संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ४६ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ४६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४६ Translation - भाषांतर श्रीकृष्ण उवाच--शृणु त्वं राधिके पश्चाद् यद्वृत्तं तद्वदाम्यहम् ।विमानं स्तंभयामास खे मात्रागस्करस्तदा ॥१॥लक्ष्मणार्यस्य च रणंगमस्य सन्निधौ स्थितः ।गदया तौ विजेतुं च कर्तुं विमानमात्मसात् ॥२॥ऐच्छन्मदावलिप्तः स गर्जना बहुधा व्यधात्॥गलितास्तेन मेघाश्च वार्धेर्जलानि चुक्षुभुः ॥३॥सहस्रयोजनान्ते ये स्थितातेऽप्यावहन् भयम् ।चकम्पे पृथिवी वायुर्विमानं कम्पमावहत् ॥४॥कन्यकाश्च कुमाराश्च त्रासमापुः क्षणं तदा ।अथाऽयं भगवद्भक्तो रणंगमो महाबलः ॥५॥सान्त्वयामास सर्वांश्च सस्मार बालकृष्णकम् ।द्रागेव तु हरिस्तत्र विमाने प्रादुरास ह ॥६॥युद्धं कुरु विजयस्ते चेत्युक्त्वा स तिरोऽभवत् ।वैमानिकानां सर्वेषां तदा धैर्यमभून्महत् ॥७॥अथाऽसुरः पुनः प्राह वैमानिक विहंगम ।देहि युद्धं च वा दत्वा विमानं स्वगृहं व्रज ॥८॥रणंगमस्तु तं प्राह युद्धं ददामि वीर ते ।बाहुयुद्धं गदायुद्धं शरयुद्धं ददामि ते ॥९॥शस्त्रयुद्धं मन्त्रयुद्धं प्राणयुद्धं ददामि ते ।ओमित्युक्त्वा राक्षसः स गदया तं रणंगमम् ॥१०॥निजघान विमानस्थं मुक्तया वेगतस्तदा ।रणंगमः समुत्प्लुत्य पद्भ्यां गदां प्रताड्य च ॥११॥अधःपतन्तीं दण्डे तां बाहुभ्यां जगृहे तदा ।तां गदां शतभारां संगृह्य रणंगमो नृपः ॥१२॥भूत्वा व्योम्नि महाशैलनिभो जघान तं हृदि ।उत्प्लुत्य राक्षसस्तामापतन्तीं व्योममार्गतः ॥१३॥जग्राह पाणिना यावत् तावद् रणंगमेन वै ।प्रहिता शतभारा च गदाऽन्या त्वनलान्विता ॥१४॥लग्ना स्कन्धाग्रभागे सा कण्ठजत्रुं बभञ्ज ह ।अथ क्रुद्धो महाशैलो भूत्वा सहस्रभारिकाम् ॥१५॥गदां धृत्वा महावेगान्मुमोच रणगोपरि ।रणगोऽपि महाशैलो भूत्वा सहस्रभारिकाम् ॥१६॥कल्पवल्लीसमुत्थां च गदां धृत्वा क्षणान्तरे ।तयाऽऽपतन्तीं शतधा चूर्णयामास वै बली ॥१७॥अथ मात्रागस्करश्च वीक्ष्याऽऽश्चर्यमवाप ह ।क्रुद्धो दुद्राव रणगं बाहुभ्यां धृतवाँश्च तम् ॥१८॥रणगश्च महद्रूपं दधार तच्चतुर्गुणम् ।बाहुभ्यां राक्षसकण्ठं दधार पाशवत्तदा ॥१९॥राक्षसोऽपि तदा सूक्ष्मं रूपं कृत्वाऽप्यपासरत् ।रणंगमस्तदा व्योम्नि स्थितोऽभून्निर्भयः क्षणम् ॥२०॥तावद् दैत्यो व्योममार्गान्महाशक्तिं प्रगृह्य च ।रणंगमस्य शिरसि प्राहिणोदनलान्विताम् ॥२१॥रणंगमस्तु त्वरितो लोहाकर्षणकारिणीम् ।शक्तिं नैजां मुमोचैनां समाकृष्याऽसुरोदरे ॥२२॥लग्नाऽभवत्तु सा भित्त्वाऽऽन्त्रेषु स्थिराऽभवत्ततः ।असुरो बलवान् भिन्नमुदरं शृंखलादिना ॥२३॥बद्ध्वा शक्तिं विनिष्कास्य क्षणं मूर्छामवाप ह ।व्योम्न्येव संस्थितो विद्युन्मन्त्रेण दीर्घसायकम् ॥२४॥अभिमन्त्र्य प्राहिणोच्च नाशयितुं रणंगमम् ।रणगः प्रेषयामास वज्रं कल्पलतोद्भवम् ॥२५॥शरं विनाश्य दैत्यस्य हृदि लग्नं विवेश ह ।दैत्यो मूर्छां गतो व्योम्नो वार्धेर्जले पपात ह ॥२६॥कटिदघ्नः समुद्रोऽस्याऽभवन्मूर्छान्वितस्य वै ।अथ शैत्यं समासाद्य विमूर्छश्चाऽभवत्तदा ॥२७॥नम्रास्यो लज्जया भूत्वा धिक्कारं स्वात्मने ददौ ।ततो वै रचयामास मायां घोरां तु राक्षसीम् ॥२८॥सहस्रधाऽभवद् दैत्यः सैन्यं रणंगमं ततः ।अभितस्ताडयामास बाणैर्दण्डैश्च मुद्गरैः ॥२९॥गदाभिर्मूशलैः प्रासैस्तोमरैः प्रस्तरादिभिः ।शक्तिभिश्चाऽसिभिश्चापि हेतिभिर्बहुरूपिभिः ॥३०॥रणंगमस्तदा कल्पलताबलात् क्षणान्तरे ।अदृश्यतां गतो मध्याद् विमानाग्रे स्थितोऽभवत् ॥३१॥दैत्यो रुषान्वितो भूत्वा त्यक्त्वा रणंगमं तदा ।धर्षयितुं विमानं लम्बयामास करौ यदा ॥३२॥तावत्कल्पलतोत्थवह्निना दग्धौ हि तत्करौ ।दग्धहस्तोऽसुरो यानं ग्रहीतुं न शशाक च ॥३३॥हेतींश्चापि ग्रहीतुं न शशाकापि तु गर्ववान् ।ज्वालामुखोऽभवच्छैलो वह्निदावसमाकुलः ॥३४॥रणंगमं प्रदग्धुं स मनोऽकरोत्तथापि वै ।कल्पलताऽमृतवर्षी रणंगमो विमानकम् ॥३५॥ररक्ष च निजात्मानं विमानस्थान् सुधाजलैः ।प्रज्वलत्यसुरस्तत्र विमानं नैव दह्यति ॥३६॥लक्ष्मणः स्वीयरक्षार्थं स्वस्तिपाठान् जजाप ह ।यत् तत्स्वस्त्ययनं पुण्यं सर्वमांगल्यमंगलम् ॥३७॥ओं स्वस्ति कुरुतात् कृष्णनारायणः परेश्वरः ।कृष्णो नारायणो ब्रह्मा स्वस्ति नः कुरुताऽच्युतः ॥३८॥स्वस्ति नः शंकरश्चापि शिवायुक्तः करोत्वपि ।ईश्वरा लोकपालाश्च ग्रहा महर्षयस्तथा ॥३९॥विश्वेऽश्विनौ साध्यमरुद्गणाऽग्नयो दिवाकराः ।यक्षाश्च वसवः स्वस्ति कुर्वन्तु किन्नरादयः ॥४०॥नागाः सुपर्णाः सरितः सरांसि चाऽब्धयस्तथा ।चक्रं सुदर्शनं मन्त्रा आयुधानि हरेस्तथा ॥४१॥भक्ताश्च पितरो मुक्ता राधारमादिशक्तयः ।भूतानि स्वस्ति कुर्वन्तु तेजस्विनोऽनलादयः ॥४२॥स्वस्ति द्विपादिकेभ्यश्च चतुष्पादेभ्य इत्यपि ।स्वस्ति नो बहुपादेभ्यस्त्वपादेभ्यस्त्वनामयम् ॥४३॥विमानस्य स्वस्ति चाऽस्तु स्वस्ति रणंगमस्य च ।वैमानिकानां कल्याणं स्वस्ति चाऽस्त्वपि मंगलम् ॥४४॥ज्वालामुखेभ्यः स्वस्त्यस्तु मायाज्वालेभ्य इत्यपि ।आसुरेभ्यस्तथा स्वस्ति चान्तरात्मा करोतु नः ॥४५॥इत्येवं लक्ष्मणस्तत्र कृष्णनारायणं हरिम् ।सस्मार स्वस्तिमांगल्यप्रदं श्रीपुरुषोत्तमम् ॥४६॥प्रत्यक्षोऽभूद्बालकृष्णो विहस्याऽनलपर्वते ।शान्तिः शैत्यं विमानस्याऽनामयं वोऽस्त्विति ब्रुवन् ॥४७॥असुरस्य तु भस्मार्थं कृष्णनारायणः प्रभुः ।आज्ञापयन्महातेजःपुरुषं पार्षदं निजम् ॥४८॥महातेजःपुरुषोऽसौ ज्वालामुखं हि दानवम् ।प्राऽज्वालयत् प्रसह्यैव पतंगं त्वनलो यथा ॥४९॥विमानं भक्तसहितं ररक्ष भगवान् स्वयम् ।भस्मीचकार च दैत्यं ज्वालामयं महानले ॥५०॥दशयोजनविस्तीर्णो भस्मदेशोऽभवत्तदा ।दैत्यस्य तत्र वै द्वीपे मात्रागस्करनामिनः ॥५१॥एवं विनाश्य दैत्यं च विमानेन सुराष्ट्रकम् ।आययुः श्रीहरिलक्ष्मणार्यरणंगमादयः ॥५२॥कुंकुमवापिकाक्षेत्रे चाश्वपट्टसरोवरम् ।विलोक्य लोमशं चापि नगरं स्वर्गसदृशम् ॥५३॥अवतेरुः पृथिव्यां ते नारायणयुताः सुखात् ।लोमशं प्रथमं नत्वा ययुर्गोपालमन्दिरम् ॥५४॥सत्कृतास्तत्र च पित्रा बालकृष्णेन वै मुदा ।मात्रा कम्भरया चापि मुदमापुः सुपूजिताः ॥५५॥दत्तासनाः कृतावासा कृतभोजनविश्रमाः ।कृताभाषाप्तवृत्तान्तास्ततो वै लक्ष्मणादयः ॥५६॥अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।पूजयितुं चोपदाभिराययुः कम्भरागृहम् ॥५७॥सिंहासने हरिर्बालो व्यराजत तदिच्छया ।प्रथमं चामृतवार्भिश्चरणौ सुखदायिनौ ॥५८॥पुपूजुः श्रीहरिं सर्वाः कन्यका दिव्यविग्रहाः ।लक्ष्मणस्याज्ञया ताश्च जगृहुश्चरणामृतम् ॥५९॥पुष्पहारान् रत्नहारान् मौक्तिकीर्मालिकास्तथा ।मुकुटं कुण्डले कल्गिं चन्दनाऽक्षतहीरकान् ॥६०॥कटकान् रशना भूषाश्चाम्बराणि समार्पयन् ।फलानि चामृतपानान्यपि पात्राणि कैसरान् ॥६१॥पदार्थान् विविधाँश्चाऽस्मै बालकृष्णाय ता ददुः ।आरार्त्रिकं तथा चक्रुश्चक्रुः प्रदक्षिणं नमः ॥६२॥चरणौ वक्षसि कृत्वाऽऽवापुः परां सुनिर्वृत्तिम् ।एवं कन्याः प्रसंपूज्य श्रीकान्तं हृत्सु सन्दधुः ॥६३॥कृष्णनारायणः कान्तस्तासां हृत्सु विवेश ह ।स्वस्मिन् जहार सर्वासां हृदयानि च माधवः ॥६४॥ज्ञात्वा श्रीलक्ष्मणो भावं कृष्णे कान्ते तु कान्यकम् ।अनादिश्रीकृष्णनारायणाय प्रददौ च ताः ॥६५॥यौतकं बहुरत्नादि ददौ कृतार्थतामगात् ।ततः कुमाराः सर्वे च कृष्णपूजां समाचरन् ॥६६॥लक्ष्मणार्यस्ततः पूजां चकार पारमेश्वरीम् ।रणंगमो मालिनी च चक्रतुर्हरिपूजनम् ॥६७॥ततः श्रीकम्भरालक्ष्म्याः पूजनं ते प्रचक्रिरे ।श्रीमद्गोपालकृष्णस्याऽर्चनं दिव्यं प्रचक्रिरे ॥६८॥ययुः श्रीलोमशं विप्रं तत्पूजां च प्रचक्रिरे ।बालकृष्णो ददौ कन्या रक्षितुं लोमशाय ह ॥६९॥लोमशः स्वाश्रमेऽरक्षद् वैष्णवीः कृष्णयोषितः ।एवं कृतार्थतां सर्वे प्रपेदिरे हरेः पुरः ॥७०॥पानभोजनसत्कारैरानन्दं लेभिरेऽतिगम् ।अथ तीर्थविधिं चक्रुर्माघपूर्णाप्रगे च ते ॥७१॥ददौ दानानि दिव्यानि स्वर्णरत्नाम्बराणि च ।परिहारं ततः कृत्वा लक्ष्मणो निजराष्ट्रकम् ॥७२॥गन्तुमियेष च तदा रणंगमोऽवदत्तु तम् ।लोमशोऽयं महायोगी कुमारेभ्यो ददात्यपि ॥७३॥मन्त्रं मोक्षकरं राजन् प्रदापय तदग्रतः ।लक्ष्मणार्यस्ततो मन्त्रं दापयामास पुत्रकान् ॥७४॥लोमशः श्रीहरिं स्मृत्वा पञ्चशतकुमारकान् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७५॥मन्त्रपूतान् प्रसम्पाद्य चक्रे तुलसीस्रग्युतान् ।दिव्यं ज्ञानं ददौ तेभ्यो वासनाक्षयकारकम् ॥७६॥पुत्राः शृणुत लोकोऽयं कर्मबन्धनजो मतः ।सतां सेवा शुभं कर्म श्रीहरेर्भजनं शुभम् ॥७७॥आत्मश्रेयः शुभं श्रेष्ठं तृष्णानाशः परं सुखम् ।देहेन्द्रियादिप्राबल्यं वासनोद्भावकं मतम् ॥७८॥ज्ञाने बलिष्ठे गौणं तज्जायते निग्रहात्मकम् ।निग्रहो वासनादाहकरो भवति योगिनाम् ॥७९॥देहेन्द्रियबलं तस्याऽकिञ्चित्करं प्रजायते ।देहो नारी तदन्तःस्थो जीवो नरो भवत्यपि ॥८०॥भुंक्ते देहं नरो जीवो भोगोऽस्य सुखदुःखदृक् ।तस्माज्जीवेन वै भाव्यं ब्रह्मरूपेण सर्वथा ॥८१॥परब्रह्माश्रयश्चाऽस्य ब्रह्मतापादको मतः ।परब्रह्म स्वयं चास्ते कृष्णनारायणोऽत्र ह ॥८२॥तद्योगो भवतां जातः कर्तव्यं नाऽवशिष्यते ।कोटिजन्माऽर्जितपुण्यैरयं कृष्णो ह्यवाप्यते ॥८३॥सतां समागमेनात्र तत्प्राप्तिर्जायते द्रुतम् ।साधुरूपो ह्ययं राजा रणंगमो भवत्सुहृत् ॥८४॥आनीयात्र च वः श्रेयः परमं प्रत्यपादयत् ।ततो भक्तिं चास्य नारायणस्य कुरुताऽनघाः ॥८५॥सर्वार्पणात्मकं तत्र नैष्कर्म्यं कुरुताऽनघाः ।प्रत्यक्षं तु विना नैव सिद्ध्यन्त्यत्र पुमर्थकाः ॥८६॥परः पुमर्थो युष्माकं सिद्धः प्रप्यक्षयोगतः ।येषां कृष्णे परा भक्तिर्यथा कृष्णे तथा गुरौ ॥८७॥तेषां सर्वे पुमर्थाश्च सिद्ध्यन्त्येव न संशयः ।ते ब्रह्मज्ञाः परं प्रेयुर्भुक्त्वा भोगान् सुपुष्कलान् ॥८८॥सर्वार्पणं च विश्वासो माहात्म्यं भावना स्मृतिः ।आत्मीयस्निग्धता चेति षट् परब्रह्मदायकाः ॥८९॥शान्तिरास्तिक्यमतृष्णाऽनुद्वेगो निर्भया स्थितिः ।अपारवश्यं च षट् ते महानन्दप्रदायकाः ॥९०॥वृद्धाभिवन्दनं सेवोत्साहः कर्तव्यधर्मता ।न्यायाभिसरणं ममताराहित्यं च मार्दवम् ॥९१॥षडेते सर्वथा लोके जनानां पुण्यवर्धकाः ।सहनं सर्वथा रुजां देहाभिमानवर्जनम् ॥९२॥कीर्त्याद्यननुसन्धानं चाऽपरिग्रहवर्तनम् ।अलालसा कुत्रचिच्च रागक्रियाविवर्जनम् ॥९३॥षडेते सर्वथा लोके जीवन्मुक्तिविवर्धनाः ।देवानां दर्शनं नित्यं तथा विवेकदर्शनम् ॥९४॥लक्ष्यबिन्दोर्दर्शन च फल्गुप्रदर्शनं तथा ।अविघ्नदर्शनं चापि दर्शनस्य च दर्शनम् ॥९५॥एते षट् मुक्तिदाः सन्ति विजयस्य प्रदास्तथा ।अकामाश्च तथाऽस्वार्थाः आत्मस्वार्थाः परार्थकाः ॥९६॥अविनष्टसदाचारा विज्ञाः षट् ते ह्यनन्धकाः ।गुणमात्रग्रहा ये च गुणमात्रप्रदाश्च ये ॥९७॥गुणदृष्टिप्रयोक्तारो गुणेष्वन्यान् प्रयुञ्जते ।तत्त्वज्ञानप्रमोदाश्च उदासते गुणेतरात् ॥९८॥त एते षट् निर्मलाश्च विदेहाः सन्ति वर्ष्मसु ।गर्भं बाल्यं यौवनं च वार्धक्यं मरणं तथा ॥९९॥प्रेतत्वं च समं येषां ते मुक्ता गुणवर्जिताः ।देहो गृहं धनं क्षेत्रं भूषाम्बरं च भोजनम् ॥१००॥षडेतेऽतिथिवद् यस्य तस्य पादोऽक्षरेऽस्ति वै ।पुत्रं नारी पिता माता सुता दासी गवादयः ॥१०१॥सतामर्थे प्रभोरर्थे कृता यैर्मानवैरिह ।तेषां पादद्वयं चास्ति प्रभोश्चाक्षरधामनि ॥१०१॥आत्मार्थे यत्प्रियं चास्ति तद्वै ददेत् सतां कृते ।जीवं ददेत् पतिं ददेत् प्रियां ददेत् स मोक्षभाक् ॥१०३॥धनं ददेदात्मनोऽर्थे आत्मनोऽर्थे ददेत् प्रियाम् ।आत्मनोऽर्थे ददेद् राज्यं मोक्षार्थे सर्वमर्पयेत् ॥१०४॥लोमशेनेत्युपदिष्टाः कुमारा लब्धचक्षुषः ।दिव्यज्ञानयुतास्तं च लोमशं प्रणिपत्य च ॥१०५॥स्वसॄः सर्वाः प्रणम्यैवाऽऽभाष्य स्नेहमयं वचः ।विमानं च समारुह्य पित्रा श्रीलक्ष्मणेन च ॥१०६॥राणंगमस्य नगरं कोटीनारं ययुर्मुदा ।सोमेश्वरं तथा तीर्थं कृतवन्तोऽतिभावतः ॥१०७॥रणंगमाऽर्पितपूजां गृहीत्वा व्योममार्गतः ।विमानेन समं सर्वे ययुरन्तार्किवर्तुलम् ॥१०८॥भूगर्भं ताँश्च प्रापय्य तद्राज्यं च रणंगमः ।विमानेनाऽऽययौ नैजं कोटीनारपुरं पुनः ॥१०९॥इत्येवं कथितं राधे! भगवद्भक्तवर्तनम् ।भुक्तिमुक्तिप्रदं श्रेष्ठं श्रोतुर्वक्तुः शुभावहम् ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रणंगममात्रागस्करयोर्युद्धं, रणंगमस्य विजयः, कुंकुमवापिकाऽऽगमनं, प्रभोः पूजनं, लक्ष्मणेन द्विसाहस्रकन्यार्पणं चेत्यादिनिरूपगनामा षट्चत्वारिंशोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP