संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १८५

त्रेतायुगसन्तानः - अध्यायः १८५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथाऽयं भगवान् राधे जीवनीनगरीं प्रति ।
दृष्टिं कृत्वा विमानात् स्वाद् बहिस्तूर्णं समाययौ ॥१॥
तावद् राजाऽल्पकेतुश्चाप्यायनर्षिस्तथा परे ।
कुमारा बालकृष्णस्य कण्ठे हारान् न्यधुः शुभान् ॥२॥
सौवर्णान् कौसुमाँश्चापि हैरकान् रात्निकानपि ।
करे गुच्छान् सुगन्धाँश्च ददुः पुष्पाणि मस्तके ॥३॥
अक्षतैर्वर्धयामासुः प्रणेमुः पादयोरपि ।
अन्येऽपि पूजिताः सर्वैरीशानाद्यास्तथर्षयः ॥४॥
पितरः सकुटुम्बाश्च स्वागतैश्चातिमानिताः ।
पादौ प्रक्षाल्य च वारि पपुर्भक्ता हरेस्तदा ॥५॥
हरिं सुवर्णशोभायां गजगन्त्र्यां न्यषादयन् ।
अन्यान् शुभेषु यानेषु वाहनेषु ह्यनस्सु च !। ६॥
शिबिकासु विमानेषु निषाद्य मंगलस्वनैः ।
नगरीं भ्रामयामासुः राजाद्याः प्रेमविह्वलाः ॥७॥
प्रधानैश्च नृपाद्यैश्च श्रेष्ठिभिश्चाधिकारिभिः ।
प्रजाभिः सर्वजातीयनारीभिश्च नरैस्तथा ॥८॥
वर्धितः पूजितश्चापि घण्टापथे च चत्वरे ।
अंगने मार्गिकायोगे चाऽऽपणानां च वर्तुले ॥९॥
स्वागतेन हरिः सर्वैः प्रासादितः पुनः पुनः ।
उपदाभिरमूल्याभिः सर्वोपकरणादिभिः ॥१०॥
फलपुष्पैर्मंगलैश्च समर्चितो नरायणः ।
एवं तां नगरीं वीक्ष्य दत्वा च दर्शनं ततः ॥११।
निवासालयमागत्य जलपानं समाचरत् ।
हरिस्तूर्णं सभायां च निषसादाऽऽदिदेश च ॥१२॥
यत्राऽऽस्ते भगवान् साक्षात् यत्र सन्तो हरिं श्रिताः ।
यत्र वसन्ति भक्ताश्च देशः स दिव्य उच्यते ॥१३॥
निर्गुणः स प्रदेशो वै भुक्तिमुक्तिफलप्रदः ।
धन्योऽयं केतुमालश्च धन्या नृपा नदीतटाः ॥१४॥
धन्यान्येषां नगराणि यत्र मच्चरणागमः ।
धन्या यूयं प्रजाश्चात्र वैष्णवत्वमुपागताः ॥१५॥
वैष्णवत्वं च सत्संगः परमेशप्रसन्नता ।
सदेष्टदेवभक्तिश्च सेवा सतां हि दुर्लभाः ॥१६॥
ते येषां मिलितास्तेषां प्राप्तव्यं नाऽवशिष्यते ।
स्थानिनो दिव्यलोकस्था वाञ्च्छन्त्येतत्तु पञ्चकम् ॥१७॥
तपःस्वाध्यायशीलानां सन्ति लोकाः सनातनः ।
अजातशत्रवो धीरा भक्त्या मोक्षं परं गताः ॥१८॥
विषयेभ्यः परावृत्ता यान्ति भक्त्या परं पदम् ।
अनिर्देश्यां गतिं यान्ति मोक्षिणो भक्तिसंयुताः ॥१९॥
उक्तं तु पञ्चकं येषां नास्ति तेषां तु लौकिकम् ।
विपाट्य कदलीस्तम्भं सारलाभो न विद्यते ॥२०॥
तस्मात्तत्पञ्चकं लब्ध्वा श्रेयो लक्ष्यं विधाय च ।
निगृह्य च मनस्तृष्णामुत्सृज्य कर्मसन्ततिम् ॥२१॥
परेश्वरे तु संलग्नः सतां मार्गमनुस्मरन् ।
ध्यायेद्देवं चान्तरस्थं स वै श्रेयः प्रयास्यति ॥२२॥
क्रियारताः क्रतौ मग्ना दाने सेवाविधावपि ।
मां प्रलक्ष्योत्सृजन्तो ये ते मता मम लोकगाः ॥२३॥
त्यागः सन्तोष इशेज्याऽभिलालसाक्षयस्तथा ।
मानादिविलयो येषां तेषां वै शाश्वतं सुखम् ॥२४॥
चतुष्पदो भवेदत्र निःश्रेणी ब्रह्मलोकदा ।
कथायज्ञः ऋषिश्रेणी ज्ञानं श्रेणी तु तत्त्विनाम् ॥२५॥
कर्मश्रेणी गृहस्थानां तपःश्रेणी सतां मता ।
ईहा चेद् विषयाढ्याऽस्ति ततोऽनीहा गरीयसी ॥२६॥
ईहायां बहवो दोषाः संहारजननप्रदाः ।
ईहया दूष्यते चात्मा श्रेयस्तेन विलीयते ॥२७॥
अनर्हं योऽर्जयत्यत्राऽर्हं च त्यजति सर्वथा ।
स चान्ते संपरित्यक्तो भवेद् द्वाभ्यां ततोऽन्धगः ॥२८॥
एवं विचार्य मनुजैर्गृहस्थैस्तु विशेषतः ।
कर्मयज्ञोऽपि विधिना धनयज्ञोऽपि सद्धनैः ॥२९॥
कर्तव्यश्च समेष्टव्यो नारायणोऽहमेव च ।
इन्द्रो यज्ञैश्च विविधैः सुरराजोऽभवत् पुरा ॥३०॥
महादेवो महायज्ञे हुत्वाऽऽत्मानं बभूव सः ।
देवदेवो व्याप्य विश्वान् विष्टभ्येशानतां गतः ॥३१॥
आविक्षितो मरुतश्च यज्ञे श्रीं परिवेषिणीम् ।
प्राप सर्वप्रदां भक्त्या ययौ धाम ममापि च ॥३२॥
एवमन्ये पूर्वकल्पे कल्पान्तरेषु कर्मिणः ।
कर्मयज्ञेषु संयुज्य धनं चापि दिवं गताः ॥३३॥
कर्मयज्ञे वैष्णवत्वं सत्संगो हरितोषणम् ।
सतां सेवा भवन्त्येव तादृग्यज्ञं समाचरेत् ॥३४॥
अनीहश्चेत् सुसन्तोषी विन्दते ब्रह्म शाश्वतम् ।
सन्तोषो वै परं स्वर्गं परानन्दो हि तोषणम् ॥३५॥
तुष्टेः परं न वै किञ्चित् सुखं क्वापि प्रशस्यते ।
देही कामान् समाहृत्य स्वात्मन्येव प्रसीदति ॥३६॥
भयं नाऽस्य कुतस्ताद्वै नास्मात्तु कस्यचिद् भयम् ।
स्वयं हीनः कामरुड्भ्यां यदा तत्राऽऽत्मदृग् भवेत् ॥३७॥
अद्रोहः सर्वभूतानां सर्वाकांक्षाविवर्जितः ।
सर्वार्पणं हरौ प्राप्तो ब्रह्म सम्पद्यते स च ॥३८॥
यथा प्रवृत्तिर्येषां तु भूतानां रागवाहिनी ।
तत्र तेषां गतिश्चास्ति हर्यर्पणे तु शाश्वती ॥३९॥
केचित् साम प्रशंसन्ति प्रयत्नं चापरे जनाः ।
अन्ये ध्यानं प्रशंसन्ति चेतरे चाश्रयं शुभम् ॥४०॥
केऽपि यज्ञं प्रशंसन्ति सन्न्यासमपरेऽपि च ।
दानं चैके प्रशंसन्ति परे लान्ति प्रतिग्रहम् ॥४१॥
शान्तास्तूष्णीं स्थितिं प्राप्य परमेशं भजन्ति च ।
अशान्ता राज्यमिच्छन्ति यत्रोभयतुला समा ॥४२॥
एतद् विचार्य विज्ञानैः श्रयणीयं सुखप्रदम् ।
नैसर्गानुगमं श्रेयःप्रदं वै साधनं शुभम् ॥४३॥
अद्रोहेण तु भूतानां वर्तनं साधुसाधनम् ।
सतां मार्गः स वै प्रोक्तो यत्रात्मा नैव बध्यते ॥४४॥
राजा चेत् स सदा राज्ये वर्तेताऽद्रोहवर्त्मना ।
सत्येन संविभागेन दमेन दयया तथा ॥४५॥
ह्रिया दानेन देवेऽतिभक्त्या प्रजासु रक्षया ।
वशिभावेन च प्रियाऽप्रियतुल्यमनीषया ॥४६॥
यज्ञशिष्टादनेनाऽपि साध्वनुग्रहणेन च ।
तस्याऽयं च परो लोको भवेच्छ्रेष्ठफलोदयः ॥४७॥
एवं धर्मपराणां वै साधुसेवाजुषां सदा ।
प्रजारक्षार्थमेवाऽत्र युध्यतां धर्महेतवे ॥४८॥
भवेत् स्वर्गात्परे स्वर्गे सर्वोत्तमा गतिः शुभा ।
पूर्वे रुद्राश्च वसवश्चादित्या लोकपालिनः ॥४९॥
साध्या मरुतो विश्वेशा देवा धर्मं तथाविधम् ।
कृत्वा पुण्यैः परं स्वर्गं प्राप्तास्ततोऽत्र मानवाः ॥५०॥
तद्विधं धर्ममाश्रित्य यान्तु वै परमां गतिम् ।
गृहस्थं हि सदा देवाः पितरोऽतिथयस्तथा ॥५१॥
भृत्याः सन्तश्च सततं चोपजीवन्ति मानवाः ।
वयांसि पशवश्चापि भूतान्युपाश्रितानि च ॥५२॥
तपो यज्ञस्तथा विद्या भैक्ष्यमिन्द्रियसंयमः ।
ध्यानमेकान्तशीलत्वं तुष्टिर्ज्ञानं च सेवनम् ॥५३॥
विप्रधर्मा गृहस्थे ये ते कृष्णेऽर्प्याः सदा मयि ।
यज्ञो विद्या समुत्थानं श्र्यर्जनं दण्डधारणम् ॥५४॥
उग्रत्वं चरितं ज्ञानं प्रजावनं प्रदानकम् ।
राजधर्मा गृहस्थे ये ते कृष्णेऽर्प्याः सदा मयि ॥५५॥
धनार्जनं व्यवसायो दानं च पालनादिकम् ।
सस्योत्पत्त्यादिकं वैश्यधर्मा अर्प्या मयि प्रभौ ॥५६॥
सेवनं सहनं चाज्ञावर्तनं शेषभोजनम् ।
भृत्यत्वं शूद्रधर्मा येतेऽप्यर्प्या मयि माधवे ॥५७॥
पातिव्रत्यं गुरोः सेवा गृहसंस्करणादिकम् ।
अपत्यरक्षणं नारीधर्मा अर्प्याः प्रभौ मयि ॥५८॥
अध्ययनं खेलन च विकासनं च रञ्जनम् ।
नर्म साहसकं बालधर्मा अर्प्याः प्रभौ मयि ॥५९॥
कामो बलं स्वार्थदृष्टिर्विजयोऽतिविचारिता ।
अर्जनं योजनं युवधर्मा अर्प्याः प्रभौ मयि ॥६०॥
जल्पनं कम्पनं पारवश्यं चाशक्तिरुग्रता ।
आलस्यं चाऽवमानादि मय्यर्प्या वृद्धधर्मकाः ॥६१॥
ताडनं सहनं दुःखं दारिद्र्यं पशुतुल्यता ।
दण्डः पारुष्यमर्प्याश्च दीनधर्माः प्रभौ मयि ॥६२॥
हास्यं रतिर्विलासश्च प्रीतिर्दासीत्वमुग्रता ।
बन्धो निराश्रितेत्यर्प्या स्त्रीधर्मा वै प्रभौ मयि ॥६३॥
इत्येवं वर्तमानानां मय्येवार्पितचेतसाम् ।
समुद्धारं करोम्येव मृत्युवार्धिनिमज्जताम् ॥६४॥
पुरा शंखश्च लिखितो भूदेवसंभवौ मुनी ।
अभूतां भ्रातरावावसथावास्तां तयोः पृथक् ॥६५॥
नित्यं पुष्पफलैर्वृक्षैरुपेतौ बाहुदामनु ।
कदाचिल्लिखितश्चायादाश्रमे शंखपालिते ॥६६॥
शंखो नाऽभूदाश्रमे तु तदा वनान्तरं गतः ।
लिखितः पातयामास पक्वानि तु फलानि वै ॥६७॥
भक्षयामास तत्रैव तावच्छंख उपागतः ।
भ्रातरं प्राह चाऽपृष्ट्वा सस्वामिकानि वै त्वया ॥६८॥
पातितानि फलान्यत्र तव धर्मोऽत्र दूष्यति ।
त्वया स्तेयं कृतं चेदं फलान्याददता स्वयम् ॥६९॥
गच्छ राजानमासाद्य चौर्यं कर्म निवेदय ।
सोऽपि तूर्णं गतो भूपं न्यवेदयच्च कर्म तत् ॥७०॥
मया चौर्यं कृतं प्रायश्चित्तं तस्य प्रदेहि मे ।
सुद्युम्नो नाम राजाऽऽह यदि राजा मतस्तव ॥७१॥
तदाऽनुज्ञां मम विप्र गृह्णाऽन्यद् दण्डतो वृणु ।
एवमुक्तोऽपि ऋषिराट् वरयामास नेतरत् ॥७२॥
ततो राजा करौ प्रच्छेदयामास ऋषेस्ततः ।
धृतदण्डो ययौ विप्रो भ्रातरं प्रजगाम ह ॥७३॥
शंखस्तं प्राह धर्मिष्ठ भ्रातर्याहि च बाहुदाम् ।
ऋषीन् पितॄन् सुराँश्चैव तर्पयस्व यथाविधि ॥७४॥
ततः पुनः कदाचिद्वै नैवाऽधर्मे मनः कृथाः ।
शंखस्याऽऽज्ञां गृहीत्वैव लिखितो बाहुदां ययौ ॥७५॥
अवगाह्याऽऽपगां पुण्यां प्रायश्चित्तफलं मयि ।
समर्प्योदकदानार्थं यावद्विप्रः प्रचक्रमे ॥७६॥
प्रादुरास्तां करौ तावत्तस्य मय्यर्पणात्तदा ।
ततः कृत्वोदकदानं सर्वार्पणं सदा मयि ॥७७॥
समाचरत् स विप्रोऽत्र कर्मभूमौ निरन्तरम् ।
विज्ञायाऽर्पणमाहात्म्यं सर्वपापप्रणाशनम् ॥७८॥
राजा यो दत्तवान् दण्डः सोऽपि तेनाऽर्पितो मयि ।
उदकादिप्रदानं च लिखितेनाऽर्पितं मयि ॥७९॥
शंखेनाऽऽज्ञावचनं च तथैवाऽभ्यर्पितं मयि ।
एवं सर्वार्पणेनैते पूता मम प्रभावतः ॥८०॥
न वाग्दोषोऽस्ति शंखस्य दण्डदोषो न भूभृतः ।
हस्तदोषो नापि तथा लिखितस्य मदर्पणात् ॥८१॥
इत्येवं मानवा ये मां स्मृत्वा मयि समर्प्य च ।
भुञ्जते चापि वर्तन्ते निर्बाधास्ते ममाश्रिताः ॥८२॥
मामेवान्ते प्रयान्त्येव कर्मपाशविवर्जिताः ।
तथा यूयं राजवर्गाः प्रजावर्गाश्च सर्वशः ॥८३॥
मयि सर्वार्पणं कृत्वा भजित्वा यात धाम मे ।
अहमन्तेऽसुविगमे तूपस्थास्यामि गोचरः ॥८४॥
नयिष्येऽहं विमानेन मद्भक्तान् धाम मे परम् ।
भजनं मे प्रकुरुत प्रपूजयत मां सदा ॥८५॥
दृढाश्रयं मे कुरुत नयिष्ये धाम मे परम् ।
इत्युक्त्वा भगवानाह लोमशाय महात्मने ॥८६॥
देहि मन्त्रान् प्रजाभ्यश्च गृह्णन्तु भोजनं जनाः ।
इत्युक्तः स ददौ मन्त्रान् शरणागततारकान् ॥८७॥
अथ सर्वप्रजाः स्वस्वगृहान् ययुस्ततो हरिः ।
भोजनं राधिके चक्रे सर्वेऽपि भोजनं व्यधुः ॥८८॥
रात्रौ विश्रान्तिमासाद्य प्रातरुत्थाय सत्वरम् ।
कृतनित्यविधिः कृष्णो निषसाद निजासने ॥८९॥
तावद् राजा दुग्धपानादिकं कारयितुं प्रभुम् ।
प्रार्थयामास च हरिश्चकार दुग्धभोजनम् ॥९०॥
ताम्बूलकं चाददेऽपि प्रस्थानार्थमियेष च ।
अन्येऽपि कृतदुग्धादिभोजनाः प्रातरेव ह ॥९१॥
गन्तुं सज्जा बभूवुश्च तावद् राज्ञी सकन्यका ।
पूजनार्थं चाययौ च पुपूज परमेश्वरम् ॥९२॥
सप्तकन्याः कुमार्यश्च जगृहुश्च करं हरेः ।
करदानं तथा कृत्वा प्राप्य कान्तं परेश्वरम् ॥९३॥
वरमालादिकं प्राप्य कृतकृत्यास्तदाऽभवन् ।
ब्रह्मप्रियासु ताः सप्त मिलित्वा तद्विमानकम् ॥९४॥
आरुरुहुस्तदा राजा हरिं पुपूज चादरात्॥
प्रजा विदायदानं च ददुः राजोपदा ददौ ॥९५॥
तदा वाद्यान्यवाद्यन्त प्रस्थानसूचकानि वै ।
महीमाना विमानानि चारुरुहुस्ततः प्रभुः ॥९६॥
आरुरोह विमानं स्वं कुटुम्बेन च शंभुना ।
सह स्वेष्टजरेणापि मुनिना भक्तिशालिना ॥१७॥
राज्ञा च जयकृष्णवनाम्ना तदाऽर्थितो हरिः ।
अल्पकेत्वादिकान् वर्धयित्वाऽऽशीर्भिस्तदाऽम्बरे ॥९८॥
विमानेन गतिं चक्रे जयकृष्णवराष्ट्रकम् ।
अल्पाद्रिं च व्यतिक्रम्य स्वेष्टजराश्रयां भुवम् ॥९९॥
प्रापाऽम्बरे हरिकृष्णस्तथाऽन्ये व्योमवाहनाः ।
राहूनाया आपगाया मूलदेशेषु चाययुः ॥१००॥
राजा ऋषिर्ययतुश्च पूर्वं स्वागतसिद्धये ।
भूतलं चक्रतुस्तत्र वाद्याद्यैः स्वागतं हरेः ॥१०१॥
वरणां नगरीं दृष्ट्वा जहर्ष हरिरीश्वरः ।
विशालां शोभितां शृंगारितां च राधिके तदा ॥१०२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ऽल्पकेतोर्जीवन्यां नगर्यां श्रीहरेर्भमणं पूजनं सभायां शंखलिखितदृष्टान्तेनोपदेशनं भोजनं रात्रौ विश्रमणं
प्रातर्भोजनोत्तरं स्वेष्टजरर्षिदेशेषु जयकृष्णवनृपतेः षष्ठ्यां वरणानगर्यामागमनमित्यादिनिरूपणनामा पञ्चाशीत्यधिकशततमोऽध्यायः ॥१८५॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP