संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १०१

त्रेतायुगसन्तानः - अध्यायः १०१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके! चक्रवाकी सा पुनः पप्रच्छ मातरम् ।
किमर्थं हरिणा त्यक्ता भवतीति वदाऽत्र मे ॥१॥
इति पृष्टा जननी सा लक्ष्मीरुवाच पुत्रिकाम् ।
हेमशालायनाय श्रीकृष्णः प्राह कथामृतम् ॥२॥
शृणु त्वं ते कथयामि भक्तार्थं भगवानपि ।
यथा त्यजति लक्ष्मीं च तत्राऽन्यस्य तु का कथा ॥३॥
महावैकुण्ठलोके श्रीनारायणपरेश्वरः ।
सेव्यते सततं भक्त्या महावैकुण्ठवासिभिः ॥४॥
यथा लक्ष्म्या तथा सर्वैस्ततोऽप्यधिकभावनैः ।
कृष्णानाम्नी सखी लक्ष्म्या लक्ष्म्यधिका च सेवने ॥५॥
स्वगृहे सततं नारायणं रक्षति भामिनी ।
स्नानं सुगन्धलेपैश्च सा स्वयं कुरुते प्रिया ॥६॥
अंगानां मर्दनैः सम्यक् क्षौरकर्मादिभिः सह ।
वस्त्रालंकारभूषाद्यैः शृंगारयति सा सखी ॥७॥
पूजाभोजनपानाद्यैः शय्योपस्करणादिभिः ।
हसनैर्हास्यभेदैश्च सेवाभेदैर्निरन्तरम् ॥८॥
प्रेमभेदैश्च बहुभिः सर्वार्पणैर्दिवानिशम् ।
क्षणं वियुक्ता नैवाऽऽस्ते स्वदेहमिव कृष्णिका ॥९॥
व्यवस्थायां सदा कृष्णकृष्ण चेति रटत्यपि ।
त्रिदेहैः सेवते नारायणं कृष्णं पतिं प्रियम् ॥१०॥
एवं तस्या भ्रातरौ द्वी पार्षदौ जयचन्द्रकौ ।
सर्वं वै कर्मकाण्डं स्वं चार्पयामासतुर्हरौ ॥११॥
महाभागवत्तौ नित्यं नारायणपरायणौ ।
हरौ सर्वसुखौ कृष्णं विना क्षणविवर्जितौ ॥१२॥
तापसौ च जपमालापरायणौ हरिप्रियौ ।
इन्द्रियाऽन्तःकरणानां कृष्णे वृत्तिसमन्वितौ ॥१३॥
नवधा भक्तिसम्पन्नौ ध्यानयोगपरायणौ ।
सर्वस्वार्पणभावौ तौ भजेते परमेश्वरम् ॥१४॥
कृष्णस्तत्रापि वसति यत्र तद्भ्रातृसंस्थितिः ।
साक्षात् कृष्णो निवसति किशोरस्तद्गृहे सदा ॥१५॥
धेनुपालोऽपि गोपेशो गोपाल इव सर्वदा ।
कृष्णनारायणसेवामग्नोऽभवत् पिता तयोः ॥१६॥
आत्मसमर्पणैः कृष्णमूर्त्यात्मको यथा तथा ।
अवर्तत हरौ प्रेम्णा सर्वसेवापरायणः ॥१७॥
अथैकदा ते चत्वारो लक्ष्मीनारायणाय वै ।
उपदा विविधा दातुमाययुर्निजमन्दिरम् ॥१८॥
अदृश्यरूपतो नारायणश्चायाति तैः सह ।
तदा दिव्ये महामहाप्रासादे चान्तरगृहे ॥१९॥
शयने श्रीमहालक्ष्म्या सेवितः श्रीनरायणः ।
प्रेमसेवां महालक्ष्म्या गृह्णन्नास्तेऽतितन्मयः ॥२०॥
महालक्ष्मीः प्रेममग्ना नारायणांगयोगिनी ।
परब्रह्ममहानन्दवार्धिमग्नाऽभवत् प्रिया ॥२१॥
चिरसेवाभिलाषा सा चिरानन्देच्छया हरेः ।
बियोगेच्छारहिता श्रीहर्याश्लेषयुताऽभवत् ॥२२॥
एतस्मिन् समये ते तु चत्वारोऽपि सुसेविकाः ।
उपदाः संगृहीत्वैव द्वारमागत्य सत्वरम् ॥२३॥
कृष्णनारायण विष्णो परमेश्वरकेशव ।
हृषीकेश हृदयस्य भक्तेभ्यो देहि दर्शनम् ॥२४॥
इत्येवं चार्थनाशब्दं चक्रुर्भक्तिसमन्वितम् ।
भगवाँस्तं भक्तशब्दं श्रुत्वा शय्यां विहाय तु ॥२५॥
उत्थाय शीघ्रं द्वारस्थं पालं त्वाज्ञापयद् द्रुतम् ।
प्रवेशार्थं, ततश्चापि स्वां त्यक्त्वाऽतिसुखप्लुताम् ॥२६॥
गतं पतिं न सोवाच किञ्चिद् दासी पतिव्रता ।
साक्षान्नारायणानन्दवियोगार्ताऽपि सा प्रिया ॥२७॥
प्रतीक्षते हरिं शीघ्रं समायात् केशवश्च माम् ।
रामयेतेति चिन्ताढ्या शयने सुस्थिराऽभवत् ॥२८॥
तावद् भक्तान् समादाय कान्तो नारायणः प्रभुः ।
प्रविवेश गृहान्तःस्थं सिंहासनं युतस्तु तैः ॥२९॥
समाजुहाव लक्ष्मीं स्वां नारायणः शुभासने ।
लक्ष्मीः प्रसन्नवदना नारायणाभिशब्दिता ॥३०॥
समाययौ तदा तूर्णं सिंहासने हरिं प्रति ।
साकं श्रीहरिणा लक्ष्मीरुपविष्टाऽऽसनेऽभवत् ॥३१॥
चत्वारस्तेऽति सद्भक्त्याऽर्पयामासुस्तदाऽऽहृताः ।
विविधा उपदाः सर्वा भोज्यपानावलेहनम् ॥३२॥
शृंगारवस्तुसामग्रीर्वस्त्रभूषासुमालिकाः ।
अनेकहारहारालीः स्थालीमौक्तिकसंभृताः ॥३३॥
फलपुष्पसुगन्धाढ्यान् पदार्थान् सद्रसान्वितान् ।
लक्ष्मीशृंगारयोग्याँश्च ददुर्नारायणाय ते ॥३४॥
लक्ष्म्यै ददुश्च ते तत्र पुपूजुश्चातिभक्तितः ।
तस्थुः स्तुतिं प्रचक्रुश्च ध्यानमग्नास्तदाऽऽभवन् ॥३५॥
पूजां कृत्वोपदा दत्वा नोत्तस्थुश्च यदा चिरम् ।
लक्ष्मीः रोषं गता विघ्नरूपाणामुपरि द्रुतम् ॥३६॥
अप्रकाशं च रोषं सा प्रकाशयति नो बहिः ।
नैव वक्तुं समर्थाऽपि हरेरिच्छा विना तु तान् ॥३७॥
नोत्थितुं च समर्थाऽस्ति नारायणं विहाय तु ।
सरोषा चिन्तयत्येव कदा यास्यन्ति भक्तकाः ॥३८॥
पुनर्नारायणं प्राप्स्ये कदा तु शयने सुखम् ।
ध्यानमग्नास्तु ते भक्ता ध्याने बद्ध्वा हरिं पुरः ॥३९॥
निषेदुस्तु चिरं तत्र तावद्वै श्रीसतीहरौ ।
आययतुश्च कैलासाद् वीक्षितुं श्रीं नरायणम् ॥४०॥
एकं विघ्नं गतं नैव तावद् द्वितीयमागतम् ।
मत्वैवं श्रीः कृष्णपार्श्वे ह्यवशा संस्थिता स्थिरा ॥४१॥
शंकरोऽपि तथा भक्तोत्तमो भागवतो महान् ।
सती चापि महाभक्ता कस्तावुल्लंघयेत्तदा ॥४२॥
नारायणः स्वयं सिंहासनादुत्थाय सत्वरम् ।
समाश्लिष्य च शंभुं तं स्वागतं त्वाचरद्धरिः ॥४३॥
सत्याश्चापि स्वागतं तु लक्ष्मीराचरदादरात् ।
सतीशंभू पूजनादि चक्रतुः श्रीहरेस्तदा ॥४४॥
सतीदत्तासने रम्ये निषसाद श्रियाः पुरः ।
शंभुर्भागवतो भक्तो नृत्यं चकार नैकधा ॥४५॥
चिरं ननर्त प्रेम्णैव श्रीहरेः सन्निधौ हरः ।
हरिस्तत्राऽऽकृष्टचित्तोऽभवन्नाऽन्यदवेदिषत् ॥४६॥
लक्ष्मीर्नारायणस्पर्शानन्दप्रतीक्षयाऽऽकुला ।
नृत्यान्तं निर्जनभावं द्रुतं समभिवाञ्छति ॥४७॥
भक्तवश्यो हरिर्नैव लक्ष्मीं स्मरति पश्यति ।
भक्तलग्नमना भक्तान् गन्तुं बहिर्न शास्ति च ॥४८॥
तदा धैर्यं परित्यज्य वृथासमयहारकान् ।
शंकरं च सतीं धेनुपालं जयं च चन्द्रकम् ॥४९॥
कृष्णां सखीं शशापैव भवन्तु मानवा इति ।
यत्र विघ्नफलं वश्च भविष्यति न संशयः ॥५०॥
अकालताण्डवे मग्ना अकालध्यानयोगिनः ।
कालापेक्षां विहायैव यतो मे विघ्नकारिणः ॥५१॥
सविघ्ना मानवे लोके भवन्तु देहधारिणः ।
इत्युक्त्वा श्रीहरिं चापि गृहीत्वा च करे मुहुः ॥५२॥
आहाऽऽयातु गृहे कृष्ण विश्रामं कुरु वै क्षणम् ।
ईदृशो भक्तव्रातास्ते नाथ कतिपया इह ॥५३॥
वर्तन्ते तु विना कालम् आयान्ति स्नेहिला मुहुः ।
प्रेमला भक्तकास्ते वै जानन्त्येव न मानसम् ॥५४॥
समागच्छ हरे चाऽन्तःशयने शान्तिमावह ।
चिरासनस्थितस्याऽत्र श्रमस्ते विपुलो भवेत् ॥५५॥
इत्येवमाग्रहं चक्रे नेतुं नारायणं रमा ।
शंकराद्यास्तु ते भक्ताः श्रुत्वाऽऽश्चर्यं परं गताः ॥५६॥
लक्ष्म्याः शापेन नम्रास्या निस्तेजस्का इवाऽभवन् ।
नत्वा नारायणं लक्ष्मीं क्लिष्टां ज्ञात्वा तु सत्वरम् ॥५७॥
निर्ययुस्त्वालयाच्छीघ्रं श्रीहरेरन्तिकात्ततः ।
निपेतुर्मानवे लोके पश्यतां द्वाररक्षिणाम् ॥५८॥
वैकुण्ठवासिनां तत्र हाहाकारो महानभूत् ।
सर्वत्र प्रासरद्वार्ता वैकुण्ठे च प्रतिस्थलम् ॥५९॥
लक्ष्म्याः शापेन कृष्णद्याश्चत्वारश्च सतीहरौ ।
निपेतुर्मानवे लोके ह्यकालज्ञा जडा यथा ॥६०॥
तस्मात् तेजस्विनां नेयः क्षणो वृथा न वै क्वचित् ।
अकाले नैव गन्तव्यं महतां सन्निधौ क्वचित् ॥६१॥
विध्नं नैवाऽपि कर्तव्यं दम्पत्योश्चैकले स्थले ।
सुखहा दुःखभोक्ता स्यान्महान् वाऽपीश्वरोऽथवा ॥६२॥
विघ्नकृद् विघ्नमृच्छेद्वै दम्पतीविध्नकृत् किल ।
हाहाकारोऽभवच्चैशलोकेषु मानवेष्वपि ॥६३॥
शंकरो शिवराजेतिनाम्ना राजाऽभवच्छुभः ।
कैलासधामनगरे हिमाद्रौ गण्डकीतटे ॥६४॥
कृष्णसिंहगृहे पुत्रो मानसो देवयोनिवत् ।
महादिव्यो महैश्वर्ययुतोऽर्जुनप्रभः प्रभुः ॥६५॥
सती च मानवी जाता षण्माण्डव्यपुरेशितुः ।
पुत्री सा जानकी देवी नाम्ना गुणैः शिवासमा ॥६६॥
जातिस्मरौ सतीशम्भू विवर्धाते तु देववत् ।
वागर्थाविव संपृक्तौ विवाहविधिना पुनः ॥६७॥
सुयोग्यसमये संयोजितौ कैलासवासिनौ ।
एवं तौ गण्डकीमूले हिमशैले नदीतटे ॥६८॥
स्वराज्ये कैलासधाम्नि नगरे राज्यमाप्नुतः ।
अथकृष्णा सखी धेनुपालश्चन्द्रो जयस्तथा ॥६९॥
निपेतुर्हिमशैले ते कैलासधामपत्तने ।
धेनुपालोऽभवद् भ्राता शिवराजस्य चाऽनुजः ॥७०॥
कृष्णाऽभवत् सुता तस्य शिवराजस्य सद्गुणा ।
चन्द्रादित्योऽनुजस्तस्याऽनुजो जयकुमारकः ॥७१॥
कुटुम्बं त्वेकमेवाऽभूत् समशापप्रसंगतः ।
सर्वे भक्ता ब्रह्मनिष्ठाः सदा कृष्णपरायणाः ॥७२॥
ध्यानयोगतपोनिष्ठा धर्मज्ञानविरागिणः ।
सततं ब्रह्मयज्ञाश्च ब्रह्मभावा अमायिनः ॥७३॥
सर्वचिह्नैः समायुक्ता मानवैरविनिश्चिताः ।
प्रजापालनधर्माश्च महाभागवताः सदा ॥७४॥
सततं कृष्णसेवायां वैकुण्ठे इव तत्पराः ।
नीपालयप्रदेशेषु हिमशैलेषु गोचराः ॥७५॥
वर्तन्ते दिव्यरूपैश्च निसर्गयोगसिद्धिभिः ।
वर्तन्ते मानवै रूपैः शापप्राप्तक्रियादिभिः ॥७६॥
शापाद् यदा निपेतुस्ते तदा तद्धृदये हरिः ।
दुःख्यभूद् भक्तदुःखेन तथापि श्रीं प्रति प्रभुः ॥७७॥
वक्तुं शशाक नैवाऽन्यत् सत्त्वसंज्ञो यतो हरिः ।
सर्वं सेहे भक्तदुःखं मौनं जग्राह वै क्षणम् ॥७८॥
शंकराद्याः समर्थाश्च शप्तुं लक्ष्मीं हरेः पुरः ।
तथापि दासभक्तास्ते न शेपुस्तां रमां तदा ॥७९॥
माता या जगतामस्ति सा हरिस्पर्शमन्तरा ।
विघ्नरूपान् शशापाऽस्मान् योग्यं तन्मेनिरेऽनुगाः ॥८०॥
एवं मत्वा हरेरिच्छामिष्टदेवेन निश्चिताम् ।
जगृहुः सुखदां मत्वा दण्डरूपामपि प्रभोः ॥८१॥
विश्वासः श्रीहरौ तेषां वरदानं हरेर्वचः ।
न्यासो हरौ च कार्पण्यं नारायणे परेश्वरे ॥८२॥
सति वैभवयोगेऽप्यैश्वर्ययोगेऽपि सर्वथा ।
कैंकर्यं तस्य वै तेषामासीद् दिवानिशं हरौ ॥ट३॥
मतिः स्थिरा महापत्सु भक्तानामेव वर्तते ।
तेषां चैषा मतिः सुस्थाऽभवच्छ्रीपरमात्मनि ॥८४॥
सर्वनाशेऽपि भगवान् मा दूरं यातु मानसात् ।
आनुकूल्यं हरेर्यत्तु तदानुकूल्यमेव तु ॥८५॥
प्रातिकूल्यं हरेर्यत्तु तत्प्रातिकूल्यमेव तु ।
दासधर्मः प्रपन्नानामयं यतोऽन्यथा न वै ॥८६॥
इति मत्वा च शंभ्वाद्या असहन्त श्रिया वचः ।
सती या वैष्णवी भक्ता रुद्राणी प्रलयंकरी ॥८७॥
कथं सहेत शापं सा यदि भक्ता न वै हरैः ।
जानाति मातरं लक्ष्मीं यतो गुरोः प्रिया हि सा ॥८८॥
गुरुपत्नीं सुवन्देत न रोषयेत् कदाचन ।
गुरोः पत्नी यदाज्ञां च करोति त्वविचारिताम् ॥८९॥
सापि पाल्या यथाशक्ति नकारो वाच्य एव न ।
अत्र नारायणः कृष्णो भगवान् स्वामिवल्लभः ॥९०॥
गुरुः श्रीवेदवक्ताऽस्ति नावमान्या हि तत्प्रिया ।
सती जानाति सर्वं च रतिभंगसमुत्थितम् ॥९१॥
दुःखं सर्वं प्रतिकल्पे तस्माच्छापं ददौ न सा ।
एवं वै राधिके कृष्णनारायणोऽपि चार्तिहा ॥९२॥
हेमशालायननाम्ने जगाद शापकारणम् ।
प्राह लक्ष्मीश्चक्रवाक्यै वृत्तं कौटुम्बिकं निजम् ॥९३॥

इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने महावैकुण्ठे लक्ष्मीशयनस्थिते भगवति सति समागतकृष्णाधेनुपालचन्द्रादित्यजयादित्यादिसेवकानां सतीशंकरयो-
श्चागमे लक्ष्म्या नारायणेन सह शयनसुखभंगे लक्ष्म्याः शापेन तेषां षण्णां मानवलोकेऽवतरणमित्यादिनिरूपणनामैकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP