संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे परेशस्य सेवां देवी तु मानसा ।षष्ठीनाम्ना प्रसिद्धा या बालरक्षाकरी मता ॥१॥सा तु सन्निहिता नित्यं करोति दिव्यरूपिणी ।राधिकासदृशी रूपे लक्ष्मीसदृशी पोषणे ॥२॥पार्वतीसदृशी प्रेम्णि रमासदृशी रामणे ।कमलासदृशी स्पर्शे स्नेहे वै मातृसदृशी ॥३॥चिकित्सायां धन्वन्तरिसमा सा सेवते हरिम् ।बालभावेन च वर्तमानस्याऽशक्तकस्य च ॥४॥असमर्थस्येव तस्याऽवनं भूतादितत्त्वतः ।मूर्ताऽमूर्तात्मकाद् विघ्नाद् रक्षां करोति षष्ठिका ॥५॥अविघ्नस्य कुतो विघ्नं तथाऽप्यनुकरोति सा ।लोकरीतिं भगवत इच्छया मानसा सती ॥६॥षष्ठ्यां षष्ठीपूजनं च कारयामास वाडवैः ।रक्षां च कारयामास पिता वै लोमशर्षिणा ॥७॥दानानि भोजनानां च स्वर्णानामपि दक्षिणाः ।ददौ गोपालकृष्णश्च परकृष्णनिमित्तजाः ॥८॥ग्रहाणां पूजनं देवपूजनं विप्रपूजनम् ।मातृकापूजनं चापि कारयामास वाडवः ॥९॥सौराष्ट्रीया वाडवाश्च भुक्त्वा चानन्ततृप्तिदम् ।आशीर्भिर्याजयामासुर्बालं प्राप्य धनानि च ॥१०॥उत्सवं चक्रिरे षठ्यास्त्रयोदश्या दिने शुभे ।रात्रौ देव्यो नर्तनं च चक्रुः श्रीकृष्णसन्निधौ ॥११॥भगवान् दिव्यरूपश्च कैशोरं भावमास्थितः ।नृत्यं सेवां गीतिकाद्या लोकयामास वै हसन् ॥१२॥अथ रात्र्यां व्यतीतायां प्रातर्बालो बभूव सः ।शयने मातुरेवाऽयं स्वपिति नित्यजागरः ॥१३॥षष्ठी रक्षति कान्तं श्रीकृष्णनारायणं प्रभुम् ।दिवसे दुग्धपानेनाऽतर्पयज्जननी सुतम् ॥१४॥कृष्णचतुर्दशीरात्रौ स्वापयामास पार्श्वके ।स्वर्णपर्यंकके चन्द्रोज्ज्वले दिव्यमनोहरे ॥१५॥षष्ठी जागर्ति रक्षार्थं माता स्वपिति निद्रया ।अथ रात्रौ समायाता दैत्याः पातालवासिनः ॥१६॥कामरूपधरा नारीस्वरूपैः कन्यका यथा ।देव्यो दिव्याश्च ता भूत्वा बालं रमयितुं ययुः ॥१७॥जन्मोत्सवे समायातैः प्रतिगतैश्च दैत्यकैः ।बोधिता भगवद्रूपं प्रति पातालगाश्च ये ॥१८॥मन्त्रिता भययुक्तैस्ते निवेदिताश्च वै तदा ।भो भो दैत्येश्वराः सर्वे वित्त पृथ्व्यां महाप्रभुः ॥१९॥सर्वावतारहेतुश्च धाम्नां परे स्थितस्तु यः ।जग्राह स च जन्मैव निवासार्थं सदा भुवि ॥२०॥अस्मद्बलविनाशार्थं काले काले स वै हरिः ।यतिष्यते धरिष्यति चावतारान् पुनः पुनः ॥२१॥अस्मत्कुटुम्बनाशश्च तद्वेशेन भविष्यति ।देवरक्षां दैत्यनाशं भूतलादौ करिष्यति ॥२२॥स एव मूलहेतुश्च सर्वाऽऽविर्भावकारणम् ।तद्विनाशे भवेन्नाशः सदा दैत्यविरोधिनाम् ॥२३॥मूलनाशे कुतः शाखास्तस्मान्मूलं निकर्तयेत् ।विद्यते बाल एवाऽयं तावन्निकृन्तनं भवेत्। ॥२४॥रोगः शत्रुरनलश्च हन्तव्या बालतः खलु ।कृतमूला दुराधर्षास्त्रयो विनाशकारकाः ॥२५॥अनादिश्रीकृष्णनारायणोऽस्मच्छत्रुकारणम् ।शत्रवो नस्त्ववतारास्तस्य पुंसः परात्मनः ॥२६॥सर्वेषामवताराणां मूलं चायं परेश्वरः ।प्रतिकल्पं भवत्येव रामकृष्णादिकारणम् ॥२७॥अस्य नाशे रामकृष्णनृसिंहपर्शुरामकाः ।हयग्रीवो वामनश्च वासुदेवादयस्तथा ॥२८॥कदापि न भविष्यन्ति तस्माद्धन्तव्य एव सः ।यद्यप्यमोघसामर्थ्यो हन्तव्योऽपि न हन्यते ॥२९॥तथापि कृतयत्नानां फलं किञ्चिद् भवेच्छुभम् ।मत्वैवं तं मारयितुं कर्तव्यो यत्नकस्तथा ॥३०॥यथा शाखा न जायेत न नश्येद् दैत्यमण्डलम् ।इत्येवं कृतसंकल्पाः कल्मषः कज्जलस्तथा ॥३१॥कच्चरश्च मलश्चापि कर्दमः क्लेदनस्तथा ।मेहनश्छिक्कनश्चापि क्षुवनः पर्दनस्तथा ॥३२॥लालनो हंगनश्चापि ष्ठीवनो मेषनस्तथा ।मर्दनो नोदनश्चैव कम्पनः स्फुर्जथुस्तथा ॥३३॥खञ्जनः शोणघोणश्च कुदर्शश्च कुचेलकः ।खातनासो दुर्गजंघोऽरण्यरोमा दरीश्रवाः ॥३४॥गिर्यङ्गुष्ठौऽयुतहस्तो रसातलोदरस्तथा ।एते चान्ये महादैत्या मन्त्रयित्वा परस्परम् ॥३५॥यत्र पश्चात् स्थितोऽद्रिः रैवतस्तद्विवरेण ते ।आययुः करशस्त्राश्च सोत्साहा युद्धदुर्मदाः ॥३६॥कुंकुमवापिकाक्षेत्रे सभया निर्भया इव ।पातालयानयुक्ताश्च शस्त्रशरेन्द्रजालिनः ॥३७॥मायामन्त्रदैत्यविद्याकृतसैन्यातिसंकुलाः ।अश्वपट्टसरसस्ते पश्चिमेऽरण्यकेऽवसन् ॥३८॥प्रच्छन्नाश्च समागत्य बालं घातयितुं मुहुः ।पश्यन्ति स्म च छिद्राणि चतुर्दश्या निशाऽऽन्तरे ॥३९॥कोकिलारूपमागृह्य केचिद् घूकस्वरूपिणः ।गोमायूरूपमापन्नाश्चान्ये सारसरूपिणः ॥४०॥कुररीरूपकाश्चान्ये परे मार्जाररूपिणः ।सर्परूपास्तथाऽन्ये च घोरखननरूपिणः ॥४१॥चित्रपर्णस्वरूपाश्च चिबरीरूपधारिणः ।नकुलादिस्वरूपाश्च सरमारूपिणस्तथा ॥४२॥कंसारिकागृहगोधादंशमशकरूपिणः ।आययुस्तत्र भगवाननादिश्रीपुमुत्तमः ॥४३॥सूतिकाया भवनाभ्यन्तरे प्रच्छन्नवर्तनाः ।अनादिश्रीकृष्णनारायणो जानाति तानपि ॥४४॥करोति बालवन्निद्रां षष्ठी जानाति तानपि ।दंशमशकगोधाद्या मार्जारनागकुक्कुराः ॥४५॥षठ्या तत्रैव च हता रात्रौ नारायणेच्छया ।मृतास्ते तु मृता एव मनसायाः पराक्रमात् ॥४६॥घूककोकिलगोमायूसारसाद्यास्तु चाम्बरे ।आगता ये हरिं हन्तुं तेऽपि षष्ठ्या प्रभारिताः ॥४७॥अन्ये विलोक्य तान्नष्टान् रात्रावेव तु तच्छवान् ।नीत्वा ययुस्तदारण्यं यत्र तेषां निवासनम् ॥४८॥प्रातर्वै सूतिकागारे चिह्नानि रक्तजानि च ।दृष्टानि तानि संशुद्ध्य दिने दीपोत्सवे प्रगे ॥४९॥गोपालकृष्णकाद्याश्च शान्तिपाठानकारयत् ।अथ ते दुःखमापन्ना मृतमित्रकुटुम्बिनः ॥५०॥दीपोत्सवतिथेः रात्रौ समाजग्मुश्च शस्त्रिणः ।प्रच्छन्नाः श्रीप्रभुं हन्तुमसमर्थास्तु वै रुषा ॥५१॥निन्युर्देवीं मनसां तां षष्ठिकां निजघातिनीम् ।सापि कान्तं महाकान्तं स्वामिनं श्रीपुमुत्तमम् ॥५२॥जजाप हृदये तत्र नीयमाना महासुरैः ।अथाऽस्या विदधे रक्षां तदात्मनि स्थितः प्रभुः ॥५३॥महाकालाऽनलैश्वर्यं दाहकं भस्मकारकम् ।षष्ठ्यां मुमोच भगवान् तेन दग्धाश्च तेऽभवन् ॥५४॥तां देवीं ते समुत्सृज्य दूरं सर्वे पलायिताः ।तदा देव्या स्वदेहाद्वै देवीसैन्यं प्रकाशितम् ॥५५॥कन्यकानां तु लक्षाणां सैन्यं विमानगं तथा ।हंसस्थानां लक्षसैन्यं व्याघ्रस्थानां तु कोटिकम् ॥५६॥सिंहस्थानां चार्बुदं च शरभस्थं दशाऽयुतम् ।शक्तितोमरपाशादिशस्त्रयन्त्रादिशोभितम् ॥५७॥असुरान् हन्तुमेवैताः कुमार्यश्चण्डविक्रमाः ।अक्षताऽङ्गास्तदा शस्त्रैर्दिव्याश्चक्रुः प्रयोधनम् ॥५८॥ताभिस्तत्र महारण्ये दैत्येशा बहवो हताः ।विवरे ते मृताः क्षिप्ता अथाऽन्ये दैत्यपुंगवाः ॥५९॥मुखे तृणानि संगृह्य नेमुः षष्ठीं महासतीम् ।शरणं ते प्रपन्ना वै ते तदा नैव घातिताः ॥६०॥ते तु तत्र वने जग्मुर्नतकन्धरमानसाः ।अथ देव्यः कोटिशस्ता मुहुस्तत्र प्रशंसिताः ॥६१॥षष्ठ्या विजयकारिण्यो वरयोग्या हरिं प्रति ।आनीता दर्शिताः सर्वा बालकृष्णाय वै तया ॥६२॥स्वामिना श्रीकृष्णनारायणेन वरदानकम् ।वृणुतेत्यभिसंप्रोक्ता वक्रस्ताः सरसस्तटे ॥६३॥वासं सेवां तथा मुक्तिं नाम तीर्थं तथा पतिम् ।तथाऽस्त्विति हरिः प्राह ततस्ताश्च कुमारिकाः ॥६४॥कुंकुमवापिकाक्षेत्रे चक्रुर्निवासमन्वहम् ।तासां श्रीभगवान्नाम दीपावलीतिशोभनम् ॥६५॥दिव्यतेजोमयरूपं चकार निजयोग्यकम् ।कृत्वा तासां च रूपाणि द्वेधा दिव्यानि धामनि ॥६६॥प्रेषयामास चान्यानि ररक्ष लोमशाऽऽश्रमे ।लोमशर्षिर्हरिं प्राह नत्वाऽतिदयया मुनिः ॥६७॥एता देव्यस्तव पत्न्यो भविष्यन्ति तवेच्छया ।कुंकुमवापिकाक्षेत्रे तिष्ठन्तु ता मदाश्रमे ॥६८॥लोमशस्याऽऽश्रमे तास्तु चक्रुर्वासं प्रहर्षिताः ।दीपोत्सवं स्वर्गतुल्यं चक्रुस्तास्तत्र चाश्रमे ॥६९॥अथोर्जशुक्लप्रथमे दिवसे प्रातरेव ह ।चक्रुर्महोत्सवं तत्र नवान्नानां गृहे गृहे ॥७०॥पक्वान्नानि विचित्राणि कृत्वा दिव्यस्वरूपिणे ।अर्पयामासुरीशान्यो वाद्यं चक्रुश्च नर्तनम् ॥७१॥प्रसादं भक्षयामासुश्चक्रुः रात्रौ महोत्सवम् ।अनादिश्रीकृष्णनारायणमानर्चुरेव ताः ॥७२॥रात्रौ सुप्तास्तदा सर्वे षष्ठी रक्षति बालकम् ।अथ दैत्याः समायाताः पुनर्हन्तुं हरिं तदा ॥७३॥षष्ठ्या विद्राविताः सर्वे पुनस्तत्र हरेर्बलात् ।अथ ते सूतकं दैत्यं ययुर्नीत्वा निजाश्रयम् ॥७४॥श्रीराधिकोवाच-कोऽयं वै सूतको दैत्यो यश्चाऽवर्तत कुत्र च ।किं जातं च ततः कृष्ण! वद कौतुहलं हि मे ॥७५॥श्रीकृष्ण उवाच-सूतकोऽयं महादैत्यो राधिकेऽसुरवंशभूः ।यथोत्पन्नः शृणु यत्र वसत्येषो वरात्तथा ॥७६॥पुरा हिरण्यकूर्चस्य युद्धं संकर्षणेन तु ।समं ह्यभूत् यदा तत्र कमलं ब्रह्मणो मुहुः ॥७७॥अकम्पत धृतं तेनाऽसुरेण च तदा ह्यजः ।कम्पमानोऽभवद् भीतो ब्रह्मणो हृदयात्तदा ॥७८॥कम्पाख्यश्चाऽभवत् पुत्रो भयनामा द्वितीयकः ।स्वेदनाम तृतीयश्च शोकनामा चतुर्थकः ॥७९॥विह्वलाख्यः पञ्चमश्च हाहाकारस्तु षष्ठकः ।निराश्रयः सप्तमश्च परायत्तस्तथाऽष्टमः ॥८०॥त एते संपरिवृत्य ब्रह्माणं प्राहुरीश्वराः ।कथं वयं समुत्पन्नाः पितस्त्वत्तोऽत्र वारिधौ ॥८१॥वद नोऽत्र तु कर्तव्यं शीघ्रं कुर्मोऽत्र तत्तथा ।ब्रह्मा प्राह तदा पुत्रान् ब्रह्मकूर्चं महासुरम् ॥८२॥वल्गतैतद्विनाशार्थं धैर्यहीनो यतो भवेत् ।इत्याज्ञप्तास्तदा पुत्रा द्रुतं गत्वा महासुरम् ॥८३॥ववल्गुर्ब्रह्मकूर्चं तं तदा संकर्षणाद्धि सः ।गदया मृत्युमापन्नस्तस्य देहमलानि तु ॥८४॥निःसृतानीन्द्रियेभ्यश्च मारविह्वलतावशात् ।वीर्यमेहनजस्तस्य जन्माख्यः समभून्नरः ॥८५॥मूत्रमेहनजस्तस्य सूतकाख्योऽभवन्नरः ।मलापसरणात्तस्य निधनाख्योऽभवन्नरः ॥८६॥करुणाऽऽक्रन्दनात्तस्य गर्जनाख्यो जलेऽभवत् ।पर्दनाच्च तदा तस्य दुर्गन्धाख्योऽभवन्नरः ॥८७॥कुक्षेस्तस्याऽभवद्रक्तनामा पुत्रस्तदाऽशुभः ।शवाख्यस्तु च मलिनः पूयाख्यश्च ततोऽभवत् ॥८८॥अनिष्टा धातवश्चैतेऽसुरा बभूवुरुद्धताः ।शुभास्तु धातवस्तस्य कनकान्यभवंस्तदा ॥८९॥त एतेऽसुरतो जाताः कुमारा वै भयान्विताः ।शरण्यं श्रीमहासंकर्षणं नेमुश्च तुष्टुवुः ॥९०॥रक्ष रक्ष महावीर सर्वसंहारकृद्बलिन् ।वयं स्मस्ते गदापुत्रा जीवदानं प्रदेहि नः ॥९१॥तदा संकर्षणस्ताँश्चाऽभयदानं समाददात् ।वासस्थानं भोजनं चाऽर्थयद्भ्यस्तेभ्य उत्तमम् ॥९२॥संकर्षणो ददौ जन्मनराय दिवसान् दश ।या नारी सूयते तस्या गृहे तिष्ठतु सूतकः ॥९३॥रक्तदुर्गन्धपूयेभ्यो ददौ वासाय सूतिकाम् ।जन्मा च सूतको रक्तो दुर्गन्धो पूय एव ते ॥९४॥सहवासा निवसन्ति सूतिकायां ततः सदा ।दशाहोत्तरमेवैते यान्ति जालेन सागरम् ॥९५॥एवं जन्मसूतकाद्या आसुराः सन्ति दुःखदाः ।अयं सूतकनामाऽसौ कम्भराया गृहे तदा ॥९६॥लोकरीत्या निवासं चाकरोद् दशदिनानि वै ।अथाऽन्ये निधनाख्यश्च शवो मलिनकस्तथा ॥९७॥आसैंस्तदाऽर्थयामासुर्निवासं भोजनादिकम् ।संकर्षणश्च तान् सर्वान् ददौ वै मृत्यवे तदा ॥९८॥तदा च कालपुत्राय मृत्युर्यत्र च तत्र ते ।निधनश्च शवो मृत्युर्मलिनः सूतकस्तथा ॥९९॥एते तिष्ठन्ति तत्रैव यत्र कालनिदेशनम् ।तदेते त्वासुराः सर्वे भयदा दुःखदास्तथा ॥१००॥अथाऽन्ये ब्रह्मणः पुत्राः कम्पाद्यास्तेऽपि वै तदा ।यत्र मृत्युः समायाति तत्र गत्वा पुरा हि ते ॥१०१॥निवसन्ति शवे जाते निःसरन्ति ततः स्थलात् ।एवमेते कथितास्ते सुता पञ्चत्वदायिनः ॥१०२॥अथ श्राद्धाख्यपुरुषस्तत्राऽपि ब्रह्मणा कृतः ।यत्र वै निधनं तस्य कुटुम्बे वासमाचरत् ॥१०३॥निमिना स्वस्य पुत्रस्य आत्रेयस्य विनाशने ।श्राद्धं पूर्वं कृतं श्राद्धस्ततो लोके स्थिरोऽभवत् ॥१०४॥एवं राधे कथितस्ते सूतकाख्योऽसुरो ह्ययम् ।वर्तते सूतिकासौधे भ्रातृभिश्च समन्वितः ॥१०५॥तमेनं सूतकं कृष्णगृहे स्थितं तु दैत्यकाः ।निन्युः शिबिरं नैजं च दशमे दिवसे बलात् ॥१०६॥श्रीहरेस्ते विनाशार्थं मन्त्रयामासुरुग्रजाः ।आज्ञां चक्रुः सूतके ते शीघ्रमानय बालकम् ॥१०७॥पातालं संप्रवेक्ष्यामो नीत्वा तं श्रीहरिं प्रभुम् ।तत्रैव मारयिष्यामो घातयिष्याम आत्मतः ॥१०८॥अन्यथा घातयिष्यामस्त्वामेव सूतकोत्तम ।याहि शीघ्रं कुरु कार्यं रात्रौ बालं समानय ॥१०९॥दैत्यानां तु च साहाय्यं त्वया कार्यं वृषस्तव ।इत्युक्तः स सूतकश्च सूतिकागृहमागतः ॥११०॥अर्धरात्रे व्यतीते च निद्रां यातः सखीजनः ।षष्ठी चापि क्षणं तत्र योगनिद्रामवाप ह ॥१११॥अनादिश्रीकृष्णनारायणस्वामीच्छया तु सः ।सूतकः श्रीहरिं शय्यास्थानाज्जहार तामसे ॥११२॥अन्धकारे निनायैनं शिविरं दैत्यवासितम् ।दैत्या जहृषुर्बहुधा चक्रुः किलकिलायितम् ॥११३॥उत्थाप्य शिबिरं सर्वं ययुः पातालमाक्षणात् ।मारयितुं च ते कृष्णनारायणं परेश्वरम् ॥११४॥निन्युर्घातकशालां च तावद् यमाधिपस्य यः ।श्रावणाख्यो महादूतः सर्वज्ञः सर्वगोऽतिदृक् ॥११५॥शेषनारायणायैतद् विज्ञापयितुमागतः ।नाथनाथ जगन्नाथ जगदाधार केशव ॥११६॥अनादिश्रीकृष्णनारायणो दैत्यैर्विहन्यते ।पाताले बालको नीतो घातकीकुटिकां प्रतिं ॥११७॥रक्ष रक्ष महाराज सर्वकारणकारणम् ।एवं विज्ञापितो देवो क्षीरोदे शेषशायनः ॥११८॥तूर्णं क्षणाच्च पाताले स चक्रबलवाहनः ।समायातस्तदा दध्मौ शंखं तीव्रं प्रतापवान् ॥११९॥ध्मायमानेन शंखेन कृतशब्दैस्तदा स्त्रियः ।गर्भानमुञ्चन् दैत्यानां कर्णस्फोटास्तथाऽभवन् ॥१२०॥नागाः सर्वे च शेषेण मिलिता रणगामिनः ।दैत्यैर्युद्धं तदा कर्तुं निर्ययुर्धृतसाधनाः ॥१२१॥दैत्या अपि तदा बालं त्यक्त्वा योद्धंु समागताः ।सूतको रक्षति बालं बालभक्तो दयावशः ॥१२२॥कृष्णनारायणस्याऽग्रे लक्ष्मीः सुदर्शनं तथा ।गरुडो नन्दसुनन्दौ पार्षदा पार्वती प्रभा ॥१२३॥राधा रमा च माणिक्या मञ्जू हंसा तथाऽपराः ।सगुणा ललिता मुक्ता जया हैमी च देविका ॥१२४॥दया चम्पा मौक्तिका च शान्तिः शान्ता मनुस्तथा ।अन्याः सख्यस्तथा मुक्ताः श्रुत्वा शंखनिनादनम् ॥१२५॥आययुस्तत्र पाताले यत्र कृष्णनरायणः ।सूतको दीनवज्जातस्त्वपराधकरो यतः ॥१२६॥किन्तु रक्षति संछन्नो यतो भक्तो हरेर्हि सः ।प्रसह्य दैत्यभीतेस्तु नीतवान्न निजेच्छया ॥१२७॥तेनाऽयं रक्षितस्तत्र पुमुत्तमेन लीलया ।इच्छाऽप्येवं हरेरासीत् कस्तां वारयितुं क्षमाः ॥१२८॥सूतकेन च पृष्ठेन कथितं हरणं यथा ।कृतं सुरक्षणं सर्वं लक्ष्म्याद्यास्तेन तोषिताः ॥१२९॥धन्यवाद्ं ददुस्तस्य कान्तं चांऽके दधुस्तदा ।सेवयामासुरेवैनं रात्रौ क्षणान्तरे तदा ॥१३०॥दैत्यानां शेषनाथेन युद्धं चाऽभूद्भयानकम् ।चक्रेण भेदिता दैत्या अनुत्थानपुनर्भवाः ॥१३१॥मृता ये ते गताः सर्वे त्वैन्द्रजालिकया सह ।यमराजपुरं प्राप्ताः शेषाः सर्वे पलायिताः ॥१३२॥सूतकश्च हरिं नीत्वा सहलक्ष्म्यादिभिर्ययौ ।यत्र शेषप्रियो नाथो विष्णुर्नारायणः प्रभुः ॥१३२॥ददौ नारायणाय श्रीविष्णवे बालकं प्रभुम् ।शेषनाथो ययौ नत्वा क्षीरोदं च रमादिकाः ॥१३४॥सूतकेन सह जग्मुः सूतिकाभूतलगृहम् ।तावत्प्रातः प्रसञ्जातं जगुश्च कृकवाकवः ॥१३५॥निद्रां त्यक्त्वा च बुबुधुर्बालं हरिं तु निद्रितम् ।बोधयामासुरेवैते मात्राद्याः परमेश्वरम् ॥१३६॥नैव जानन्ति ते कृष्णचरित्रं रात्रिजं यतः ।लक्ष्म्या निवेदितं सर्वं सूतकस्य च वर्तनम् ॥१३७॥तदा शान्तिप्रपाठाँश्च कारयामास वै पिता ।पुत्रं पुनर्नवं जातममन्यन्त कुटुम्बिनः ॥१३८॥सूतकाय च भक्ताय दिने त्वेकादशे प्रगे ।वरं ददौ हि भगवान् दिव्यां पूजां सुलप्स्यसे ॥१३९॥एकादशे दिने त्वां वै लोका दिव्यविशेषकैः ।स्नानपानसुभोज्याद्यैस्तोषयिष्यन्ति भावतः ॥१४०॥दिव्यो मम कथाकारः सूतरूपो भविष्यसि ।यत्राऽहं तत्र ते वासोऽन्यरूपेण भविष्यति ॥१४१॥सर्वप्रजासु ते वासो भविष्यति न संशयः ।विलयं यास्यति तेऽद्यदिनादासुरभावनम् ॥१४२॥इत्युक्तः सोऽभवद् भक्तः सूतकोऽपि हरेर्वशः ।सूततां च गतो गाथाः श्रावयन् मोक्षदोऽपि च ॥१४३॥इत्येवं कथितो राधे चमत्कारो हरेर्यथा ।दशमे दिवसे जातो नामकर्म वदामि ते ॥१४४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालरूपप्रभोः षष्ठीकृतरक्षणं, दैत्यैः कृतं पाताले सूतकपूरुषद्वाराऽपहरणं, सूतकाद्युत्पत्तिः, शेषनारायणकृतरक्षणं, सूतकस्य भक्तत्वं, सूतत्वं चेति निरूपणनामा पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : April 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP