संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १४१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १४१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४१ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! कृष्णनारायणो यथाऽऽह च ।भक्तं देवायतनकं ते वदामि यथायथम् ॥१॥एकाऽधिकसहस्राण्डो द्वासप्ततितलान्वितः ।ज्येष्ठमेर्वाख्य एवाऽसौ मतः सर्वोत्तमोत्तमः ॥२॥चतुरस्रीकृते क्षेत्रे द्वासप्ततिविभाजिते ।सार्धचतुर्भागभित्तिः सार्धतर्याभ्रमन्तिका ॥३॥अथ क्षेत्रं चतुरस्रं दशधा भाजयेत्ततः ।भागैका भ्रमणी कार्या भित्तिर्भागैकसम्मता ॥४॥कोणो भागद्वयात्मा सार्धैकं प्रतिरथं तथा ।भद्रं भागत्रयं चैतत् सर्वदिक्षु समानकम् ॥५॥अथ क्षेत्रं चतुरस्रं त्वष्टधा भाजयेत्पुनः ।द्विभागस्तत्र कोणश्च भद्रं भागद्वयात्मकम् ॥६॥एवं त्रिधा भवन्त्येव मेरुप्रासादका भुवि ।द्वासप्ततितलभागाः कणादिभद्रकान्तकाः ॥७॥बोध्यास्तत्र षड्द्वयं षड्द्वयं षड्द्वयम् षड्द्व्यम् ।आकर्णभद्रमावृत्य चांगभागादियोजना ॥८॥भागाष्टकं च भद्रार्धं निर्गमे भागषट्ककम् ।भद्रोपरि गवाक्षाश्च तवंगरथिकास्तथा ॥९॥तथा पंचोरुशृंगाणि रोपणीयानि सर्वथा ।कोणे तु सर्वतोभद्रो नन्दीशः पृथिवीजयः ॥१०॥क्रमेणोपर्युपर्येव संस्थाप्यास्ते दृढात्मकाः ।नवाण्डो भद्रको नन्दीशश्चैकविंशत्यण्डकः ॥११॥नवचत्वारिंशदण्डः पृथिवीजय आदृतः ।कर्णसमभागपढरे केशरीभद्रकस्तथा ॥१२॥नन्दीशालः प्रदातव्यास्तत्र पञ्चाण्डकेशरी ।नन्दीशालः सप्तदशाण्डको भद्रो नवाण्डकः ॥१३॥भद्रस्य वामदक्षस्थनन्दिकानामुपर्यथ ।केशरी केशरी श्रीवत्सः श्रीवत्साण्डकास्तथा ॥१४॥देयास्तत्रैकाण्डकस्तु श्रीवत्सोऽन्ये तु पूर्ववत्॥कोणस्य वामदक्षस्थनन्दिकानामुपर्यथ ॥१५॥केशरी केशरी श्रीवत्सश्रीवत्साण्डकास्तथा ।नन्दिकास्तत्र षड्बोध्याः स्वल्पा महत्य एव वा ॥१६॥प्रतिकर्णवामदक्षस्थनन्दिकोपरि ध्रुवः ।केशरी एव दातव्यो नाऽन्यथा तु कदाचन ॥१७॥भद्रे तु नासिकां कृत्वा तत्र श्रीवत्सकाऽण्डकः ।कर्णे च प्रतिकर्णे च भद्रस्य वामदक्षिणे ॥१८॥चतुःष्वेवं प्रदेयानि प्रत्यंगान्यष्टसंख्यया ।एवं चतुर्षु दिक्षु द्वात्रिंशत्प्रत्यंगकानि वै ॥१९॥द्वासप्ततिपदसौधे चतुष्पंचाशदंशकैः ।शिखरस्य नमणस्य रेखाः कार्यास्ततः परम् ॥२०॥एवं भवति चैकाढ्यसहस्राण्डसमन्वितः ।ज्येष्ठमेरुसमाख्यो वै परब्रह्मनिवासवान् ॥२१॥मध्यमेरुं कथयामि क्षेत्रं तु चतुरस्रकम् ।चतुष्षष्टिविभागं च गर्भादिकोणकावधिम् ॥२२॥सप्तद्वयत्रिचतुष्षटच्तुष्षड्भिर्विभाजयेत् ।त्रिभागो भद्रनिस्तारो भद्रोऽयं भागसप्तकः ॥२३॥प्रथमा नन्दिका भागद्वया भागत्रयाऽपरा ।प्रतिकर्णचतुर्भागः षड्भागः प्रातिराथकः ॥२४॥प्रतिकर्णश्चतुर्भागः कोणः षडभागजस्तथा ।एवं कार्यं चतुर्दिक्षु षड्भागा भ्रमणी मता ॥२५॥षट्षड्भागा भित्तिकाश्च रेखा विंशतिभागिका ।केशरी सर्वतोभद्रो नन्दनो नन्दशालिकः ॥२६॥स्थाप्याः क्रमेण कोणेषु त्रयोदशाण्डनन्दनः ।श्रीवत्सौ द्वौ केशरी स्युः प्रतिकर्णे स्थिताः क्रमात् ॥२७॥श्रीवत्सः केशरी चैव सर्वतोभद्रकस्तथा ।पढरोपरि दातव्यः प्रासादत्रयभूषणाः ॥२८॥श्रीवत्सः केशरी चैव नन्दिकायां नियोजयेत् ।द्वितीया नन्दिका कार्या श्रीवत्सद्वयशोभिता ॥२९॥पढरे प्रतिरथके कर्णे च नन्दिके तथा ।तदर्धे वामदक्षे तु देयं प्रत्यंगमेव च ॥३०॥अण्डकाः पूर्ववद् बोध्याः शृंगमानं च पूर्ववत् ।पञ्चाधिकपञ्चशताण्डकोऽयं मेरुमध्यमः ॥३१॥मुनिविद्याधरसिंहगजघण्टककूटकैः ।वरालिकासंवरणैर्युक्तः शिवाधिवासनः ॥३२॥चतुष्षष्टितलः पञ्चाधिकपञ्चशताण्डकः ।मध्यमेरुः कीर्तितोऽथ कनिष्ठं प्रवदामि च ॥३३॥चतुरस्रीकृते क्षेत्रे पञ्चपञ्चाशदंशके ।षट्त्रित्रिषट्त्रिषड्भिश्च कर्तव्या योजना क्रमात् ॥३४॥भद्रमारभ्य कर्णान्ता भद्रार्धं चांशषट्ककम् ।भागद्वयं निर्गमे च त्रिभाणा नन्दिका तथा ॥३५॥द्वितीयापि त्रिभागा च पढरो भागषट्कवान् ।तृतीया नन्दिका भागत्रयाढ्या कोणकास्तु षट् ॥३६॥निर्गमे समभावास्ते ततः कार्यांऽगयोजना ।भित्तिः सार्धचतुरंशा भ्रमण्यपि तथाऽऽयता ॥३७॥नमणस्य तु रेखाश्च मध्यमेराविव ध्रुवाः ।प्रतिरथे च कोणे च शृंगाणि त्रीणि त्रीणि च ॥३८॥केशरीसंज्ञकान्येव देयान्युपरितस्ततः ।नन्दिकायां प्रतिकर्णे श्रीवत्साश्च त्रयस्त्रयः ॥३९॥भद्रे तु नासिकां कृत्वा द्वौ प्रकार्यौ श्रीवत्सकौ ।चत्वारि चोरुशृंगाणि प्रत्यंगं वामदक्षके ॥४०॥त्रिनवत्याढ्यद्विशताण्डको मेरुः कनिष्ठकः ।गणविद्याध्रादिशोभो देवानां प्रिय एव च ॥४१॥अथ मन्दिरनामापि मेरुमन्दिरमुच्यते ।चतुरस्त्रीकृते क्षेत्रेह्यष्टात्रिंशद्विभाजिते ॥४२॥चतुर्भागं भवेद् भद्रं द्विभागश्चास्य निर्गमः ।नन्दिका चैकभागा च द्वितीया द्वयंशिका तथा ॥४३॥पञ्चभागः पढरश्च तथा भागद्वयाऽपरा ।नन्दिका चाऽथ कोणस्तु पञ्चभागात्मकस्तथा ॥४४॥समदलाः सर्व एते भित्तिः सार्धत्रया मता ।भ्रमण्यपि सार्धत्रया चतुर्दिक्षु समा मता ॥४५॥मध्यप्रासादकतलं मतं द्वादशभागकम् ।चतुर्दिक्ष्वेव कर्तव्यं कोणे केशरिणस्त्रयः ॥४६॥एकं श्रीवत्सकं चापि ततोऽथ पढरोपरि ।श्रीवत्साश्च त्रयश्चैकं तिलकं कार्यमेव च ॥४७॥सर्वनन्दिकोर्ध्वके च श्रीवत्सानां तथाऽण्डकाः ।त्रयस्त्रयः करणीयाश्चतुःशृंगाणि भद्रके ॥४८॥प्रत्यंगानि दक्षिणे वामके चापि यथायथम् ।रेखोर्ध्वे द्वादशभागेष्वपि रूपाणि सन्न्यसेत् ॥४९॥अष्टात्रिंशत्तलभागस्तथा च तिलकाष्टकः ।एवं पञ्चाशीत्यधिकाऽण्डको मेरुरयं मतः ॥५०॥अष्टात्रिंशत्तलभागाश्चतुष्षष्टितिलानि च ।नवचत्वारिंशदधिकं शतं चाण्डमण्डलम् ॥५१॥लक्ष्मीकोटरसंज्ञोऽयं प्रासादो मेरुरुच्यते ।चतुर्विंशतितिलकः षट्त्रिंशत्तलभागवान् ॥५२॥नवविंशत्येकशताण्डकः कैलासमेरुकः ।द्वासप्ततितिलकाढ्यश्चाष्टादशतलांशवान् ॥५३॥एकषट्यधिकशताण्डः स पंचाननाभिधः ।चतुर्विंशतितिलकः सप्तसप्ततिकाण्डवान् ॥५४॥षडेविंशत्तलभागः स विमानमेरुरुच्यते ।चतुष्षष्ट्याधिकशततिलकश्च तले तु यः ॥५५॥षट्त्रिंशद्भागवान् नवाधिकद्विशतकाण्डकः ।गन्धमादननामाऽसौ मेरुः प्रासादको मतः ॥५६॥षड्विंशतितलभागा विंशतिस्तिलकानि च ।पञ्चविंशत्यधिकैकशताण्डो मुक्तकोणकः ॥५७॥षट्त्रिंशश्च शतं चापि तिलकानि तथा तले ।द्वात्रिंशद्भागका यस्य तथा शतं च पंच च ॥५८॥चत्वारिंशच्चाण्डकानि गिरिप्रासादकाऽभिधः ।चतुरशीतितिलकश्चाष्टादशतलांशवान् ॥५९॥एकविंशत्यण्डकश्च तिलकाभिधमेरुकः ।द्वानवतितिलकश्च नवाधिकशताण्डकः ॥६०॥चतुस्त्रिंशत्तलभागश्चन्द्रशेखरमेरुकः ।षट्पंचाशत्तिलकश्चैवत्रिसप्ततिकाण्डकः ॥६१॥अष्टाविंशतितलभाङ्मन्दिरतिलकाभिधः ।त्रयस्त्रिंशदण्डकश्च षोडशतिलकान्वितः ॥६२॥द्वादशतलभागश्च सौभाग्यमेरुरेव सः ।अण्डानि च नवाधिकचत्त्वारिंशत्तु यत्र वै ॥६३॥तिलकानि चाष्टयुक्तचत्वारिंशत्तु यत्र च ।द्वाविंशतितलभागाः सुन्दरो मेरुरेव सः ॥६४॥विंशतिस्तलभागाश्च षट्त्रिंशत्तिलकानि च ।अण्डानि नवचत्वारिंशद्युक्तशतमेव तु ॥६५॥श्रीतिलकाऽभिधानोऽसौ प्रासादः सम्मतः शुभः ।सप्तपंचाशदाढ्यैकशताण्डकस्तु यो भवेत् ॥६६॥चत्वारिंशत्तिलकश्चाष्टाविंशतिसत्तलः ।विशालाख्यः स वै बोध्यः प्रासादः शुभदो मतः ॥६७॥एकाण्डश्च चतुश्चत्वारिंशत्तिलकवाँस्तथा ।द्वादशतलभागश्च पर्वतकूटको हि सः ॥६८॥चत्वारिंशत्तिलकश्च सप्तपंचाशदण्डकः ।द्वाविंशतितलभाक् स नन्दिवर्धन उच्यते ॥६९॥इत्येवं कथिताः सर्वे प्रासादाश्च ममाऽऽलयाः ।प्रतिमाश्चाथ वक्ष्यामि यथा यथा तु मे मता ॥७०॥निबिडा निर्वणा मृद्वी सुगन्धा मधुरा शिला ।कान्तियुक्ता दर्शनीया प्रतिमार्था शिला भवेत् ॥७१॥निर्मलं हेमकांस्यादि चिह्नं लोहमयं च यत् ।तथा विचित्रविकृतिः प्रतिमायां भयावहम् ॥७२॥भृंगकपोतकुमुदमाषमुद्गसितोपमा ।पाण्डुरा घृतपद्माभा सर्वार्चासु शिला शुभा ॥७३॥द्वादशांगुलतो न्यूना पूज्या मूर्तिर्गृहे मता ।द्वादशांगुलतो नवगजान्ताऽर्च्या सुरालये ॥७४॥दशगजोर्ध्वा प्रतिमा पूज्या प्रासादकं विना ।चतुष्क्यामेव सा पंचचत्वारिंशद्गजान्तिका ॥७५॥अष्टलौहमयी शैली रत्नजा श्रेष्ठदारुजा ।प्रवालादिमयी चापि प्रतिमा शुभदायिनी ॥७६॥शतवत्सरपूर्वा या दैविपुरुषवेशिता ।खण्डिता स्फुटिताऽप्यर्च्या तदन्या दोषदायिनी ॥७७॥तीर्थभूमिष्वरण्ये च देवताः खण्डिता अपि ।पूजनीया हि फलदा नान्यत्र तु कदाचन ॥७८॥रात्नी च धातवी लेपलिप्ता च दुर्घटा तु या ।पुनः संस्कारयोग्या सा पूजनीया ततो भवेत् ॥७९॥काष्ठपाषाणजा भग्ना संस्कारार्हा न सा मता ।नाधिकांगा न हीनांगा कर्तव्या सा कदाचन ॥८०॥काष्ठलेपाश्मदन्तोत्था वित्राऽऽयसादिजापि च ।मानाधिका देवपरिवारा गृहे न पूज्यते ॥८१॥गर्जनां रोदनं हास्यमुन्मीलननिमीलने ।क्रूरतां यत्र कुर्वन्ति देवास्तत्र महद्भयम् ॥८२॥पृथ्व्यां शिला तु या सुप्ता निखन्यते बहिस्तदा ।दक्षिणं पश्चिमं पार्श्वं स्मृत्वा शिरो विधापयेत् ॥८३॥एकभागं ग्राहमुखं पक्षी द्विभागवाँस्तथा ।त्रिभागाः कुंजराद्याश्च चतुर्भागाश्च किन्नराः ॥८४॥वृषाः सुराः पञ्चभागाः कर्तव्याः शिल्पिना शुभाः ।गणेशो वामनः क्रोडश्चैते षडंशका मताः ॥८५॥सप्तभागास्तु कर्तव्या वृषभक्रोडमानवाः ।अष्टांशा पार्वती शक्तिस्तथाऽन्या देविका अपि ॥८६॥नवांऽशाऽन्यसुराः शिवसंकर्षणा दशांशकाः ।चण्डीभूतहनुमान् कार्तिकाश्चैकादशांशकाः ॥८७॥वैतालो द्वादशांशश्च त्रयोदशांशराक्षसाः ।दैत्याश्चतुर्दशांशाश्च पञ्चदशांशको भृगुः॥८८॥क्रूरा देवा देविकाद्याः षोडशांशा मताः सदा ।गणेशो मूषकारूढो धत्ते दन्तपरश्वधौ ॥८९॥पंकजं मोदकं चापि हस्त्यास्यः सर्पभूषणः ।मुखं भागद्वयं तस्य भागद्वयं तथोदरम् ॥९०॥चतुरंगुलं जघनम् आजान्वंगुलसप्तकम् ।जानू त्र्यंगुलमेवाऽपि जंघा सप्तांगुला तथा ॥९१॥पादस्त्र्यंगुल एवापि मानं षड्भागमूर्तिकम् ।सप्तभागे प्रमाणं तु कथयामि निबोध मे ॥९२॥केशान्तास्तु त्रयो भागा मुखमेकांशकं तथा ।त्र्यंगुलः कण्ठ एवापि पक्षः सार्धदशांगुलः ॥९३॥नवांगुलोदरं प्रोक्तं सार्धं सप्तांगुलं तु वै ।नाभिलिंगान्तरालं च सक्थ्यष्टादशकांगुलम् ॥९४॥जानुस्त्र्यंगुलकश्चापि जंघाऽष्टादशकांगुला ।पादस्त्र्यंगुलको बोध्यः सप्तवितस्तिकायकः ॥९५॥अष्टताले मुखं तालं केशान्तं त्र्यंगुलं तथा ।ग्रीवा च त्र्यंगुला बोध्या हृदयं च नवांगुलम् ॥९६॥द्वादशांगुलमानाभिम् आमेढं च नवांगुलम् ।एकविंशत्यंगुलोरुर्जानुस्त्र्यंगुलको मतः ॥९७॥एकविंशत्यंगुला जंघा पादस्त्र्यंगुलस्तथा ।एषा चाष्टवितस्त्याढ्या मूर्तिः प्रोक्ता सुशिल्पके ॥९८॥नवतालं तथा वच्मि केशान्तं त्र्यंगुलं तथा ।द्वादशांगुलकं बोध्यं मुखं कण्ठोंऽगुलत्रयः ॥९९॥दशांगुलं च हृदयं नाभिर्द्वादशकांऽगुला ।चतुरंगुलमुदरं गुह्यं चाष्टांगुलान्तरम् ॥१००॥सक्थि चतुर्विंशतिकांगुलं जानुश्चतुर्मितः ।चतुर्विंशत्यंगुला च जंघा पादश्चतुर्मितः ॥१०१॥विस्तारे स्तनगर्भे तु द्वादशांगुलमीरितम् ।स्तनात् कुक्षिश्चतुरंगुलायता शोभना तथा ॥१०२॥कुक्षिबाह्वोरवकाशश्चैकांगुलो मतः शुभः ।हस्तः सप्तांगुलः पुष्टः स्कन्धात् कफोणिकां प्रति ॥१०३॥शोडशांगुलदैर्घ्यं च ततः प्रकोष्ठकं दश ।प्रकोष्ठायतता त्र्यंगुलाऽथ हस्ततलं तु वै ॥१०४॥द्वादशांगुललम्बं च पंचागुलं तथाऽऽयतम् ।मध्यं चतुर्दशांगुलायतं कटिस्तु वै तथा ॥१०५॥चतुर्विंशत्यंगुला च सक्थिमूलं दशैककम् ।जंघाप्रकोष्ठश्चतुरंगुलायतस्तथा पुनः ॥१०६॥चतुर्दशांगुलपादायततांऽगुलिकान्तिका ।बाहुतःस्तनभागश्च चतुरंगुलोर्ध्वगः ॥१०७॥कुक्षेः स्कन्धोपरिभागश्चाष्टांगुलो मतस्तथा ।कण्ठोऽष्टांशः पादः षष्ठांशायतश्चेति मानता ॥१०८॥इत्येवं राधिके मानं बहुधाऽपि भवत्यपि ।युगानुरूपमेवाऽपि यथाह देवतं हरिः ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे उत्तममध्यमकनिष्ठमेरुमन्दिराणां गणेशादिमूर्तीनां च मानानुमापादिनिरूपणनामैक-चत्वारिंशदधिकशततमोऽध्यायः ॥१४१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP