संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २३५

त्रेतायुगसन्तानः - अध्यायः २३५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्र समायाता जनादयः ।
सर्वे हरे प्रसादं वै लब्धवन्तो मुदं ययुः ॥१॥
मध्याह्ने वालकृष्णस्य विप्रा आशीर्विधिं जगुः ।
नार्यां जगुश्च गीतनि ततो नीराजनं ह्यभूत् ॥२॥
बालकृष्णो निजं रूपं दर्शयामास वै तदा ।
अक्षरात्परधामस्थं दिव्यं दिव्योत्तमोत्तमम् ॥३॥
मण्डपे स्वासने चापि ये येऽन्तर्निहिताः सुराः ।
लोकाश्च लोकपालाश्चेश्वरावतारशक्तयः ॥४॥
ते ताः सामस्त्यभावेन बालकृष्णे समास्थिते ।
अदृश्यन्ताक्षरमुक्ताः सर्वसृष्टिनिवासिनः ॥५॥
ब्रह्माण्डं दृश्यते तत्र चतुर्दशस्तरात्मकम् ।
भूतलं दृश्यते चापि सौराष्ट्रं दृश्यते तथा ॥६॥
दृश्यते कुंकुमवापि सभा च दृश्यते तथा ।
दृश्यते मण्डपश्चेति दृश्यते कृष्णवल्लभः ॥७॥
इत्येवं श्रीहरौ सर्वं पारिषदाक्षिगोचरम् ।
समभूत् ते ततो हृत्सु बालकृष्णं व्यलोकयन् ॥८॥
दिव्यं दिव्यगुणागारं काम्भरेयं महाप्रभुम् ।
गोपालबालकं ब्रह्मप्रियादीनां पतिं प्रभुम् ॥९॥
अथ दिव्यं दर्शयित्वा निजं रूपं हरिस्ततः ।
बालरूपो बभूवाऽय सभाविसर्जनं ह्यभूत् ॥१०॥
सर्वेभ्यो भोजनं प्रादाच्छ्रीमद्गोपालकृष्णकः ।
मिष्टान्नानि विविधानि पेयानि विविधानि च ॥११॥
ततो विदायं प्रददौ दानमानपुरःसरम् ।
ययुर्वै परलोकस्था देशान्तरेषु सर्वथा ॥१२॥
समाजस्तत्र सौराष्ट्रदेशीयानां स्थिरोऽभवत् ।
रात्रौ श्रीबालकृष्णाग्रे मल्लयुद्धमभूत्तथा ॥१३॥
नाटकानि विचित्राणि श्रीकृष्णाऽग्रेभवँस्तदा ।
गायनानि विचित्राणि संगीतकानि चाऽभवन् ॥१४॥
भोजनानि च पेयानि मुहुस्तत्राऽभवन्निशि ।
एवं रात्रौ नर्तनानि ह्यभवन् वारयोषिताम् ॥१५॥
पारितोषिकदानानि ह्यभवन् कर्मचारिणाम् ।
समाप्य सर्वं रात्र्यर्धे निद्रां श्रान्तिं ययुर्जनाः ॥१६॥
प्रातरुत्थाय वाद्याद्यैः कृतकौतुकमंगलाः ।
हरिं नत्वा विदायं च गृहीत्वा प्रययुर्गृहम् ॥१७॥
विश्वकर्मा निदेशं च प्राप्य मण्डपमुत्तमम् ।
तिरोऽभावयदेवापि प्रातरेव क्षणान्तरे ॥१८॥
तस्मै श्रीबालकृष्णश्च पारितोषिकमुत्तमम् ।
प्रददौ स्वर्णमुकुटं कण्ठहारमनुत्तमम् ॥१९॥
बुद्धिं च प्रददौ दिव्यां गतिं सर्वत्र सन्ददौ ।
सृष्टित्रयाऽक्षिमत्त्वं च प्रददौ कृपया प्रभुः ॥२०॥
अश्वपट्टसरो द्रागदृश्यत मण्डपे हृते ।
सस्नुः प्रातर्जनाः सर्वे सन्ध्यावन्दनधर्मिणः ॥२१॥
इत्येवं राधिके जन्मजयन्ती पाञ्चदाशिकी ।
व्यतीता श्रीहरेर्वर्षं पञ्चदशं समायुजत् ॥२२॥
श्रीहरेर्दर्शनार्थं वै प्रायान्ति बहवो जनाः ।
मनुष्याणां सुसम्मर्दो जायतेऽहर्निशं ततः ॥२३॥
दीनाश्चाण्डालपर्यन्ताः समायान्ति प्रयान्ति च ।
राजाधिराजकरुणां लब्ध्वा प्रसादरूपिणीम् ॥२४॥
प्राप्यानन्दं भोजनादि भवन्ति सुखिनश्च ते ।
राधे! तत्र जयन्त्यां वै चाण्डालः कश्चिदागतः ॥२५॥
आसीन्नाम्ना तामसाक्षिः पत्नीपुत्रसमन्वितः ।
हरेर्भक्तो यतो नैव चौर्यं करोति सर्वथा ॥२६॥
न व्याहरत्यसत्यं च कपटं न करोति च ।
चलालये वसन्नित्यं ग्राममार्जनकर्मभिः ॥२७॥
लब्धान्नैर्देहमात्रां च निर्वर्तयति वै सदा ।
किन्तु चान्नं न वै पूर्णं जायते मार्जनार्जितम् ॥२८॥
ग्रामेऽस्त्यन्यो न चाण्डालः कार्यं कर्तुं तु सम्मतः ।
नाऽयं हिंसां करोत्येव न त्वन्यायं करोत्यपि ॥२९॥
भिक्षुकवत्तथाऽन्नस्याऽर्जनार्थं न भ्रमत्यपि ।
मत्वा लोकास्तु चाण्डालं कुपात्रं न ददत्यपि ॥३०॥
ततः क्लेशं वरं प्राप्य क्षुधापीडातिकर्षितः ।
कुटुम्बेन सहितोऽयं पञ्चपुत्रसमन्वितः ॥३१॥
बालैरप्यनुद्यमैश्च द्विकन्यासहितस्तथा ।
पत्नीयुतश्च नवमो जयन्त्यां स्वयमागतः ॥३२॥
अश्वपट्टसरस्तीरे वटच्छायामुपाश्रितः ।
दर्शनं बालकृष्णस्य करोति स्म नवं नवम् ॥३३॥
मालावर्तनमेवापि करोति सकुटुम्बकः ।
भिक्षान्नं तूत्सवे तेन लब्धं पूर्णं दिने निशि ॥३४॥
नवम्यां तेन सल्लब्धं दशम्यां लब्धमेव च ।
एकादश्यां तदान्नं न लब्धं वै व्रतकारणात् ॥३५॥
क्षुधितः सकुटुम्बो वै दिवानिशं व्रतेऽभवत् ।
रात्रौ तामसभावेन पत्न्यपत्यसमन्वितः ॥३६॥
क्षुधाद्यैर्भग्नहृदयो मर्तुकामोऽतिवेगवान् ।
निपपात सरस्येव पत्नी धर्तुं पपात तम् ॥३७॥
पुत्रीपुत्राश्च पतिता रुदन्तः पितराविति ।
जलागाधत्वयोगेन तलं प्राप्ताश्च ते तदा ॥३८॥
मध्यरात्र्युत्तरे काले नैतत् जानाति कश्चन ।
जलं ते सलिलं पीत्वा मृतप्रायास्तदाऽभवन् ॥३९॥
बालकृष्णं हृद्ये स्वे स्मरन्त्येते मृता इव ।
भगवान् बालकृष्णोऽपि प्रबुबोध द्रुतं तदा ॥४०॥
त्यक्त्वा शय्यां राधिके स्वां तमोरात्रौ सरो ययौ ।
वासुदेवस्वरूपः श्रीबालकृष्णो जलान्तरे ॥४१॥
चतुर्भुजो विवेशाथ धृत्वा भक्तं श्वपाकिनम् ।
तत्पत्नीं च बहिस्तीरे त्वानयामास सत्प्रभुः ॥४२॥
पुनर्जले हरिर्गत्वा पुत्रीद्वयं सुतं तथा ।
जलान्निष्कासयामास तटे न्यस्य पुनर्जले ॥४३॥
सप्रविश्य हरिस्तूर्णं पुत्राँश्चतुर इत्यपि ।
आनयामास च बहिस्तटे ररक्ष वै क्षणम् ॥४४॥
बालान् सुते च पत्नीं च पतिं च भगवाँस्ततः ।
वासुदेवश्चानिरुद्धः प्रद्युम्नः समकर्षणः ॥४५॥
चतूरुपधरो भूत्वा धृत्वा तान् पादयोः पृथक् ।
उत्तोल्याऽधोमुखान् कृत्वा घटिकामात्रमेव तान् ॥४६॥
तथैव धारयामास पीतजलस्य निर्गमम् ।
मुखतः सर्वथा कारयित्वा तान् लब्धचेतनान् ॥४७॥
वराधस्तात् सप्रस्वाप्य शैत्यनाशाय काण्डिकाः ।
वटपत्रादिसहिताः शलाकाश्च समन्ततः ॥४८॥
संप्रचित्वा द्रुतं तत्राऽनलं प्रादीपयत्प्रभुः ।
तत्र काष्ठानि विन्यस्य तपनं प्रचकार ह ॥४९॥
तापयामास तान् सर्वान् शनकैः श्रीहरिः स्वयम् ।
आनयामास तत्प्राणान् मूर्ध्नो हृदयगह्वरम् ॥५०॥
प्राप्तजाग्रत्प्रभावास्ते वीक्ष्य रूपचतुष्टयम् ।
वासुदेवादिकं तूर्णं नेमिरे पादयोः प्रभोः ॥५१॥
तुष्टुवुस्ते हरिं तत्रैकादशीरात्रितूर्यके ।
दीनाऽनाथदरिद्राणां नाथ धारक रक्षक ॥५२॥
नताः स्म ते पादयोर्वै चाण्डाला वयमादरात् ।
त्वं धाता त्वं चान्नदाता त्वं भर्ता त्वं हि पोषकः ॥५३॥
प्राणदाता त्वमेवाऽसि जीवयिता जलाद्धि नः ।
सदाऽन्नदुःखदुःखिनो वयं जीवनदुःखिनः ॥५४॥
दुःखैर्विरक्तभावेन प्राणान्तार्थं जलेऽर्पणम् ।
कृतवन्तो हि देहानां ते स्मृतिं प्राप्य वारिषु ॥५५॥
तत्र त्वं प्राणनाथो नः समागत्योद्धृतिं व्यधाः ।
देहरक्षा कृता यद्वत्प्राणरक्षा तथा कृता ॥५६॥
जीवनस्य प्रदानेन रक्षां वृत्त्या कुरु प्रभो ।
यद्वा ते ब्रह्मलोकं नो नय भक्तानुदासनान् ॥५७॥
त्वया रक्षा कृता गर्भे कृमियोगेऽपि जन्मनि ।
जन्ममार्गे कृता रक्षा बाल्यभावेऽपि रक्षिताः ॥५८॥
इदानीं यावदेवापि त्वयाऽन्नाद्यैर्हि रक्षिताः ।
वृक्षा वल्ल्यः पशवश्च कीटाः पतत्रिणस्तथा ॥५९॥
रक्ष्यन्तेऽपि त्वया नाथ रक्ष रक्षय नस्त्विह ।
अधमोद्धारकर्ता त्वं दुःखहर्ता च दुःखिनाम् ॥६०॥
अनाश्रितानां चाश्रयप्रदाता त्वं पिता मतः ।
बालानां चावलम्बस्त्वं जीवनं त्वं प्रजीविनाम् ॥६१॥
शरण्यश्चापद्गतानां तारकस्त्वं निमज्जताम् ।
आतुराणां चार्तिहास्त्वं ममार्त्तिं हर मापते ॥६२॥
अन्नवस्त्रैर्विहीनानामन्नवस्त्रप्रदो भव ।
दुर्भाग्यानां सुभाग्यस्य विधाता भव मापते ॥६३॥
अन्नदुःखेन भगवन्निमग्नोऽहं सरोवरे ।
कुटुम्बसहितो रात्रौ त्वया दयालुनोद्धृतः ॥६४॥
तस्मात् पूर्णां दयां कृत्वाऽन्नाम्बरकष्टमच्युत ।
विनाशय ते भक्तस्य शरणे पतितस्य मे ॥६५॥
इत्युक्त्वा च क्षितौ न्यस्य मस्तकं साञ्जलिं मुदा ।
प्रणनाम मुहुः श्रीमद्बालकृष्णं विलोकयन् ॥६६॥
भगवान् वासुदेवादिस्वरूपाणि व्यदर्शयत् ।
बालकृष्णस्वरूपश्च भूत्वाऽऽह तामसाक्षिकम् ॥६७॥
कुटुम्बसहितश्चात्र नगर्यां मे सदा वस ।
मार्जनादि विधेह्यत्र रथ्यासु राजमार्गके ॥६८॥
वृत्तिस्ते त्वन्नवस्त्रादिस्वरूपा निर्वहिष्यति ।
प्रातर्दास्ये निवासार्थं गृहं रम्यं तवोचितम् ॥६९॥
मा खिन्नो भव भक्त त्वं मैवं पुनः कृथाः क्वचित्॥
आत्मघातसमं पापं मोक्षहानिकरं महत् ॥७०॥
नेतरद् विद्यते तस्मान्मा कृथाश्चात्मघातनम् ।
आत्मजीवनदानेन तुल्यं पुण्यं महत्तरम् ॥७१॥
मोक्षसाधनदं नान्यत्तस्माद् रक्षेद्धि जीवनम् ।
गृहाणेदं भोजनं च मिष्टान्नं पूर्तमित्यपि ॥७२॥
इत्युक्त्वा वासुदेव्या चाहृतं मिष्टान्नकं ददौ ।
वस्त्राण्यपि ददौ तस्मै कुटुम्बाय दयापरः ॥७३॥
प्रातश्चायाहि मे गोपुराग्रे दास्ये गृहं तव ।
अहं गच्छामि सौधं मे भज मां निद्रितो भव ॥७४॥
इत्युक्त्वाऽन्तर्दधे श्रीमद्बालकृष्णो हि राधिके ।
चाण्डालश्च प्रसन्नोऽभूत् चक्रे तु भजनं हरेः ॥७५॥
तालिकावादनैः सर्वे प्रचक्रुः कृष्णकीर्तनम् ।
प्रातः स्नात्वा हरेर्द्वारं ययुः सर्वेऽति भावुकाः ॥७६॥
बालकृष्णो हि भक्तस्य रक्षार्थं स्वयमेव ह ।
गजासनात् समुत्थाय गोपुरं प्रययौ ततः ॥७७॥
गृहं संकल्पयामास चाम्रवणेऽतिसुन्दरम् ।
सुन्दरं नूतनं वृक्षवल्लीतृणविराजितम् ॥७८॥
विशालं मार्जनीचुल्लीकण्डन्यादिसमन्वितम् ।
उदकुंभीपेषणीभ्यां सहितं शयनादियुक् ॥७९॥
कुसूलधान्यपूर्णं च सर्वान्नसूपसंभृतम् ।
शाकपत्रादिवाट्याढ्यं कूपजलविराजितम् ॥८०॥
दोग्ध्रीगोसहितं रम्यं चतुःकक्षादिवर्तुलम् ।
एवं सुभवनं कृष्णो निजचित्रसमन्वितम् ॥८१॥
सर्वशोभायुतं तस्मै प्रददौ श्वप्रपाकिने ।
भक्तोऽयं गृहमासाद्य प्रसन्नोऽभून्मुमोद च ॥८२॥
मन्त्रं श्रीबालकृष्णाद्वै जग्राह वैष्णवं तदा ।
'नमः श्रीबालकृष्णस्य दासोऽस्म्युद्धर मां प्रभो' ॥८३॥
इति मन्त्रं ददौ तस्मै भगवान् कंभरासुतः ।
ग्रामे कुमकुमवाप्यां च पत्तने मार्जनादिकम् ॥८४॥
कर्तुं न्ययोजयत्तं वै स्वभक्तं तामसाक्षतम् ।
सोऽपि लब्ध्वा शुभं लाभम भक्तिं चक्रे त्वहर्निशम् ॥८५॥
कुटुम्बं श्रीहरिं नित्यं मूर्तै प्रसेवतेऽस्य च ।
कन्यैका दुग्धिका देवी तस्थौ सा ब्रह्मचारिणी ॥८६॥
कृष्णभक्त्या समाधिस्था दिव्यदेहा बभूव ह ।
दुग्धिका देवता चाण्डालानां सा कुलदेविका ॥८७॥
सर्वदा त्वभवल्लोके बालकृष्णनिषेविणी ।
मन्त्रिका चाऽपरा कन्या बहुमन्त्रविधायिनी ॥८८॥
हरेर्भजनयोगेन साऽऽत्मबलवती ह्यभूत्॥
सत्यवक्त्री मनुं यं स क्लृप्त्वाऽन्यां शिक्षयत्यपि ॥८९॥
स एव मन्त्रो बलवान् जायते फलवौस्तथा ।
एवं सा मन्त्रिका जाता मन्त्रोद्भावनकारिणी ॥९०॥
चाण्डालजातिमन्त्राणाम् आर्षी सा ह्यभवत्ततः ।
पुत्राः पञ्चापि सद्भक्ताः साधवो भजनान्विताः ॥९१॥
अजायन्ताऽऽश्रमे नैजे मण्डलीवाहिनोऽभवन् ।
चाण्डालानां गुरवस्तेऽभवन् सन्तो हि भक्तितः ॥९२॥
बहुकाले गते तेषां पितरौ भक्तिभाविनौ ।
सेविनौ दिव्यहृदयौ भूत्वा देहौ विहाय च ॥९३॥
ययतुः श्रीहरेर्धामाऽक्षरं मुक्तौ बभूवतुः ।
राधे कालान्तरे पुत्राः पुत्र्यौ साध्व्यौ च भक्तितः ॥९४॥
त्यक्त्वा देहान् ययुर्धाम बालकृष्णस्य शाश्वतम् ।
एवं श्रीभगवान् राधे भक्तरक्षां चकार ह ॥९५॥
पोषणं प्रचकारापि जीविकां प्रददौ तथा ।
मोक्षं त्वन्ते ददौ चापि श्वपचेभ्यो महाप्रभुः ॥९६॥
येऽनाथाश्च दरिद्रा वा दीना भाग्यविहीनकाः ।
अपि गत्वा हरेर्भूमौ कुंकुमवापिकाऽक्षरे ॥९७॥
भजनं ये करिष्यन्त्यर्पयिष्यन्ति निजं निजम् ।
देहं प्राणान् हृदयानि धनानि च कुटुम्बकम् ॥९८॥
तेषां रक्षां बालकृष्णः करिष्यत्येव सर्वथा ।
भुक्तिं समर्प्य लोकेऽत्र मुक्तिं दास्यति वै ततः ॥९९॥
पठनाच्छ्रवणाच्चाऽस्य - कीर्तनात्पाठनादपि ।
भुक्तिर्मुक्तिर्भवेदेव राधिके नात्र संशयः ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मण्डपस्य परिहारो महीमानविदायं तामसाक्षिनामकचाण्डालभक्तस्य सकुटुम्बस्य जलमग्नस्य रक्षणं पोषणं
मोक्षणं चेत्यादिनिरूपणनामा पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥२३५॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP