संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ५५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ५५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५५ Translation - भाषांतर श्रीकृष्ण उवाच--शृणु त्वं राधिके! राजा परमेशं तदाऽऽर्थयत् ।मृतानां तु यथा मुक्तिस्तथा कुरु दयां कुरु ॥१॥विमानेन समागत्य यत्र यत्राऽभवद् रणः ।तत्र तत्र विहृत्यैव कुरु तीर्थानि केशव ॥२॥भविष्याणां च लोकानां भूर्भवेन्मुक्तिभाजना ।एवं कृपां परां नाथ पापिनां कुरु तारिणीम् ॥३॥श्रीकृषगनारायण उवाच-धन्या ते विमला राजन्मतिस्त्वद्य प्रवर्तते ।अब्रिक्तं सर्वथा देशं करिष्ये तीर्थरूपिणम् ॥४॥नद्यस्ता ब्रह्मणः पुत्र्यो दैत्ययोगेन दैत्यताम् ।तूपगताः पावनास्ताः पावयिष्येऽद्य वै पुनः ॥५॥इत्युक्तमात्रे नद्यश्च सरांसि पर्वतास्तथा ।मूर्तिमन्तः समायाताः प्रार्थयितुं प्रभुं तदा ॥६॥ऊचुर्नाथ कृपासिन्धो पावयाऽस्मान् समन्ततः ।हरिः प्राह तथाऽस्त्वेवं पावयिष्ये द्रुतं हि वः ॥७॥अथ सम्पूज्य ता नद्यो द्रष्टुं च ब्रह्मकन्यकाः ।स्वभगिनीर्द्रष्टुमेव विमाने चोर्ध्वभूस्तरे ॥८॥ययुस्तत्र मिलित्वा ता आमन्त्र्याऽऽभाष्य वै मुहुः ।ययुश्चाऽदृश्यतां द्राक् च ततः कृष्णनरायणः ॥९॥विमानेन ययौ कर्तुं तीर्थानि पावनानि च ।उद्धर्तुं च मृतात्मनः प्रदक्षिणक्रमेण वै ॥१०॥प्रथमं श्रीहरिस्तत्र विमानेन तदोत्तरम् ।ययौ पावयितुं युद्धक्षेत्राच्चण्डनदीं शुभाम् ॥११॥चण्डनद्यां तथा स्नात्वा चण्डसरसि वै हरिः ।वैमानिकास्तथा सर्वे नरा नार्यो महत्तमम् ॥१२॥तीर्थं विधाय च ततस्त्रिराशिपर्वतं ययुः ।पर्वतं च प्रदक्षिणं कृत्वा स्नात्वा जलादिषु ॥१३॥तीर्थं तत्पर्वतं कृत्वा नारायण्या द्वितीयके ।धोधे स्नात्वा तृतीये च धोधे स्नात्वा चतुर्थके ॥१४॥धोधे स्नात्वा पञ्चमे च स्नात्वा धोधे ततः परम् ।अन्तवैरासंगमे च स्नात्वा च षष्ठधोधके ॥१२॥श्वेतनीलस्वरूपिण्योर्नारायण्योश्च संगमे ।स्नात्वा तूयानसरसि तीर्थानि व्यदधात् प्रभुः ॥१६॥आबालाख्यतडागेषु स्नात्वा चक्रे तु मोक्षदान् ।तडागान्निर्मलजलान् चतुरश्च ततः परम् ॥१७॥उक्तेषु तीर्थवर्येषु ये ये मृता महाहवे ।ताँस्तान् प्रेतान् समाहूय तेषां मोक्षं व्यधात्प्रभुः ॥१८॥दिव्ययानैस्तु ते सर्वे स्वर्गं ययुर्हि शाश्वतम् ।अपारकरुणासिन्धुर्मोक्षदो यत्र वै हरिः ॥१९॥तत्र का कर्मसापेक्षा गतिः का कृपयोद्भवा ।जुब्वां नदीं ततः स्पृष्ट्वा रुद्रबाष्पसरोवरम् ॥२०॥स्नात्वा मार्किशनधोधे आलावर्तसरोवरे ।अन्तावर्ततडागे च स्नात्वा किमुसरोवरे ॥२१॥विज्ञतूरीयसरसि न्याजासरोवरे तथा ।तुंगानीके तडागे च स्नात्वा रुक्वसरोवरे ॥२२॥रफिज्यायां ततः स्नात्वा रोवुमायां समाप्लवत् ।न्याजासरोवरे स्नात्वा शिवासरोवरे ततः ॥२३॥जाम्बूजायां ततः स्नात्वा बंगव्यालीसरोवरे ।मावूरसरसि स्नात्वा कङ्गूस्नानं ततोऽकरोत् ॥२४॥तत्र तत्र च निधनं गतान् प्रेतान् कृपालयः ।अमोक्षयत् तथा तानि तीर्थान्यप्याकरोत् प्रभुः ॥२५॥ततो ययौ दिनोलूकतडागं भगवान् हरिः ।विज्ञतुरीयधोधे च ज्ञात्वा कुबंगिकातटे ॥२६॥तज्जे सरोवरे स्नात्वा लिम्पापगायां चाप्लवत् ।बालनद्यां ततः स्नात्वा दक्षिणावर्गपर्वतम् ॥२७॥विमानेनोर्ध्वमुल्लंघ्य कारुवार्धिं जगाम ह ।विमानादवतीर्याऽथ सर्वे सस्नुश्च सागरे ॥२८॥ततस्ते यानमारुह्य ओरञ्जासरितं ययुः ।स्नात्वा रणे मृतान् उक्तस्थानेष्वपि मृतासुरान् ॥२९॥अमोक्षयच्छ्रीभगवान् कालहरिरणात्ततः ।ययौ कुनयनां स्नात्वा कुरेनृक्यां समाप्लवत् ॥३०॥गत्वा कुवंशजां स्नात्वा स्थानल्याख्ये जलाशये ।कर्माङ्ग्यां च महानद्यां स्नात्वा महासमागमे ॥३१॥लिम्पासरोवरे स्नात्वा तुम्बासरोवरे तथा ।स्थानल्याधोधभागेषु स्नात्वा आरुवमीजले ॥३२॥कर्माङ्ग्यां च तथोवेण्यां स्नात्वा तयोः समागमे ।सामुद्रसंगमे स्नात्वा कोटिप्रेतप्रमोक्षणम् ॥३३॥चकार श्रीहरिस्तत्र मृतानां शाश्वतार्थकृत् ।तानि विधाय तीर्थानि आगीव्यां प्रययौ ततः ॥३४॥कर्मघ्नं पर्वतं तीर्थं कृत्वा वेनजयातटे ।स्नानं च संगमे तस्या नष्टजरासमागमे ॥३५॥केडंडायां तथा नद्यां तथा चण्डसरोवरे ।फेगविपीनसरसि स्नात्वा सरित्समागमे ॥३६॥गम्बिकायां स्फुटायां च सेनागोलसरित्सु च ।फल्गुबीजे तथा स्नात्वा रणमुल्लङ्घ्य वै हरिः ॥३७॥रणे सरोवरे स्नात्वा अतलेष्टं च पर्वतम् ।अलजालिसरःपञ्चस्वाप्लवनं चकार सः ॥३८॥तन्मुखं पर्वतं गत्वा त्रिराशिपर्वतं ततः ।लीलाबीजरणं गत्वा कृत्वा तीर्थानि वै जले ॥३९॥भूमध्याब्धौ ततः स्नात्वा नारायणीयसागरे ।समुद्रसंगमेष्वेव स्नात्वाऽऽद्ये धोधसारके ॥४०॥नवबीजरणं दृष्ट्वा स्नात्वा रक्तसमुद्रकम् ।कृत्वा सर्वाणि च तानि पवित्राणि जलानि तु ॥४१॥नदीर्नदाँस्तडागाँश्च सरो वापीः प्रवाहकान् ।देशान् रणान् पर्वताँश्च महापगाश्च नालिकाः ॥४२॥तत्तत्प्रदेशजान् ग्रामान् नगराणि गृहाणि च ।राजधानीर्जलधानीर्वनधानीश्च भूमिकाः ॥४३॥पवित्रीकृत्य च तीर्थीकृत्य श्रीमन्नरायणः ।कोटिगणैः पार्षदैश्च देवीभिः साधुभिः सह ॥४४॥धर्मराजस्कन्दशंभुविनायकादिभिः सह ।स्थले च विहृत्य प्रेतोद्धारं विधाय च ॥४५॥अब्रिक्तं सुमहाखण्डं तीर्थीभूतं विधाय च ।दशसाहस्रक्रोशात्मभूमिं कृत्वा सुपावनीम् ॥४६॥जुमासेम्लानृपं प्राह भगवान् पुरुषोत्तमः ।राजन् मनोरथस्तेऽत्र जातो वै सफलः खलु ॥४७॥अधुना च वयं यामो रैवतेऽश्वसरोवरम् ।श्रुत्वा राजाऽऽह भगवन् मुक्तिमिच्छामि शाश्वतीम् ॥४८॥मोक्षदाता मिलेद् यावद् यदि मोक्षं न विन्दति ।संसारस्तस्य शिरसि ध्रुव एव स्थितो भवेत् ॥४९॥मया भुक्तं बहु राज्यं दशलक्षसमान्तरम् ।मम पूर्वं गता दैत्याः कोटिवर्षोपजीविनः ॥५०॥नैताः कैश्चित् समं याताः पृथ्वी सम्पत् प्रजास्तथा ।न यास्यन्ति मया साकं ततो मे भगवन् प्रभो ॥५१॥कुरूद्धारं कृपां कृत्वा लप्स्ये यच्छाश्वतं पदम् ।पावितं तु कुटुम्बं मे पाविता पृथिवी मम ॥५२॥पाविताश्च प्रजाः सर्वा प्रेता उद्धारितास्तथा ।नद्यादीनि च तीर्थानि पावनानि कृतान्यपि ॥५३॥अहं पत्न्या समं यामि तव धाम सनातनम् ।तथा मे कुरु जीवेन्द्र कृपां प्रसन्नतोद्भवाम् ॥५४॥इमाश्च कन्यका मे वै सहस्रं षोडशाब्दिकाः ।सन्ति सर्वा वरारोहा वरो भव सुहृद्गमः ॥५५॥अन्ये सन्ति कुमारा मे तेषां यथेष्टकं कुरु ।कुटुम्बिनां च भृत्यानां कृष्ण यथेष्टकं कुरु ॥५६॥अनादिश्रीकृष्णनारायणः श्रुत्वाऽतिभावुकम् ।राजानं प्राह राजेन्द्र पापपुण्ये गते तव ॥५७॥मोक्षयोग्योऽसि ते मोक्षं करोमि क्षणमात्रतः ।इत्युक्तश्च तदा धीमान् तत्क्षणं कन्यका निजाः ॥५८॥हस्ते जलं गृहीत्वैव दत्वा श्रीपतिहस्तके ।सहस्रकन्यकाः कृष्ण! ते ददामि, तव स्त्रियः ॥५९॥भवन्तु सर्वसौभाग्ययुक्ता मत्सन्ततिः सुखा ।इत्युक्त्वा प्रददौ दिव्यं यौतकं कोटि चार्बुदम् ॥६०॥सौवर्णं रूप्यकं मौक्तिजालं हीरकरत्नकम् ।भूषाम्बराणि दिव्यानि यानवाहनकानि च ॥६१॥दासान् दासीर्ददौ तावत् सहस्रसंख्यका अपि ।हस्तिवाज्युष्ट्रगवयान् गोमहिष्यादिकं ददौ ॥६२॥अनादिश्रीकृष्णनारायणो नीत्वा विमानके ।कन्याश्च यौतकं याने धृत्वा प्राह नृपं तदा ॥६३॥राजन् श्रीनारदादत्र गृहाण चरणामृतम् ।तव राज्ञ्यस्त्रिशतानि गृह्णन्तु चरणामृतम् ॥६४॥तव पुत्राश्च गृह्णन्तु कुटुम्बं चरणामृतम् ।इत्युक्तास्ते नारदाद्वै जगृहुश्चरणामृतम् ॥६५॥श्रीहरेः पादधौतं तज्जलं पपुश्च ते मुदा ।द्राक् समाधौ गताः सर्वे ब्रह्मणि लीननाडिकाः ॥६६॥द्विरूपाः सर्व एवैते तदा कृष्णेच्छयाऽभवन् ।छायारूपा देवलोकेऽभवन् मरुत्सुरास्तु ते ॥६७॥अन्ये दिव्यविमानेषु भूत्वा दिव्यवपुर्धराः ।अनादिश्रीकृष्णनारायणधाम ययुस्तदा ॥६८॥अथैताः कन्यकास्तस्य शवखातान् प्रचक्रिरे ।भूसमाधिं कारयित्वा तथोत्तरक्रियादिकम् ॥६९॥सर्वं च विधिवत् कृष्णः कारयित्वा यथोचितम् ।नीलश्वेतनरायण्योर्नद्योर्धोधे तु षष्ठके ॥७०॥सर्वं समाप्य विधिवद् द्विराज्यं व्यभजत्प्रभुः ।अदनाखातगे तीरे जीमूतीनगरात्ततः ॥७१॥पश्चिमे तूनायवारिधानीमेम्बागपत्तनम् ।उष्णांग्याख्यनदीमूलं कर्मांगाद्रेश्च पश्चिमे ॥७२॥बुयापर्यन्तमेवास्य खण्डस्य मध्यभागतः ।सीमां प्रदर्श्य चोल्लिख्य दक्षिणं चोत्तरं तथा ॥७३॥दक्षिणं प्रददौ रुद्रशिरसे भक्तयोगिने ।अनादिश्रीकृष्णनारायणभक्ताय केशवः ॥७४॥उत्तरं च तथा राज्यं दिनमेराह्वयाय च ।ददौ नारायणः साक्षान्निजभक्ताय केशवः ॥७५॥रुद्रशिरादिनमेराभिधौ सेनापतिप्रभौ ।युद्धे चास्तां निर्मनस्कौ भक्तौ नारायणस्य तौ॥७६॥ताभ्यां राज्ये प्रदत्ते च ह्यभिषिक्तौ स्वयं तदा ।हरिणा देवसदृशो कृता मुकुटमर्पितम् ॥७७॥दक्षिणे च महाराज्ये राजधानी कृता तदा ।रुद्रशिरेतिविख्याता विज्ञतुरीयपार्श्वगा ॥७८॥पूर्वस्यां च दशयोजनायता त्वतिशोभिता ।उत्तरे च तथा खण्डे दिनमेरेण निर्मिता ॥७९॥राजधानी चण्डसरोऽन्तिके पश्चिमभूतले ।नाम्ना सा दिनमेरेति दशयोजनविस्तृता ॥८०॥तस्यां देवालयं कृत्वा सहस्रधनुरुच्छ्रयम् ।अनादिश्रीकृष्णनारायणस्य मूर्तिरुत्तमा ॥८१॥कानकी स्थापिता तेन हरेण सहिता शुभा ।सनता नारदेनापि धर्मदेवेन शोभिता ॥८२॥एवं रुद्रशिरसाऽपि सहस्रधनुरुच्छ्रयम् ।कारयित्वाऽऽलयं रम्यं पर्वतशृंगसदृशम् ॥८३॥अनादिश्रीकृष्णनारायणस्य मूर्तिरुत्तमा ।सनता शंभुना धर्मदेवेन नारदेन च ॥८४॥सेविता स्थापिता तत्र कानकी बहुशोभना ।एवं कृष्णः स्वयं दत्वा भक्ताभ्यां राजधानिके ॥८५॥भक्तदत्तां दिव्यपूजां गृहीत्वा पुरुषोत्तमः ।सर्वशुभाशिषो दत्वा विमानमधिरुह्य च ॥८६॥कन्यावर्गेण च दासीदासव्रातैः प्रपूजितः ।भूपाभ्यां दासदास्यादीर्दत्वा कृत्वा च वैष्णवाः ॥८७॥ब्रह्मकन्या द्वासप्ततिसहस्राणि सहस्रकम् ।राज्यकन्यास्तथा नैजान्पार्षदान्देवसेवकान् ॥८८॥सर्वमेव समादाय व्योम्ना जगाम पूर्वतः ।पूर्वस्यां रक्तवार्धिं च समुत्तीर्य हरिस्ततः ॥८९॥आरबीजं महादेशं ददर्श व्योममार्गतः ।तत्राह धर्मराजं श्रीकृष्णनारायणः स्वयम् ॥९०॥पश्य राजन् महादैत्यं देशेष्वत्र प्रसह्य सः ।नृपो भूत्वा महाराज्यं करोति दानवानुगः ॥९१॥रक्तबीजश्चारबीजो बलवान् लोकनाशनः ।सुमहावालुकाव्याप्तरणोत्तरप्रदेशके ॥९२॥बधीरायननगरं कृत्वा वसति निर्भयः ।श्रीनायिपर्वतं रम्यं बहुशोभितकन्दरम् ॥९३॥लताविमानसंछन्नं मत्तसत्त्वसमाकुलम् ।विविधैः कुसुमैश्चापि सुगन्धितानिलाश्रयम् ॥९४॥दृष्ट्वा रम्यं रक्तबीजो तथाऽन्ये दानवादयः ।दशसहस्रसंख्यास्ते आरबीजा वसन्ति हि ॥९५॥ऊर्ध्वरेतसीसरितं त्वभिव्याप्य हि वर्तते ।तेषां राज्यं विशालं वै म्लेच्छाचारजुषां यम! ॥९६॥देवानां स विरोध्येव दैत्योऽस्य दानवादयः ।बकदानऋषेस्तत्राऽऽश्रमं विनाश्य तेऽसुराः ॥९७॥वर्तन्ते स ऋषिस्तत्र तायिग्रासनदीं प्रति ।गत्वा जलतले स्थित्वा तपः करोति दारुणम् ॥९८॥तमेनं प्रथमं नत्वा ततोऽसुरान् विनाशय ।दूतान् याम्याँस्तथा रौद्रान् सह नीत्वा प्रयाहि च ॥९९॥तान् सर्वान् नाशयित्वा वा विद्राव्य वा रसातलम् ।ऋष्याश्रमं पुनर्भीतिवर्ज्यं विधाय धर्मराट्! ॥१००॥तव दूतो मौनधर्मा अरवो नाम नामतः ।वर्तते योगनिपुणस्तस्मै राज्यं समर्पय ॥१०१॥इत्युक्त्वा श्रीकृष्णनारायणो हारं ददौ गले ।यमराजस्य च सैन्यं ददौ कल्पलतां तथा ॥१०२॥यमस्त्वाज्ञां गृहीत्वैव ससैन्यो व्योममार्गतः ।ययौ तं दानवं तूर्णं रणमुल्लङ्घ्य यत्नतः ॥१०३॥अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।आययौ कुंकुमवापीक्षेत्रं श्रीलोमशाश्रमम् ॥१०४॥जयतूर्णण्यवाद्यन्त जयघोषास्तदाऽभवन् ।अश्वपट्टसरोराष्ट्रं ब्रह्मानन्दभरं ह्यभूत् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशेषु श्रीहरिर्विहृत्य तीर्थानि विदधे, मृतानामुद्धारं च विदधे, राज्यं द्वेधा विभज्यभक्ताभ्यां ददौ, राजकुटुम्बस्य मोक्षं चक्रे चेत्यादिनिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP