संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १९० त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १९० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९० Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके राजा मुद्राण्डो माधवे तदा ।पुष्पहारान् स्वर्णहारान् आर्पयत् समपूजयत् ॥१॥राजवेषं बहुशोभमधारयत्तदा हरिम् ।मद्रिटानगरीं सायं भ्रामयितुं समार्थयत् ॥२॥सर्वांस्तत्र महीमानान् पुपूज राजकेशरी ।सुपानर्षिश्च तिलकं चन्द्रकं हरयेऽकरोत् ॥३॥जलपानं ददौ पश्चाद् वाहनेषु नृपोऽखिलान् ।न्यषादयद् सतूर्याणि व्यनादयच्छुभानि वै ॥४॥हरिर्नवं रथं शुभ्रं कम्बलाजिनसंवृतम् ।युक्तं षोडशभिर्गोभिः पाण्डुहुरैर्देवलक्षणैः ॥५॥तथाऽग्र्यैकेन महता पाण्डुरेण वृषेण च ।बन्दिभिः स्तूयमानश्चाऽभ्यर्च्यमानो महर्षिभिः ॥६॥आरुरोह रथं स्वर्णमणिमौक्तिकराजितम् ।जग्राह रश्मीन् मौद्राण्डः कुमारस्त्रिग्रसाण्डकः ॥७॥गवादकवितर्षिश्च धारयामास छत्रकम् ।ध्रियमाणं महच्छत्रं पाण्डुरं रथमध्यगम् ॥८॥शुशुभे तारकायुक्तचन्द्रमिव सुहीरकैः ।चामरव्यजने त्वस्य मुनी जगृहतुर्मुदा ॥९॥सुपानर्षिस्तथा मित्रमहर्षिश्च महाव्रतौ ।चन्द्ररश्मिसमकान्तियुते दीर्घातिमञ्जुले ॥१०॥कृष्णस्य पितरौ राधे भ्रातरश्च स्वसा तथा ।रथे स्थिता अदृश्यन्त सर्वेदेवसमास्तदा ॥११॥रथं शुभ्रं समास्थाय युक्तं तुरगसतमैः ।अन्वयात् पृष्ठतो रुद्रश्चेशानो गणसेवितः ॥१२॥रथं हेममयं श्रेष्ठं महादीर्घाश्वयोजितम् ।लोमशश्च समास्थायाऽन्वयाद् रुद्रं गुरुः स्वयम् ॥१३॥वृकायनो नीलकर्णश्चोभौ पीतरथेन च ।ययतुस्तु ततो नीलवर्णाश्वयोजितेन वै ॥१४॥ब्रह्मप्रियास्ततः सर्वाः स्वलंकृताः सहस्रशः ।नरयानैस्तथा यानैरुच्चावचैर्ययुस्ततः ॥१५॥गांगेयाः ऋषयः सर्वे कन्यकाश्च तथाऽपरे ।राजकन्याश्च राज्ञ्यश्चान्वयुर्भव्यैः रथादिभिः ॥१६॥ततो रथाश्च बहुला नागाश्चोष्ट्रवृषान्विताः ।पदातयो हयरूढाः पृष्ठतः समनुव्रजन् ॥१७॥ततो वैतालिकाः सूता मागधाश्चारणास्तथा ।सुभाषितानि गायन्तो ययुः प्रजाजनान्विताः ॥१८॥तदा तु दर्शनं विष्णोर्बभूवाऽप्रतिमं सुखम् ।अनादिश्रीकृष्णनारायणस्याऽनुपमं भुवि ॥१९॥मद्रिटायां हरेः प्रवेशने नगरवासिभिः ।नगरी राजमार्गाद्या बहुधा समलंकृताः ॥२०॥पाण्डुरैर्माल्यवर्गैश्च पताकाभिश्च मेदिनी ।संस्कृता राजमार्गाऽभूद् धूपनैश्च प्रधूपिता ॥२१॥तथा चूर्णैः सुगन्धानां नानापुष्पप्रियंगुभिः ।माल्यदामभिः संसक्तैर्नगरी शोभिता कृता ॥२२॥कुंभा द्वारि कृताश्चासन् जलपूर्णा नवाः शुभाः ।सिताः सुमनसो गौरा निक्षिप्तास्तत्र तत्र च ॥२३॥यथास्वलंकृतान्येव द्वाराणि रंगवल्लिभिः ।एवं शृंगारितायां च नगर्यां स विवेश ह ॥२४॥प्रवेशने हरेस्तत्र जनानां पुरवासिनाम् ।दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः ॥२५॥राजमार्गोऽतिशुशुभे समलंकृतचत्वरः ।चन्द्रोदयेऽब्धिवृद्धिश्च पूरागतागतैर्यथा ॥२६॥प्रजानां राजमार्गेषु वृद्धिश्चाऽचिन्तिताऽभवत् ।गृहाणि राजमार्गेषु रत्ननद्धानि सर्वथा ॥२७॥प्राकम्पन्तीव भारेण गौरीणां पूर्णितानि वै ।ताः स्त्रियश्च प्रशशंसुः कांभरेयं श्रियः पतिम् ॥२८॥ब्रह्मप्रिया इमा धन्या याः प्राप्ताः पुरुषोत्तमम् ।गौरीणां व्रतचर्याणि प्रशशंसुस्तथा स्त्रियः ॥२९॥प्रशंसावचनैस्तासां प्रीतिशब्दैश्च राधिके ।जयशब्दैः कीर्तनैश्च पुरमासीन्निनादितम् ॥३०॥प्रतिरथ्यं प्रतिमार्गसंगमं प्रतिचत्वरम् ।प्रतिहट्टं प्रतिहर्म्यं प्रजा आनर्चुरीश्वरम् ॥३१॥भ्रमित्वा नगरीं राजमार्गेण च ततो हरिः ।अलंकृतं शोभमानमुपायाद् राजवेश्म ह ॥३२॥तत्र प्रकृतयः सर्वाः पौरा जानपदा अपि ।ऊचुः कर्णसुखा वाचो दिष्ट्या प्राप्तोऽसि माधव ॥३३॥भवत्कृपा भवतश्च दर्शनेऽत्र मता शुभा ।अन्यथा दर्शनं कृष्ण कथं ते भाग्यमन्तरा ॥३४॥एवं राजकुलद्वारि मंगलैरभितोषितः ।प्रविवेश हरिर्यानादुत्तीर्य राजमन्दिरम् ॥३५॥राजा महर्षयश्चापि राजपत्नी कुमारिकाः ।गन्धमाल्यै रत्नहारैरार्चयन् कृष्णवल्लभम् ॥३६॥सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा ।उपदाभिर्विविधाभिर्विविधैश्च किमिच्छकैः ॥३७॥तत्रैवाऽवसरं ज्ञात्वा मोहपाशवशंगताः ।राजकन्या हरेर्हस्तं जगृहुर्दश पञ्च च ॥३८॥ततः पुण्याहघोषोऽभून्नामसंकीर्तनं तथा ।सुहृदां प्रीतिजनकं पुण्यं श्रुतिसुखावहम् ॥३९॥तथा दुन्दुभिनिर्घोषः शंखानां च मनोरमः ।जयं प्रवदतां चापि प्रादुरभूत्स्वनः शुभः ॥४०॥श्रुत्वा श्रीबालकृष्णश्च प्रसन्नहृदयस्तदा ।काञ्चने राजसौधस्थे न्यषीदत् परमासने ॥४१॥उपादिदेश बहुधा सभायां भूपतेर्वृषान् ।व्यसनी चेद् भवेद् राजा लोकैः सपरिभूयते ॥४२॥उद्वेजयति लोकं यो द्वेष्टि सुखं न विन्दति ।स्वप्रियं तु परित्यज्य लोकहितं समाचरेत् ॥४३॥धीरतां न त्यजेत् क्वापि राजा लोकहितावहः ।नात्यर्थः परिहासश्च भृत्यैः कार्यो नृपेण वै ॥४४॥अवमन्यन्ति राजानं संघर्षादुपजीविनः ।स्वे स्थाने न तु तिष्ठन्ति लंघयन्ति तु तद्वचः ॥४५॥प्रेष्यमाणा न गच्छन्ति गुह्यं प्रकाशयन्ति च ।अयाच्यमपि याचन्ते भोज्यानि भक्षयन्ति च ॥४६॥क्रुश्यन्ति परिदीप्यन्ति कार्याणि घातयन्ति च ।वञ्चनां चापि कुर्वन्ति लुञ्चां गृह्णन्ति वै क्वचित् ॥४७॥हस्ताक्षरैः कृत्रिमैश्च साधयन्ति निजां कृतिम् ।स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ॥४८॥वान्तं निष्ठीवनं चापि कुर्वते राजसन्निधौ ।निर्लज्जा नृपनिकटे भूत्वा घ्नन्ति यशोऽप्यनु ॥४९॥राजवाहं हयं हस्तिरथाद्यारोहयन्ति च ।सभायामपि राजानं चाऽज्ञानिनं वदन्ति च ॥५०॥क्रुद्धे नृपे हसन्त्येव मन्त्रं विस्रंसयन्ति च ।गुप्तं प्रकाशं कुर्वन्ति शासनं लंघयन्ति च ॥५१॥हेलनं चापि कुर्वन्ति निन्दन्ति सन्निधावपि ।अस्मन्मुष्ट्यां नृपोऽस्त्येव लोकाँश्चैवं वदन्त्यपि ॥५२॥तस्माद् भृत्यादिभिः सार्धं हर्षुलो न मृदुर्भवेत् ।उद्यमं संप्रकुर्याच्च भुक्तिमुक्तिप्रदं सदा ॥५३॥लोकानां रञ्जनाद् राजा नृपधर्मो हि रञ्जनम् ।सत्यस्य रक्षणं चापि व्यवहारस्य रक्षणम् ॥५४॥क्षान्तेश्च रक्षणं कार्यं राजमार्गाच्चलेन्न च ।आत्मवान् पुरुषार्थषु जाग्रन् राजत्वमर्हति ॥५५॥मानवाः सर्वधर्माश्च रक्षितव्या नृपेण वै ।वृद्धाः प्रसेवनीयाश्च सेवनीयाश्च साधवः ॥५६॥सद्भ्यो दद्यादसद्भ्यस्तु समादद्यान्नृपो वृषात् ।शिष्टान् शिष्टक्रियाश्चापि मानयेत् सर्वथा नृपः ॥५७॥विदुषो रक्षयेद् राजा नीतिज्ञान् शास्त्रकोविदान् ।कथाकारान् धर्मधर्तॄन् परमेशोपदेशकान् ॥५८॥गुरूँश्च मानयेद् राजा पूजयेद् बहुदानकैः ।साधून् सम्पूजयेन्नित्यं भोजयेद् शृणुयात् कथाः ॥५९॥देवालयान् कारयेच्च पूजाप्रबन्धमाचरेत् ।नित्यं भक्त्या स्वयं राजा यजेत देवताः प्रियान् ॥६०॥दशांशं वा च विंशांशं शतांशं पञ्चमांशकम् ।राज्यर्द्धिद्रव्यधान्येभ्योऽर्पयेद्धर्मार्थमेव सः ॥६१॥तीर्थानि रक्षयेद् राजा क्रतूँश्च कारयेत्तथा ।गोविप्रस्त्रीदीनबालान् यतीन् संरक्षयेच्छ्रितान् ॥६२॥नित्यं दद्यात्तु दानानि पूजयित्वा गुरून् जनान् ।वृद्धान् वन्देत सततं गृह्णीयादाशिषस्ततः ॥६३॥भगवन्तं स्मरेन्नित्यं प्रातः सायं च कर्मसु ।न त्रासं जनयेत् किंचिदायुर्नाशकरं न च ॥६४॥पुण्यनाशकरं चापि नैव कुर्यात् कदाचन ।विघसाशी भवेन्नित्यं ब्रह्मयज्ञपरो भवेत् ॥६५॥प्रजायां संप्रपश्येत्तु पुत्रवात्सल्यमुत्तमम् ।मां हरिं संस्थितं सर्वास्वपि मत्वाऽर्चयेद् यथा ॥६६॥हिंसनं न वृथा राजा कुर्यात् स्वार्थार्थमित्यपि ।सत्कार्याणि सदा लोके समारभेत भावतः ॥६७॥पुण्यकार्येषु साहाय्यं दद्यात् कुर्यात् स्वयं ह्यपि ।साधून् संवासयेद् राज्ये सेवेत परमादरात् ॥६८॥भगवन्तं च भक्ताँश्च भ्रामयेन्नगरादिषु ।मालावर्तनमादध्याद् राजा नित्यासनस्थितः ॥६९॥वर्तयेत् स्वकुटुम्बादि धर्मे कर्मणि भक्तिषु ।स्नानं ध्यानं जपं होमं तर्पणं च निवेदनम् ॥७०॥दानं धर्मं भजनं च सेवां कुर्वन्नृपः स्वयम् ।एवं वर्तेत चेद् राजा मुच्यते न तु बध्यते ॥७१॥यस्य कूटं न कपटं न माया सत्सु वै क्वचित् ।यस्य गेहे कथा ज्ञानं भजनं देवपूजनम् ॥७२॥सतां वर्त्मानुगश्चापि त्यागीव वर्तते च यः ।स भवेद्वै क्वचिन्मोक्षभागीश्वरेशसेवया ॥७३॥यथा राजा तथा धर्मो यथा धर्मस्तथा प्रजाः ।कृष्णधर्मोऽतियत्नेन राज्ञा रक्ष्यो मुमुक्षुणा ॥७४॥स्वस्मिन् भागवते धर्मे तिष्ठत्येव कुटुम्बकम् ।बान्धवाः सुहृदश्चान्ये प्रजाद्या अपि सर्वथा ॥७५॥वर्तेरन् सात्वते धर्मे यथा राजा तथा प्रजाः ।तस्माद् राजन् प्रजाश्चापि सर्वे कुर्वन्तु सात्त्वतीम् ॥७६॥भक्तिं मे मोक्षदां श्रेष्ठामुद्धरिष्ये मदाश्रितान् ।इत्युक्त्वा विररामाऽसौ बालकृष्णो हि राधिके ॥७७॥राजा प्रजादयः सर्वे जगृहुस्तद्वचांसि वै ।मन्त्रं मन्त्रविहीना ये ते सञ्जगृहुरैश्वरम् ॥७८॥कण्ठीं च भजनं नामरटणं जगृहुश्च ते ।ततः सभां विसर्जयामास मुद्राण्डको नृपः ॥७९॥भोजनानि हरिश्चापि कुटुम्बं च महर्षयः ।ईशानाद्या महीमानाश्चक्रुर्ब्रह्मप्रियादिकाः ॥८०॥रात्रौ विश्रान्तिमासाद्य कृत्वोत्थायाऽऽप्लवादिकम् ।नित्यपूजां विधायाथ दुग्धपानादिकं तथा ॥८१॥हरिः सज्जोऽभवद् गन्तुं पूर्तगण्डप्रदेशकान् ।तदा राजा प्रार्थयच्छ्रीहरिं शैवालपत्तनम् ॥८२॥गन्तुं गवादकवितानदीतटस्थमुत्तमम् ।हरिस्तथाऽस्त्विति प्राह जयशब्दैश्च कीर्तनैः ॥८३॥सह पूजां समागृह्य स्वं विमानमरूरुहत् ।अन्ये निषेदुः शीघ्रं च मुद्राण्डकोऽपि तत्क्षणम् ॥८४॥विमानमधिरुह्याग्रे ययौ स्वागतसिद्धये ।विमानानि विचेरुश्च शैवालपत्तनं प्रति ॥८५॥क्षणात् प्रापुश्च तं देशं गवादकवितान्तिकम् ।अवतेरुर्विमानानि गवादकवितातटे ॥८६॥राजा निजालये कृष्णं सर्वानानर्च भावतः ।उद्यानफलपुष्पाद्यैरपूजयद्धरिं नृपः ॥८७॥आरार्त्रिकं चकाराऽथ नगरेऽभ्रामयत्प्रभुम् ।कृत्वैवं पावनं कृष्णनारायणो हि पत्तनम् ॥८८॥दुग्ध फलादिकं जग्ध्वा प्राप्य पूजां नृपादिभिः ।प्रजाभिश्च कृतां सर्वामाशिषः सम्प्रदाय च ॥८९॥तन्मानेन समं शीघ्रमियेष गन्तुमच्युतः ।गण्डो नाम नृपस्तत्र नेतुं कृष्णं समागतः ॥९०॥पूर्तगण्डर्षिणा साकं हरिः सज्जोऽभवत्ततः ।शीघ्रं विमानमारुह्य दत्वाऽऽशीर्वचनानि च ॥९१॥ययौ शृण्वन् जयनादान् नदीं गवादयानिकाम् ।समुल्लंघ्य नदीदेशानाकाशे व्यचरद्धरिः ॥९२॥त्रिगिरां च नदीं प्राप्य राजा वै गण्डकः पुरः ।पूर्तगण्डर्षिणा साकं स्वागतार्थमवातरत् ॥९३॥लीशवनं पत्तनं च शृंगारितं हि राधिके ।सैन्ययुक्तं शुभं गत्वोद्याने स्वागतमाचरत् ॥९४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मद्रिटानगर्यां भ्रमणं राजवेश्मागमनं पूजनम् उपदेशो भोजनं निशोत्तरम् अष्टम्यां प्रातःकृत्योत्तरं प्रयाणं शैवालनगरीं भ्रमित्वा पूर्तगण्डर्षिप्रदेशेषु गण्डकनृपस्य लीशवनपत्तनं प्रति गमनमित्यादिनिरूपणनामा नवत्यधिकशततमोऽध्यायः ॥१९०॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP