संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १८३

त्रेतायुगसन्तानः - अध्यायः १८३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रुत्वा रणभेरीस्तु राक्षसाः ।
कृत्वा किलकिलाशब्दान् सक्थिस्फोटान् भयंकरान् ॥१॥
कम्पयन्तश्च पृथिवीं नादयन्तो दिशस्तथा ।
अट्टहासान् प्रकुर्वन्तो युद्धार्थं कृतनिश्चयाः ॥२॥
भल्लान् शूलानसीन् खड्गान् मुद्गरान् मुशलानि च ।
प्रस्तरान् सर्जवृक्षाँश्चोपलाः संगृह्य चाम्बरे ॥३॥
योधनार्थं समुत्पेतुर्धृतपर्वतविग्रहाः ।
अस्त्रशस्त्रान्विताः सर्वे दशसाहस्रसंख्यकाः ॥४॥
मारयन्तु खादयन्तु चर्वयन्तु विमानगान् ।
बन्धयन्तु मर्दयन्तु मोचयन्त्यसुभिश्च तान् ॥५॥
छिन्दन्तु करपादादि शिरांसि पातयन्तु च ।
भक्षयन्तु नरदेहान् हरन्तु कन्यकास्त्विमाः ॥६॥
प्रज्वालयन्तु यानानि यन्त्राणि भञ्जयन्तु च ।
चूर्णयन्तु मस्तकानि विमानानि हरन्तु च ॥७॥
इत्येवं बहुजल्पास्ते राक्षसाः सैन्यसदृशाः ।
आकाशे परितो भूत्वा गत्वोर्ध्वं क्षेपणैस्तदा ॥८॥
पाषाणमारं चक्रुश्च बाणवृष्टिं भयंकरीम् ।
नाराचवृष्टिं गोलानां वृष्टिं चक्रुः प्रदाहिकाम् ॥९॥
तदा हरिः समुद्रं च तथा चन्द्रमसं द्रुतम् ।
सस्मार तावुभौ मूर्तिमन्तावागत्य नेमतुः ॥१०॥
हरिः प्राह जलैश्चाप्यमृतैः शमयतं त्विमम् ।
वह्निं शीघ्रं गोलकानां तौ तथा चक्रतुर्मुदा ॥११॥
समुद्रो वर्षणं चक्रे बाष्पाणां जलसंभृताम् ।
चन्द्रोऽमृतं द्रुतं तत्र वर्षयामास वह्निहृत् ॥१२॥
अथ राजा जिनवर्द्धिश्चाल्पकेतुर्महाबलौ ।
नाराचैः शतसाहस्रैनिजघ्नुः राक्षसाँस्तदा ॥१३॥
अर्धचन्द्रैस्तथा भल्लैद्वेधा छिन्नाः पतन्ति तै ।
राक्षसा भूतले पादकरान् क्षिप्त्वा जलं जलम् ॥१४॥
प्रलपन्तस्त्यजन्त्येव प्राणान् पार्वतदुर्गमे ।
राजसैन्यानि भूस्थानि तूपगोलैस्तदाऽम्बरे ॥१५॥
राक्षसान् मारयन्त्येव पातयन्ति च जीवतः ।
दृष्ट्वैवं घोरकदनं मन्त्रमालिन्यकारिकाः ॥१६॥
राक्षस्यो गह्वरात्तत्र बहिरागत्य सत्वरम् ।
शतसाहस्रसंख्यास्ता उत्पेतुश्चाम्बरे तदा ॥१७॥
मन्त्रकृतैर्मृषोद्भूतैः राक्षसैः खङ्गधारिभिः ।
पातयामासुरेवैतौ राजानौ चाम्बराद् भुवि ॥१८॥
सैन्यानि मारयामासुः कृत्रिमैः राक्षसैस्तु ताः ।
मानवानां तु सैन्यानां मर्दनं समजायत ॥१९॥
हाहाकारो विमानेषु तदाऽभवत् समन्ततः ।
म्रियमाणौ नृपौ दृष्ट्वा द्रुतं कृष्णनरायणः ॥२०॥
विमानादवतीर्यैव वायुवेगेन भूभृतौ ।
धृत्वा भुजाभ्यां च पुनर्विमानं स्वं समाययौ ॥२१॥
करस्पर्शेन राजानौ जीवयामास माधवः ।
चन्द्रमाज्ञापयामासाऽर्पयाऽमृतं समन्ततः ॥२२॥
मानवानां तु सैन्येषु मृतान् जीवय सत्वरम् ।
चन्द्रश्चक्रे तथा शीघ्रं सैन्यानि जीवनं ह्यगुः ॥२३॥
अथ कृत्रिमसैन्यानां रक्षसां नाशनाय वै ।
जटातः सुसमुत्पाद्य मायां मृषादिनीं तदा ॥२४॥
ईशानदेवो व्यसृजत् मृषासैन्यं जगाम सा ।
प्रतिरक्षोऽभवद् राक्षसीस्वरूपाऽत्यसंख्यका ॥२५॥
भक्षयामास सर्वांश्च राक्षसानथ शंकरः ।
प्रेरयामास दुर्गा स्वां समुत्पाद्य तु वामतः ॥२६॥
राक्षसीनां नाशनार्थं नत्वा दुर्गा तु शंकरम् ।
कोटिरूपधरा भूत्वाऽष्टादशहस्तशोभना ॥२७॥
सिंहारूढा बहुशस्त्रा महाबलपराक्रमा ।
सर्वरूपैः सहकाले निपपाताऽम्बरेऽभितः ॥२८॥
प्रत्येकां राक्षसीं धृत्वा गलेऽनयद् यमालयम् ।
हाहाकारो महानासीत्तदा राक्षसमण्डले ॥२९॥
हर्षनादा विमानेषु सैन्येषु मानवेषु च ।
दृष्ट्वा दुर्गाकृतं कार्यं जहर्ष परमेश्वरः ॥३०॥
जहृषुः कन्यका ब्रह्मप्रियाद्या लब्धलालसाः ।
तावद् दृष्ट्वा राक्षसाश्च पत्नीनां यमगामिता ॥३१॥
क्रुद्धाश्चातीव विधुरा दुर्गासैन्यं प्रति द्रुतम् ।
स्त्रीनाशार्थं चाम्बराद्वै दुर्गाः प्रति प्रदुद्रुवुः ॥३२॥
शंकरः स्वगणान् क्षेत्रपालानाह धरन्तु वै ।
राक्षसान् व्योममार्गेण एकैकशो गले द्रुतम् ॥३३॥
क्षेत्रपालास्तदा व्योम्ना दध्रुः पृष्ठं तु रक्षसाम् ।
प्राप्य प्राप्य गले दध्रुर्मारयामासुरेव तान् ॥३४॥
पद्भ्यां च गदया मुद्गरेण भल्लादिभिस्तथा ।
मुष्टिभ्यां जानुमारेण कफोणिकाभिघातकैः ॥३५॥
अस्थिभग्नं महाभारं मारयामासुरीश्वराः ।
काँश्चिच्छस्त्रैस्तथा खड्गैः शूलैः शक्त्या च भल्लकैः ॥३६॥
प्राणैर्वियोजयामासुः रक्षांसीशानपार्षदाः ।
मृताः पञ्चसहस्राणि राक्षसा नरयोधिनः ॥३७॥
हृताश्च शतसाहस्र्यो राक्षस्यो व्यसवस्तदा ।
अवशिष्टा विचार्यैव जीवने कोऽर्थ एव नः ॥३८॥
हतेषु कुलवर्गेषु मर्तव्यं सर्वथा ह्यनु ।
इत्येवं संविचार्यैव सन्नद्धाः सर्वथाऽम्बरे ॥३९॥
मायाजालानि रचयामासुस्ता विविधानि वै ।
मोहनान्यप्यसंख्यान्यरचयन् मायिकानि च ॥४०॥
यथा विमानसैन्यानि वैमानिकानि चाप्यपि ।
विनाशं प्रापुरेवाऽत्राऽम्बरे तथा व्यधुर्मृषा ॥४१॥
राक्षसानां महान् राजा मायाजालपरायणः ।
नाम्ना मारीचशार्दूलो रोषताम्रेक्षणो दशन् ॥४२॥
दन्तान् जिह्वामोष्ठकौ च मायामन्त्रानवासृजत् ।
अविज्ञाय महारुद्रं नारायणं सतीं तदा ॥४३॥
विज्ञाय मानवं सैन्यं बलवद् वा तथाविधम् ।
रक्षसां त्वन्यभूजानां मायामन्त्रानवासृजत् ॥४४॥
प्रथमं पञ्चसाहस्रान् संरक्ष्य छायया स्वया ।
ततो मन्त्रान् मुमोचाऽयं शालभेयान् भयंकरान् ॥४५॥
शलभानां समुद्रो वै तदाऽऽकाशेऽभवन्नवः ।
यद्भारेण विमानानि निम्नानि तु तदाऽभवन् ॥४६॥
योद्धारश्चावृताः सर्वे शलभैर्वृष्टिसदृशैः ।
अभ्रैः शालभरूपैर्न व्यदृश्यन्त तदा मिथः ॥४७॥
तद्विनाशाय रुद्रश्च किलहाऽस्त्रमवासृजत् ।
असंख्याः पक्षिणो जाताः किलहाख्यास्तदाऽम्बरे ॥४८॥
शलभाद्राः सर्वतस्तान् भक्षयामासुरम्बरे ।
कर्बूरीणां समूहाश्च वीक्ष्य राक्षसपुंगवाः ॥४९॥
तासां कलहजातीनां विनाशार्थं मनो दधे ।
मायया श्येनजालानि रचयामास मार्गणैः ॥५०॥
श्येनाश्चाब्जाब्जसंख्यास्ते भक्षयामासुरम्बरे ।
किलहाँश्च ततो भूत्वा यानतुल्याः शरीरतः ॥५१॥
विमानानि पक्षबलैस्ताडयामासुरुल्बणाः ।
केचिद्विमानतुल्याश्च केचित्पर्वतदेहिनः ॥५२॥
अन्यान्यस्थौल्यवन्तस्ते बभञ्जुर्वै समन्ततः ।
विमानानि तु भिन्नानि क्षिप्तानि पेतुरम्बरात् ॥५३॥
एवं विचित्रे घाते च जायमाने हरिः स्वयम् ।
वायुदेवं तदा चाज्ञापयामास धृतेः कृते ॥५४॥
भग्नान्यपि विमानानि धारयामास वायुराट् ।
अम्बरे एव तु विश्वकर्मा स्मृतो ह्युपाययौ ॥५५॥
शिल्पेन कर्मणा शीघ्रं भग्नभागानयोजयत् ।
यथासंस्थानयानानि विधाय परमेश्वरम् ॥५६॥
चकार सुप्रसन्नं च तस्थौ तत्रैव योधने ।
अथ रुद्रोऽनलमन्त्रैः पक्षिणोऽनलसंज्ञितान् ॥५७॥
कोट्यब्जसंख्यकान् शीघ्रं जनयामास मार्गणैः ।
अनलाः पक्षिणः श्येनान् भक्षयामासुरुल्बणाः ॥५८॥
राक्षसानपि चात्तुं ते दुद्रुवुः रुद्रनोदिताः ।
राक्षसा मायया तत्र तिरोधानं गताः क्षणम् ॥५९॥
सर्जयामासुरुग्राँश्च नागान् विषोल्बणांस्तदा ।
सपक्षाँस्ते विमानस्थान् गत्वाऽऽविश्य दशन्ति हि ॥६०॥
रुद्रो गारुडमन्त्रेणोत्पादयामास भक्षकान् ।
गरुडान् नागसंहारकर्तॄन् कोटिसहस्रशः ॥६१॥
गरुडास्ताननुद्रुत्य भक्षयामासुरेव च ।
गरुडानां विनाशार्थं राक्षसो वह्निमासृजत् ॥६२॥
अग्निरग्निर्महाग्निश्चाम्बरे त्वालामयोऽभवत् ।
रुद्रो नेत्रं तृतीयं चोद्धाटयामास तत्क्षणे ॥६३॥
तत्रोत्पन्नः प्रलयाग्निर्मृषाग्निं राक्षसोत्थितम् ।
आकृष्य चाऽऽजहारैव नैजे रूपेऽतिदारुणम् ॥६४॥
शशामाऽग्निस्तदा शीघ्रं राक्षसा भयमावहन् ।
गह्वरस्य द्रुमाधस्ताद् गुप्ता बाणान् शराँस्तथा ॥६५॥
मुमुचुर्भल्लकाँश्चापि योद्धव्यमिति निश्चिताः ।
रुद्रगणा व्योममार्गात् क्षेत्रपालाः समन्ततः ॥६६॥
चक्रुस्तदा बाणवृष्टिं हन्तुं राक्षसपुंगवान् ।
अथ ते राक्षसाः प्राप्ताः प्राणसन्देहतां यदा ॥६७॥
तदा पाषाणमन्त्रैस्ते मुमुचुर्मार्गणान् बहून् ।
शिला व्योम्नि समुत्पन्ना गण्डशैलसमास्तदा ॥६८॥
उत्पत्योत्पत्याऽनरीक्षे जघ्नुर्विमानकानि वै ।
ज्ञात्वा रुद्रश्चेष्टितं तद् वज्रास्त्रं प्रमुमोच ह ॥६९॥
शिलाश्चूर्णीभूय सर्वा वायुनोड्डिड्यिरे दिशः ।
व्यलीयन्त ततो दैत्या मेघानुग्रानवासृजन् ॥७०॥
वाय्वस्त्रेण तदा रुद्रो मेघान् लीनानकारयत् ।
अथ ते राक्षसा भीता मृतशेषास्तु वारिधिम् ॥७१॥
प्रवेष्टुं दुद्रुवुस्तावच्छंकरो लोकशंकरः ।
गणान् विमोचयामास तत्पृष्ठे धर्तुमेव तान् ॥७२॥
परावृत्य तदा दैत्या गणैर्युद्धं व्यधुः पुनः ।
तदा रुद्रो मुमोचाथ शूलं लोकभयंकरम् ॥७३॥
भ्रमद् वेगेन वह्नींश्च मुञ्चत् समन्ततश्च तत् ।
मारयामास दैत्यांस्तान् मारीशेशो तिरोऽभवत् ॥७४॥
धृत्वा तु मायिकं रूपं वाह्नेयं शूलमेव तत् ।
मुखे समाग्रसत्तत्र सर्वेषां पश्यतां तदा ॥७५॥
वीक्ष्याऽऽश्चर्यं परं प्राप्ताः शंकराद्या गणास्तथा ।
तद्विलोक्य परं कर्म राक्षसस्य नरायणः ॥७६॥
प्रशशंसाऽसुरस्यैतत्कर्म लोकभयंकरम् ।
शंभुं वीक्ष्य हरिस्तूर्णं चक्रं करान्मुमोच ह ॥७७॥
उर्मिकासदृशं चक्रं निर्गतं चांगुलेर्यदा ।
शीघ्रं वह्निं विमुञ्चच्चाऽवर्धताऽतिभयंकरम् ॥७८॥
सहस्रारं सूर्यतुल्यं रक्तवर्णं च वेगवत् ।
निनादयद्दिशः सर्वाः प्रज्वालयद् वनानि च ॥७९॥
पर्वतं भस्मसात् कुर्वत् चाग्रसद् राक्षसान् द्रुतम् ।
पृथिवी कम्पिता तस्य वेगेन वायुमण्डलम् ॥८०॥
कम्पितं च समुद्रा वै स्तब्धाश्चोद्वेलतां गताः ।
विमानान्यम्बरे स्थैर्यं समतां तत्यजुः क्षणम् ॥८१॥
सर्वदेहिहृदयानि त्रेसुर्धैर्यं प्रतत्यजुः ।
हाहाकारस्तदा जातो मुमुहुर्निर्बलाः क्षणम् ॥८२॥
सत्वानि मूर्छितान्येव क्षणं चक्रेऽतिवेगिते ।
राक्षसाः स्तब्धतां याता ज्ञातवन्तः सुदर्शनम् ॥८३॥
तावच्चक्रं प्राप्तमेव व्यदारयच्छिरांसि हि ।
हताः शेषा राक्षसा ये मारिशेशोऽपि नाशितः ॥८४॥
गण्डशैला इव तेषां देहाः पेतुः क्षितौ तदा ।
अथ चक्रं गणरक्षाकरं शूलं प्रगृह्य तु ॥८५॥
न्यवर्तत महाघोरं वह्निमण्डलसदृशम् ।
अतिवेगं समापन्नं शान्तिं नाऽवाप सत्वरम् ॥८६॥
पर्वतारण्यभोगेषु शनैः शनैरपाऽसरत् ।
पर्वतस्य भूमिका याः प्रदेशा बहवस्तदा ॥८७॥
चक्राग्निनां प्रदग्धाश्च रसभावं गतास्तदा ।
श्वेतस्फटिकभस्माढ्याः कृष्णमणिसमा अपि ॥८८॥
पीताः स्वर्णसमाश्चापि प्रदेशास्त्वभवन् प्रियाः ।
पाषाणपर्वतरसा दग्धाश्चक्रस्य वह्निना ॥८९॥
पुनः पाषाणतां प्राप्ता मणयो वै यथा शुभाः ।
आसमन्ताद् रसोत्पन्नः पाषाणा आरसारत्मकाः ॥९०॥
चक्रसंगेन संजाता मर्मराः संगमर्मराः ।
शिल्पकार्याऽर्हदेहास्ते प्रदेशा विकृतिं गताः ॥९१॥
चक्रे शान्तं ह्यभूच्चापि मूर्तिं दधार पार्षदीम् ।
शूलं तु गणमूर्तिं च दधारापि त्रिलोचनाम् ॥९२॥
गणानाहूय च सेनां मानवानां वनस्थिताम् ।
धैर्यं च ददतुश्चोभौ विजयं च शशंसतुः ॥९३॥
तावद् विजयतूर्याणि त्ववाद्यन्त समन्ततः ।
पुष्पवृष्टिश्चाभवत्त्वम्बराद् देवादिभिः कृता ॥९४॥
भेर्यो निनादान् चक्रुश्च शंखाश्च बिगुलानि च ।
सैन्ये तु मानवे हर्षो मूर्तिमान् प्रविवेश ह ॥९५॥
गणेष्वपि तु सर्वेषु वैमानिकेषु वै तथा ।
उभयोर्नृपयोश्चापि हृत्स्वानन्दो न वै ममौ ॥९६॥
जयशब्दा विमानेषु प्राभवन् बहुहर्षतः ।
अथ चक्रं तथा शूलं पार्षदौ द्वौ च पर्वते ॥९७॥
ययतुर्गह्वरद्वारं रक्षोनिवासभूमिकाम् ।
विलोकयामासतुश्चान्तरे गत्वाऽन्धकारिते ॥९८॥
प्रकाशं स्वं प्रसार्यैव तावत्तत्र च गह्वरे ।
भक्षितानां नराणां नारीणां शेषास्थिसंचयान् ॥९९॥
विलोक्य दुःखमापन्नौ दयापरौ हि पार्षदौ ।
अग्रे गत्वा पुनस्तत्रालोकयामासतुस्तदा ॥१००॥
कन्यकाश्च स्त्रियश्चापि राक्षसैर्या अपहृताः ।
शते द्वे च सहस्रं च युवत्यो रुरुदुस्तदा ॥१०१॥
तावुभौ वेदयामासुर्वृत्तान्तानि हि रक्षसाम् ।
पार्श्वे च विद्यते वृक्षसमूहे नगरी वने ॥१०२॥
द्रोण्यामदृश्यरूपा तु यत्र सन्ति ह्यनेकशः ।
अपहृता नरा नार्यो बाला बाल्यश्च बन्धने ॥१०३॥
ताः सर्वास्तौ गह्वराच्च बहिर्निष्कास्य सत्वरम् ।
ययतुर्नगरी राक्षसैः प्राक् कृता यथा ॥१०४॥
तत्र दृष्टा - निगडस्था बहवो युवमूर्तयः ।
अन्ये विमुक्तभावाश्च प्राकारान्तर्निवेशिताः ॥१०५॥
नरा नार्यश्च बहवो भक्ष्याः क्रमात्तु रक्षसाम् ।
पारेसहस्रमावीक्ष्य मोचयामासतुश्च तान् ॥१०६॥
अथ चक्रं स्थितं तत्र शूलं ययौ हरिं हरम् ।
जगाद सर्वं वृत्तान्तं तदा नारायणो हरः ॥१०७॥
विमानं सत्वरं त्यक्त्वा नगरीं ययतुर्द्रुतम् ।
रुदन्तोऽपि गता हर्षं दृष्ट्वा हरिं हरं प्रभुम् ॥१०८॥
प्रजास्ताश्च प्रणेमुर्बन्धनमुक्ताः पुनः पुनः ।
हरिः सर्वाः प्रजास्तत्राऽऽश्वासयामास पितृवत् ॥१०९॥
अनाथस्य सुतश्चापि सुताऽपि च प्रणेमतुः ।
परमेशं हरं चापि रुरुदतुः पुनः पुनः ॥११०॥
हरिस्तेभ्यो राधिके वै धैर्यं निर्भयतां ददौ ।
शंकराय हरिः प्राह निस्तारार्थं सुखावहम् ॥१११॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राक्षसानां राजभ्यां तत्सैन्यैः सह योधनं राक्षसीनां दुर्गया सह योधनं रुद्रेण राक्षसानां नाशनं निगडस्थप्रजानां रक्षणं पर्वतस्य सुदर्शनतेजसा रसशिलामयत्वं चेत्यादिनिरूपणनामा त्र्यशीत्यधिकशततमोऽध्यायः ॥१८३॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP