संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २१५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २१५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिकेऽब्धिस्थे द्वीपे कूपेशभूपतिः ।सम्मानं श्रीहरेश्चक्रे क्यूबाख्ये बहुशोभिते ॥१॥जलयन्त्रैर्वाहनैश्च नौकाभिश्च प्रजास्तदा ।हवानाया नगर्याः सन्निधौ तूद्यानकेऽगमन् ॥२॥विमानं त्वब्धितीरस्य सन्निधौ भूतले शुभे ।अवातरत् ततो राजा श्रीकृष्णसन्निधिं ययौ ॥३॥ननाम पादयोश्चापि पुष्पहारान् ददौ गले ।राज्ञी पुपूज देवेशं पुष्पलाजाऽक्षतादिभिः ॥४॥हेयतायनराजर्षिः पुपूज परमेश्वरम् ।नगर्यां श्रीहरिं राजा भ्रामयामास वाहनैः ॥५॥सुवर्णशकटीमध्ये निषाद्य छत्रचामरैः ।शोभितं श्रीहरिं लोकाः पूजयामासुरादरात् ॥६॥द्रव्यैः फलैश्चाम्बराद्यै रत्नैश्चन्दनकेसरैः ।पूगीफलादिभिर्नारिकेलैश्च शर्करादिभिः ॥७॥ततः कृष्णं तु नौकायां निषाद्य भूपतिः स्वयम् ।अब्धौ विहारयामास द्वीपस्य सन्निधौ तदा ॥८॥अथ भोजनवेलायां मध्याह्ने भोजनं व्यधात् ।भगवान् सार्थयुक्तो वै तदा राज्ञी समागता ॥९॥पूजनार्थं हरिं तत्र तत्पुत्रीं हरये ददौ ।ताम्बूलं कान्तमालां च कण्ठे न्यधाद्धरेर्हि सा ॥१०॥कन्या प्राप्य पतिं कृष्णं कृतकृत्या बभूव सा ।माता चातिप्रसन्नाऽभूद् राजोत्सवं चकार ह ॥११॥ततो विश्रान्तिमापाऽयं भगवान् भवनोत्तमे ।अथाऽऽयाद् दर्शनार्थं हि कन्याया मातुलो नृपः ॥१२॥कुलम्बायनराष्ट्रेशो विगोष्ठानगरीपतिः ।नाम्ना कालीमण्डलीनः पुपूजापि स माधवम् ॥१३॥श्रीहरिं चार्थयामास स्वराष्ट्रगमनाय हि ।हरिस्तथास्त्विति प्राह तदा सज्जोऽभवद् द्रुतम् ॥१४॥कूपेशश्च विदायं श्रीहरये यौतकं ददौ ।ययौ कालीमण्डलीनः पूर्णासनर्षियुक् पुरः ॥१५॥भगवान् स्वविमानस्थो व्योम्ना ययौ विगोष्ठिकाम् ।समुद्रं समतीत्यैव सायं त्ववाप तां पुरीम् ॥१६॥राजा सैन्येन सहितः सम्मानं बहुधा व्यधात् ।अवाततार भगवान् विगोष्ठिकान्तिकक्षितौ ॥१७॥प्रजास्तं वर्धयामासुरत्यर्थं चाक्षतादिभिः ।भगवान् स्वविमानाच्चाऽवतीर्यार्पितकाञ्चने ॥१८॥निषसादासने दिव्ये राजा ननाम पादयोः ।पुष्पस्रजो ददौ कण्ठे गन्धसारं ददौ तथा ॥१९॥ताम्बूलकं जलं चापि ददौ सार्थेभ्य इत्यपि ।सैन्येन सहितो राजा भ्रामयामास वाहनैः ॥२०॥गजाश्वशकटीभिश्च तथा मानववाहनैः ।विगोष्ठाख्यनगर्यां वै प्रजाः पुपूजुरच्युतम् ॥२१॥गजयाने स्थितं कृष्णं पितरौ च कुटुम्बकम् ।ईशानं लोमशं चापि सतीं लक्ष्म्यादिकास्तथा ॥२२॥अश्वयानस्थिताँश्चान्यान् सेवकानृषिसत्तमान् ।ब्रह्मप्रियादिकाः सर्वाः शिबिकास्थाश्च योषितः ॥२३॥प्रजाः प्रधाना विप्राद्याः श्रेष्ठिनो धनिनस्तथा ।दीना नराः स्त्रियः सर्वाः पुपूजुश्च यथाधनम् ॥२४॥नमनैः स्तवनैश्चापि हृदयैर्नेत्रकैः करैः ।भावनैः पुष्पहाराद्यैः फलैश्च शर्करादिभिः ॥२५॥पुपूजुः परमेशानं प्राप्तं दिव्यगुणोदधिम् ।एव नगरीं सर्वां तां भ्रमित्वा भगवान् प्रभुः ॥२६॥आययौ चार्षितावासं सभां चकार शोभनाम् ।उपदेशं ददौ तत्र योग्यं योग्यतरं हरिः ॥२७॥येषां देवेऽस्ति विश्वासस्तेषां फलति विश्वसृट् ।येषां नास्ति तु विश्वासस्तेषां फलं न जायते ॥२८॥भवतां चातिविश्वासात् प्राप्तिर्मेऽत्र सुखावहा ।जाता कालीमण्डलीनभूभृता द्वाररूपिणा ॥२९॥अहं चास्मि परेशो वै सर्वावतारधृक् प्रभुः ।परब्रह्म हृदयस्थश्चान्तर्यामी फलप्रदः ॥३०॥पूजने सेवने चापि दर्शने वन्दनेऽर्पणे ।पादसंवाहने दाने फलदोऽस्मि न संशयः ॥३१॥मम भक्तो महादेवः पुरा बालमजीवयत् ।विश्वस्तानां जम्बुकस्य वाक्यादपीति तत्तथा ॥३२॥देवा विश्वासपूज्याश्च नृपा विश्वासवर्तिनः ।शरणागतिमाप्तानां विश्वासः प्रथमा स्थितिः ॥३३॥वरणं च ततः प्रोक्तं चार्पणं च ततः परम् ।दीनवत् सेवनं चापि स्थैर्यभावस्ततः परम् ॥३४॥यथा यथा हरिस्तुष्येत्तथा तथाऽनुवर्तनम् ।न तुष्येत्तु यया रीत्या तस्या तस्या विवर्जनम् ॥३५॥एवमादीनि कर्माणि साधनानि विमुक्तये ।सन्तीह मानवे भावे सर्वत्रापि तथा स्थितिः ॥३६॥तस्मात् सेव्योऽहमेवात्र मुक्तये स्मृद्धये सुराः ।शाश्वतानन्दलाभाय सेव्योऽहं परमेश्वरः ॥३७॥श्रद्धया सेवितश्चाहं विश्वासेन विनोदितः ।ददामि श्रेयःसर्वस्वं स्वं लक्ष्मीं प्रददाम्यहम् ॥३८॥जीवनं धनसम्पत्तिं चारोग्यं वंशविस्तरम् ।भोगान् भोग्यान् भोगशक्तीर्ददामि नात्र संशयः ॥३९॥पुरा पापकृतश्चापि पश्चात् पुण्यनिषेविणः ।मृता अपि पुरा ते वै जीविता इति निश्चयः ॥४०॥पुरा पुण्यकृतश्चापि पश्चात् पापनिषेविणः ।जीवितास्ते पुरा पश्चान्मृता एव हि ते मताः ॥४१॥तस्मान्मृतानां जीवाशा जीवनं दीयते तु यः ।जीवनस्य प्रदाता स गुरुर्बोध्यः परमेश्वरः ॥४२॥जीवन्नपि हरिं नैव जानाति गोचरं प्रभुम् ।मृत एव श्वसन् भस्त्रासदृशो मत एव ह ॥४३॥तादृशोऽपि सतां योगाद् भगवन्तमुपागतः ।भजन् स्थितश्चालसोऽपि जीवत्येवाऽमृतो हि सः ॥४४॥जीवनं जीवनीयं वै मिष्टं श्रीहरिसेवनात् ।रूक्षं तु जीवनं त्याज्यं विषयादिप्रसेवितम् ॥४५॥मरणेऽपि निकटेऽपि स्मर्ता मे याति मद्गृहम् ।तथा बुद्ध्या स्मरेन्मां वै विश्वासेन मिलाम्यहम् ॥४६॥अश्वपट्टसरस्तीर्थेऽक्षरक्षेत्रे पुराऽभवत् ।विप्रस्य वृद्धदेवस्य वार्धक्ये त्वेकपुत्रकः ॥४७॥ययौ जले सुतः स्नातुं जलमध्ये पपात ह ।मृतः सोऽयं मृतकल्पो जलपानेन सोऽभवत् ॥४८॥प्राणस्तस्याऽभवन् मूर्ध्नि न चायाति च नेत्रयोः ।नाड्यो नैव प्रसरन्ति चोष्मा नापि च विद्यते ॥४९॥मृतो वा मृतकल्पो वा दृश्यते स्थापितो भुवि ।गोमयेन प्रलिप्तायां जना ज्ञात्वा मृतं च तम् ॥५०॥पित्रा साकं खातभागं निन्युर्यत्र श्मशानकम् ।तत्राऽऽसीद् वृद्धगृध्रोऽपि ददर्श मृतबालकम् ॥५१॥धृतं चांके जनकेन रुदताऽत्यजता तदा ।पिता बालं परित्यज्य गन्तुं शक्नोति नैव तु ॥५२॥अन्येऽपि बालकं त्यक्त्वा प्रतिगन्तुं न शेकिरे ।तदा गृध्रः समागत्याऽब्रवीद् गच्छत वै गृहम् ॥५३॥इह नार्यो नरा नित्यं सहस्राधिकतः खलु ।आयान्ति तु मृताँस्त्यक्त्वा प्रयान्ति स्वगृहं सदा ॥५४॥नहि कश्चित् समायाति मृतः पुनः शरीरके ।जगत् सर्वं तथाभूतं संक्लृप्तं वर्तते यतः ॥५५॥सुखदुःखादिसंव्याप्तं तत्र का परिदेवना ।मृता याता मृतवाहाः मरिष्यन्ति क्षणान्तरे ॥५६॥इति ज्ञात्वा ये भजेरन् हरिं ते चिरजीविनः ।न पुनः प्राणवान् कश्चिन्महाकालमुखं गतः ॥५७॥प्रियेऽप्रियेऽपि समता कालस्य गतिरीदृशी ।सर्वेण खलु गन्तव्यं जन्मवतेह देहिना ॥५८॥कर्मान्तजीवने याते पुनर्जीवो न लभ्यते ।यान्तु गृहाणि सन्त्यज्य मृतं शवं प्रयान्तु शम् ॥५९॥एवं ज्ञानं समासाद्य समुत्सृज्य क्षितौ नराः ।प्राक्रोशन्तो ययुः स्नानह्रदं ज्ञात्वा मृतं हि तम् ॥६०॥तत्राऽभूज्जम्बुकवृद्धश्चागत्योवाच ताञ्जनान् ।निर्घृणा मानवाः सर्वे निर्दयाः स्नेहवर्जिताः ॥६१॥कथं त्यक्त्वा गमने वै हृदयं वः प्रजायते ।दिवसोऽस्ति मुहूर्तश्च बहुरूपो विवर्तते ॥६२॥कदाचिन्मृत एवापि जीवन् याति श्मशानतः ।यूयं वै निर्वृणास्त्यक्त्वा कथं याथ हि निर्दयाः ॥६३॥तस्य चक्षुः श्रुतिर्नासा देहः सर्वोऽपि विद्यते ।न वोऽस्त्यस्मिन् किमु स्नेहः पशुपक्षिसमोऽपि न ॥६४॥अस्वार्थवर्धितानां तु बालानां सदृशोऽपि न ।चतुष्पात्पक्षिकीटानां पोषितानामपि क्वचित् ॥६५॥फलागमो न चैवाऽस्ति न गुणोऽपि कथंचन ।तथापि मृतबालाँस्ते यावत्पश्यन्ति भूतले ॥६६॥तावन्नैव त्यजन्त्येते तावान् स्नेहोऽपि नास्ति वः ।ततो मा यान्तु विसृज्य कुलदं पुत्रमुत्तम् ॥६७॥चिरं पश्यत पुत्रं तं यावद्देहोऽस्ति चाक्षतः ।यत्र नाऽन्ये हि तिष्ठन्ति तत्र तिष्ठन्ति बान्धवाः ॥६८॥जम्बुकस्य वचः श्रुत्वा स्नाता अपि नराश्च ते ।पुत्रस्नेहपराभूताः समायाताः श्मशानकम् ॥६९॥गृध्रस्तावद् विलोक्यैवोवाच जनान् शुचान्वितान् ।अहो वै मानुषा भूत्वा किमायाता विमोहिताः ॥७०॥प्राणेन्द्रियैः परित्यक्तं भूतात्मकं शवं त्विदम् ।शुष्कं काष्ठत्वमापन्नं कथं शोचथ वेदिनः ॥७१॥किन्न शोचथ चात्मानं गत्वरं किन्नु शोचथ ।तपसा नाश्यते पापं भक्त्या भवान्तरादि च ॥७२॥विलापेन भवेत् किं वै गतस्य बालकस्य नु ।ऋणं दत्वा च वा नीत्वा यान्ति देहधरा भुवि ॥७३॥बालोऽयं गतवान् तद्वद् दत्वा शोकमनन्तकम् ।गृहं स्वर्णं धेनवश्चापत्यं रत्नानि भूतयः ॥७४॥सर्वं तपोऽर्ज्यमेवाऽस्ति भक्त्या लभ्यं तथा मतम् ।पुण्यलभ्यं च वै सर्वं पुण्यं शोचय यद्धितम् ॥७५॥स्वकृतेन तु धर्मण पापेन सुखिदुःखिता ।पिता पुत्रोऽथवा बन्धुः सुखी दुःखी स्वकर्मभिः ॥७६॥तस्माद् यात निजान् गेहान् धर्मं कुरुत सत्तमाः ।वर्तध्वं च हरेर्भक्तौ सत्सु सुरेषु पितृषु ॥७७॥शोकं त्यजत मोहं च निवर्तध्वं विहाय तत् ।विद्वान् वा यदि वा चाऽज्ञो राजा धनी च निर्धनः ॥७८॥सर्वः कालवशं प्राप्तः पुनरायाति नैव ह ।यूनो बालान् स्थवीराँश्च गर्भान् नारीर्नरानपि ॥७९॥सर्वानाविशते मृत्युर्नयत्येवाऽपुनर्गमान् ।इत्युक्ता मानवास्ते तु हित्वा शवं प्रयान्त्यथ ॥८०॥तावद्वै जम्बुक आह केन स्नेहो हतो हि वः ।स्नेहहीनस्य वाक्येन स्नेहहीनाः कृताः कथम् ॥८१॥दैवं पुरुषकारश्च श्रद्धा विश्वास इत्यमी ।कृतान्तं चापि दूरं वै द्रावयन्ति कदाचन ॥८२॥अनिर्वेदेन भाव्यं वै निर्वेदे वै कुतः फलम् ।प्रयत्नात्प्राप्यते सर्वं मा यान्तु निर्दयाः कथम् ॥८३॥आत्ममांससमुत्थं तु पितृवंशस्य साधनम् ।शवं त्यक्त्वा स्थिते सूर्ये निर्दयाः क्व प्रयास्यथ ॥८४॥अस्तंगते हि गन्तव्यं स्थातव्यं चात्र वा पुनः ।आराधिताः सुराश्चापि ददत्यसून् दयालवः ॥८५॥इत्युक्तास्ते ऋतं मत्वा समायाताः शवं प्रति ।अथ गृध्रो जगादेनान् बालिशाः स्थेति भाति मे ॥८६॥अत्र बहूनि वर्षाणि मे जातस्य गतानि हि ।न दृष्टं जीवितं मृत्वा पुनः स्त्रीपुंनपुंसकम् ॥८७॥गर्भा बालाः किशोराश्च युवानो जरठा अपि ।मृताः पुनर्न जीवन्ति सम्बन्धिस्नेहिता अपि ॥८८॥शोकितास्तु गृहं यान्ति सम्बन्धिबान्धवादयः ।त्यज्यतामेष देहोऽपि शून्यः काष्ठसमः सुतः ॥८९॥अन्यत्र वै गतं त्यक्त्वा कथं गृहं न यास्यथ ।नात्रेन्द्रियाणि प्राणाश्च त्यक्त्वा कथं न गच्छथ ॥९०॥परलोके सुखार्थं वै यत्नं कुरुत सत्तमाः ।श्रुत्वैवं विनिवृत्तास्ते जम्बुकस्तावदाह तान् ॥९१॥अहो स्वर्णसमं पुत्रं त्यक्त्वा यान्ति हि निर्घृणाः ।राक्षसा अपि पुत्रं स्वं त्यक्त्वा नैव प्रयान्ति हि ॥९२॥येषां नास्ति स्वयं प्रज्ञा तेषां किमुपदेशनैः ।श्वेतराजस्य वै पुत्रो मृतः संजीवितः पुनः ॥९३॥सत्यवान् जीवितः पत्न्या सावित्र्याऽपि पतिः पुनः ।हरिश्चन्द्रसुतश्चापि मृतः सञ्जीवितः पुनः ॥९४॥रुक्मांगदस्य पुत्रोऽपि मृतः सञ्जीवितः पुनः ।नचिकेतस्य पुत्रोऽपि मृतः सञ्जीवितः पुनः ॥९५॥मरुतो नाम देवाश्च गर्भे हताश्च जीविताः ।तथा भाग्याल्लभेत् कश्चिन्मृतं तु जीवितं पुनः ॥९६॥देवः कुर्यात् कृपणानामनुक्रोशं ददात्यसून् ।इत्युक्तास्ते न्यवर्तन्त लब्धाशाः स्नेहिलाः पुनः ॥९७॥गृध्रः पुनः समागत्योवाच तानाशया हतान् ।तपसाऽपि भृताश्चैवैश्वर्यवन्तो महाधियः ॥९८॥मृत्युं गता न चायान्ति प्रेतपत्तनतः पुनः ।अलमाशाबन्धनेन मृतस्य जीवने त्विह ॥९९॥नैव शृगालशतकं जीवयिष्यति प्रेतकम् ।अथेशानो हरिर्ब्रह्मा यमराजोऽथवेश्वराः ॥१००॥यदि त्वेनं जीवयेयुस्तदा जीवेन्न चान्यथा ।नैव वस्त्वत्र वासेन रोदनेनापि जीवनम् ॥१०१॥बाष्पस्रावेण वा श्वासैः कुट्टनैरपि जीवनम् ।देवस्याऽऽराधनं कुर्मो मिलित्वा धर्मसंयुताः ॥१०२॥यदि स्याज्जीवनं यावदाप्रातः कुर्म एव ताम् ।श्रुत्वैवं ते निराशाश्च त्यक्त्वा शवं प्रयान्ति तु ॥१०३॥जम्बुकस्तावदागत्योवाच शान्तिमयं पुनः ।मा प्रयान्तु निराशा वै धिग् गृध्रं स्नेहवर्जितम् ॥१०४॥सुखस्याऽनन्तरं दुःखं दुःखस्याऽनन्तरं सुखम् ।अवश्यं जायते तस्मान्मा विसृज्य प्रयान्त्विह ॥१०५॥जीवन्तमेव पश्यामि क्षणान्तरे न संशयः ।इत्याशायोजिताः सर्वे स्थिताः प्रतीक्षया पुनः ॥१०६॥गृध्रः प्राह श्मशानाख्यः प्रदेशोऽयं हि दारुणः ।आशां त्यक्त्वा शवं त्यक्त्वा कुर्वन्तु प्रेतकार्यकम् ॥१०७॥सूर्ये त्वस्तं गते प्रेता यक्षा भूताश्च राक्षसाः ।युष्मान् प्रधर्षयिष्यन्ति रौद्राः पललखादकाः ॥१०८॥जम्बुकोक्तौ श्रद्दधाना द्रुतं सर्वे विनंक्ष्यथ ।इत्युक्तास्ते प्रयान्त्येव तावच्छृगालकोऽवदत् ॥१०९॥मा भयं यात मा यात क्रव्यादवाक्यमोहिताः ।वो विद्राव्य स्वार्थिगृध्रः शवं वै भक्षयिष्यति ॥११०॥गृध्रः प्राह न चाहं वै स्वार्थी स्वार्थी तु जम्बुकः ।अन्धकारे निजं भक्ष्यं शवं चेच्छति वञ्चनात् ॥१११॥इत्युक्ता ज्ञातवन्तस्ते तौ स्वार्थसाधकाविति ।स्वार्थार्थबद्धकक्षौ च क्षुधान्वितौ च जल्पिनौ ॥११२॥वञ्चकाभ्यां शवं नैव दातव्यं चेति निश्चिताः ।सायं शंभुं सस्मरुस्ते पुत्रस्नेहसमाकुलाः ॥११३॥तावद् देव्या नोदितः श्रीशंभुस्तत्र समागतः ।नेमुः शंभुं तु ते दुःखं न्यवेदयँस्ततो हरः ॥११४॥जीवितं प्रददौ तस्मै दशवर्षसहस्रकम् ।स्वार्थपरौ वञ्चितौ च पुत्रो जीवनमाप्तवान् ॥११५॥हरमाराध्य ते पुत्रं प्राप्ताश्च सुखिनोऽभवन् ।गृहं याता हि विश्वस्ताः फलमाप्ता हि जीवनम् ॥११६॥प्राप्तं च वञ्चकाभ्यां तु कर्मणा परियापितम् ।तस्माद् विश्वासमासाद्य मां हरिं पुरुषोत्तमम् ॥११७॥भजन्त्वनन्यभावेन रक्षयिष्ये न संशयः ।दास्ये च जीवनं धाम्नि शाश्वतानन्दसंभृतम् ॥११८॥इत्युक्त्वा प्रददौ मन्त्रान् प्रजाभ्यो भगवान्स्वयम् ।वैष्णवान् कृतवान् कृष्णनारायणो निजाश्रितान् ॥११९॥राधिके श्रीहरेर्वाणीं श्रुत्वाऽऽश्रयं व्यधुस्ततः ।पूजयित्वा हरिं नैजान् गृहान् ययुः प्रजाजनाः ॥१२०॥राज्ञः कन्याश्चतस्रश्च कृष्णं कान्तं महाप्रभुम् ।वरमालां ददौ कण्ठे व्यधुर्नैजं पतिं प्रभुम् ॥१२१॥राजोत्सवं व्यधाद्रात्रौ भोजनादीन्यकारयत् ।सेवनं कन्यकाश्चक्रुर्निद्रां कृष्णो ह्यवाप च ॥१२२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः रायकूपेशभूपराष्ट्रगमनं हवानानगर्यां भ्रमणं पूजनं ततः कालीमण्डलीनभूपराष्ट्रगमनं विगोष्ठिकानगर्यां भ्रमणंपूजनं चोपदेशनं भोजनं रात्रौ विश्रमणं चेत्यादिनिरूपणनामा पञ्चदशाधिकद्विशततमोऽध्यायः ॥२१५॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP