संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २८२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २८२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २८२ Translation - भाषांतर श्रीकृष्ण उवाच-राधिकेऽथ समुन्निद्रा महीमाना बभूविरे ।प्रातर्मंगलवाद्याद्यैः सूतमागधगीतिभिः ॥१॥बन्दीजनानां प्रस्तावैर्नैसर्गिकैश्च तूर्यजैः ।सुस्वरैश्च यशोगानैर्जजागरुर्जनाः प्रगे ॥२॥चतुर्घटिकवादित्रैर्ब्राह्मस्मरणकारकैः ।कृष्णकीर्तननादैश्च जजागरुर्जना प्रगे ॥३॥सौभाग्यस्त्रीजनगीतैः कन्यकाकृतकीर्तनैः ।गायकानां गायनैश्च जजागरुर्जनाः प्रगे ॥४॥अश्वपट्टसरस्तीरे मण्डलीजनकीर्तनैः ।वेदिकानां स्तोत्ररावैर्जजागरुर्जनाः प्रगे ॥५॥उत्साहैश्चिन्तनैर्भावैः श्रद्धाभिः सत्त्ववृत्तिभिः ।प्रवर्तनाभिः सौम्याभिर्जजागरुर्जनाः प्रगे ॥६॥अन्तर्यामिप्रेरणाभिः प्रेमभावभरैस्तथा ।विमानानां गर्जनैश्च जजागरुर्जनाः प्रगे ॥७॥शकुन्तानां कलरवैः स्वप्ने कृष्णोत्सवेक्षणैःगृहपत्नीगीतिकाभिर्जजागरुर्जनाः प्रगे ॥८॥दोग्ध्रीणां वत्सरंभैश्च वादित्रयन्त्रगायनैः ।महीमानाऽऽगमघोषैर्जजागरुर्जनाः प्रगे ॥९॥पुण्यानां प्रेरणाभिश्च चाञ्चल्यवृत्तिभिस्तथा ।किंजिज्ञासाप्रवेगैश्च जजागरुर्जनाः प्रगे ॥१०॥स्नात्वा सन्ध्यादिकं कृत्वा चाश्वपट्टसरोजले ।कृतशृंगारशोभाश्च द्वार्षु स्वस्त्यादिकान् व्यधुः ॥११॥रंगवल्लीर्व्यधुश्चापि प्रभृज्य दधिचूर्णकैः ।आंगणेषु चित्रवर्णतोरणानि न्यधुस्तथा ॥१२॥दत्तकज्जलनेत्राश्च कृतकबरीवेषिकाः ।धृतभूषोज्ज्वलवस्त्रा मंगलानि स्त्रियो जगुः ॥१३॥गणेशपूजनं विप्राश्चक्रुर्मण्डपपूजनम् ।श्रीकृष्णपूजनं चक्रुर्बालकृष्णस्य पूजनम् ॥१४॥कुलदेवस्य च पुरुषोत्तमस्य प्रपूजनम् ।चक्रुः श्रीशंकरस्यापि सूर्यस्यापि च पूजनम् ॥१५॥पूजनं सर्वतोभद्रदेवानां च व्यधुस्ततः ।धेनुनां पूजनं चापि कन्यकानां च पूजनम् ॥१६॥मातृकापूजनं विष्णोः पूजनं ते व्यधुस्ततः ।नीराजनं सुनैवेद्यं प्रददुर्दक्षिणादिकम् ॥१७॥विप्राणां पूजनं चक्रुर्हरिद्रापूजनं तथा ।हरिद्रापिष्टिकां नार्यश्चक्रुः सम्मृद्य ग्रन्थिकाः ॥१८॥गन्धसारं तिलपिष्टं कस्तूरिकां च कैसरम् ।सुगन्धतैलं श्रेष्ठं च मिश्रयामासुरुत्सुकाः ॥१९॥अथ श्रीबालकृष्णस्य स्नानार्थं तपनोदकम् ।तीर्थजलं समाजह्रुर्नार्यः सौभाग्यशोभिताः ॥२०॥कन्यकाः स्वर्णकलशैराजह्रुः सलिलं शुभम् ।सवाद्यघोषगीतैश्च समाजह्रुर्जलं हि ताः ॥२१॥कानके स्वासने न्यस्य प्रपूज्य जलदेवताम् ।रत्नानि पञ्च निक्षिप्य सुगन्धिद्रव्यकं तथा ॥२२॥देवाँश्च सागराँस्तत्र तीर्थान्यावाह्य चामृतम् ।सुधामावाह्य च पट्टे स्नापयामासुरच्युतम् ॥२३॥मर्दयन्ति तदा नार्यः शरीरं सांगमुज्ज्वलम् ।कोटिसूर्यसमाभं च कोटिचन्द्रशुभाननम् ॥२४॥कोटिविद्युत्समांगं च कोटिगन्धनिवासकृत् ।कोटिरूपभृतं चापि कोटिरसविशिष्टकम् ॥२५॥सर्वसद्गुणकोशं च सर्वलावण्यसंभृतम् ।सर्वसौन्दर्यपात्रं च सर्वकामगुणाश्रयम् ॥२६॥सर्वपुष्टिभरं कृष्णनारायणं परेश्वरम् ।मर्दयामासुरत्यर्थं निर्मलस्य मलापहाः ॥२७॥तैलैः सुगन्धरसनैर्गन्धिद्रव्यैर्मलापहैः ।आमलकैस्तिलपिष्टैः क्षारद्रव्यैः समुज्ज्वलैः ॥२८॥मृदुभिर्नवनीताद्यैः कर्दमैः पौष्टिकैस्तथा ।सुगन्धचन्दनाद्यैश्च स्नपयामासुरुत्सुकाः ॥२९॥अथ क्षौरं यथायोग्यं नापितः प्रचकार ह ।ततोऽयं मधुना सस्नौ शर्करावारिभिस्ततः ॥३०॥दुग्धेन च घृतेनापि दध्ना सस्नौ स्वयं प्रभुः ।ततश्च मधुना चापि पुनः शर्करयाऽपि च ॥३१॥क्षारद्रव्येण च ततः सस्नौ सुगन्घिभिस्ततः ।तैलैः कस्तूरिकाभिश्च चन्दनैः केसरैस्ततः ॥३२॥पिष्टिकामर्दनैश्चापि सस्नौ चम्पकभोऽभवत् ।एवं वै पिष्टिकास्नानं कृत्वा वस्त्राणि चादधौ ॥३३॥भूषाम्बराणि सर्वाणि तिलकादीनि चन्द्रकम् ।ततः सिंहासने स्वर्णे निषसाद प्रभुः स्वयम् ॥३४॥लोकास्तिलकदानार्थं पूजनार्थं हरेस्तदा ।समायान्ति तथा नार्यो महीमानास्तथाऽपरे ॥३५॥एवं सम्पूज्यते श्रीमद्बालकृष्णः सपिष्टिकः ।सुगन्धोऽस्य शरीराद्वै निःससार समन्ततः ॥३६॥सुगन्धितं हि सौराष्ट्रं तदाऽभवत्प्रदूरतः ।महीमानाः समायान्ति त्वाकाशयानतस्तदा ॥३७॥समन्ततः सर्वदेशेभ्यश्च लोकेभ्य इत्यति ।शंकरः क्षेत्रपालश्च नारदश्च महामुनिः ॥३८॥भगवान् भावयिच्चापि शुकश्चास्याऽनुवर्तनः ।स्वतःप्रकाशो भगवाँस्तथा सन्तुष्टिकादिकाः ॥३९॥ब्रह्मप्रियाः समस्ताश्च व्यधुः स्वागतमुत्सुकाः ।भोजनानि प्रवर्तन्ते दुग्धपानानि चापि वै ॥४०॥भक्ष्यभोज्यानि सर्वाणि दीयन्ते च महानसात् ।पंक्तयोऽपि भवन्त्येव सर्वलोकनिवासिनाम् ॥४१॥भुञ्जते प्रेमभावैश्च मिष्टान्नानि बहून्यपि ।लेह्यचोष्याणि सर्वाणि प्रलिहन्ति रसानपि ॥४२॥पिबन्ति दुग्धपाकादीन् खादन्ति क्षारभर्जितान् ।आस्वादयन्ति दध्यादि नवनीतघृतान्यपि ॥४३॥मल्लयिकाः पिण्डकाँश्च शष्कुलीर्भक्षयन्त्यपि ।अमृतानि सुधास्वादून्यपि पिबन्ति भावतः ॥४४॥शाकानि रूपभेदाँश्चौदनान्यपि सुगन्धिकाः ।फुल्लवटीर्भक्षयन्ति गुप्तमिष्टप्रपोलिकाः ॥४१॥पूपानपूपान् लड्डूँश्च खाजकान्मोहनस्थलान् ।मेशुभान् बहुमिष्टाँश्च भक्षयन्ति जनास्तदा ॥४६॥घृतकुल्या दधिकुल्या मधुकुल्या वहन्ति च ।पिबन्ति पाचनशक्ता भक्षयन्ति च भोगिनः ॥४७॥तत्तद्धामनिवासानां तत्तद्योग्यानि सर्वथा ।उपस्थाप्यन्त एवात्र लक्ष्म्यादिभिश्च कल्पकैः ॥४८॥कल्पपात्रादिभिश्चाप्यक्षयपात्रादिभिस्तथा ।ताम्बूलकानि दीयन्ते मुखाच्छकानि भुज्यनु ॥४९॥जलपानं तथा चूर्णं मुखशुद्धिकरं शुभम् ।ततो यान्ति वासमन्दिराणि वै महीमानकाः ॥५०॥इत्येवं राधिके ततोत्सवो भवति शोभनः ।आयान्ति सर्वतस्तत्र महीमाना हि कोटिशः ॥५१॥ब्रह्मधामगता मुक्तास्तथा धामेतरस्थिताः ।सर्वधामनिवासाश्च मुक्तास्तत्र समाययुः ॥५२॥मुक्तान्यः सांख्ययोगिन्यो ब्रह्मप्रियास्तथाऽऽययुः ।ईश्वरा ईश्वराण्यश्च समुत्सुकाः समाययुः ॥५३॥अवताराऽवतारिण्यस्तत्रोत्सुकाः समाययुः ।ईश्वराणामीश्वराश्चेश्वराण्यः प्रसमाययुः ॥५४॥मायालोकगता मुक्ता मुक्तान्यश्च समाययुः ।अष्टावरणमुक्ताश्च तन्मुक्तान्यः समाययुः ॥५५॥सत्यलोकगता मुक्ताः साधवश्च महर्षयः ।ब्रह्मचर्यपराः सन्तः सिद्धास्तत्र समाययुः ॥५६॥पितरो मुनयो वृद्धाः सिद्धान्यश्च समाययुः।सत्यः साध्व्यो विरागिण्यो देव्यस्तत्र समाययुः ॥५७॥मातृका योगिनीनार्य्यो योगिनश्च समाययुः ।देवा देवेश्वराश्चापि देवताश्च समाययुः ॥५८॥ध्रुवस्थाश्चापि नाक्षत्रलोकस्था ग्रहवासिनः ।अन्तरीक्षस्थिताश्चापि ऋषिमण्डलवासिनः ॥५९॥सूर्यचन्द्रनिवासाश्च देवास्तत्र समाययुः ।ब्रह्मपुत्र्यो देवपुत्र्यः पितृपुत्र्यः समाययुः ॥६०॥विद्युद्वासा मेघवासा मेरुवासाः समाययुः ।दिक्पाला लोकपालाश्च पुर्यष्टेशाः समाययुः ॥६१॥भुवर्लोकनिवासाश्च वायुदेहाः समाययुः ।गान्धर्वाश्चारणाः सिद्धेश्वराश्च तापसा अपि ॥६२॥जलेचराः स्थलेचरा व्योमचराः समाययुः ।यक्षाश्च राक्षसा भक्ता भूतप्रेतपिशाचकाः ॥६३॥वैनायकाश्च कूष्माण्डा वैष्णवास्तत्र चाययुः ।गृहदेवा ग्रामदेवा वनदेवाः समाययुः ॥६४॥आरण्यकास्तथा देवा मुनयो मानवा अपि ।गान्धर्वाद्यास्तथा सर्वास्तापस्यश्च समाययुः ॥६५॥सिद्धयो वसवः साध्याः किन्नराः किंजना अपि ।विद्याध्राः कामदेवाद्यास्तत्पत्न्यश्च समाययुः ॥६६॥धर्मो धर्मस्य वंशश्च धर्मपत्न्यः समाययुः ।जातिस्मराः पशवः तिर्यञ्चः पक्षिणस्तथा ॥६७॥कीटाः पतंगका वृक्षा वल्ल्यस्तृणानि चाययुः ।कामदुघाः कल्पलता कल्पपात्राणि चाययुः ॥६८॥रसाः शृंगारभेदाश्च शारदा च स्वरास्तथा ।गुणाश्चायुधजातानि मूर्तिमन्ति समाययुः ॥६९॥विधयो यज्ञपुरुषा वह्नयो वैष्णवास्तथा ।उपचारोपकरणान्याययुर्मूर्तिमन्ति च ॥७०॥नदा नद्यः समुद्राश्च वाप्यः कूपाः सरांस्यपि ।तीर्थानि पर्वताश्चारण्यकानि तत्र चाययुः ॥७१॥चातुर्वर्णा जनाश्चापि नरा नार्यः समाययुः ।दक्षिणात्पूर्वदेशाच्च प्राग्ज्योतिषात् समाययुः ॥७२॥उष्णदेशादुष्ट्रभागाद् ब्रह्मदेशात् समाययुः ।प्राचीनदेशात् पिंगाच्च जलपानात् समाययुः ॥७३॥राशियानात् त्रिवित्ताच्च समाययुश्च शांभवात् ।हिमदेशात् काश्मिराच्चोरलदेशात् समाययुः ॥७४॥किंपुरुषात् केतुमालाच्चाब्धिद्वीपेभ्य आययुः ।आरक्ताच्चाऽऽब्रिक्तदेशात् सामुद्रद्वीपतस्तथा ॥७५॥उत्तरात्तर्कदेशाच्चाययुस्तत्र महोत्सवे ।आरार्त्रिकप्रदेशाच्च भूगर्भाच्च समाययुः ॥७६॥उत्तरकुरुतश्चापि केनारकात्तथाऽऽययुः ।ब्राह्मीलसंप्रदेशाच्च हारीतकप्रदेशकात् ॥७७॥अमरीकप्रदेशाच्चाययुस्तत्र महोत्सवे ।वरासनप्रदेशाच्च माक्षिकाख्यप्रदेशकात् ॥७८॥अरजस्कप्रदेशाच्चाययुः सर्वे समुत्सुकाः ।सामुद्रद्वीपवासाश्चाययुर्विमानगामिनः ॥७९॥राजानो भृत्यवर्गाश्च कन्यकापितरश्च ये ।बालकृष्णश्वशुराद्याः कुटुम्बिनः समाययुः ॥८०॥ऋषयो राशयश्चापि नदा नद्यश्च कन्यकाः ।स्मृद्धयः सिद्धयश्चापि समन्ततः समाययुः ॥८१॥अतलादिनिवासाश्च देवा दैत्याश्च दानवाः ।आसुरा भक्तिमन्तश्च भक्तास्तत्र समाययुः ॥८२॥नागाः सर्पा दिग्गजाश्च शक्तयः सृष्टिरक्षिकाः ।वेदा विद्याः समस्ताश्च कलाः सर्वाः समाययुः ॥८३॥मातृपक्षाः पितृपक्षा दुहितृपक्षगास्तथा ।स्वसृपक्षावधूपक्षास्तत्तत्सम्बन्धिनस्तथा ॥८४॥परम्परासु सम्बद्धाः सम्बन्धिनः समाययुः ।शिष्यपक्षा भक्तपक्षाः ऋषिपक्षाः समाययुः ॥८५॥मन्त्रपक्षा देशपक्षाः प्रजापक्षाः समाययुः ।कुटुम्बस्य पक्षीयाणां पक्षीयाणा च पक्षगाः ॥८६॥नरा नार्यो देवदेव्यस्तत्रोत्सवे समाययुः ।सभृत्याः ससुहृदः समित्राः सानुगास्तथा ॥८७॥सयोगाः सव्यवहाराः सहवासाः समाययुः ।अनादिश्रीकृष्णनारायणः श्रीकान्तमाधवः ॥८८॥श्रीकृष्णो वहते लक्ष्मीं कृष्णां शिवोद्भवां भुवि. ।शिवेश्वरसुता श्रीशालक्ष्मीर्नरायणीस्वयम् ॥८९॥अनादिश्रीकृष्णनारायणे देवे समर्प्यते ।लक्ष्मीस्तं तु सदाऽऽप्ता स्यात् श्रीकृष्णं पुरुषोत्तमम् ॥९०॥लक्ष्मीः कृष्णार्धदेहा च कृष्णा कृष्णात्मिका हि सा ।कृष्णो लक्ष्म्यर्धदेहश्च लक्ष्मीनारायणो हि सः ॥९१॥कृष्णेन सह कृष्णायाश्चैकात्म्यं जायते भुवि ।अहो गन्तव्यमेवाऽपि सुयोगः कृष्णयोरिति ॥९२॥धाममुक्तास्तथा चेशा देवाश्च मानवा अपि ।आयान्त्युत्सुकहृदयाः सुयोगः कृष्णयोरिति ॥९३॥बाला वृद्धा युवानश्च तृतीयप्रकृतिस्थिताः ।नरा नार्यः समायान्ति सुयोगः कृष्णयोरिति ॥९४॥सरःसेतौ नारदेन श्रुतं पिपीलिकावचः ।आल्यो भोज्यं सुप्राप्स्यामः सुयोगः कृष्णयोरिति ॥९५॥धर्मराजस्य दूता वै शृण्वन्ति नरके गिरः ।मोक्षं शीघ्रमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९६॥कारागारवचांस्येव श्रुतवन्तो निरीक्षकाः ।विबन्धनमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९७॥साधवः श्रुतवन्तश्च भिक्षुकाणां वचांस्यपि ।दानं श्रेष्ठमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९८॥निर्धनानामृणवतामश्रूयन्त वचांस्यपि ।अनृणत्वमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९९॥दासानां समश्रूयन्त वचांस्युत्साहवन्त्यपि ।पारितोषिकमाप्स्यामः सुयोगे कृष्णयोरिति ॥१००॥सार्थानां मार्गमाप्तानां वार्तायां श्रूयते वचः ।शीघ्रं शीघ्रं प्रगन्तव्यं सुयोगे कृष्णयोरिति ॥१०१॥कन्याकुलानि चायान्ति त्वश्वपट्टसरोवरम् ।वाहिन्या सममेष्यामः सुयोगे कृप्णयोरिति ॥१०२॥यादसां स्नानकाले वै श्रुतं वचो महर्षिभिः ।वयं भक्ष्यमवाप्स्यामः सुयोगे कृष्णयोरिति ॥१०३॥पितॄणां समश्रूयन्त वचांसि हर्षजान्यपि ।श्राद्धे तृप्तिमवाप्स्यामः सुयोगे कृष्णयोरिति ॥१०४॥हिंस्रकाणां वने वाचोऽश्रूयन्त नियमान्विताः ।हिंसितव्यं न सप्ताहे सुयोगः कृष्णयोरिति ॥१०५॥देवानामप्यश्रूयन्त धर्मवाचोऽष्टवासराः ।ब्रह्मचर्यपराः पाल्याः सुयोगे कृष्णयोरिति ॥१०६॥पण्डितानामश्रूयन्त वचांसि सोत्सुकानि वै ।साम तत्रैव गास्यामः सुयोगे कृष्णयोरिति ॥१०७॥कर्मठानां श्रुता वाचो यास्यामो दर्शनाय ह ।पद्धति सुप्रशिक्ष्यामः सुयोगे कृष्णयोरिति ॥१०८॥अमंगलानि तत्त्वानि विवदन्ते परस्परम् ।अमांगल्यं विहातव्यं मंगले कृष्णयोरिति ॥१०९॥वदन्त्यपशकुनानि मिलित्वा स्वस्थले द्रुतम् ।कुस्वभावो विहन्तव्यः प्रयोगे कृष्णयोरिति ॥११०॥ग्रहाश्चापि विवदन्ते क्रौर्यं त्याज्यं दिनाष्टके ।फलं नैव प्रदातव्यं मंगले कृष्णयोरिति ॥१११॥कश्चिद् वृद्धः शुष्कगात्रो वक्रकटिः सयष्टिकः ।श्वसन् शीघ्रं वदन् याति प्रोद्वाहः कृष्णयोरिति ॥११२॥कुंकुमपत्रिकां दृष्ट्वा सर्वलोकनिवासिनः ।सज्जा भवन्त्यागमार्थं प्रोद्वाहः कृष्णयोरिति ॥११३॥कामदुघा धेनवश्च सवत्साः सोत्सुकाः शनैः ।आयान्त्यश्वसरो रम्यं मंगलं कृष्णयोरिति ॥११४॥स्वव्यापारं समुत्सृज्य व्यापारिणः प्रयान्त्यपि ।अश्वपट्टसरःक्षेत्रं मंगलं कृष्णयोरिति ॥११५॥कर्षुकाश्च कृषिं त्यक्त्वा नीत्वोद्यानफलान्यपि ।प्रयान्त्यश्वसरो हृष्टा मंगलं कृष्णयोरिति ॥११६॥सूतकिनो व्रतिनश्च निर्धूय कृच्छ्रतो हि तत्॥यान्ति चाश्वसरो हृष्टा सुयोगे कृष्णयोरिति ॥११७॥उपदाः परिकुर्वन्ति सर्वलोकनिवासिनः ।दातव्या वै यथाशक्ति सुयोगे कृष्णयोरिति ॥११८॥असाध्यं साधयित्वाऽपि गन्तव्यं मण्डपं द्रुतम् ।इति गृणन्ति भूतानि प्रोद्वाहः कृष्णयोरिति ॥११९॥इत्येवं राधिके! वाचोऽश्रूयन्त भगवत्पराः ।पठनाच्छ्रवणादासां भवेत् स्वर्गं च मोक्षणम् ॥१२०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्वितीयायां प्रातर्मंगलदृश्यानि देवपूजनानि बालकृष्णस्य पिष्टिकामर्दनं स्नानं शृंगारो महीमानादीनां भोजनादीनि सृष्टित्रयागमः, कृष्णयोर्मंगलयोगजन्योत्साहलाभादिचेतिनिरूपणनामा द्व्यशीत्यधिकद्विशततमोऽध्यायः ॥२८२॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP