संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २८२

त्रेतायुगसन्तानः - अध्यायः २८२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिकेऽथ समुन्निद्रा महीमाना बभूविरे ।
प्रातर्मंगलवाद्याद्यैः सूतमागधगीतिभिः ॥१॥
बन्दीजनानां प्रस्तावैर्नैसर्गिकैश्च तूर्यजैः ।
सुस्वरैश्च यशोगानैर्जजागरुर्जनाः प्रगे ॥२॥
चतुर्घटिकवादित्रैर्ब्राह्मस्मरणकारकैः ।
कृष्णकीर्तननादैश्च जजागरुर्जना प्रगे ॥३॥
सौभाग्यस्त्रीजनगीतैः कन्यकाकृतकीर्तनैः ।
गायकानां गायनैश्च जजागरुर्जनाः प्रगे ॥४॥
अश्वपट्टसरस्तीरे मण्डलीजनकीर्तनैः ।
वेदिकानां स्तोत्ररावैर्जजागरुर्जनाः प्रगे ॥५॥
उत्साहैश्चिन्तनैर्भावैः श्रद्धाभिः सत्त्ववृत्तिभिः ।
प्रवर्तनाभिः सौम्याभिर्जजागरुर्जनाः प्रगे ॥६॥
अन्तर्यामिप्रेरणाभिः प्रेमभावभरैस्तथा ।
विमानानां गर्जनैश्च जजागरुर्जनाः प्रगे ॥७॥
शकुन्तानां कलरवैः स्वप्ने कृष्णोत्सवेक्षणैः
गृहपत्नीगीतिकाभिर्जजागरुर्जनाः प्रगे ॥८॥
दोग्ध्रीणां वत्सरंभैश्च वादित्रयन्त्रगायनैः ।
महीमानाऽऽगमघोषैर्जजागरुर्जनाः प्रगे ॥९॥
पुण्यानां प्रेरणाभिश्च चाञ्चल्यवृत्तिभिस्तथा ।
किंजिज्ञासाप्रवेगैश्च जजागरुर्जनाः प्रगे ॥१०॥
स्नात्वा सन्ध्यादिकं कृत्वा चाश्वपट्टसरोजले ।
कृतशृंगारशोभाश्च द्वार्षु स्वस्त्यादिकान् व्यधुः ॥११॥
रंगवल्लीर्व्यधुश्चापि प्रभृज्य दधिचूर्णकैः ।
आंगणेषु चित्रवर्णतोरणानि न्यधुस्तथा ॥१२॥
दत्तकज्जलनेत्राश्च कृतकबरीवेषिकाः ।
धृतभूषोज्ज्वलवस्त्रा मंगलानि स्त्रियो जगुः ॥१३॥
गणेशपूजनं विप्राश्चक्रुर्मण्डपपूजनम् ।
श्रीकृष्णपूजनं चक्रुर्बालकृष्णस्य पूजनम् ॥१४॥
कुलदेवस्य च पुरुषोत्तमस्य प्रपूजनम् ।
चक्रुः श्रीशंकरस्यापि सूर्यस्यापि च पूजनम् ॥१५॥
पूजनं सर्वतोभद्रदेवानां च व्यधुस्ततः ।
धेनुनां पूजनं चापि कन्यकानां च पूजनम् ॥१६॥
मातृकापूजनं विष्णोः पूजनं ते व्यधुस्ततः ।
नीराजनं सुनैवेद्यं प्रददुर्दक्षिणादिकम् ॥१७॥
विप्राणां पूजनं चक्रुर्हरिद्रापूजनं तथा ।
हरिद्रापिष्टिकां नार्यश्चक्रुः सम्मृद्य ग्रन्थिकाः ॥१८॥
गन्धसारं तिलपिष्टं कस्तूरिकां च कैसरम् ।
सुगन्धतैलं श्रेष्ठं च मिश्रयामासुरुत्सुकाः ॥१९॥
अथ श्रीबालकृष्णस्य स्नानार्थं तपनोदकम् ।
तीर्थजलं समाजह्रुर्नार्यः सौभाग्यशोभिताः ॥२०॥
कन्यकाः स्वर्णकलशैराजह्रुः सलिलं शुभम् ।
सवाद्यघोषगीतैश्च समाजह्रुर्जलं हि ताः ॥२१॥
कानके स्वासने न्यस्य प्रपूज्य जलदेवताम् ।
रत्नानि पञ्च निक्षिप्य सुगन्धिद्रव्यकं तथा ॥२२॥
देवाँश्च सागराँस्तत्र तीर्थान्यावाह्य चामृतम् ।
सुधामावाह्य च पट्टे स्नापयामासुरच्युतम् ॥२३॥
मर्दयन्ति तदा नार्यः शरीरं सांगमुज्ज्वलम् ।
कोटिसूर्यसमाभं च कोटिचन्द्रशुभाननम् ॥२४॥
कोटिविद्युत्समांगं च कोटिगन्धनिवासकृत् ।
कोटिरूपभृतं चापि कोटिरसविशिष्टकम् ॥२५॥
सर्वसद्गुणकोशं च सर्वलावण्यसंभृतम् ।
सर्वसौन्दर्यपात्रं च सर्वकामगुणाश्रयम् ॥२६॥
सर्वपुष्टिभरं कृष्णनारायणं परेश्वरम् ।
मर्दयामासुरत्यर्थं निर्मलस्य मलापहाः ॥२७॥
तैलैः सुगन्धरसनैर्गन्धिद्रव्यैर्मलापहैः ।
आमलकैस्तिलपिष्टैः क्षारद्रव्यैः समुज्ज्वलैः ॥२८॥
मृदुभिर्नवनीताद्यैः कर्दमैः पौष्टिकैस्तथा ।
सुगन्धचन्दनाद्यैश्च स्नपयामासुरुत्सुकाः ॥२९॥
अथ क्षौरं यथायोग्यं नापितः प्रचकार ह ।
ततोऽयं मधुना सस्नौ शर्करावारिभिस्ततः ॥३०॥
दुग्धेन च घृतेनापि दध्ना सस्नौ स्वयं प्रभुः ।
ततश्च मधुना चापि पुनः शर्करयाऽपि च ॥३१॥
क्षारद्रव्येण च ततः सस्नौ सुगन्घिभिस्ततः ।
तैलैः कस्तूरिकाभिश्च चन्दनैः केसरैस्ततः ॥३२॥
पिष्टिकामर्दनैश्चापि सस्नौ चम्पकभोऽभवत् ।
एवं वै पिष्टिकास्नानं कृत्वा वस्त्राणि चादधौ ॥३३॥
भूषाम्बराणि सर्वाणि तिलकादीनि चन्द्रकम् ।
ततः सिंहासने स्वर्णे निषसाद प्रभुः स्वयम् ॥३४॥
लोकास्तिलकदानार्थं पूजनार्थं हरेस्तदा ।
समायान्ति तथा नार्यो महीमानास्तथाऽपरे ॥३५॥
एवं सम्पूज्यते श्रीमद्बालकृष्णः सपिष्टिकः ।
सुगन्धोऽस्य शरीराद्वै निःससार समन्ततः ॥३६॥
सुगन्धितं हि सौराष्ट्रं तदाऽभवत्प्रदूरतः ।
महीमानाः समायान्ति त्वाकाशयानतस्तदा ॥३७॥
समन्ततः सर्वदेशेभ्यश्च लोकेभ्य इत्यति ।
शंकरः क्षेत्रपालश्च नारदश्च महामुनिः ॥३८॥
भगवान् भावयिच्चापि शुकश्चास्याऽनुवर्तनः ।
स्वतःप्रकाशो भगवाँस्तथा सन्तुष्टिकादिकाः ॥३९॥
ब्रह्मप्रियाः समस्ताश्च व्यधुः स्वागतमुत्सुकाः ।
भोजनानि प्रवर्तन्ते दुग्धपानानि चापि वै ॥४०॥
भक्ष्यभोज्यानि सर्वाणि दीयन्ते च महानसात् ।
पंक्तयोऽपि भवन्त्येव सर्वलोकनिवासिनाम् ॥४१॥
भुञ्जते प्रेमभावैश्च मिष्टान्नानि बहून्यपि ।
लेह्यचोष्याणि सर्वाणि प्रलिहन्ति रसानपि ॥४२॥
पिबन्ति दुग्धपाकादीन् खादन्ति क्षारभर्जितान् ।
आस्वादयन्ति दध्यादि नवनीतघृतान्यपि ॥४३॥
मल्लयिकाः पिण्डकाँश्च शष्कुलीर्भक्षयन्त्यपि ।
अमृतानि सुधास्वादून्यपि पिबन्ति भावतः ॥४४॥
शाकानि रूपभेदाँश्चौदनान्यपि सुगन्धिकाः ।
फुल्लवटीर्भक्षयन्ति गुप्तमिष्टप्रपोलिकाः ॥४१॥
पूपानपूपान् लड्डूँश्च खाजकान्मोहनस्थलान् ।
मेशुभान् बहुमिष्टाँश्च भक्षयन्ति जनास्तदा ॥४६॥
घृतकुल्या दधिकुल्या मधुकुल्या वहन्ति च ।
पिबन्ति पाचनशक्ता भक्षयन्ति च भोगिनः ॥४७॥
तत्तद्धामनिवासानां तत्तद्योग्यानि सर्वथा ।
उपस्थाप्यन्त एवात्र लक्ष्म्यादिभिश्च कल्पकैः ॥४८॥
कल्पपात्रादिभिश्चाप्यक्षयपात्रादिभिस्तथा ।
ताम्बूलकानि दीयन्ते मुखाच्छकानि भुज्यनु ॥४९॥
जलपानं तथा चूर्णं मुखशुद्धिकरं शुभम् ।
ततो यान्ति वासमन्दिराणि वै महीमानकाः ॥५०॥
इत्येवं राधिके ततोत्सवो भवति शोभनः ।
आयान्ति सर्वतस्तत्र महीमाना हि कोटिशः ॥५१॥
ब्रह्मधामगता मुक्तास्तथा धामेतरस्थिताः ।
सर्वधामनिवासाश्च मुक्तास्तत्र समाययुः ॥५२॥
मुक्तान्यः सांख्ययोगिन्यो ब्रह्मप्रियास्तथाऽऽययुः ।
ईश्वरा ईश्वराण्यश्च समुत्सुकाः समाययुः ॥५३॥
अवताराऽवतारिण्यस्तत्रोत्सुकाः समाययुः ।
ईश्वराणामीश्वराश्चेश्वराण्यः प्रसमाययुः ॥५४॥
मायालोकगता मुक्ता मुक्तान्यश्च समाययुः ।
अष्टावरणमुक्ताश्च तन्मुक्तान्यः समाययुः ॥५५॥
सत्यलोकगता मुक्ताः साधवश्च महर्षयः ।
ब्रह्मचर्यपराः सन्तः सिद्धास्तत्र समाययुः ॥५६॥
पितरो मुनयो वृद्धाः सिद्धान्यश्च समाययुः।
सत्यः साध्व्यो विरागिण्यो देव्यस्तत्र समाययुः ॥५७॥
मातृका योगिनीनार्य्यो योगिनश्च समाययुः ।
देवा देवेश्वराश्चापि देवताश्च समाययुः ॥५८॥
ध्रुवस्थाश्चापि नाक्षत्रलोकस्था ग्रहवासिनः ।
अन्तरीक्षस्थिताश्चापि ऋषिमण्डलवासिनः ॥५९॥
सूर्यचन्द्रनिवासाश्च देवास्तत्र समाययुः ।
ब्रह्मपुत्र्यो देवपुत्र्यः पितृपुत्र्यः समाययुः ॥६०॥
विद्युद्वासा मेघवासा मेरुवासाः समाययुः ।
दिक्पाला लोकपालाश्च पुर्यष्टेशाः समाययुः ॥६१॥
भुवर्लोकनिवासाश्च वायुदेहाः समाययुः ।
गान्धर्वाश्चारणाः सिद्धेश्वराश्च तापसा अपि ॥६२॥
जलेचराः स्थलेचरा व्योमचराः समाययुः ।
यक्षाश्च राक्षसा भक्ता भूतप्रेतपिशाचकाः ॥६३॥
वैनायकाश्च कूष्माण्डा वैष्णवास्तत्र चाययुः ।
गृहदेवा ग्रामदेवा वनदेवाः समाययुः ॥६४॥
आरण्यकास्तथा देवा मुनयो मानवा अपि ।
गान्धर्वाद्यास्तथा सर्वास्तापस्यश्च समाययुः ॥६५॥
सिद्धयो वसवः साध्याः किन्नराः किंजना अपि ।
विद्याध्राः कामदेवाद्यास्तत्पत्न्यश्च समाययुः ॥६६॥
धर्मो धर्मस्य वंशश्च धर्मपत्न्यः समाययुः ।
जातिस्मराः पशवः तिर्यञ्चः पक्षिणस्तथा ॥६७॥
कीटाः पतंगका वृक्षा वल्ल्यस्तृणानि चाययुः ।
कामदुघाः कल्पलता कल्पपात्राणि चाययुः ॥६८॥
रसाः शृंगारभेदाश्च शारदा च स्वरास्तथा ।
गुणाश्चायुधजातानि मूर्तिमन्ति समाययुः ॥६९॥
विधयो यज्ञपुरुषा वह्नयो वैष्णवास्तथा ।
उपचारोपकरणान्याययुर्मूर्तिमन्ति च ॥७०॥
नदा नद्यः समुद्राश्च वाप्यः कूपाः सरांस्यपि ।
तीर्थानि पर्वताश्चारण्यकानि तत्र चाययुः ॥७१॥
चातुर्वर्णा जनाश्चापि नरा नार्यः समाययुः ।
दक्षिणात्पूर्वदेशाच्च प्राग्ज्योतिषात् समाययुः ॥७२॥
उष्णदेशादुष्ट्रभागाद् ब्रह्मदेशात् समाययुः ।
प्राचीनदेशात् पिंगाच्च जलपानात् समाययुः ॥७३॥
राशियानात् त्रिवित्ताच्च समाययुश्च शांभवात् ।
हिमदेशात् काश्मिराच्चोरलदेशात् समाययुः ॥७४॥
किंपुरुषात् केतुमालाच्चाब्धिद्वीपेभ्य आययुः ।
आरक्ताच्चाऽऽब्रिक्तदेशात् सामुद्रद्वीपतस्तथा ॥७५॥
उत्तरात्तर्कदेशाच्चाययुस्तत्र महोत्सवे ।
आरार्त्रिकप्रदेशाच्च भूगर्भाच्च समाययुः ॥७६॥
उत्तरकुरुतश्चापि केनारकात्तथाऽऽययुः ।
ब्राह्मीलसंप्रदेशाच्च हारीतकप्रदेशकात् ॥७७॥
अमरीकप्रदेशाच्चाययुस्तत्र महोत्सवे ।
वरासनप्रदेशाच्च माक्षिकाख्यप्रदेशकात् ॥७८॥
अरजस्कप्रदेशाच्चाययुः सर्वे समुत्सुकाः ।
सामुद्रद्वीपवासाश्चाययुर्विमानगामिनः ॥७९॥
राजानो भृत्यवर्गाश्च कन्यकापितरश्च ये ।
बालकृष्णश्वशुराद्याः कुटुम्बिनः समाययुः ॥८०॥
ऋषयो राशयश्चापि नदा नद्यश्च कन्यकाः ।
स्मृद्धयः सिद्धयश्चापि समन्ततः समाययुः ॥८१॥
अतलादिनिवासाश्च देवा दैत्याश्च दानवाः ।
आसुरा भक्तिमन्तश्च भक्तास्तत्र समाययुः ॥८२॥
नागाः सर्पा दिग्गजाश्च शक्तयः सृष्टिरक्षिकाः ।
वेदा विद्याः समस्ताश्च कलाः सर्वाः समाययुः ॥८३॥
मातृपक्षाः पितृपक्षा दुहितृपक्षगास्तथा ।
स्वसृपक्षावधूपक्षास्तत्तत्सम्बन्धिनस्तथा ॥८४॥
परम्परासु सम्बद्धाः सम्बन्धिनः समाययुः ।
शिष्यपक्षा भक्तपक्षाः ऋषिपक्षाः समाययुः ॥८५॥
मन्त्रपक्षा देशपक्षाः प्रजापक्षाः समाययुः ।
कुटुम्बस्य पक्षीयाणां पक्षीयाणा च पक्षगाः ॥८६॥
नरा नार्यो देवदेव्यस्तत्रोत्सवे समाययुः ।
सभृत्याः ससुहृदः समित्राः सानुगास्तथा ॥८७॥
सयोगाः सव्यवहाराः सहवासाः समाययुः ।
अनादिश्रीकृष्णनारायणः श्रीकान्तमाधवः ॥८८॥
श्रीकृष्णो वहते लक्ष्मीं कृष्णां शिवोद्भवां भुवि. ।
शिवेश्वरसुता श्रीशालक्ष्मीर्नरायणीस्वयम् ॥८९॥
अनादिश्रीकृष्णनारायणे देवे समर्प्यते ।
लक्ष्मीस्तं तु सदाऽऽप्ता स्यात् श्रीकृष्णं पुरुषोत्तमम् ॥९०॥
लक्ष्मीः कृष्णार्धदेहा च कृष्णा कृष्णात्मिका हि सा ।
कृष्णो लक्ष्म्यर्धदेहश्च लक्ष्मीनारायणो हि सः ॥९१॥
कृष्णेन सह कृष्णायाश्चैकात्म्यं जायते भुवि ।
अहो गन्तव्यमेवाऽपि सुयोगः कृष्णयोरिति ॥९२॥
धाममुक्तास्तथा चेशा देवाश्च मानवा अपि ।
आयान्त्युत्सुकहृदयाः सुयोगः कृष्णयोरिति ॥९३॥
बाला वृद्धा युवानश्च तृतीयप्रकृतिस्थिताः ।
नरा नार्यः समायान्ति सुयोगः कृष्णयोरिति ॥९४॥
सरःसेतौ नारदेन श्रुतं पिपीलिकावचः ।
आल्यो भोज्यं सुप्राप्स्यामः सुयोगः कृष्णयोरिति ॥९५॥
धर्मराजस्य दूता वै शृण्वन्ति नरके गिरः ।
मोक्षं शीघ्रमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९६॥
कारागारवचांस्येव श्रुतवन्तो निरीक्षकाः ।
विबन्धनमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९७॥
साधवः श्रुतवन्तश्च भिक्षुकाणां वचांस्यपि ।
दानं श्रेष्ठमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९८॥
निर्धनानामृणवतामश्रूयन्त वचांस्यपि ।
अनृणत्वमवाप्स्यामः सुयोगः कृष्णयोरिति ॥९९॥
दासानां समश्रूयन्त वचांस्युत्साहवन्त्यपि ।
पारितोषिकमाप्स्यामः सुयोगे कृष्णयोरिति ॥१००॥
सार्थानां मार्गमाप्तानां वार्तायां श्रूयते वचः ।
शीघ्रं शीघ्रं प्रगन्तव्यं सुयोगे कृष्णयोरिति ॥१०१॥
कन्याकुलानि चायान्ति त्वश्वपट्टसरोवरम् ।
वाहिन्या सममेष्यामः सुयोगे कृप्णयोरिति ॥१०२॥
यादसां स्नानकाले वै श्रुतं वचो महर्षिभिः ।
वयं भक्ष्यमवाप्स्यामः सुयोगे कृष्णयोरिति ॥१०३॥
पितॄणां समश्रूयन्त वचांसि हर्षजान्यपि ।
श्राद्धे तृप्तिमवाप्स्यामः सुयोगे कृष्णयोरिति ॥१०४॥
हिंस्रकाणां वने वाचोऽश्रूयन्त नियमान्विताः ।
हिंसितव्यं न सप्ताहे सुयोगः कृष्णयोरिति ॥१०५॥
देवानामप्यश्रूयन्त धर्मवाचोऽष्टवासराः ।
ब्रह्मचर्यपराः पाल्याः सुयोगे कृष्णयोरिति ॥१०६॥
पण्डितानामश्रूयन्त वचांसि सोत्सुकानि वै ।
साम तत्रैव गास्यामः सुयोगे कृष्णयोरिति ॥१०७॥
कर्मठानां श्रुता वाचो यास्यामो दर्शनाय ह ।
पद्धति सुप्रशिक्ष्यामः सुयोगे कृष्णयोरिति ॥१०८॥
अमंगलानि तत्त्वानि विवदन्ते परस्परम् ।
अमांगल्यं विहातव्यं मंगले कृष्णयोरिति ॥१०९॥
वदन्त्यपशकुनानि मिलित्वा स्वस्थले द्रुतम् ।
कुस्वभावो विहन्तव्यः प्रयोगे कृष्णयोरिति ॥११०॥
ग्रहाश्चापि विवदन्ते क्रौर्यं त्याज्यं दिनाष्टके ।
फलं नैव प्रदातव्यं मंगले कृष्णयोरिति ॥१११॥
कश्चिद् वृद्धः शुष्कगात्रो वक्रकटिः सयष्टिकः ।
श्वसन् शीघ्रं वदन् याति प्रोद्वाहः कृष्णयोरिति ॥११२॥
कुंकुमपत्रिकां दृष्ट्वा सर्वलोकनिवासिनः ।
सज्जा भवन्त्यागमार्थं प्रोद्वाहः कृष्णयोरिति ॥११३॥
कामदुघा धेनवश्च सवत्साः सोत्सुकाः शनैः ।
आयान्त्यश्वसरो रम्यं मंगलं कृष्णयोरिति ॥११४॥
स्वव्यापारं समुत्सृज्य व्यापारिणः प्रयान्त्यपि ।
अश्वपट्टसरःक्षेत्रं मंगलं कृष्णयोरिति ॥११५॥
कर्षुकाश्च कृषिं त्यक्त्वा नीत्वोद्यानफलान्यपि ।
प्रयान्त्यश्वसरो हृष्टा मंगलं कृष्णयोरिति ॥११६॥
सूतकिनो व्रतिनश्च निर्धूय कृच्छ्रतो हि तत्॥
यान्ति चाश्वसरो हृष्टा सुयोगे कृष्णयोरिति ॥११७॥
उपदाः परिकुर्वन्ति सर्वलोकनिवासिनः ।
दातव्या वै यथाशक्ति सुयोगे कृष्णयोरिति ॥११८॥
असाध्यं साधयित्वाऽपि गन्तव्यं मण्डपं द्रुतम् ।
इति गृणन्ति भूतानि प्रोद्वाहः कृष्णयोरिति ॥११९॥
इत्येवं राधिके! वाचोऽश्रूयन्त भगवत्पराः ।
पठनाच्छ्रवणादासां भवेत् स्वर्गं च मोक्षणम् ॥१२०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्वितीयायां प्रातर्मंगलदृश्यानि देवपूजनानि बालकृष्णस्य पिष्टिकामर्दनं स्नानं शृंगारो महीमानादीनां भोजनादीनि सृष्टित्रयागमः, कृष्णयोर्मंगलयोगजन्योत्साहलाभादिचेतिनिरूपणनामा द्व्यशीत्यधिकद्विशततमोऽध्यायः ॥२८२॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP