संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १९७

त्रेतायुगसन्तानः - अध्यायः १९७

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके स्वादनर्षिश्च स्तोकहोमो नृपोऽपि च ।
अम्बरादवतीर्यैव महोद्याने विशालके ॥१॥
उमापुर्याः सन्निधौ स्वागतार्थं ययतुर्द्रुतम् ।
सैन्यमादाय तूद्याने तिष्ठतः संप्रतीक्षतः ॥२॥
राजदर्शितमार्गेणाऽवातारयद् विमानकम् ।
हरिश्चान्ये विमानानि तदुद्यानेऽवतारयन् ॥३॥
तदा वाद्यान्यवाद्यन्त जयनादास्तथाऽभवन् ।
प्रजानां हर्षनादाश्च कीर्तनानि तदाऽभवन् ।
विमानं फलपुष्पाद्यैः प्रजाभिः संप्रवर्धितम् ॥४॥
हरिर्लाजाऽक्षताद्यैश्च वर्धितः स्वागतीकृतः ।
श्रीहरिर्मध्यभागाच्च विमानाद् बहिराययौ ॥५॥
राजा पुपूज वै भक्त्या स्वर्णकौसुमशेखरैः ।
हारै रत्नमयैः पौष्पैर्गुच्छैश्चन्दनवारिभिः ॥६॥
सुगन्धसारैर्विविधैः पादप्रक्षालनेन च ।
पपौ पादजलं चापि कुटुम्बेन समन्वितः ॥७॥
प्रधानाद्यैश्च सहितः प्रजाभिः सहितस्तथा ।
अथ राजा तु पितरौ हरेः पुपूज वै ततः ॥८॥
राज्ञी ब्रह्मप्रियाः सर्वाः पुपूज परमेश्वरीः ।
राजाऽऽनर्चेशानदेवं कन्या गौरीं पुपूज च ॥९॥
ऋषिर्महर्षीनानर्च भूभृत्तदा हरिं प्रभुम् ।
न्यषादयन्नरयाने शेषवत्स्वर्णमण्डिते ॥१०॥
फणासहस्रशोभाढ्ये षष्टिमानववाहिते ।
अन्यान् न्यषादयद् राजा शकटीषु नवासु च ॥११॥
ततस्तूर्यनिनादैर्हि यशोगानैः सुगीतिभिः ।
निनादितासु त्वाशासु हरिः स्वागतशोभितः ॥१२॥
उमापुर्यां विचचार पावयितुं प्रतिस्थलम् ।
गोपुरे राजपुरुषैर्वर्धितो रत्नमण्डनैः ॥१३॥
पुरीमध्ये भृत्यवर्यैः श्रेष्ठिभिश्च महापथे ।
गृहिभिश्चांगणेष्वेव सर्वत्र प्रजया तदा ॥१४॥
वर्धितः पूजितः कृष्णो ययौ ददन् स्वदर्शनम् ।
पूजां प्राप्य ततः सैन्यसहितः स्वनिवासनम् ॥१५॥
आययौ जलपानादि चकार नृपनोदितः ।
कुटुम्बं जलपानादि चक्रे तथाऽपरेऽपि च ॥१६॥
जलपानादिकं चक्रुरथ कृष्णः सभास्थले ।
राजसिंहासने स्थित्वा निषद्योपादिदेश ह ॥१७॥
प्रजाभिः सर्वथा भाव्यं परमेश्वरहेतवे ।
राजभिः सर्वथा भाव्यं प्रजान्तर्यामिहेतवे ॥१८॥
उभाभ्यां सर्वथा भाव्यं मिथोऽन्तर्यामिहेतवे ।
उभयत्र विराजेऽहं मां यजन्तु समाहिताः ॥१९॥
तेन युष्मद्विजयश्च भुक्तौ मुक्तौ भविष्यति ।
साधून् संपूजयेन्नित्यं स्पर्धां तत्र परित्यजेत् ॥२०॥
न च कामाद् भयाल्लोभाक्रोधाद्वा धर्ममुत्सृजेत् ।
अमानिना सत्यवाचा भाव्यं जितात्मना तथा ॥२१॥
तस्यैवं वर्तमानस्य भूतिर्भवति शाश्वती ।
तेजो धैर्यं क्षमा शौचमनुरागः स्थितिर्धृतिः ॥२२॥
एतान् गुणान् समाश्रित्य वर्तितव्यं हि मुक्तये ।
कृतप्रज्ञश्च मेधावी बुधः सर्वात्मदर्शकः ॥२३॥
सर्वसत्कर्मशुद्धश्च विज्ञश्चात्मपरात्मनोः ।
सुहृदात्मा विरागश्च मल्लोके गन्तुमर्हति ॥२४॥
सत्यवाक् शीलसम्पन्नः सत्रपो ब्रह्मसंस्मरः ।
सन्तुष्टः सत्यव्रतवान् मल्लोके गन्तुमर्हति ॥२५॥
सान्त्वनं वचनं चैकपदं गुणैर्विभूषितम् ।
आचरन् पुरुषः सौख्यं लभेत् सर्वत्र सृष्टिषु ॥२६॥
साम मे स्तवनं प्रोक्तं सान्त्वनं च तदेव तत् ।
जनानां सान्त्वनं चापि हृदिस्थस्य ममैव तत् ॥२७॥
तेन तुष्यामि सततं सान्त्वकीर्तनसेवनैः ।
सान्त्वं चैकपदं सर्वभूतानां सुखदं सदा ॥२८॥
सुकृतस्य हि सान्त्वस्य श्लक्ष्णस्य मधुरस्य च ।
सम्यगासेव्यमानस्य जिह्वायां संवसाम्यहम् ॥२९॥
व्यवहारेण शुद्धेन हृदये संवसाम्यहम् ।
उभाभ्यां सन्निधौ तस्य चागत्य गोचरो यथा ॥३०॥
भवाम्येव तथा नित्यं करोम्यस्य शुभं न्वहम् ।
एवं तिष्ठामि सततं धार्मिकेषु जनेष्वहम् ॥३१॥
धार्मिकैश्च जनैर्यत्र स्वकीया वसतिः कृता ।
तत्र गूढो वसाम्येव तेषां रक्षणहेतवे ॥३२॥
यष्टव्यं क्रतुभिस्तैश्च दातव्यं दानयोगिने ।
अनाथरक्षणं कार्यं न कार्यं धर्मबाधकम् ॥३३॥
कृपणाऽनाथवृद्धानां योषितां सेविनां तथा ।
योगः क्षेमस्तथा वृत्तिः कल्पनीया हि धार्मिकैः ॥३४॥
आश्रमेषु यथाकालं चैलभाजनभोजनम् ।
दातव्यं तैः प्रजाजनैर्नृपेण श्रेष्ठिनाऽपि च ॥३५॥
सर्वार्थत्यागिनं सन्तं मोक्षदं शास्त्रसंवृतम् ।
पूजयेच्छ्रेय इच्छन् वै शयनासनभोजनैः ॥३६॥
दस्यवोऽपि घातकाश्च विश्वसन्ति तथाविधे ।
पापनाशकरे शुद्धे साधौ मोक्षप्रदे गुरौ ॥३७॥
सर्वश्रेयस्करे साधौ विश्वसन्ति वनस्थिताः ।
आरण्यकाश्च पशवः सिंहाः क्रूरादयोऽपि च ॥३८॥
शान्ति लभन्ते तत्रैव यत्र साधुनिवासनम् ।
ऋतवोऽपि सत्त्ववृत्ता भवन्ति साधुसंगमे ॥३९॥
भूतानि सत्त्वयुक्तानि जायन्ते साधुसन्निधौ ।
अहं यस्माद् वसाम्येव साधूनां हृदयेऽन्वहम् ॥४०॥
तेषां सेवनतः सेवा मम संजायते शुभा ।
फलं यत्सेवनस्यैव जायते साघुसेवनात् ॥४१॥
यथादेशं यथाकालं यथाबुद्धिं यथाबलम् ।
साधून् सेवेत सततं धर्मार्थी मोक्षलालसः ॥४२॥
यथा श्रेयो भवेन्नैजं तथा सेवेत क्षेमवत् ।
तथा कर्माणि कुर्वीत साधुस्तुष्टो भवेद् यथा ॥४३॥
ये भूतान्यनुगृह्णन्ति शिक्षयन्ति वृषादिकम् ।
ते साधवः सदा रक्ष्या राष्ट्रे राज्ञा विपश्चिता ॥४४॥
धनी संपूजयेन्नित्यं पानाच्छादनभोजनैः ।
साधुं प्रजानियन्तारं धर्मस्य शासकं शुभम् ॥४५॥
प्रायो धनी धार्मिकश्च तपोयुक्तान् प्रपूजयेत् ।
बुद्धिमान् साधुपुरुषं रक्षेत् स्वनगरे सदा ॥४६॥
सत्यमार्जवमक्रोधं भक्तिं धर्मं विरागिताम् ।
पालयन्तः साधवस्ते राष्ट्रक्षेमकरा मताः ॥४७॥
किं छिद्रं कस्य संगो मे किं वा करोमि साधनम् ।
कुतो मां नाश्रयेद् दोषः इति विद्वान् विचिन्तयेत् ॥४८॥
राजा साधून् रक्षयेद्वै सर्वदोषहरा हि ते ।
धर्माय राजा भवति लोकरक्षणहेतवे ॥४९॥
राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।
राजा चरत्यधर्मं चेन्नरकायैव कल्पते ॥५०॥
धर्मे तिष्ठन्ति भूतानि धर्मौ राजसु तिष्ठति ।
तं राजा साधु यः शास्ति स राजा रक्षको मतः ॥५१॥
राजा परमधर्मात्मा साधुर्धर्मः स उच्यते ।
स्वधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ॥५२॥
तमेव मंगलं धर्मं लोकः समनुवर्तते ।
ममेदमिति नैवाऽस्ति साधूनां धर्मशालिनाम् ॥५३॥
ऋषयः साधवो वीक्ष्य लोकक्षेमं समन्ततः ।
असृजत्स महद्भूतं ह्ययं धर्मो भविष्यति ॥५४॥
यस्मिन् धर्मो विराजेत स राजा रक्षको मतः ।
धर्मे वर्धति वर्धन्ते सर्वभूतानि सौख्यतः ॥५५॥
तस्मिन् ह्रसति हीयन्ते तस्माद्धर्मं प्ररक्षयेत् ।
प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा ॥५६॥
साधौ धर्मः प्रभवति रक्ष्यास्तस्माद्धि साधवः ।
धर्मस्य साधवो योनिस्तस्मात्तान् पूजयेत् सदा ॥५७॥
मत्तात्प्रमत्तात् पौगण्डादुन्मत्ताद्व्यसनाश्रयात् ।
मायिकाच्च शठाद्धूर्ताल्लम्पटात्कितवात्मकात् ॥५८॥
दूरे भवन्ति सततं साधवो निर्मला यतः ।
तारयन्ति निमग्नाँश्च प्रापयन्ति च मामपि ॥५९॥
तस्माद् रक्ष्याः पूजनीयाः सेवनीयाः हि साधवः ।
अत्यागं चाभिमानं च दंभं क्रोधं च वर्जयेत् ॥६०॥
कृतं त्रेता द्वापरं च कलिश्च युगतुर्यता ।
राजाधिनानि सर्वाणि राजैव युगमुच्यते ॥६१॥
सुधर्मात्मा नृपः श्रेष्ठः कृतं युगं स तूच्यते ।
अधर्मात्मा भवेद् राजा साधवस्त्वपयान्ति वै ॥६२॥
विपदोऽपि भवेयुर्वै राष्ट्रे तत्र समन्ततः ।
अधर्मभूते नृपतौ सर्वे सीदन्ति जन्तवः ॥६३॥
यस्य नास्ति गुरुर्धर्मे न च साधून् सुपृच्छति ।
स्वयं चापारदर्शी च न चिरं सुखमश्नुते ॥६४॥
गुरुप्रधानो धर्मेषु साधुधर्मे स्वयं स्थितः ।
धर्मप्रधानो नृपतिः सुखमक्षयमश्नुते ॥६५॥
तस्माद् प्रजाभिः सततं राज्ञा च धर्मवर्मणि ।
वर्तितव्यं साधुसंगे येन भुक्तिश्च मोक्षणम् ॥६६॥
इत्युक्त्वा श्रीहरिं कृष्णो विररामाऽथ वै ततः ।
भूपतिः पूजयामास प्रजाः पुपूजुरादरात् ॥६७॥
अथ श्रीबालकृष्णं तं स्तोकहोमस्य कन्यका ।
मातृवाक्यं परिपाल्य कृष्णहस्तमुपाददे ॥६८॥
कृतकृप्याऽभवद् गौरी राजोत्सवं चकार ह ।
हरिं संभोजयामास कुटुम्बं महीमानकान् ॥६९॥
विशश्रमुस्ततः सर्वे प्रजाः स्वस्वालयान् ययुः ।
रात्रौ नृत्यादि च राजाऽकारयन्महदुत्सवे ॥७०॥
भोजनं चाथ विश्रान्तिं जगृहुश्च ततः परम् ।
प्रातरुत्थाय भगवान् कृताह्निकः सुपूजितः ॥७१॥
कृतदुग्धादिपानश्च सज्जोऽभूद् गन्तुमच्युतः।
राजा ददावुपदाश्च सैन्येन सह शोभनः ॥७२॥
विदायं प्रददौ चापि तूर्यनादास्तदाऽभवन् ।
हरिर्विमानमारुह्य शृण्वन् जयध्वनीन् शुभान् ॥७३॥
गौरीणां गीतिकाश्चापि सर्वैर्विमानवासिभिः ।
प्रययौ चाम्बरात्तूर्णं काष्ठयाननृपस्य वै ॥७४॥
राष्ट्रं नाररवर्षिध्रं सागरान्तं महायतम् ।
तुन्नयामानगर्याः सन्निधौ वृक्षाधिवासिते ॥७५॥
उद्याने काष्ठयानश्च राजा पुरो ययौ तथा ।
नाररवमुनिश्चापि स्वागतार्थं हरेर्ययौ ॥७६॥
इत्येवं राधिके राजा सैन्ययुक्तोऽभवत्पुरः ।
सर्वाः प्रजास्तथा कृष्णसन्मानार्थ समाययुः ॥७७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने स्तोकहोमस्य उमापुर्यां हरेरवतरणं भ्रमणं पूजनम् उपदेशनं भोजनं रात्रौ विश्रमणं भाद्रशुक्लप्रतिपदि प्रातस्ततः काष्ठयाननृपतिराष्ट्रागमनमित्यादिनिरूपणनामा सप्तनवत्यधिकशततमोऽध्यायः ॥१९७॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP