संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३७ Translation - भाषांतर श्रीकृष्ण उवाच-ततो नारायणः प्राह देवायतनकं मुनिम् ।शृणु त्वं राधिके! मण्डोवरादिकं यथायथम् ॥१॥प्रासादस्य कर्णरेखोपरि मण्डोवरः स्मृतः ।मण्डोवर उदयिनी उभिणीति समार्थकाः ॥२॥हस्तादिपञ्चहस्तस्य प्रासादस्योदयः खलु ।प्रासादाऽऽयतता साम्या कर्तव्या शुभदा हि सा ॥३॥दशहस्तप्रपर्यन्तं चतुर्दशांऽगुलोच्छ्रयः ।प्रतिहस्तं प्रकर्तव्यस्ततस्त्रिंशद्गजावधिम् ॥४॥द्वादशांगुलको मण्डोवरः कार्यस्ततः परम् ।पञ्चाशद्गजपर्यन्तं नवांगुलोभिणीं मता ॥५॥मण्डोवरस्य भागास्तु कर्तव्याः शिल्पिना यथा ।चतुश्चत्वारिंशदधिकशतं मण्डवारकः ॥६॥पीठस्य मस्तकाच्छज्जामस्तकान्तं च ते मताः ।खुरकः पञ्चभागेषु विंशतिः कुंभकस्तथा ॥७॥अष्टभागेषु कलशोऽन्तरालं सार्धकद्वयम्।कपोतिकाऽष्टभागेषु मञ्चिका नवभागिका ॥८॥पञ्चत्रिंशद्भागजंघा पञ्चदशसु तूद्गमः ।अष्टभागा च भरणी शिरावट्टी दशांशिका ॥९॥कपोतालिश्चाष्टभागा सार्धद्वयाऽन्तरालकम् ।छाद्यं त्रयोदशभागं दशभागश्च निर्गमः ॥१०॥खुरकः पञ्चभागोर्ध्वो द्विभागस्तस्य निर्गमः ।भागार्धं चान्तरपत्रं कर्णकस्तु द्विभागकः ॥११॥वापीस्कन्धः सार्धभागो भागैकः कणकोत्तमः ।कणकाग्रं पट्टिकाभ्यां शोभनीयं सुदर्शनम् ॥१२॥पट्टिके निर्गमे भागैके च बोध्ये नचाऽधिके ।कणको निर्गमे सपादैकभागो भवेदिति ॥१३॥कुंभकस्य महापंक्तावपस्कन्धस्य निर्गमः ।कर्णकावधि कर्तव्यस्त्वथ वै कुंभकं शृणु ॥१४॥विंशतिभागकोत्सेधः कुंभकस्तत्र खण्डशः ।भागार्धः स्कन्धपट्टो वै चिप्पिका त्वेकभागतः ॥१५॥स्कन्धपट्टः सुललितो वर्तुलश्चित्रपल्लवः ।कर्तव्यः शोभनो यत्र दृश्यं वै सुन्दरं भवेत् ॥१६॥चिप्पिकां कमलैः पत्रैः शोभनीयां विधापयेत् ।प्राच्यमध्यावसानेषु कुंभे ब्रह्मा हरिर्हरः ॥१७॥प्रतिमाः रूपतः स्थाप्या दर्शनार्हाः सहेतयः ।त्रिसन्ध्याभद्रशोभां च चित्राणि विविधानि च ॥१८॥स्कन्धपट्टे प्रकुर्याद्वै यथादृश्यं मनोहरम् ।नासिकाः कर्णनाम्न्यस्तु प्रतिरथिकाया दले ॥१९॥कोणेष्वेव मध्यगर्भे कार्याः सप्रतिमाः शुभाः ।स्तंभिकासु प्रकर्तव्यं तोरणं पद्मपत्रवत् ॥२०॥तथा कमलदण्डाद्यैः शोभितं सुस्वरूपवत् ।विचित्राकाररूपोऽयं कुंभकः श्रेष्ठको मतः ॥२१॥कुंभोर्ध्वे कलशः कार्यश्चाष्टभागः सुशोभनः ।षड्भागो मध्यभागोऽस्य कर्तव्यो वै सुशोभितः ॥२२॥वृत्तरूपः प्रकर्तव्यस्तस्योर्ध्वे चिप्पिका शुभा ।एकभागे प्रकर्तव्या पट्टबन्धऽपि शोभनः ॥२३॥रत्नयुक्तः प्रकर्तव्यस्तथा सार्धद्वयांऽशके ।अन्तरालं प्रकर्तव्यं दिव्यपुष्पादिशोभितम् ॥२४॥अथाऽष्टभागिका कार्या कपोताली शुभावहा ।भागार्धा स्कन्धपट्टी च स्कन्धः सपादकद्वयः ॥२५॥मुखपट्टी पादभागे द्विभागे कर्णपट्टिका ।स्कन्धस्यनिर्गमः सार्धभागद्वयात्मकः शुभः ॥२६॥भागार्धः स्कन्धपट्टश्च कर्तव्यो गलतायुतः ।मुखपट्टी च कर्तव्या तदधोऽग्रे गगारकाः ॥२७॥सन्मुखौ चतुरंगुलाः सदृशाः शोभना मताः ।ऊर्ध्वस्कन्धस्तु कर्तव्यो दलगर्भनिकासवान् ॥२८॥कपोताल्यंगगर्भोर्ध्वे कर्तव्या तु ठगारिका ।कपोताल्युपरि कार्या मञ्चिका नवभागिका ॥२९॥सपादभागं चान्तरपत्रकं च ततः परम् ।कामरूपं च पादोनं पट्टिका पादभागिका ॥३०॥स्कन्धो द्विभागः पादे च मुखपट्टी ततः परम् ।सपादाः कर्णकस्तद्वत् स्कन्धोऽपि च सपादकः ॥३१॥सपादान्तरपत्री च सार्धभागः कणस्तथा ।निर्वाणट्टिका पादे कर्तव्या शोभना शुभा ॥३२॥कपोताल्याः सूत्रदारै कर्तव्याश्च गगारकाः ।जंघास्तंभा निर्गमाढ्यास्तदधोवृत्तलुम्बिकाः ॥३३॥तदूर्ध्वे जंघिकाः कार्याः पञ्चत्रिंशत्सुभागगाः ।गोलस्तंभीयुता नासाफलनासहिताः शुभाः ॥३४॥सर्वासु मूलनासासु कार्याः स्तंभीचतुष्किकाः ।गजैः सिंहैर्गरुडैश्च मकरैर्हेसकैर्युताः ॥३५६॥कर्णेषु त्वष्टदिक्पालाः पूर्वाक्रमात् प्रदक्षिणे ।नृत्यन् रुद्रः पश्चभागेऽन्धकहन्ता स दक्षिणे ॥३६॥चण्डनाशकरी दंष्ट्रानना देवी तथोत्तरे ।प्रतिरथे सूत्रदेवास्तथा दिशाधिपा अपि ॥३७॥मुनीन्द्रा वारिमार्गेषु कर्तव्यास्तपसि स्थिताः ।गवाक्षकाश्च भद्रेषु कर्तव्या निर्गमान्विताः ॥३८॥पञ्चारभणकैः स्तंभैश्छाद्यैश्च तिलकैर्युताः ।ब्रह्मविष्णुमहादेवैः सुशोभिताः सुदर्शनाः ॥३९॥गवाक्षस्तम्भिकोर्ध्वेऽर्धगोलतोरणशोभिताः ।जंघासु दम्पती वापि पत्रयूथानि वा तथा ॥४०॥मञ्जर्यो वा तथा पर्य्यः कर्तव्याः शोभना यथा ।भरणी चाष्टभागोच्छ्राऽधश्छन्दो गोलरूपवान् ॥४१॥निर्गमा ग्रासपट्टी च भरणिस्कन्धिकावटी ।वर्तुला सा न कर्तव्या निर्गमे समसद्दला॥४२॥पादोनं कामरूपं च पादा स्यात् स्कन्धपट्टिका ।चिप्पिका चार्धभागा च सपादं कणकं तथा ॥४३॥पट्टिका चान्तरालं च पादं पादं स्मृतं सदा ।द्विभागः स्कन्ध आकार्यो भागार्धं कर्णकोत्पलम् ॥४४॥पट्टिका चान्तरालं च पादं पादं तथा मतम् ।भागार्धश्च तथा स्कन्धो बर्त्नं पादोनभागकम् ॥४५॥अन्तःपत्रं चार्धभागं कर्तव्यं कामनाप्रदम् ।नासोपांगेषु सर्वेषु कर्तव्याः पल्लवाः शुभाः ॥४६॥अशोकपल्लवाश्चापि सर्वकामप्रदा हि ते ।कणकेषु स्कन्धबन्धास्तमालपत्ररूपिणः ॥४७॥कर्तव्याश्च भरण्यूर्ध्वे गोलभागे प्रलीनिनः ।शिरावट्टिर्दशभागे कर्तव्या चोच्छ्रया शुभा ॥४८॥तत्र त्रिभागे कर्तव्या भारपुत्तलिकाः शुभाः ।पादोनस्तु भवेत् स्कन्धः पादोनः कर्णकस्तथा ॥४९॥अन्तरा चार्धभागं तदन्तरे पट्टकस्तथा ।वृत्ता शिरावटी पञ्चभागे कार्या सतन्त्रका ॥५०॥मौक्तिकाऽलंकृतियुक्ता कर्तव्या हीरकान्विता ।तदूर्ध्वे च कपोताली पादभागसुकल्पिता ॥५१॥सार्धद्विभागकं चान्तरालं कर्तव्यमेव तु ।छाद्यं त्रयोदशभागे कर्तव्यं तत्र वै यथा ॥५२॥अर्धभागा स्कन्धपट्टी त्रिभागः स्कन्ध एव च ।अर्धभागा मुखपट्टी चतुर्भागः छजोदयः ॥५३॥एकभागा दण्डिका चान्तरालं चतुरंशकम् ।सपादभागः कणको द्विभागः स्कन्ध इत्यपि ॥५४॥पादभागा स्कन्धपट्टी सर्वकामप्रपूरिका ।कपोताल्पाश्छाद्यनिर्गमस्तु दशांशको मतः ॥५५॥चतुर्भागो ह्यधः स्कन्धः सार्धैको मणिबन्धकः ।अग्रेचिप्पी त्वर्धभागा सर्वकामप्रदा भवेत्। ॥५६॥कामरूपं त्वेकभागं पादैकास्कन्धपट्टिका ।चिप्पिका चापि भागार्धा पादैका मुखपट्टिका ॥५७॥द्विभागः कणकश्चापि भागार्धो दण्डकस्तथा ।मणिबन्धस्य वै स्थाने त्रिभागे सारिलम्बनम् ॥५८॥निकारो दशभागश्च प्रवेशस्तु षडंशकः ।वारिमार्ग३तु षड्भागः प्रवेशोऽपि षडंशकः ॥५९॥भागस्य षोडशोंऽशस्तु पाणितारायतात्मकः ।एवं स्थिते दृढः स्याद्वै प्रासादो दीर्घजीवनः ॥६०॥कुंभादयः स्थराः सर्वे निर्गमे समसूत्रिणः ।पीठस्य निर्गमो बाह्ये तथैवाच्छादकस्य च ॥६१॥कुम्भस्तरप्रमाणं च प्रासादाऽऽयतता तथा ।बोद्धव्या मूलनासाभिर्यथायोग्या तु शिल्पिना ॥६२॥त्रिपञ्चसप्तनवक उपांगफालनोद्गमः ।बहिरेव हि बोद्धव्यः शिल्पिना चारुकर्मणा ॥६३॥कर्णं प्रतिरथं चैव कर्णिका चैव नन्दिका ।उपरथं च भद्रं च सुभद्रं चेति निर्गमे ॥६४॥यथा बहिर्मूलसीम्नो भवेत्तथा भवेदिति ।सप्तनासाः प्रकर्तव्या भद्रार्धे वै षडंशके ॥६५॥प्रथमा त्वष्टभागैश्च द्वितीयैका दशांशिका ।तृतीयाऽप्यष्टभागा च प्रान्ते सार्धचतुष्टया ॥६६॥भद्रार्धं स्याद्धि षड्भागं पूर्णं तु द्वादशांशकम् ।वास्तुक्षेत्रं चाष्टकोणं कर्तव्यं देवतालये ॥६७॥दृष्टिकानां स्तरे भित्तिः पादस्थूला मता सदा ।पाषाणभित्तिका बोध्या षडंशाऽवधिकेति च ॥६८॥काष्ठप्रासादभित्तिश्च सप्तमांऽशात्मिका मता ।स्वर्णरूप्यादिभित्तिश्च माणिक्याद्या दशांशिका ॥६९॥भ्रमणी चापि कर्तव्या प्रासादस्य दशांशतः ।भ्रमणीमध्यकोणाद्या नेयाश्चोपरि तत्क्रमात् ॥७०॥पञ्चाशद्गजसौधे च भद्रवद् भ्रमणोर्ध्वना ।मण्डपोऽपि भ्रमयुक्तः कर्तव्यः स्तंभसंधृतः ॥७१॥दीपालयं प्रकर्तव्यं प्रासादे दक्षिणेंऽशके ।प्रासादव्यासभागार्धा कर्तव्या कोलिका तथा ॥७२॥तदूर्ध्वं शुकनासश्च कर्तव्यो वै सुशोभनः ।द्वारं पूर्वे पश्चिमे चोत्तरे कार्यं न दक्षिणे ॥७३॥गजप्रासादके द्वारं षोडशांगुलमुच्छ्रितम् ।चतुर्गजप्रपर्यन्तं प्रतिहस्तं तु षोडशम् ॥७४॥अंगुलानां वर्धनीयं त्र्यंगुलं चाष्टहस्तके ।पञ्चाशद्गजपर्यन्ते द्व्यंगुलं प्रतिहस्तकम् ॥७५॥दैर्घ्याऽर्धेन पृथुत्वं च द्वारस्य शोभनं सदा ।ऊर्ध्वतायाः षोडशांऽशोऽधिकोऽर्धे निहितो यदि ॥७६॥श्रेष्ठं द्वारं भवेत् तद्धि सर्वसम्पत्सुखप्रदम् ।विमानपुष्पजातीनां प्रासादे नागरं शुभम् ॥७७॥नवशाखं प्रकर्तव्यं द्वारं वै वैष्णवं हि तत् ।ध्वजायस्तु प्रदातव्यो द्वारं प्रासादसूत्रतः ॥७८॥तलच्छन्दानुसारेण द्वारशाखा विभाजयेत् ।नवांगे नवशाखा वै कर्तव्यास्त्र्यंशके शुभाः ॥७९॥आयदोषविशुद्ध्यर्थं ह्रस्ववृद्ध्यावपि मते ।मध्यपेटे द्वारपालाः कर्तव्याः सुमनोहराः ॥८०॥पार्श्वशाखास्वपि सूक्ष्मा वल्लयः शोभिता मताः ।शाखोच्छ्रयचतुर्थांऽशे द्वारपालौ मतौ शुभौ ॥८१॥वामे च यमुना दक्षे गंगा तथैव चोभये ।गान्धर्व्यश्चाथ गन्धर्वाः कर्तव्या वाद्यसंयुताः ॥८२॥गजाश्च गरुडाश्चापि हंसा अश्वाश्च पार्षदाः ।देवा वा यत्र योग्याः स्युः कर्तव्या नवशाखके ॥८३॥शाखायास्तत्र कर्तव्या भागा एकादशाऽऽयताः ।रूपस्तम्भौ च द्वौ कार्यौ द्विभागौ कोणिकायुतौ ॥८४॥पादोनद्वयभागेन निर्गमस्तत्र शोभनः ।प्रथमा पत्रशाखा च गन्धर्वा च द्वितीयका ॥८५॥रूपस्तंभा तृतीया च खल्वशाखा चतुर्थिका ।गन्धर्वा पञ्चमी चापि रूपस्तंभश्च षष्ठकः ॥८६॥सप्तमी रूपशाखा च खल्वशाखा तथाऽष्टमौ ।नवमी सिंहशाखा च यथेष्टशोभनाऽथवा ॥८७॥शाखापेटकविस्तारः प्रवेशायतपञ्चमः ।स्थाप्यदेवस्य मूर्तिश्चोत्तरंगे शाखिदेवयुक् ॥८८॥यद्वा गणेशको देवो देवाः सपरिवारकाः ।देव्यो ब्रह्मप्रियाश्चापि कर्तव्या उत्तरंगके ॥८९॥मूलकर्णस्य सूत्रेण कुंभेनोदुम्बरं समम् ।कर्तव्यं पञ्चरत्नानि निहितव्यान्यधस्स्तरे ॥९०॥द्वाराऽऽयत्यतृतीयांऽशे मध्ये मन्दारिको मतः ।अर्धचन्द्रसमाकारो मृणालपत्रसंयुतः ॥९१॥मृणालाऽधो जाड्यकुंभः कणाली कणपीठकः ।मृणालस्य द्वयपार्श्वे कोणिका ग्रासयोर्मुखे ॥९२॥उदुम्बरस्य पार्श्वे च शाखारूपतिलानि च ।उदुम्बरोच्छ्रयः कार्यः कुंभात् पादोनकः शुभः ॥९३॥खुरकेण समो बोध्योऽर्धचन्द्रस्योच्छ्रयः सदा ।यथा द्वाराऽऽयतलम्बो निर्गमे तु तदर्धकः ॥९४॥भागद्वयाऽर्धचन्द्रे चाऽर्धार्धभागे गगारकौ ।पार्श्वद्वये प्रकर्तव्यौ शोभनौ च सुरूपिणौ ॥९५॥चन्द्रगगारयोर्मध्ये शंखः चम्पकवल्लियुक् ।चन्द्रेऽपि कमलं कार्यं .शोभितं स्मृद्धिदं हि तत् ॥९६॥इत्येवं राधिके! सर्वमान्तरागं तवोदितम् ।देवायतनकं प्राह यच्छ्रीकृष्णनरायणः ॥९७॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपे मण्डोवरकुंभीछज्जुनासामण्डपद्वारोदुम्बरादिनिरूपणनामा सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP