संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः २०५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके प्रातर्मण्डपे कुण्डसन्निधौ ।
रायकिन्नरनृपतिर्दित्रिमानायनर्षिणा ॥१॥
समं समाययौ पत्न्या सहितो यजमानकः ।
रायरोकीश्वरो राजा महाकाञ्चनकर्षिणा ॥२॥
तथा स्वपत्न्या सहितः कुण्डसन्निधिमाययौ ।
रायरणजिद्भूपश्च आल्रायसर्षिणा समम् ॥३॥
पत्न्या युतस्तथा कुण्डसन्निधौ मण्डपे ययौ ।
रायवाकक्षको राजा चारुलाषर्षिणा समम् ॥४॥
पत्न्या युतस्तथा कुण्डसन्निधौ मण्डपे ययौ ।
रायमारीशभूपश्च ' दानवर्षियुतो मखे ॥५॥
पत्न्या साकं तथा कुण्डसन्निधौ मण्डपे ययौ ।
रायबालेश्वरो राजा मालावनर्षिसंयुतः ॥६॥
राज्ञ्या साकं ययौ कुण्डसन्निधौ मण्डपे तदा ।
रायलम्बारभूपश्च रूपर्तुऋषिणा सह ॥७॥
पत्न्या युतो ययौ यज्ञे कुण्डस्य सन्निधौ तदा ।
रायनवार्कभूपश्च वाशृंगतनुकर्षिणा ॥८॥
पत्न्या साकं ययौ यज्ञमण्डपे कुण्डसन्निधौ ।
रायहुण्डेशनृपतिर्वीराकजनकर्षिणा ॥९॥
समं पत्न्या त्वाययौ च मण्डपे कुण्डसन्निधौ ।
रायकूपेशभूपश्च हेयतानर्षिणा सह ॥१०॥
पत्न्या साकं ययौ यज्ञमण्डपे कुण्डसन्निधौ ।
इत्येवं दश राजानौ दशकुण्डान् निजीकृतान् ॥११॥
प्रत्येकस्यैव कुण्डस्य निषेदुः सन्निधौ तदा ।
आचार्यस्य तदा कुण्डे श्रीहरिर्बालनैष्ठिकः ॥१२॥
लोमशेन तु सहितो रायकिन्नरभूभृता ।
सपत्नीकेन साकं वै न्यषीदत्परमासने ॥१३॥
अन्यकुण्डर्षिसहिता वेदप्राधानिका नृपाः ।
यथायोग्यं लोमशोक्ता निषेदुर्युगलात्मकाः ॥१४॥
राधिके देवविप्राश्च भूविप्राः सत्यभूसुराः ।
प्रारभन्त ततस्तत्र मंगलानि शुभस्वरैः ॥१५॥
अनादिश्रीकृष्णनारायणः श्रेष्ठासने स्थितः ।
लक्ष्मीनारायणं देवं सर्वतोभद्रमण्डले ॥१६॥
अस्थापयद्धरिश्चैवं सर्वा मूर्तीर्न्यधापयत् ।
स्वर्णमयं च गरुडं द्वारपालाँश्च पार्षदान् ॥१७॥
अस्थापयच्छक्तियुक्तान् हरिर्विष्णोस्तु सन्निधौ ।
गणेशस्थापनं चैशान्यां तु रुद्रस्य पीठकम् ॥१८॥
पूर्वे क्षेत्रपीठं चाग्नेय्यां शक्तिप्रपीठकम् ।
दक्षे गणेशपीठं नैर्ऋत्यां च वास्तुपीठकम् ॥१९॥
वायव्यां योगिनीपीठं स्नानपीठं तथोत्तरे ।
ग्रहपीठानि सर्वाणि कोणमध्यगगर्भके ॥२०॥
न्यस्य तत्र च देवाँस्तानस्थापयत् परेश्वर ।
कुण्डमण्डपवेदीश्च प्रोक्ष्यद्रव्याणि मण्डपे ॥२१॥
अस्थापयच्च मुख्यानि कणाँश्च समिधस्तथा ।
यवव्रीहिकुशान् दूर्वादधिचन्दनसर्षपान् ॥२२॥
सिद्धार्थरोचनाश्चापि फलानि शर्करास्तथा ।
गन्धकुसुमपूगानि धूपदीपादिकाँस्तथा ॥२३॥
आचार्यो लोमशस्तत्र चकार स्वस्तिकं शुभम् ।
वस्त्रोर्णामुद्रिकापात्रमधुपर्कादिकाँस्तथा ॥२४॥
हिरण्याऽऽरार्त्रिकास्नानपात्रशंखधरादिकान् ।
चन्दनागुरुकस्तूरीकर्पूरकुंकुमानि च ॥२५॥
आज्यस्थालीं चरुस्थालीं तन्दूलान् भाजनानि च ।
उपवीतं चासनानि मुद्राभूषासुमानि च ॥२६॥
ताम्बूलकं तथा तत्राऽपेक्षितानि न्यधाद्धरिः ।
यजमानः सपत्नीकः स्नानशालां ययौ ततः ॥२७॥
स्नानं कृत्वा मण्डपे त्वाययौ गणपतिं ततः ।
पुपूज प्रचकारापि मातृश्राद्धं ततो नृपः ॥२८॥
मातृपूजां विधायाऽथ दीक्षां जग्राह वैष्णवीम् ।
प्रायश्चित्तं चकाराऽथ वृद्धिश्राद्धं ततोऽकरोत् ॥२९॥
ग्रहरक्षां ध्वजानिवेशनं शिबिरबन्धनम् ।
प्रचकार ततश्चाचार्यादीनां वरणं नृपः ॥३०॥
देशकालौ समुच्चार्य मधुपर्कं ततोऽकरोत् ।
ऋत्विजां वरणं चक्रे ब्रह्मणो वरणं तथा ॥३१॥
आचार्यवरणं चापि तथाऽऽसनानि सन्ददो ।
संवरणोपहाराँश्च निष्क्रयं द्रव्यमित्यपि ॥३२॥
वरणं जापकानां च पाठकानां तथाविधम् ।
सहस्रायुतकोटीनां विप्राणां वरणं व्यधात् ॥३३॥
चातुर्वेदा ब्राह्मणाश्च मन्त्रान् जेपुर्निजोचितान् ।
पुण्याहवाचनं चक्रुर्विप्राश्चागमवेदिनः ॥३४॥
स्वस्तिवाचोऽवदँश्चाप्याशीर्वादाँश्च ददुस्ततः ।
सप्तर्षयस्तथा लक्षमिताः सर्वे महर्षयः ॥३५॥
वर्धिनीकलशं तीर्थवारिभृतं नृपोऽमुचत् ।
स्वर्ण तत्र पल्लवाँश्च रत्नान्यपि न्यधात्ततः ॥३६॥
अथ श्रीलोमशस्तत्रानादिकृष्णनरायणम् ।
राधालक्ष्मीप्रभाश्रीमाणिकीभूपार्वतीयुतम् ॥३७॥
सौवर्ण स्थापयामासाऽपूजयच्च विधानतः ।
स्वयं श्रीमद्वालकृष्णः साक्षात्तत्र व्यराजत ॥३८॥
श्रीकृष्णं राधिकायुक्तं नारायणं श्रियायुतम् ।
सौवर्णं स्थापयामास साक्षात् सोऽपि ह्युपस्थितः ॥३९॥
अवतारान् शक्तियुक्तान् स्थापयामास वै तदा ।
सर्वे साक्षादतिष्ठन्ताऽध्वरे तत्र निजासने ॥४०॥
वासुदेवादिकव्यूहान् स्थापयामास वै तदा ।
चत्वारस्ते गोचरा वै ह्युपातिष्ठन्त चापरे ॥४१॥
भूमानं च हिरण्गर्भं वैराजं चावृतीश्वरान् ।
स्थापयामास ते सर्वे साक्षात्तत्राप्युपस्थिताः ॥४२॥
स्वस्वशक्तियुताः स्वस्वपार्षदादिसमन्विताः ।
ईशानो विश्वसृट् विष्णुः स्वस्वशक्तिसमन्विताः ॥४३॥
आवाहिताः समागत्याऽराजन्त गोचराश्च ते ।
महामाया पूरुषश्च तत्त्वान्यपि च तात्त्विकाः ॥४४॥
शक्तयश्चापि साक्षादावाहिताश्चोपतस्थिरे ।
ब्रह्मप्रियाः समस्ताश्चावाहिता आययुर्मखे ॥४५॥
साक्षात्सर्वा व्यराजन्त मण्डपे तु निजासने ।
ब्रह्मा ब्रह्मपदेऽतिष्ठत् साक्षाल्लोकपितामहः ॥४६॥
रुद्रो रुद्रपदेऽतिष्ठच्चैकादशस्वरूपवान् ।
रुद्राणीभिर्युतो गणैर्गणेशकार्तिकादिभिः ॥४७॥
साक्षान्निषेदुः सौवर्णा अपि दिव्या निजासने ।
आवाहिताश्च पितरस्तथा महर्षयोऽपि च ॥४८॥
साक्षादुपस्थितास्तत्र निजासनेषु चाध्वरे ।
मरुतो वसवः साध्या विश्वेदेवाः सुरेश्वराः ॥४९॥
दिगीश्वरा लोकपाला आवाहिताश्च गोचराः ।
पत्नीयुताः समागत्य निषेदुश्चासनेषु ते ॥५०॥
सिद्धयो निधयश्चापि ग्रहाश्चोपग्रहादयः ।
तारकाश्चावाहिताश्च सस्त्रियो गोचरास्तदा ॥५१॥
साक्षान्निषेदुः सर्वे ते स्वासनेषु समाहिताः ।
सप्तर्षयो वालखिल्याः कृत्तिकाश्च दिशस्तथा ॥५२॥
आदित्याः कामदेवश्च मनवस्तिथयस्तथा ।
आवाहितास्तु साक्षात्ते ह्युपातिष्ठन्त चाध्वरे ॥५३॥
नक्षत्राणि कलाश्चापि त्रयस्त्रिंशत्सुरानुगाः ।
गुणा योगिनिकाचक्रं तीर्थानि सरितस्तथा ॥५४॥
सागरा दीर्घिकाः कूपाः सरांसि पर्वतादयः ।
आवाहिताश्चाययुस्ते साक्षात्सर्वे सुमूर्तयः ॥५५॥
यक्षाश्च राक्षसाश्चापि भूताः प्रेताः पिशाचकाः ।
विनायकाश्च कूष्माण्डा वेतालाद्या महाध्वरे ॥५६॥
स्वस्वकुटुम्बसहिताः साक्षात् तत्राययुर्मखे ।
आवाहिता निषेदुश्च निर्भया मण्डपे तदा ॥५७॥
सूतमागधबन्द्याद्या भाटचारणकिन्नराः ।
विद्याधराः किंपुरुषा गन्धर्वाः सिद्धकोटयः ॥५८॥
साक्षात्समावाहितास्ते चागता मण्डपे स्थिताः ।
चातुर्वर्णा यतयश्च साधवः सनकादयः ॥५९॥
आवाहिता नैष्ठिकाश्च सर्वे ते मण्डपे स्थिताः ।
गरुडश्च तथा हंसो हस्ती चाश्वश्च केसरी ॥६०॥
वृषभश्चोन्दुरुश्चैते आवाहिताः समाययुः ।
दत्तासनेषु साक्षात्ते व्यराजन्त सुमण्डपे ॥६१॥
हनुमानादयश्चिरंजीवाः साक्षात्तु मण्डपे ।
आवाहिता आययुश्च सर्वे वै ब्रह्मवर्चसः ॥६२॥
वर्णास्तथाऽऽश्रमा धर्मा धर्मराजोऽनुगाऽनुगः ।
चित्रगुप्तादिसहितः श्रावणाद्यैः समायुतः ॥६३॥
कालः सम्वत्सराद्याश्च युगा मूर्तियुताश्च ते ।
आवाहिता अतिष्ठन्त मण्डपे सर्वगोचराः ॥६४॥
जलस्थाश्च स्थलस्थाश्च जन्तवोऽपि तृणादयः ।
वल्लिकाश्च द्रुमाद्याश्च कल्पकन्दाश्च मूलिका ॥६५॥
स्तम्बाद्याश्चाययुश्चावाहिताः साक्षाद्धि मण्डपे ।
गृहदेवा ग्रामदेवा वनदेवाश्च सीमगाः ॥६६॥
आरण्यकास्तथा देवाः शाखातोरणदेवताः ।
स्तंभदेवा द्वारदेवाः कुण्डदेवाश्च वै तदा ॥६७॥
देहलीदेवताश्चापि पालिकादेवतास्तथा ।
प्राकारदेवताः सर्वे सर्वा गोपुरदेवताः ॥६८॥
प्रांगणदेवताः कोणदेवता भारदेवताः ।
पाटदेवा ध्वजदेवा घटदेवास्तदा मखे ॥६९॥
दण्डदेवाः पीठदेवाः स्वस्वदेवीसमन्विताः ।
आवाहितास्तु ते साक्षान्मूर्तिमन्तोऽभवन् स्थिताः ॥७०॥
धर्मदेवोऽथ तत्पत्न्यः पुत्रीपुत्रसमन्विताः ।
मूर्तिमत्यः समागत्याऽऽवाहितास्तत्र चाययुः ॥७१॥
दानवा दैत्यवर्गाश्च कश्यपजाः प्रजादयः ।
पक्षिणः पशवश्चापि जन्तवश्च सरीसृपाः ॥७२॥
सर्पा नागादयः सर्वे आवाहिताः समाययुः ।
मूर्तिमन्तो मण्डपे ते न्यषीदन् विहितासने ॥७३॥
सर्वधामनिवासाश्च सर्वलोकनिवासिनः ।
सर्वसृष्टिनिवासाश्चावाहितास्तत्र मण्डपे ॥७४॥
मूर्तिमन्तो ह्यतिष्ठन्त दत्तासनेषु चेतनाः ।
जडाश्च जडवर्गाश्च दीनानाथाश्च देहिनः ॥७५॥
दत्तयोगा मण्डपे ते चाययुर्धन्यवादिनः ।
काशाश्च कुशाश्च पत्राणि शलाकाः समिधस्तथा ॥७६॥
हव्यान्यपि च कव्यानि फलपुष्पकणादयः ।
रसा द्रव्याणि मिष्टानि मिष्टान्नानि त्वचस्तथा ॥७७॥
गन्धसाराणि सर्वाणि समूर्तानि तदाऽध्वरे ।
मण्डपे चाययुश्चावाहिताः साक्षात् स्थिताश्च ते ॥७८॥
कामधेनुगणाश्चापि कल्पवल्ल्यश्च मूर्तयः ।
कल्पद्रुमाश्चाययुर्वै चिन्तामणय इत्यपि ॥७९॥
मूर्तिमन्तः कल्पकोशा अक्षयपात्रकोटयः ।
हेतयः शंखचक्राद्या मखानां हेतयस्तथा ॥८०॥
साधनानि समस्तानि पूजांगपात्रकोटयः ।
आवाहिता मूर्तिमन्तः सर्वेऽतिष्ठन्त मण्डपे ॥८१॥
मन्त्रा वेदाश्च विधयः कर्मकाण्डप्रकारकाः ।
शुद्धयोऽपूर्वदेवाश्च मूर्तिमन्तस्तु मण्डपे ॥८२॥
आवाहिताश्चाययुस्तेऽतिष्ठन्त विहितासने ।
स्वरा विद्याः शारदाद्या ब्रह्मविद्यादिकास्तथा ॥८३॥
गीतयः सामसूक्तानि स्वाहास्वधावषट्कुलम् ।
अग्नयः सर्वजातीया आकारिताश्च मण्डपे ॥८४॥
मूर्तिमन्तो न्यषीदन् वै दत्तासनेषु ते तदा ।
देवदैत्यगुरवश्च व्यासा व्याख्यानमूर्तयः ॥८५॥
तपांसि योगविधयो ज्ञानं वैराग्यमित्यपि ।
भक्तिर्विभूतयः सर्वा आकारिताः समाययुः ॥८६॥
प्रत्यक्षा योषितां वर्गा अतिष्ठन्त समूर्तयः ।
विघ्ना अविघ्नरूपास्ते रोगा अरोगरूपिणः ॥८७॥
दुःखान्यदूःखरूपाणि आकारितानि चाययुः ।
धर्मवंशास्तथाऽधर्मस्तत्पत्न्यश्चापि वै तदा ॥८८॥
तद्वंश्याश्च मखे तेऽपि सौम्या भूत्वा समाययुः ।
अधर्मो धर्मरूपोऽभूत्तदा रूपं विवर्तयन् ॥८९॥
आनन्दश्च सुखं शान्तिस्तृप्तिः सन्तोषकादयः ।
आवाहिताश्चाययुश्च मूर्तयो मण्डपे तदा ॥९०॥
शब्दाद्या विषयाश्चापि षट्कोशाद्याश्च देहगाः ।
समूर्ताश्चाययुः सर्वे आकारितास्तु मण्डपे ॥९१॥
राधिके मण्डपश्चैवं सर्वसृष्टिसमन्वितः ।
शोभनेऽनादिकृष्णस्योपस्थितौ दिव्यधामवत् ॥९२॥
अनादिश्रीकृष्णनारायणे श्रीकृष्णवल्लभे ।
सर्वस्वामिनि यत्रस्थे तत्र किं पक्षपातनम् ॥९३॥
जडाश्च चेतनाश्चापि जडचेतनमिश्रकाः ।
सर्वे वंशा हरेः सन्ति सर्वेषु समवर्तिनः ॥९४॥
राजसास्तामसाश्चापि सात्त्विका देहिनोऽपि च ।
सन्तश्चिदश्च सर्वे वै आनन्दा मूर्तियोगिनः ॥९५॥
आवाहिताश्चाययुस्ते न्यषीदन् वै सुमण्डपे ।
दाता होता स्वयं कृष्णः परमेशः सनातनः ॥९६॥
तत्र न्यूनं न वै चास्ति संकोचोऽपि विकासितः ।
दारिद्र्यं प्राप्तमेवोदारतां विवर्तितं तदा॥९७॥
नकारोऽपि गतस्तत्र हाकारतां विवर्तितः ।
संशयोऽपि गतस्तत्र निश्चयतां विवर्तितः ॥९८॥
भयं विवृत्तं सहसाऽप्रापन्निर्भयतां तदा ।
न्यूनत्वें विवृतं चाप्यधिकतां तु समासदत् ॥९९॥
इत्येवं राधिके तत्र मण्डपे देवतादिकाः ।
मूर्तिमन्तः समागत्य निषेदुः स्थापने निजे ॥१००॥
य एवाऽदृश्यरूपैश्च ग्रहीतारस्त एव ह ।
साक्षादुपस्थितास्तत्र बालकृष्णेच्छयाऽखिलाः ॥१०१॥
इत्येवं सर्वदेवानां दशकुण्डेषु मण्डपे ।
यथापेक्षमभूद् राधे! स्थापना वेदिकादिषु ॥१०२॥
सर्वे नृपास्तथाऽकुर्वन् कर्म यज्ञीयमेव तत् ।
ततः पूजा प्रवृत्ता च तत्तदृषिप्रणोदिता ॥१०३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राज्ञामृषीणां मण्डपे समागमनं देवपीठानां स्थापना, ऋत्विगाचार्यादिवरणं, प्रत्यक्षदेवानां विराजमानता चेत्यादिनिरूपणनामा पञ्चाधिकद्विशततमोऽध्यायः ॥२०५॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP