संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३३ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३३ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके कृष्णनारायणः स्वयं प्रभुः ।द्वादश्यां वैश्वदेवान्ते भोजयित्वा मखीयकान् ॥१॥सर्वांश्च देहिनः पश्चाद् भुक्तवा विश्रान्तिमाप ह ।सायं सभां च महतीं चक्रे वै यज्ञमण्डपे ॥२॥लालासनश्चाऽदृश्यत सभायां क्षणमात्रतः ।सर्वकाषायवसनो दधानस्तौलसीं स्रजम् ॥३॥रूपानुरूपावयवो यथा चाक्षरवासकृत् ।महामुक्तस्वरूपो वै ब्रह्मव्रताभिकाशितः ॥४॥जपन् संकीर्तयन् कृष्णो बालकृष्णो जयत्विह ।अनादिश्रीकृष्णनारायणो जयतु सत्पतिः ॥५॥जय स्वामिन्बालकृष्ण परमात्मन्नमोऽस्तु ते ।जय श्रीकम्भरापुत्र जय गोपालनन्दन ॥६॥देशोऽयं मखयोगेन पावितो वैष्णवः कृतः ।धन्यास्ते मानवा लोके येषां साक्षाद् भवानिह ॥७॥धन्या नार्यो नराः सर्वे यद्गृहे पुरुषोत्तमः ।धन्योऽहं सच्चिदानन्दो लालासनोऽपि योगिराट् ॥८॥यदहं प्राप्तवान् कृष्णनारायणं परप्रभुम् ।मन्त्रं देहि शरण्य त्वं दीक्षां भागवतीं तथा ॥९॥प्रदेहि चाऽक्षरं धाम मरणान्ते पदं तव ।इत्युक्तो भगवाँस्तस्मै ददौ दीक्षां तु वैष्णवीम् ॥१०॥राधिके द्वीपवासाय योगिने तु मुमुक्षवे ।मण्डपं कारयामास भगवाँस्तत्र कादलम् ॥११॥पत्रतोरणशोभाढ्यं वेदीकलशशोभितम् ।कुण्डयुक्तं सवितानं गव्यहव्यादिशोभितम् ॥१२॥पञ्चगव्येन च शुद्धिं हरिस्तस्याऽप्यकारयत् ।लासासनस्य भक्तस्य देहशुद्धिमकारयत् ॥१३॥ततः पूर्वमुखं तं च हरिश्चोत्तरकाऽऽननः ।ददौ वै प्रथमं वारि करे संकल्पसिद्धये ॥१४॥देशकालादि संकीर्त्य मोचयित्वा जलं क्षितौ ।मस्तके प्रोक्षणं तस्य कारयित्वा ततो हरिः ॥१५॥ददौ तं शरणं मन्त्रं दक्षे कर्णे कृपानिधिः ।'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ॥१६॥मन्त्रमिति प्रदायैव रक्षणमन्त्रकं ददौ ।'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥१७॥शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।मन्त्रमिति प्रदायैवाऽर्पणमन्त्रं ततो ददौ ॥१८॥'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥१९॥पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।इतिमन्त्रान् प्रदायैव कारयित्वोर्ध्वपुण्ड्रकम् ॥२०॥मालां च तौलसीं कण्ठे ददौ द्विगुणितां हरिः ।मद्यं मासं पारदार्यं चौर्यं कार्यं न वै क्वचित् ॥२१॥इत्येवं च यमान् तस्मै श्रावयामास माधवः ।उपकारं विरागं च ज्ञानं भक्तिं ददौ तदा ॥२२॥नियमान् मोक्षदान् कृष्णः श्रीपतिः पुरुषोत्तमः ।साधुसंगः सदा कार्यौ मोक्षदश्चेति चाह तम् ॥२३॥गुरोः सेवा हरेः सेवा पित्रोः सेवा कुटुम्बिनाम् ।सेवा कार्येति तं प्राह भगवान् पुरुषोत्तमः ॥२४॥न कश्चिदुद्वेजनीयस्तोषणीयः सदा क्षितौ ।सत्यः साध्व्योः नमस्कार्यास्ता हि परेशशक्तयः ॥२५॥इत्येवं तमुपादिश्य ततः श्रीपुरुषोत्तमः ।महादीक्षाप्रदानार्थमुपवासं तमादिशत् ॥२६॥उपवासस्थले तत्र गोदानं समकारयत् ।देहशुद्ध्यर्थमेवं स दत्वोपोषणसद्विधिम् ॥२७॥नान्दीश्राद्धं स्वस्त्ययनं त्वकारयत् स्वयं हरिः ।मण्डपे सर्वतोभद्रं मण्डलं धान्यशोभितम् ॥२८॥अकारयच्च तन्मध्ये हैमं कुंभं न्यधापयत् ।अष्टदिक्ष्वष्टकुंभाँश्च तोयरत्नफलान्विताम् ॥२९॥पल्लवाम्बरयुक्ताँश्चाऽस्थापयच्च घटोपरि ।तिलपूर्णां शुभस्थालीं निधाय प्रतिमां हरेः ॥३०॥सनेवेद्यां स्थापयित्वा सौवर्णीं चाऽप्यपूजयत् ।राधालक्ष्मीब्रह्मविद्यारमाश्रीमाणिकीयुताम् ॥३१॥ततोऽष्टदिक्षु कलशे पूर्वे सतीं च शंकरम् ।दक्षिणे भास्करं संज्ञां, प्रतीच्यां तु गणेश्वरम् ॥३२॥सिद्धिबुद्धिसहितं च, कौबेर्यां श्रीनरायणम् ।आग्नेय्यां तु चतुर्व्यूहं, नैर्ऋत्यां गरुडं गजम् ॥३३॥वायव्यां हनुमन्तं चैशान्यां ब्रह्मप्रियागणम् ।अस्थापयत् स्वयं कृष्णनारायणः परेश्वरः ॥३४॥स्वस्तिवाचो वृद्धिश्राद्धं भूतशुद्धिं ततः परम् ।कारयित्वांऽगदेवानामावाहनादिकं तथा ॥३५॥मातृकान्यासनं कारयित्वाऽपूजयदच्युतम् ।उपचारैः शोडशभिर्मन्त्रैस्तथा च वैदिकैः ॥३६॥अथ कुण्डे वह्निदेवमस्थापयत्तु दक्षिणे ।वैष्णवं च चरुं चाऽश्रापयच्चाऽपूजयद्धरिम् ॥३७॥समिदाज्यचरूणां च होमं त्वकारयत्तदा ।अष्टोत्तरशतसमर्पणमन्त्रैरकारयत् ॥३८॥अङ्गाऽङ्गदेवताभ्यश्चैकैकामाहुतिमार्पयत् ।पूर्णाहुतिं ततो हुत्वा महानीराजनं व्यधात् ॥३९॥पुष्पाञ्जलिं तदा कृष्णोऽप्यदापयद्धरौ शुभाम् ।पूर्वमुखं निषाद्यैव शिष्यमुदङ्मुखो हरिः ॥४०॥काषायाम्बरकं दिव्य चोत्तरीयं तथा ददौ ।यज्ञोपवीतकं चक्रादिकचिह्नचतुष्टयम् ॥४१॥ततो मन्त्रं ददौ तस्मै लालायनाय कर्णके ।दक्षे त्रिवारमेवाऽर्थसहितं ब्रह्मभावदम् ॥४२॥'ब्रह्माहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥४२॥श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ।इति मन्त्रं ददौ पश्चात् स्वमूर्तिं पूजनाय वै ।ददौ स्वर्णां षट्प्रियाभिः सहितां मोक्षहेतवे ॥४४॥ज्ञानं ददौ तारकं च सच्चिदानन्दबोधकम् ।आत्मा वै ब्रह्मरूपोऽयं सच्चिदानन्दभासुरः ॥४५॥तत्र कृष्णं परब्रह्म मां हृदि चिन्तयेः मुने ।आत्मनिवेदी त्वं चाद्यदिनात् मम समो ह्यसि ॥४६॥इत्युक्तः स मुनिः समुत्थाय श्रीकृष्णपादयोः।पतितो दण्डवत् भूमौ दीक्षाविधेस्तु दक्षिणाम् ॥४७॥पत्रं पुष्पं फलं तोयं हृदयं चाऽसमर्पयत् ।हरिस्तस्मै ददावाशीर्वादान् मोक्षप्रदान् शुभान् ॥४८॥ममाऽत्र कृपया भक्त फलितस्ते मनोरथः ।मां प्रसेव्य चोभयत्र परं सुखमवाप्स्यसि ॥४९॥यस्य कृष्णे परा भक्तिर्गुरौ श्रीकृष्णवल्लभे ।तस्य पुमर्थसिद्धिश्च सा तेऽस्त्वनुग्रहान्मम ॥५०॥अथ विसर्जनं चक्रे देवानां श्रीहरिः स्वयम् ।ततः प्राह हरिस्तं च भज नारायणं तु माम् ॥५१॥उपदेशं मम देहि ममोपासनसंभृतम् ।अनेन विधिना दीक्षां देहि मुमुक्षवे मुने ॥५२॥सच्चिदानन्दनामा त्वं काषायाम्बरधारकः ।आचार्योऽसि ममाऽऽज्ञां त्वं गृहाण दीक्षणे, जनान् ॥५३॥नारीर्नरान् पशून् पक्षिजातिस्मरान् तृणादिकान् ।कामरूपधरान् सर्वान् कुरु दीक्षाऽभिपावितान् ॥५४॥अहं नारायणकृष्णः स्वामी वै सर्वदेहिनाम् ।सर्वे भजन्तु मां नित्यं पतिं ब्रह्मपरं हरिम् ॥५५॥त्वं प्रकारय साधो मे भक्तिं पृथ्व्यां जने जने ।आबालयुववृद्धेषु नरनारीनपुंसु च ॥५६॥इत्युक्तः सच्चिदानन्दो योगिराट् तत्र संसदि ।नत्वा स्वामिबालकृष्णं जनानुपादिदेश ह ॥५७॥ददाति ज्ञानमैशं च पापानि क्षालयत्यपि ।एतादृशी हरेरिच्छा दीक्षानाम्नी महासती ॥५८॥ब्रह्मपुत्री ब्रह्मधामप्रदा मुक्तिप्रदा यतः ।सामान्या च विशेषा वा ग्रहीतव्या जनैः शुभा ॥५९॥अदीक्षितस्य नाऽश्नाति दत्तमन्नजलं हरिः ।दीक्षितस्य पत्रमपि न वै त्यजति श्रीहरिः ॥६०॥दीक्षितो भक्तराट् तीर्थं तीर्थोत्तमं हरिः स्वयम् ।तत्र तीर्थानि सर्वाणि निवसन्ति पदांऽगुले ॥६१॥दीक्षिते देवताः सर्वा ईश्वरा अपि सर्वशः ।निवसन्ति सदा देहे तस्माद्वै दीक्षितो भवेत् ॥६१॥दीक्षितस्य तु सेवायाः फलं मोक्षो भवेदिति ।दीक्षितस्पर्शजं पुण्यं महापापादिनाशकम् ॥६३॥दीक्षितस्य प्रसादान्नं पावनं चापि तज्जलम् ।दीक्षितस्य सहवासो मोक्षदो धामदायकः ॥६४॥दीक्षितस्य तु सत्संगो भगवत्संगसदृशः ।दीक्षितस्य क्रियाः सर्वा दिव्या हर्यर्पणात्मिकाः ॥६५॥दीक्षिते सर्वयज्ञानां पुण्यानि निवसन्ति वै ।दीक्षितस्य स्नानवारि पीत्वा तृप्यन्ति पूर्वजाः ॥६६॥ऋषयो मुनयः सिद्धा योगिनो यतयस्तथा ।साधवो ब्रह्मशीलाश्च दीक्षितं प्रणमन्ति वै ॥६७॥दीक्षितो यद्गृहे याति तद्गृहं धामसदृशम् ।सेवते या दीक्षितं सा बोध्या वै पुण्यशालिनी ॥६८॥सेवते यो दीक्षितं स जायते पार्षदो हरेः ।पृथ्वी नित्यं हरेरग्रे प्रार्थयति प्रदीक्षितम् ॥६९॥साधुदीक्षाप्रपन्नानां चरणैः पावनी ह्यहम् ।दीक्षितस्नानमात्रेण जलं तीर्थं प्रजायते ॥७०॥साधुलालासनश्चाहं सत्यं वदामि वै मुहुः ।सच्चिदानन्दसंज्ञोऽहं जातो वै दीक्षया हरेः ॥७१॥आबाल्यादपि संग्राह्यः शरणागतमन्त्रकः ।तस्याश्रयप्रदाता श्रीकृष्णो यत्र भयं न वै ॥७२॥ततो ग्राह्यो रक्षणस्य मन्त्रोऽप्याबाल्यतोऽपि वै ।कालान्मायाबन्धनाच्च पापाच्च कर्मबन्धनात् ॥७३॥शत्रुभ्यो याम्यदुःखाच्च कुमित्राद् यद्भयादिकम् ।तस्मात् त्रिशूलमत्स्यादिचिह्नोऽवत्येव माधवः ॥७४॥यद्धस्ते त्रिशूलचिह्नं मीनचिह्नं ध्वजाऽङ्ककम् ।धनुरंकं चक्रचिह्नं स्वस्तिकाऽङ्कं च वज्रकम् ॥७५॥तत्र त्रिशूलकं दिव्यं कालभीतिं प्रहन्ति वै ।दीव्यमीनस्तथा हन्ति मायाभीतिं च बन्धनम् ॥७६॥ध्वजचिह्नं तथा दिव्यं हन्ति पापभयं सदा ।धनुरंकं तथा दिव्यं कर्मभीतिं प्रहन्ति च ॥७७॥चक्रचिह्नं महादिव्यं शत्रून् प्रहन्ति तद्भयम् ।स्वस्तिचिह्नं तथा दिव्यं यमभीतिं प्रहन्ति च ॥७८॥कं वज्रं दिव्यमेवैतत् कुहृद्भयं निहन्ति च ।सप्तचिह्नधरो हस्तो यस्य देहं स्पृशत्यपि ॥७९॥तद्देहे तूक्तभीतीनां संभवोऽपि न जायते ।ततः समर्पणो मन्त्रो ग्राह्यो वै ज्ञानपूर्वकः ॥८०॥ओंनाम्ने हरये चाऽहं नमस्करोमि सर्वदा ।स्वामिने श्रीकृष्णनारायणायाऽर्पणतां गतः ॥८१॥नाऽन्यस्याऽहं भवाम्यद्यदिनात् तस्यैव वै वशे ।दासो भृत्यो दीनदासी भवाम्यद्यदिनाद्धरे ॥८२॥इत्येवं त्वात्मदानाख्यं सर्वस्वं तत्र चार्प्यते ।हुतं घृतं यथा वह्नौ हुतश्चाऽहं तथा हरौ ॥८३॥पृथग्भावो न मेऽस्त्यद्यदिनाच्छ्रीकृष्णबल्लभात् ।मत्वैवं निजभावे श्रीहरौ देहे यथात्मनि ॥८४॥तथा श्रीबालकृष्णोऽत्र परे ब्रह्मणि सर्वदा ।पतित्वं शाश्वतं ज्ञेयं पितृत्वं बन्धुताऽपि च ॥८५॥सुहृता मित्रता चापि रक्षयितृत्वमित्यपि ।पालकत्वं तथा कृष्णे शाश्वतं ज्ञेयमेव च ॥८६॥इत्येवं चार्पणे ज्ञाने परिपक्वे दृढे सति ।ततो ग्राह्या साधुदीक्षा ब्रह्मभावप्रदा शुभा ॥८७॥ब्रह्मरूपो यतश्चाहं देहेन्द्रियाद्यहं न वै ।प्रेमसेवाकरो भक्तः शाश्वतोऽस्मि हरेर्यतः ॥८८॥अनादिश्रीकृष्णनारायणः सर्वत्वमेव मे ।पतिः पाता तथा भोक्ता स्वामी नियामको मम ॥८९॥अन्तरात्मा परात्मा च बाह्यात्माऽपि ममैव सः ।इन्द्रियात्मा शरीरात्मा दैहिकात्मा ममैव सः ॥९०॥इत्येवं श्रीकृष्णनारायणाद् रिक्तोऽस्मि न क्वचित् ।सदा तन्मूर्तिमग्नोऽस्मि तद्गुणश्च तदंशकः ॥९१॥एवं वै ब्रह्मभावं स्वं विदित्वा साधुता फलेत् ।पराऽक्षरे तु विन्देत श्रीहरेः शाश्वतं सुखम् ॥९२॥एवं दीक्षाग्रहे शीघ्रं दिव्या भवन्ति देहिनः ।तस्माद् दीक्षा हरेर्ग्राह्या ज्ञानिभिः साधवी परा ॥९३॥तदन्यैः रक्षिणी दीक्षा शरणी वा समर्पणी ।ग्रहीतव्या विना दीक्षां न स्थेयं मानवैरिह ॥९४॥देशः कालः शुभः संगो न हातव्यः कदाचन ।परमेशे गृहे प्राप्ते प्रसन्ने मोक्षदायिनि ॥९५॥यो न मायां त्यजेन्मूढस्तस्य हानिः पदे पदे ।दुर्लभं मानुषं वर्ष्म मोक्षसाधनमुत्तमम् ॥९६॥प्राप्य तन्न यतेतापि मोक्षेऽत्र त्वात्महा हि सः ।तस्मादात्मा न हन्तव्यो मोक्षयोग्योऽपि मानवैः ॥९७॥गृह्णन्तु साधवीं दीक्षां तदन्यां पात्रता यथा ।अयं श्रीभगवान् साक्षाद् ददात्येव यथा हि मे ॥९८॥इत्युक्त्वा विररामाऽसौ सच्चिदानन्दयोगिराट् ।लक्षशो मानवाः श्रुत्वा दीक्षार्थं समुपागताः ॥९९॥बालकृष्णो ददौ तेभ्यः शरणं रक्षणं तथा ।समर्पणं मनुं चापि ज्ञानिभ्यो ब्रह्ममन्त्रकम् ॥१००॥पञ्चसाहस्रभक्तास्ते तदा वै साधवोऽभवन् ।गुरवो लोकजीवानां मोक्षकारिण एव च ॥१०१॥राशियानादिदेशेषूपदेशार्थं निदेशिताः ।प्रययुर्भिन्नदेशेषु हर्याज्ञया हरेः प्रियाः ॥१०२॥राधे! हरिर्विशश्राम सभान्तं प्रचकार ह ।निवासेषु प्रगत्वैव विशश्रमुश्च देहिनः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरिः साधुलालासनयोगिने साधवीं वैष्णवीं दीक्षां दत्वा ततः पञ्चसहस्रेभ्यः साधवीं दीक्षां ददावित्यादिनिरूपणनामा त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥१३३॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP