संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ६६

त्रेतायुगसन्तानः - अध्यायः ६६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके दिव्यमहर्षयः समाययुः ।
समीरणः पवमानः सन्तारणश्च बर्बुरः ॥१॥
वोढुश्च घनभेदश्च द्युविश्रामश्च पंकिलः ।
नीलकर्णस्तथाऽलर्कः पुण्डरीकः कलायनः ॥२॥
वीतिहोत्रश्च चमसः पर्णकुत्सोऽश्वपाटलः ।
भाल्लवेयश्चोर्जव्रतश्चाऽऽश्वलायन इत्यपि ॥३॥
पार्ष्णिरदः सुमन्तुश्च ह्यशोकाक्षोऽभयाक्षकः ।
ब्रह्मस्तम्बः कूप्यवालश्चेतनब्रह्म इत्यपि ॥४॥
मृतदण्डश्चोपतस्थुस्तत्रत्यास्तन्महोत्सवे ।
सदारपुत्रकन्याद्याः सभृत्यदासदासिकाः ॥५॥
कौण्डिन्यः कौशिकः पौतिमाष्यो गौपवनस्तथा ।
शाण्डिल्यो गौतमश्चाग्निवेश्यश्चाम्लान इत्यपि ॥६॥
सैतवः प्राचीनयोग्यो धाराशर्यश्च मैन्दवः ।
भारद्वाजो वैजवापायनश्च कौशिकायनिः ॥७॥
घृतकौशिकयास्कौ चाऽऽसुरायणश्च त्रैवणिः ।
जातूकर्ण्य औपजघन्यासुरी माण्टिवात्स्यकौ ॥८॥
कैशोर्यः काप्य आत्रेयः कुमारहारितस्तथा ।
वैदर्भी वत्सनपातो गालवः सौभरिस्तथा ॥९॥
पन्था अयास्य आभूतिस्त्वाष्ट्रोऽश्विनौ दधीचकः ।
विश्वरूपो विप्रचितिः प्राध्वंसन आथर्वणः ॥१०॥
सनारुर्व्यष्टिरेकर्षिः सनगश्च सनातनः ।
उद्दालकायनो जाबालायनः परमेष्ठिकः ॥११॥
माध्यन्दिनायनः काषायणश्च सौकरायणः ।
औपजंघनिर्यास्कश्च सांकृति: सायकायनः ॥१२॥
एते चान्ये वालखिल्यास्तथाऽन्ये ऋषिपुंगवाः ।
आययुः श्रीकृष्णनारायणसूत्रमहोत्सवे ॥१३॥
शौङ्गी सुकृतिरालम्बी जायन्ती मण्डुकायनी ।
शाण्डिली पौतिमाषी च कात्यायनी च गौतमी ॥१४॥
धाराशरी औपस्वती भारद्वाजी च कौशिकी ।
कापी वैयाघ्रपदी चाऽऽलम्बी वात्सी च सौभगी ॥१५॥
वार्कारुणी प्रजायन्ती चात्रेयी चार्तभागिनी ।
काण्वी आलम्बायनी च माण्डुकी भालुकी तथा ॥१६॥
राथीतरी क्रौंचिकी च वैदभृत्या सुरायणी ।
साञ्जिवी प्राचीनयोगी प्राश्नी च कार्शकेयिका ॥१७॥
सतीशाऽमरदुहिता धन्येश्वरी च राणिकी ।
इत्येताः ऋषिपत्न्यश्च तत्रोत्सवे समाययुः ॥१८॥
दिव्या दिव्यविभूषाश्च वह्निशुद्धांऽशुकाऽन्विताः ।
तपस्तेजोभिरापूर्णाः पुण्यपुञ्जनिभाः शुभाः ॥१९॥
अत्रिर्वशिष्ठश्च्यवनो भरद्वाजो महातपाः ।
गर्गो गार्ग्यो याज्ञवल्क्यः श्वेतव्यासश्च भीमकः ॥२०॥
धर्मो वत्सः पुलहश्च जैगीषव्यः पुलस्त्यकः ।
अगस्त्यः सौभरिश्चापि सनकश्च सनातनः ॥२१॥
सनन्दश्च सनच्चापि सुजातश्च कुमारकः ।
केतुः पञ्चशिखश्चापि दुर्वासाश्चांगिरास्तथा ॥२२॥
शुको रामः कुशिकश्च ऋष्यशृंगो विभाण्डकः ।
वामदेवस्तथा शृंगी क्रतुर्यतिस्तथाऽऽरुणिः ॥२३॥
शुक्रो बृहस्पतिश्चापि वामनः पारिभद्रकः ।
अष्टावक्रश्च पैलश्च वाल्मीकी मधुजित्तथा ॥२४॥
प्रचेताः पुरुजिच्चापि भृगुर्मरीचिरेककः ।
द्वीतश्चाप्यथ त्रीतश्च कात्यायनः सुमन्तुकः ॥२५॥
मार्कण्डेयः कश्यपश्च दक्षः सूर्यः शशी तथा ।
संवर्त्तश्चाप्युतथ्यश्च नरो नारायणस्तथा ॥२६॥
विश्वामित्रः शतानन्दो जाबालिस्तैतिलस्तथा ।
उपमन्युर्गौरमुखो मैत्रेयश्च कठः कचः ॥२७॥
अदितिश्च दितिश्चापि कृत्तिकाश्च पतिव्रताः ।
कुटुम्बशिष्यसहिताः श्रीकृष्णस्याऽऽश्रमं ययुः ॥२८॥
श्रीमद्गोपालकृष्णस्तान् ववन्दे दण्डवत् भुवि ।
अथ हंसस्थितो ब्रह्मा सावित्रीसहितो ययौ ॥२९॥
दिव्ययानस्थितः शंभुर्व्योम्ना सतीयुतो ययौ ।
नन्दी कालो वीरभद्रः सुभद्रमणिभद्रकौ ॥३०॥
पारिभद्रो गणेशश्च स्कन्दो रुद्रः समाययुः ।
कुबेरश्च वरुणश्च महेन्द्रोऽग्निस्तथाऽनिलः ॥३१॥
यमश्च ग्रहवसव आदित्याः शेषभोगिनः ।
एवं सर्वे महद्भावाः पूज्या मान्याः समाययुः ॥३२॥
गोपालकृष्णो भक्त्या तान् ववन्दे शिरसा भुवि ।
तुष्टाव परया प्रीत्या तत्तत्सृष्टीश्वराँस्तदा ॥३३॥
श्रीगोपालकृष्ण उवाच-
परब्रह्म परे धाम्नि राजमानः परेश्वरः ।
परात्परः स्वयंमुक्तैः सहितः पुरुषोत्तमः ॥३४॥
अद्य वै मद्गृहे चास्ते जगतां परमेश्वरः ।
अहो भाग्यं मम कृष्णो नारायणोऽत्र चागतः ॥३५॥
अहो भाग्यं मम वासुदेवादयः समागताः ।
अहो भाग्यं चावताराः परमेशाः समागताः ॥३६॥
ईश्वरा धाममुक्ताश्च मुक्तान्यश्च समागताः ।
भूमा विराट् स्वयं विष्णुर्विधाता विश्वसृट् प्रभुः ॥३७॥
पत्नीव्रतो महाविप्रश्चापि मद्गृहमागतः ।
सिद्धसाध्वीयतियोगिपूज्यो गुरोर्गुरुः स्वयम् ॥३८॥
ब्रह्मा मम गृहे त्वास्ते महाभाग्यं ममाऽद्य वै ।
यं प्रपूज्य जनो याति भुक्तेर्मुक्तेः सलोकताम् ॥३९॥
सर्वसंकटनाशश्च यत्प्रतापाद् भवेदपि ।
श्रीमत्कृष्णस्वरूपोऽयं गणेशो मम चालये ॥४०॥
देवानामग्रगः पूज्यो धन्योऽहं भुवि सर्वथा ।
शंकरो भगवाँश्चापि विष्णुर्लक्ष्मीसमन्वितः ॥४१॥
जगतां जननी राधा पार्वती चादिरूपिणी ।
मूलप्रकृतिराद्या च परब्रह्मस्वरूपिणी ॥४२॥
यत्पादौ सम्परिपूज्य वाञ्छितं लभते व्रती ।
सा साक्षान्मद्गृहे चाऽद्य विद्यते जननी शुभा ॥४३॥
धामकन्या धाममुक्तोत्तमाः साध्यो मम गृहे ।
धन्येयं कम्भरालक्ष्मीर्यस्याश्चैतद्विलोकनम् ॥४४॥
सम्पन्नं चाद्य साक्षाद्वै ब्रह्मसृष्टेस्तु योषिताम् ।
ईशसृष्टेश्च साध्वीनामीशानामपि दर्शनम् ॥४५॥
धन्यं सरश्चाश्वपट्टं धन्या कुंकुमवापिका ।
धन्यः सौराष्ट्रदेशश्च यत्र श्रीपरमेश्वराः ॥४६॥
पितरः ऋषयो देवा देव्यस्तत्त्वानि मद्गृहे ।
सर्वपातालवासाश्च मूर्ताऽमूर्तं गृहे मम ॥४७॥
अद्य मे सफलं जन्म सफलोऽयं कृतो युगः ।
सफलं सर्जनं चाद्य सफलं जीवनं मम ॥४८॥
यद्गेहे च महीमानास्त्रिसृष्टिवासिनोऽद्य वै ।
ब्रह्मसृष्टिरीशसृष्टिर्जीवसृष्टिर्गृहे मम ॥४९॥
एवं सर्वानभिवन्द्य योग्यकिंहासनेषु तान् ।
वासयामास विधिना शातभौमे महालये ॥५०॥
पूजयामास विधिवत् क्रमेण दशयोजने ।
कामरूपधरः कोट्यर्बुदरूपधरः पिता ॥५१॥
प्रत्येकं वरयामास परमेशान् सुरादिकान् ।
मुनिवर्गान् ऋषीन् साधून्मुक्तान्देवान्द्विजांस्तथा ॥५२॥
लोमशं च मुनिं भक्त्या वव्रे नैजं पुरोहितम् ।
रत्नैः प्रवालैहारैश्च कल्पमुक्ताविभूषणैः ॥५३॥
वसनैर्गन्धमाल्यैश्च मणिमाणिक्यहीरकैः ।
गन्धसारैश्चन्दनैश्च रत्नसिंहासनस्थितम् ॥९४॥
सर्वमध्ये श्रीगणेशं वरयामास पूजने ।
शुभकार्ये स्थितं देवं गजाननं तु वारिभिः ॥५५॥
ब्राह्महृदाऽऽहृतैश्चापि विरजाहृतवारिभिः ।
जलावरणवार्भिश्च स्वर्गगामेरुवारिभिः ॥५६॥
सप्तसामुद्रवार्भिश्च सर्वतीर्थजलैस्तथा ।
पुष्पचन्दनसौगन्ध्यामृतयुक्तैः प्रशीतलैः ॥५७॥
तथा दुग्धेन दध्ना च घृतेन मधुनाऽपि च ।
शर्कराभिः पञ्चगव्यैः स्नपयामास भक्तितः ॥५८॥
गणेशं श्रीकृष्णरूपं सर्वविघ्नविनाशकम् ।
सर्वमांगल्यद्ं देवं पूजयामास वस्तुभिः ॥६९॥
पारिजातस्य पुष्पैश्च ब्राह्मैश्च कमलैस्तथा ।
वैकुण्ठस्य तु दुर्वाभिस्तथा रत्नेन्द्रभूषणैः ॥६०॥
वह्निशुद्धांशुकैश्चापि ब्राह्मसिन्दूरकैस्तथा ।
गन्धचन्दनपुष्पैश्च सौवर्णाङ्गुलभूषणैः ॥६१॥
एवं सम्पूज्य विधिवद् गणेशं च ततः परम् ।
राधां लक्ष्मीं पार्वतीं च प्रभां श्रीं माणिकीं रमाम् ।
मञ्जुलां सगुणां हंसां जयां च ललितां दयाम् ॥६२॥
तथाऽन्याः श्रीसतीः साध्वीर्धामधामनिवासिनीः ।
कार्ष्णीश्चापि महालक्ष्मीः सावित्रीं च सरस्वतीम् ॥६३॥
गंगां दितिं चादितिं च ऋषिपत्नीः पतिव्रताः ।
देवीश्चापीश्वरिणीश्च पितृपत्नीश्च भामिनीः ॥६४॥
योगिनीः सांख्ययोगिनीर्लोपामुद्रादिकास्तथा ।
पतिव्रता महीमानीः पूजयामास कम्भरा ॥६५॥
तथाऽर्बुदाऽब्जकन्याश्च सौभाग्यशोभिता अपि ।
कम्भराऽर्बुदरूपैश्च समाश्लिष्य पुनः पुनः ॥६६॥
परस्परं च सम्भाष्य सर्वाः संश्लिष्य वै मिथः ।
ताः सर्वाः कम्भरालक्ष्मीर्वेशयामास मन्दिरे ॥६७॥
वरयामास माल्यैश्च वासोभिः रत्नभूषणैः ।
ब्रह्मवृक्षस्य पुष्पैश्च पारिजातस्य पुष्पकैः ॥६८॥
सिन्दूरबिन्दुकैश्चापि सीमन्ते शोभितैस्तथा ।
भाले सुचन्द्रपत्रैश्च बिन्दुभिश्चान्दनैस्तथा ॥६९॥
कस्तूरीकुंकुमालक्तप्रभृतिभिः सुगन्धिकैः ।
सम्पूज्य भोजयामास मिष्टान्नैस्तत्तदर्हकैः ॥७०॥
अमृतं वारि ताम्बूलं कर्पूरादिसुवासितम् ।
प्रददौ कम्भराश्रीश्च मुनिपत्नीः क्रमेण तु ॥७१॥
पूजयामास विधिवत् पतिपुत्रवतीः सतीः ।
धामकन्या ईशकन्याः पितृकन्या मनोहराः ॥७२॥
देवकन्या नागकन्या मनुकन्या वृषाश्रिताः ।
बन्धुकन्या भक्तकन्या गान्धर्वाऽसुरजास्तथा ॥७३॥
पूजयामास विधिना भोजयामास सादरम् ।
वासयामास सौधेषु महोद्यानान्वितेषु च ॥७४॥
वाद्यानि वादयामासुर्वादका मंगलानि हि ।
मंगलं कारयामास भोजयामास भूसुरान् ॥७५॥
श्रीदेवी पूजयामास कुंकुमवापिकेश्वरीम् ।
सर्वैः स वस्तुभिः षष्ठीं तथा मंगलदेवताम् ॥७६॥
ग्रामदेवान् सरोदेवान् पूजयामास भावतः ।
महीमानान् सर्वभावैः पूजयामास वै पिता ॥७७॥
ततः पुण्यं स्वस्त्ययनं कारयामास मंगलम् ।
वेदांश्च पाठयामास गापयामास गीतिकाः ॥७८॥
सुवर्णकलशस्थैश्च गांगवारिभिरच्युतम् ।
स्नापयामास माता च श्रीमत्कृष्णनरायणम् ॥७९॥
वस्त्रचन्दनमाल्याद्यैर्वेषं रम्यं चकार सा ।
दिव्याम्बरविभूषाभिर्दिव्यलेपनचन्दनैः ॥८०॥
ततः सभाऽवताराणामीश्वराणां तपस्विनाम् ।
ऋषीणां च सुराणां च मानवानां च देहिनाम् ॥८१॥
सृष्टित्रयाऽऽगतानां च सम्पन्ना तत्र वै हरिः ।
आययौ च यदा कृष्णनरायणः सपितृकः ॥८२॥
तदाऽवतारा ईशाश्च देवा मनवो मानवाः ।
ऋषयोऽन्ये समुत्तस्थुर्ववन्दिरे परेश्वरम् ॥८३॥
त्वं परब्रह्म साक्षाद्वै बालकृष्णो विराजसे ।
अवतारधरस्त्वं वै साक्षी कृपाप्तविग्रहः ॥८४॥
निर्लेपश्चात्मशयनः सर्वसृष्टयादिकारणम् ।
महाविष्णुर्विराड् भूमा ब्रह्मा शेषादयस्त्वयि ॥८९॥
वर्तामः श्रीपते कृष्ण ब्रह्माण्डे मशका इव ।
त्वदंशाश्च वयं सन्तो देवाः स्म सर्वसृष्टिषु ॥८६॥
ब्रह्माण्डानि ह्यसंख्यानि शेषभोगे वसन्ति च ।
शेषस्तिष्ठति कूर्मे च कूर्मो जले प्रवर्तते ॥८७॥
जलं तेजोबलादूर्ध्वं त्वभ्रवद् वर्तते सदा ।
तेजो वायुकृताधारं वायुराकाशवर्तनः ॥८८॥
आकाशोऽयं चिदाकाशे चिदाकाशश्च चाक्षरे ।
अक्षरं ब्रह्मभावे च परमेशे विराजते ॥८९॥
अयं श्रीपरमेशस्त्वं वर्तसे कम्भरासुतः ।
गोपालबालकः साक्षादस्मद्तगोचरो ह्यसि ॥९०॥
इत्येवं वन्दितो बालस्वरूपः कृष्ण एव ह ।
सभामध्येऽतिशुशुभे राधारमाप्रभापतिः ॥९१॥
द्विभुजः श्वेतकान्त्याढ्यः स्वर्णवर्णो मनोहरः ।
ईषद्धास्यप्रसन्नास्यो विभूषाभिर्विराजितः ॥९२॥
देहशुद्ध्यर्थमेवादौ कृतकृच्छ्रत्रयोऽच्युतः ।
अथ मंगलसमये शुभलग्ने समागते ॥९२॥
सौम्यग्रहैः परिदृष्टे जाग्रल्लग्नाधिपे स्थिते ।
असौम्यग्रहदृष्ट्याद्यविषये कर्म चारभत् ॥९४॥
कामचाराशनपानदोषशुद्ध्यर्थमेव सः ।
धेनुत्रयं ददौ दाने स्वस्तिवाचमवाचयत् ॥९१॥
लोमशस्याज्ञया स्वर्णसहस्रं मणिशेवधिम् ।
ददौ दाने ब्राह्मणेभ्यो नमश्चकार देवताः ॥९६॥
विष्णुं शिवं गणेशं पार्वतीं सूर्यं प्रपूज्य च ।
वह्निं सम्पूज्य विधिना श्रीमद्गोपालकृष्णकः ॥९७॥
पुत्राधिवासनं चक्रे वेदमन्त्रैश्च संसदि ।
देवान् ग्रहान् दिशां पालान् सम्पूज्य मातृकास्तथा ॥९८॥
नान्दीश्राद्धं महाशान्तिं विधाप्य तदनन्तरम् ।
स्थण्डिले च समुद्भवाऽनले होमं चकार सः ॥९९॥
प्रदत्वा वसुधारां च सप्तवारं घृतैस्ततः ।
वृद्धिश्राद्धं दैवश्राद्धं चक्रे पितृप्रतर्पणम् ॥१००॥
क्षौरितस्नातमुक्तायाऽलंकृतब्रह्मचारिणे ।
कटिसूत्रं च कौपीनं यज्ञसूत्रं ददौ पिता ॥१०१॥
मौञ्जीं बध्वा त्रिरशनां कट्यां कर्णे च लोमशः ।
मन्त्रं ददौ च गायत्र्यास्त्रिवारं दक्षिणश्रुतौ ॥१०२॥
आज्यहोमं कारयित्वा मुनिर्धर्मानुपादिशत् ।
ततो भिक्षां ददावस्मै श्रीरमाराधिकाप्रभाः ॥१०३॥
ईश्वराण्यश्च मुक्तान्यः साध्यो देव्यश्च कन्यकाः ।
महालक्ष्मीः प्रकृतिश्च हंसा लक्ष्मीश्च पार्वती ॥१०४॥
मञ्जुला सगुणा धामकन्या ईशसुतास्तथा ।
देवनागनृपकन्याः सृष्टित्रयसुतादिकाः ॥१०५॥
कार्ष्ण्यः सर्वा लोमशस्याश्रमस्था दिव्यविग्रहाः ।
कंभराश्रीश्चामृता च देवदैत्यादिमातरः ॥१०६॥
मुनिपत्न्यो ब्रह्मविष्णुमहेशानां च योषितः ।
कामिन्योदिक्प्रपालानां ददुर्भिक्षाः पृथक् पृथक् ॥१०७॥
अमूल्यरत्नसन्नद्धदिव्यस्वर्णसुपात्रके ।
भिक्षां गृहीत्वा भगवान् लोमशाय ददौ मनाक् ॥१०८॥
आमौलिब्रह्मदण्डं चाऽजिनमुत्तरवस्त्रकम् ।
पूजां सन्ध्यां ददौ कमण्डलुं शीलं च लोमशः ॥१०९॥
अन्ये सर्वे भगवन्तो ददुस्तस्मै महार्हणाम् ।
भिक्षां रत्नावलिहारान् मणीन् काञ्चनविकृतीन् ॥११०॥
अमृतानि विचित्राणि चोपभोग्यानि यानि च ।
ददुश्चास्मै निजलोकाहृतानि देवयोनयः ॥१११॥
अथैवं कर्म निर्वाप्य दक्षिणां लोमशाय च ।
स्वर्णहीरकरत्नानि ददौ गोपालकृष्णकः ॥११२॥
पुत्राय हीरहारं च ददौ रक्षाकरं पिता ।
देव्यः सौभाग्यवत्यश्च कन्याश्च मातरस्तथा ॥११३॥
शुभाशिषं प्रददुश्च शुक्लपुष्पैश्च दुर्वया ।
ये ये समाययुर्यज्ञे तै तै शुभाशिषो ददुः ॥११४॥
गीतिकाश्चाप्यगायन्ताऽवाद्यन्त तूर्यकाणि च ।
गोत्रं च प्रवरान् वेदं शाखां चाऽशिक्षयत् पिता ॥११५॥
परब्रह्मात्मकं गोत्रं प्रवरास्त्रय इत्यमी ।
अक्षरब्रह्म श्रीकृष्णः श्रीनारायण एव ते ॥११६॥
वेदः सर्वात्मकश्चैकः सामः श्रीमुखनिर्गतः ।
शाखा पत्नीव्रतीया च शाखी त्वं परमेश्वरः ॥११७॥
इत्येवं राधिके कर्म समाप्य महीमानकान् ।
संसदः परिहारं च चक्रे गोपालकृष्णकः ॥११८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीकृष्णनारायणस्य यज्ञोपवीतप्रदानविधिपूजादि- निरूपणनामा षट्षष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP