वास्तेऽश्वपट्टसागरे ॥१८॥राजा ततो ययौ श्रीमत्कृष्णनारायणं प्रभुम् ।पूजयित्वा हरिं नत्वा कथयित्वा ह्युदन्तकम् ॥९९॥कृत्वा तीर्थं ययौ नैजां राजधानीं हिमावतीम् ।अत्र तीर्थे स्नानदानाचमनैर्विजयो भवेत् ॥१००॥पठनाच्छ्रवणाद् वाऽस्य दोषा नश्यन्ति वै हृदः ।भुक्तिर्मुक्तिर्भवेच्चाप्यारोग्यं धनं सुतं लभेत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वामदेवीयपञ्चकन्यानां श्रीकृष्णनारायणकान्तलब्धिः, हैमकल्गिनृपस्य भक्त्या हरेर्नित्यं प्रत्यक्षम्, नृपात्पर्शुरामपराभवः, अश्वपट्टसरसि परशुरामतीर्थं हैमकल्गितीर्थं चेत्यादिनिरूपणनामा त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४३॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP