संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १४२ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १४२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १४२ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके! चान्यसुरमूर्तीर्वदामि ते ।अनादिश्रीकृष्णनारायणो यदाह भक्तकम् ॥१॥अंगप्रत्यंगभग्नां तु मूर्तिं विसर्जयेज्जले ।नखाऽऽभरणमालाऽस्त्रभग्नां तां न विसर्जयेत् ॥२॥ऋग्वेदादिचतुर्भेदात् सत्ययुगादिभेदतः ।ब्राह्मादिवर्णभेदाच्च चतुर्मुखो हि विश्वसृट् ॥३॥दक्षिणार्धः करादूर्ध्वं जपमालां तथा स्रुचम् ।ग्रन्थं कमण्डलुं धत्ते सश्मश्रुः कमलासनः ॥४॥अक्षसूत्रं पुस्तकं च धत्ते पद्मकमण्डलू ।चतुर्वक्त्रा हि सावित्री श्रोत्रियाऽऽनन्दकारिणी ॥५॥ऋग्वेदः श्वेतवर्णश्च द्विभुजो रासभाननः ।अक्षमालाम्बुपात्रं च बिभ्रन् स्वाध्ययने रतः ॥६॥अजाऽऽस्यः पीतवर्णश्च यजुर्वेदोऽक्षसूत्रवान् ।वामे चांकुशपाणिस्तु भूतिदो मंगलावहः ॥७॥नीलोत्पलदलाभासः सामवेदो हयाननः ।अक्षमालाधरः सव्ये वामे कम्बुधरः स वै ॥८॥अथर्वणाभिधो वेदो धवलो मर्कटाननः ।अक्षसूत्रं च खष्ट्वांगं बिभ्रन् वै विजयप्रदः ॥९॥विश्वकर्मा चतुर्बाहुरक्षमालां च सूत्रकम् ।गजं कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥१०॥सुदर्शनकरा सव्ये पद्महस्ता तु वामतः ।एतद् विष्णुनामकस्य रूपं सूर्यस्य कीर्तितम् ॥११॥सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।द्विभुजं चैकवस्त्रं च श्वेतपंकजधृक्करम् ॥१२॥वर्तुलं तेजसां बिम्बं मध्यस्थं रक्तवाससम् ।सप्ताननहयैर्युक्तं रथेऽरुणेन संयुतम् ॥१३॥विष्णुर्गणेशः सूर्यश्च शक्तिः रुद्रश्च देवताः ।पञ्चायतनरूपाश्च बोध्याः सर्वत्र शोभनाः ॥१४॥नवांशा तत्र कर्तव्या मूर्तिर्नारायणस्य वै ।शंखपद्मगदाचक्रधारिणी मुकुटान्विता ॥१५॥हरिर्धारयते कम्बुं चक्रं पद्मं गदां तथा ।कृष्णो धत्ते पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥१६॥गरुडो हरितो रूपे कौशिकाकारनासिकः ।चतुर्भुजो वृत्तनेत्रमुखः पक्षद्वयाऽन्वितः ॥१७॥गृध्रोरुजानुचरणः स्वर्णवर्णः कलायुतः ।छत्रं कुम्भं धारयेश्चांऽजलिं कुर्वन् नमोयुतः ॥१८॥वामाग्रे कुञ्चितः पश्चादन्यपादस्तु जानुना ।पृथिवीं संश्रितः पत्रो गरुडासनसंस्थितः ॥१९॥उमामहेश्वरो दक्षे करे त्रिशूलकं तथा ।मातुलिंगं समाधत्ते आलिंगितं तु वामके ॥२०॥अंके स्वे पार्वतीं देवीं समासीनां शुभाननाम् ।नागेन्द्रोऽन्यकरे स्कन्धे उमाहस्तोऽतिशोभनः ॥२१॥करान्ये दर्पणं चापि वृषभोऽधःस्थितस्तथा ।कुमारेण गणेशेन भृंगीरटादिभिर्युतः ॥२२॥उमां च द्विभुजां कुर्याल्लक्ष्मीं नारायणाश्रिताम् ।हरिः शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितः ॥२३॥दक्षिणः कण्ठलग्नः स्याद् वामहस्तः सरोजधृक् ।हरेर्वामकरो लक्ष्म्याः कुक्षिभागे स्थितः शुभः ॥२४॥वरं त्रिशूलरेखे च पानपात्रं सुबिभ्रती ।मयूरं च हस्तिं च महालक्ष्मीः प्रकीर्तिता ॥२५॥अष्टपत्राम्बुजस्योर्ध्वे लक्ष्मीः सिंहासनस्थिता ।विनायकवदासीना भूषिताऽऽभरणैः शुभैः ॥२६॥ऊर्ध्वहस्तौ प्रकर्तव्यौ देव्याः पंकजधारिणौ ।वामेऽमृतघटं धत्ते दक्षिणे मातुलिंगकम् ॥२७॥एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता ।प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥२८॥अक्षाऽब्जवीणाग्रन्थाढ्या महाविद्या प्रकीर्तिता ।वराक्षाऽब्जग्रन्थयुक्ता सरस्वतीशुभावहा ॥२९॥भित्तिसंलग्नबिम्बश्च पुरुषः सर्वथाऽशुभः ।न कदापि ध्वजादण्डः स्थाप्यो वै गृहमन्दिरे ॥३०॥रवावुत्तरगे श्रेष्ठं देवानां स्थापनादिकम् ।अभिषेकः प्रतिष्ठा च प्रवेशः पूजनादिकम् ॥३१॥प्रासादाऽग्रे तथैशाने चोत्तरे मण्डपोगजैः ।त्रिपंचसप्तनवैकादशभिश्चान्तरालके ॥३२॥पृथ्वीं पूर्वं शोधयित्वा दाहखातजलार्पणैः ।पुण्याहं वाचयित्वा च पूजयित्वा च कूर्मकम् ॥३३॥शेषनागं क्षितिं चापि पूजयित्वा ततः परम् ।शुद्धपूर्वां दिशं मण्डपार्थं प्रसाधयेद् यथा ॥३४॥सूत्रेण वर्तुलं कृत्वा मध्ये शंकुं प्ररोपयेत् ।उदयाऽस्तसमयस्य रेखाभ्यां साधयेद् दिशम् ॥३५॥अष्टदशद्वादशषोडशाऽष्टादशहस्तकः ।षोडशादिस्तंभयुक्तो विंशतिहस्तकोऽपि वा ॥३६॥वितस्त्युच्छ्रायतलवान् गजोच्छ्रायतलोऽपि वा ।द्वितीये मण्डपे कार्ये चाद्यमण्डपमानतः ॥३७॥तावद्धस्तप्रमाणं च त्यक्त्वा कार्योऽन्यमण्डपः ।मण्डपे नवभागे च मध्यभागा तु वेदिका ॥३८॥मण्डपस्य तृतीयांशा वेदिका मध्यगा मता ।अष्टांगुलाधिकद्विहस्तप्रमाणमितानि वै ॥३९॥चतुर्द्वाराणि रम्याणि तोरणाद्यैर्द्युमन्ति च ।कर्तव्यान्यथ च ध्वजान् कथयामि निबोध मे ॥४०॥अष्टध्वजा रोपणीयाः पूर्वादिक्रमतो यथा ।द्विद्वगजायताः पंचपंचगजप्रलम्बनाः ॥४१॥पूर्वे पीतो हस्तिचित्र इन्द्रध्वजः स उच्यते ।अग्नौ रक्तश्चोरणाऽऽस्यचित्रवानग्निदैवतः ॥४२॥दक्षे कृष्णो महिषाढ्यो यमध्वज सः उच्यते ।नैर्ऋत्ये नीलवर्णश्च सचित्रो राक्षसो ध्वजः ॥४३॥पश्चिमे श्वेतवर्णश्च मकरास्यश्च वारुणः ।वायौ हरितो मृगवान् वायुध्वजः स उच्यते ॥४४॥उत्तरे श्वेतवर्णश्च हस्तिचिह्नः कुबेरकः ।ईशाने श्वेतवर्णश्च वृषचित्रयुतो ध्वजः ॥४५॥दशहस्तदीर्घवंशशीर्षे धृत्वाऽर्पयेद्धि तान् ।वंशा भूमौ रोपणीया दार्ढ्यस्य हेतवे खलु ॥४६॥मण्डपस्य मध्यभागे सप्तहस्तसुदीर्घकः ।त्रिहस्तायत एवापि किंकिणीजालकान्तकः ॥४७॥मिश्ररंगश्चामराढ्यः प्रदातव्यः शुभो मतः ।दशहस्तवंशशीर्षे सुदृढः शोभनो भवेत् ॥४८॥सप्तसप्तहस्तदीर्घा एकैकहस्तकाऽऽयता ।त्रिकोणाकृतिका तत्तदायुधाढ्या च वंशगा ॥४९॥वज्रशक्तिदण्डखङ्गपाशांकुशगदास्तथा ।त्रिशूलं चेति क्रमशो बोध्यान्यायुधकानि च ॥५०॥पूर्वोक्तरंगयुक्ताश्च पताकास्तु समन्ततः ।पताका नवमी श्वेता मध्ये चेशानपूर्वयोः ॥५१॥पुष्पाद्यैः पूजयित्वा तां रोपयेद् दण्डशीर्षसु ।अपि कुण्डविधिं वच्मि मण्डपान्तरभूमिषु ॥५२॥दशहस्तेभ्य आरभ्य षोडशगजसम्मिते ।वेदीं मण्डपमध्ये च कुण्डं कुण्डाँस्तथा शुभान् ॥५३॥पञ्चाऽष्टौ नव वा कुर्यात् पूर्वादिक्रमशः खलु ।पूर्वे चतुष्कोणकं च योन्याकारं तथाग्निके ॥५४॥अर्धचन्द्रं दक्षिणे तु नैर्ऋत्ये तु त्रिकोणकम् ।पश्चिमे वर्तुलं कुर्याद् वायौ षट्कोणमेव च ॥५५॥उत्तरेऽष्टदलपद्माभमष्टास्रकमीशिनि ।वृत्तो वा चतुरस्रो वा पूर्वेशानसुमध्यके ॥५६॥आचार्य कुण्डनामाऽसौ सदिक्पालादिकुण्डवान् ।यद्वा कुर्यात् पञ्चकुण्डीः पूर्वे सा चतुरस्तिका ॥५७॥अर्धचन्द्रसमा दक्षे वृत्ता तु पश्चिमे च सा ।उत्तरे पद्मरूपा च ईशाने वर्तुलाऽथवा ॥५८॥चतुरस्रा च कर्तव्या रूपान्तरप्रभेदतः ।एक एव यदीष्टः सः चतुरस्रो मतो हिः सः ॥५९॥पश्चिमे चोत्तरे वा चैशाने वा कार्य एव सः ।सपादगजदूरे वै वेद्याः सर्वे च कुण्डकाः ॥६०॥यद्वा वेदीचतुर्भागाऽन्तरालाऽन्ते मता हि ते ।चतुरस्रो ब्रह्मणानां क्षत्रियाणां तु वर्तुलः ॥६१॥अर्धचन्द्रः स वैश्यानां शूद्राणां स त्रिकोणकः ।यद्वा चतुष्कोण एव सर्वेषां वर्तुलोऽथवा ॥६२॥नारीणां योनिकुण्डो वै सम्मतः सर्वथा शुभः ।मेखलायोनियुक्तश्च हस्तमात्रो हि कुण्डकः ॥६३॥होमायुतं हस्तमात्रे लक्षार्धं तु द्विहस्तके ।लक्षहोमं त्रिहस्ते च दशलक्षं चतुष्किके ॥६४॥त्रिंशल्लक्षं पञ्चहस्ते कोट्यर्धं तु षडस्रके ।सप्तकेऽशीतिलक्षं च कोटिहोमं गजाष्टके ॥६५॥पञ्चाशद्धवने कुर्यादेकविंशतिकांगुलम् ।शतहोमे सार्धद्वाविंशतिकांगुलकं तथा ॥६६॥सहस्तहवनार्थं तु हस्तैकमानवान्मतः ।होमाऽयुताय द्विगजो लक्षे चतुर्गजात्मकः ॥६७॥षड्हस्तो दशलक्षार्थं कोटिहोमार्थमेव तु ।अष्टहस्तो दशहस्तोऽथवा षोडशहस्तकः ॥६८॥सूक्ष्मं हविस्तिलघृतं मध्यं द्राक्षायवादिकम् ।स्थूलं बिल्वं नारिकेलं समिधादि प्रकीर्तितम् ॥६९॥यादृशं तु भवेद् द्रव्यं तथा कुण्डोऽप्यपेक्षितः ।यद्वा कुण्डं प्रतिलक्षं गजमानं विवर्धयेत् ॥७०॥दशलक्षप्रपर्यन्तं दशहस्तं विधापयेत् ।यद्वा सप्तगजः पञ्चाशल्लक्षहवनार्थकः ॥७१॥दशलक्षहवनाय पञ्चहस्तमितोऽपि वा ।विंशतिलक्षहोमार्थं षङ्गजः कुण्डको मतः ॥७२॥लक्षार्धहवनार्थं त्रिहस्तकः कुण्ड इत्यपि ।कुण्डस्य गाधता क्षेत्रसमा समेखला मता ॥७३॥विनापि मेखलां समा गाधताऽपि प्रकीर्तिता ।चतुर्विंशत्यंशके द्वादशांशः कुण्डकण्ठकः ॥७४॥एका द्वे तिस्र एता वा द्वे तिस्रः पञ्च मेखला ।क्षेत्रभागाष्टके पञ्चभागां गाधां खनेत् ततः ॥७५॥त्रिभागे मेखलाश्चोर्ध्वे तिस्रः कार्या विधानतः ।ऊर्ध्वा चतुरंगुला च मध्या त्र्यंगुलका मता ॥७६॥निम्ना भागद्वयाढ्या च मेखला शुभदा मता ।चतुरस्रं गजमात्रं चतुरंगुलकोच्छ्रयम् ॥७७॥एकांगुलोच्छ्रयं वापि स्थण्डिलं होमवेदिका ।विशालायां वेदिकायाम् एकद्वित्रगजायतम् ॥७८॥सर्वतोभद्रकं नाम मण्डलं कार्यमेव च ।अष्टौ द्वात्रिंशदेवाऽपि चतुष्षष्टिश्च वा द्विजाः ॥७९॥ऋत्विजो वैदिकाश्चाभिमन्त्रणीयाः क्रियाविदः ।मण्डपस्य त्रिभागेन चोत्तरे स्नानमण्डपः ॥८०॥तत्र वै स्थण्डिले शैले वालुके छाययान्विते ।प्रतिमाः स्नपयितव्याः पञ्चगव्यैः कषायकैः ॥८१॥स्नापयेच्छतकलशवारिभिर्वल्कलान्विताः ।वेदमन्त्रैश्च वादित्रैर्गीतिमंगलकीर्तनैः ॥८२॥वेदीपार्श्वे मण्डपाधो वस्त्रेणाच्छादयेत् सुरान् ।तुलामारोपयेद् वेद्यामुत्तरादौ च तां न्यसेत् ॥८३॥कलशं तु शिरोदेशे पादस्थाने कमण्डलुम् ।व्यजनं पृष्ठदेशे च दर्पणं वामभागके ॥८४॥वज्रवैदूर्यमुक्ताश्च त्विन्द्रनीलं सुनीलकम् ।पुष्परागं च गोमेदं प्रवालं पूर्वदिक्क्रमैः ॥८५॥सुवर्णं रजतं ताम्रं कांस्यं रीतिं च सीसकम् ।वंगं लोहं च पूर्वादौ क्रमाद् धातूनिहाऽर्पयेत् ॥८६॥वज्रं वह्निशिखां सहदेवीं तुलसीपत्रकम् ।इन्द्रवारुणिकां शंखावलीमुद्यावलीं तथा ॥८७॥त्वरितां पूर्वक्रमतश्चौषधीः स्थापयेत्तथा ।यवं व्रीहिं च कङ्गूं च जवरीं च तिलानि च ॥८८॥अक्षकान् मुद्गकान् गोधूमकान् पूर्वादितः क्रमात् ।महोत्सवं नृत्यगीतनैवेद्यारार्त्रिकादिभिः ॥८९॥अंगन्यासादिभिश्चापि प्रतिष्ठाविधिमाचरेत् ।देवार्पितं वस्त्रभूषादिकं ददेत्तु शिल्पिने ॥९०॥यज्ञार्पितं समग्रं तु दद्यादाचार्यरूपिणे ।प्रासादे देवतान्यासान् प्रत्येकांगेषु कारयेत् ॥९१॥वाराहं खरशिलायां नागं तु वारिमार्गगे ।कुंभीषु जलदेवं च पुष्पकण्ठेऽसुराँस्तथा ॥९२॥जाड्यकुंभे नन्दिनीं च विष्णुं कर्णिकयोस्तथा ।गजपीठे गणेशं च ह्यश्वपीठे तथाऽश्विनौ ॥९३॥नरपीठे नगाँश्चैव क्षुरके मेदिनीं तथा ।सन्ध्यात्रयं भद्रकुंभे कलशे पार्वतीं तथा ॥९४॥कपोताल्यां च गन्धर्वान् मञ्चिकायां सरस्वतीम् ।जंघायां तु दिशांपालान् उद्गमे चेन्द्रदेवताम् ॥९५॥सावित्रीं तु भरण्यां च शिरावट्यां तु देविकाः ।विद्याधरीं पुष्पकण्ठे सुराँश्चायन्तरालके ॥९६।.।पर्जन्यं कूटच्छाद्ये च शाखयोः सूर्यचन्द्रकौ ।उत्तरंगे त्रिदेवाँश्चोदुम्बरे यक्षकं तथा ॥९७॥शंखावटेऽश्विनीपुत्रो कोल्यां शेषं क्ष्मां पट्टके ।स्तंभे पर्वतदेवाँश्च घूम्मटे व्योमदेवताः ॥९८॥मध्ये मुख्यं च देवं च परनाले तु जाह्नवीम् ।शिखरस्योरुशृंगेषु ब्रह्मविष्णुहरेश्वरान् ॥९९॥इन्द्रं चेति पञ्चदेवान् प्रासादे त्रीन् सुरेश्वरान् ।शिखरे चैश्वरं देवं कलशे त्विन्द्रमेव च ॥१००॥ग्रीवायाममरं चामलसारे तु निशाचरम् ।पद्मपत्रे तु पद्माक्षं कलशो तु सदाशिवम् ॥१०१॥छाद्यवामेवऽघोरदेवं दक्षे तत्पुरुषं तथा ।भैरवं स्थापयेच्चापि प्रासादे पञ्चभागके ॥१०२॥देवं प्रतिष्ठितं पूर्वं ब्रह्मकन्या विलोकयेत् ।ततोऽन्ये दर्शनं कुर्युः साधुसाध्व्यो विरागिणः ॥१०३॥ततो वै गृहधर्माणस्तेन देवप्रतोषणम् ।प्रार्थयेद् यजमानस्तु पुण्यं वै सूत्रधारतः ॥१०४॥सूत्रधारो वदेच्छ्रेष्ठिन्नक्षयं भवतात्तव ।सूत्रधाराय शिल्पिभ्यौ दद्यात् पूजोपदादिकम् ॥१०५॥महोत्सवं भोजनाद्यैः कुर्यात् कथादिभिस्तथा ।इत्येवं राधिके कर्म ते मयोक्तं हरेर्मतम् ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे ब्रह्मवेददेवदेवीप्रभृतिमूर्तिमानोपमण्डप कुण्डसंक्षिप्तप्रतिष्ठादिप्रदर्शननामा द्वाचत्वारिंशदधिकशत-तमोऽध्यायः ॥१४२॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP