संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः ८५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः ८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८५ Translation - भाषांतर श्रीकृष्ण उवाच-ऐलविला पुलस्त्यस्य पत्नी तपश्चचार ह ।दुस्तरं पुत्रपुत्रार्थं चतुर्युगवृषान्वितम् ॥१॥अनादिश्रीस्वामिनारायणकृष्णनरायणः ।सह्याद्रिशिखरे तस्या आश्रमे विप्ररूपधृक् ॥२॥जटावल्कलभस्माढ्यो मालाजपपरायणः ।तस्थावागत्य निकटे द्रुमाऽधश्छायिते स्थले ॥३॥कन्दमूलफलाहारो नित्यं त्रिषवणस्तथा ।बालरूपः ऋषिपुत्रो यथा कश्चिन् मनोहरः ॥४॥आगत्य तिष्ठति तत्र क्वचित् प्रयाति लीनताम् ।क्वचिद् वृक्षे शुको भूत्वा भूत्वा कोकिलकस्तथा ॥५॥मयूरश्चापि हंसश्च हरिणः क्वचिदेव वा ।क्वचिद्रूपमगस्त्यस्य धृत्वा पश्यति तत्तपः ॥६॥क्वचिद् भूत्वा विश्रवाश्च क्वचित् पुलस्प्ययोषिताम् ।पुलस्त्यस्य सुतानां च धृत्वा रूपाणि वै क्वचित् ॥७॥तपो निरीक्षते स्वामिकृष्णनारायणो मुहुः ।राधिकोवाच हे कृष्ण किं पुण्यं योषितां तथा ॥८॥कथं वै भगवाँस्तस्याः सन्निधौ विविधानि च ।रूपाणि धृतवान् स्वामिकृष्णनारायणः प्रभुः ॥९॥श्रीकृष्णः प्राह वै राधे! ब्रह्मा पुत्रं पुलस्त्यकम् ।'ओं नमः श्रीस्वामिकृष्णनारायणाय ते स्वाहा' ॥१०॥इत्यार्पयन्महामन्त्रं ततः सोऽपि निजां प्रियाम् ।ऐलविलां चार्पयत्तं मन्त्रं जजाप साऽनिशम् ॥११॥तज्जापाऽऽकृष्टहृदयः स्वामिकृष्णनरायणः ।भक्तिवश्यः समीपेऽस्यास्तथारूपोऽभवद्धरिः ॥१२॥राधिके स मया दृष्टस्तदा कृष्णमृगात्मकः ।अटमानो हरिकृष्णो वल्लभः श्रीपतिः पतिः ॥१३॥ऐलविलातपः पश्यन् शृण्वन् जापं विराजते ।सापि पुलस्त्यपत्नी वै जटावल्कलधारिणी ॥१४॥परमेश्वरलब्ध्यर्थं यतते तापसी सती ।आकाशवासिनी पृथ्व्यां कृत्वा तु वेदिकां मृदः ॥१५॥वह्निं तत्र निधायैव प्रातः पूजां करोति सा ।ततो रुद्रं सतीं कृष्णं लक्ष्मीं चाजं सवितृजाम् ॥१६॥सूर्यं प्रभां गणेशं च साध्वीं सद्वस्तुभिः सुरान् ।नित्यं प्रपूज्य च मालाजपं करोति वै शतम् ॥१७॥ततः फलादि चाहृत्य मध्याह्ने हरये स्वयम् ।नैवेद्यं सजलं चार्प्य तपः करोति तिष्ठति ॥१८॥एकपादेन वै सूर्यं दृष्ट्वा स्थिरा प्रतिष्ठति ।आसायं च ततश्चारार्त्रिकं स्नात्वा करोति च ॥१९॥रात्रौ करोति भजनं कृष्णनारायणेति च ।अर्धरात्रोत्तरं निद्रां घटिकामात्रमृच्छति ॥२०॥समुत्थाय हरिं ध्यात्वा ब्राह्मे स्नात्वाऽर्चनं हरे ।नित्यवत् प्रकरोत्येव कन्दमूलफलाशना ॥२१॥वर्षमात्रं तथा कृत्वा ततो वार्यशनाऽभवत् ।सूर्योदयं समारभ्याऽऽसायं तिष्ठति नित्यदा ॥२२॥अङ्गुष्ठैकस्थिरा चैवं वर्षमात्रं तपोऽकरोत् ।ततो दिवानिशं स्थैर्यं समालम्ब्य स्थिताऽभवत् ॥२३॥वाय्वाहारा हृदयेन पूजिका श्रीहरेस्तदा ।शरीरं वर्षमात्रेण जडवत् काष्ठतां गतम् ॥२४॥पक्षिणो यत्र तिष्ठन्ति कीटाः कुर्वन्ति मृद्गृहम् ।एवं वल्मीकछन्ना सा वर्षे चतुष्टयेऽभवत् ॥२५॥वर्षे तु पञ्चमे तस्या मस्तके स्तम्बरोहणम् ।तृणोद्गमश्च सञ्जातो दृश्यते सा न मानवी ॥२६॥ततो ब्रह्मा हरो विष्णुः सूर्यो गणपतिः स्त्रियः ।आययुर्देवदेव्याद्याः सतीतपःप्रकर्षिताः ॥२७॥देव्यः स्तम्बतृणादीनि दूरीचक्रुर्मृदां चयात् ।गणेशश्चापि सूर्यश्च मृदो दूरीप्रचक्रतुः ॥२८॥ब्रह्मा जलं ददौ तत्राऽञ्जलिना प्रोक्षणं शुभम् ।रुद्रः प्राणप्रचारं चाऽकारयत् प्रोक्षणेन तु ॥२९॥विष्णुस्तस्याश्चेतनं चाऽऽवाह्यत् सर्ववर्ष्मणि ।ततः सा तूत्थिता बोधं प्राप्ताऽनमत् सुरान् पुरः ॥३०॥'ओं नमः श्रीस्वामिकृष्णनारायणाय ते स्वाहा' ।उवाच साध्वी चाऽव्यग्रा रक्षन्तं स्वां निजं प्रभुम् ॥३१॥सस्मार देवदेवेशं श्रीमत्कृष्णनरायणम् ।देवा ऊचुर्वद साध्वि किं ते मनसि वर्तते ॥३२॥दद्मस्तेऽभीष्टमत्रैव वरं वृण्वद्य मा चिरम् ।इत्युक्ता सा प्रजगाद वरं कृष्णनरायणात् ॥३३॥वृणोम्येव न चान्यस्माद् देवाः स्वस्त्यस्तु वः सदा ।भवन्तः पूजिता नित्यं मया धर्मो यतो हि सः ॥३४॥लोकसंग्रहरक्षार्थं स्वति वोऽस्तु यदागताः ।देव्यः स्वस्ति च युष्माकं सदाऽस्तु कुशलं तथा ॥३५॥इत्युक्त्वा स्वागतं चक्रे हृदयेन सुतुष्यता ।जजाप श्रीस्वामिकृष्णनारायणं श्रियः पतिम् ॥३६॥तावच्छ्रीभगवाँस्तत्र य आसीत् स्तम्बसंस्थितः ।वृक्षरूपः स वल्मीके प्राविरास हरिः स्वयम् ॥३७॥द्विभुजश्चम्पकवर्णः स्वर्णभूषाविराजितः ।कोटिकोट्यर्कतेजोभिर्व्याप्तो दिव्याकृतिः पतिः ॥३८॥दिव्यसौवर्णभूषाढ्यो दिव्याम्बरविराजितः ।दिव्यरत्नालिमालाभिः शोभमानः श्रीवल्लभः ॥३९॥दिव्यकटकशोभाढ्यो दिव्यमुकुटकुण्डलः ।दिव्यकौस्तुभरशनोर्मिकायष्टिविराजितः ॥४०॥राधारमाप्रभापार्वतीहंसामञ्जुलाऽर्चितः ।सगुणामाणिकीशान्ताविजयाललितार्चितः ॥४१॥हेमन्तभगवद्देवप्रकाशकेशवादिभिः ।पार्षदैः सहितस्तत्र सुयुवा संस्थितोऽभवत् ॥४२॥रूपानुरूपाऽवयवः करे नक्तकमादधन् ।ताम्बूलचर्वणं कुर्वन् हसन् हरिः स्थितोऽभवत् ॥४३॥कराभ्यां स स्पृशँस्तस्या मस्तके चाशिषं वदन् ।वरार्थं च प्रयुञ्जँस्तां देवान् प्रति व्यलोकयत् ॥४४॥देवैः साक्षाद्धरिर्दृष्टः स्तुतः स्तोत्रैस्तु सामगैः ।पूजितः परया भक्त्या ततस्तस्थुः सुरेश्वराः ॥४५॥पुपूज सा स्वामिकृष्णपरब्रह्मपरेश्वरम् ।पत्रं पुष्पं जलं भावं ददौ श्रीपतये सती ॥४६॥वरं समार्थयत् तस्माच्चतुर्युगगुणाश्रयाः ।पौत्रा मे सन्तु भगवन् येन योगो भवेत्तव ॥४७॥पौत्राणां च कुटुम्बस्य भक्त्या चानन्यलब्धया ।युगदोषेण दोषैश्च द्वेषेणापि द्रुतं तव ॥४८॥भवेद् भक्तिः स्मृतिर्नित्या स्नेहादप्यधिका यतः ।तव योगं विना मोक्षो नैव भवति देहिनाम् ॥४९॥आन्योपायैश्चिरंलभ्यो द्वेषैर्लभ्यो द्रुतं भवान् ।तव हस्तेन मरणं मोक्षदं निश्चितं भवेत् ॥५०॥इत्येवं मत्कुटुम्बार्थे समिच्छामि वरं प्रभो ।देहि मे चेति श्रुत्वैव तथाऽस्त्वित्याह केशवः ॥५१॥अथ हर्याज्ञया देवाः सत्कृता प्रययुश्च ते ।ऐलविला तपस्त्यक्त्वा प्रसादं बुभुजे हरेः ॥५२॥जलं फलं रसं मधु स्नात्वा शुद्धिं विधाय च ।स्वामिकृष्णं समपृच्छत् पुलस्त्यस्य प्रिया सती ॥५३॥ऐलविलोवाच-भगवन् संशयान्मेऽत्र छेत्तुमर्हसि सर्ववित् ।नार्यास्तु संशयान् कश्चिदन्यश्छेत्तुं न चार्हति ॥५४॥केचिद् ध्यानं वृषं चान्ये विवेकं योगसाधनाम् ।ब्रह्मचर्यं तपः पातिव्रत्यं पत्नीव्रतं परे ॥५५॥सत्यं त्यागमहिंसां सतीत्वं सन्यासमित्यपि ।दानं दयां चाध्ययनं प्रशंसन्ति तथेतरे ॥५६॥तीर्थयात्रां चेन्द्रियाणां निग्रहं सत्समागमम् ।सर्वार्पणं प्रपत्तिं वा गुर्वर्पणं विरागिताम् ॥५७॥ज्ञानं ब्रह्ममयं चैषां किं श्रेयो ब्रूहि मे प्रभो! ।यदि वा विद्यते चान्यद् गुप्तं तद्वक्तुमर्हसि ॥५८॥श्रुत्वा चैलविलावाक्यं स्वामिकृष्णनरायणः ।प्राह दिव्यं परं तत्त्वं श्रेयःप्रदं परात्परम् ॥५९॥हिताय सर्वजीवानां पूर्वैः पूर्वतरैः सृतम् ।अवाच्यं सर्वगूढार्थं ज्ञानमज्ञैर्बहिष्कृतम् ॥६०॥श्रीकृष्णनारायणस्वाम्युवाच-परं गुह्यतमं क्षेत्रं परधामप्रदं परम् ।ममाऽक्षराह्वयं क्षेत्रं यत्र कुंकुमवापिका ॥६१॥सर्वेषां देहिनां वासात् संसारार्णवतारिणी ।अश्वपट्टसरोरम्या लोमशाश्रमशोभिता ॥६२॥तत्र भक्ता ऐलविले! मदीयं व्रतमास्थितः ।निवसन्ति महात्मानः परां भक्तिं ममाश्रिताः ॥६३॥उत्तमं सर्वतीर्थानां क्षेत्राणामुत्तमं च यत् ।स्थानानामुत्तमं स्थानं क्षेत्रं मेऽक्षरसंज्ञितम् ॥६४॥भूतले नैव संलग्नं चिदाकाशस्थितं हि तत् ।अदिव्या नहि पश्यन्ति मुक्ताः पश्यन्ति तद् हृदा ॥६५॥स्थानं प्रियतमं मे तद् गुप्तं शीघ्रं प्रमुक्तिदम् ।मद्भक्ता यत्र वर्तन्ते मामेव च भजन्ति वै ॥६६॥तत्र यान्ति नरा नार्यस्तेऽपि प्रयान्ति मत्पदम् ।अन्यधामानि दृष्ट्वैव मामेव प्रविशन्ति ते ॥६७॥दत्तं जप्तं कृतं चेष्टं तप्तं ध्यातं हुतं श्रुतम् ।सेवितं भोजितं ज्ञातं सर्वं तत्राऽक्षयं भवेत् ॥६८॥जन्मान्तरसहस्रेषु कृतं पापं तु सञ्चितम् ।क्षेत्रेऽक्षरे प्रविष्टस्य सर्वं द्राग् याति संक्षयम् ॥६९॥मानवास्तु नरा नार्यः संकराश्चातिपापिनः ।पापयोनिगता दुष्टाः स्त्रियः संकीर्णयोगजाः ॥७०॥म्लेच्छाश्चण्डालजाश्चापि कीटाः पिपालिका मृगाः ।पशवः पक्षिणः सरीसृपास्तृणानि पादपाः ॥७१॥वल्लयो जडजाताश्च यदि क्षेत्रेऽक्षरे मृताः ।ते तु सचन्द्रतिलका महाहस्त्यादिवाहनाः ॥७२॥रम्ये ममाऽक्षरे दिव्यास्ते प्रयान्ति प्रमोक्षणम् ।अक्षरे तु मृतः कश्चिन्न याति नरकं ह्यघी ॥७३॥ममाऽनुग्रहमाप्तास्ते सर्वे यान्त्यक्षरं पदम् ।किं वक्तव्यं भवेदत्र चैलविले मम स्थले ॥७४॥मोक्षं सुदुर्लभं ज्ञात्वा संसारं चातिभीषणम् ।गतिं ज्ञानेन हत्वाऽपि वसेत् क्षेत्रेऽक्षरे मम ॥७५॥यत्र तत्र विपन्नस्य गतिस्त्वत्र हि मोक्षदा ।प्रसादाद् दह्यति पापं वासात्तु दिव्यता भवेत् ॥७६॥दर्शनान्मम मुक्तिश्च जायते त्वक्षरे पदे ।मम योगान्महामुक्तिर्जायते मे परे पदे ॥७७॥अपुण्या नहि पश्यन्ति मायापटलचक्षुषः ।तमोवृत्ता न पश्यन्ति दिव्यं क्षेत्रं ममाऽक्षरम् ॥७८॥ते तु विण्मूत्ररेतोभृद्देहे विशन्ति वै मुहुः ।हन्यमानोऽपि यो देही विशेद् विघ्नशतैरपि ॥७९॥अक्षरं परमं क्षेत्रं चाऽश्वपट्टसरोऽभितः ।स याति परमं धाम यत्र गत्वा न शोचति ॥८०॥जन्ममृत्युजरामुक्तं परं क्षेत्रं ममास्पदम् ।अपुनर्मरणानां तद् गदितं मोक्षकांक्षिणाम् ॥८१॥न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया ।प्राप्यते गतिरुत्कृष्टा याऽक्षरे लभ्यते परा ॥८२॥नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः ।किल्बिषैः पूर्णदेहाश्च निकृष्टैः पातकैर्युताः ॥८३॥तेषां तीक्ष्णं भेषजं चाक्षरं क्षेत्रं परं पदम् ।अक्षरं तत्परं ज्ञानमक्षरं तत्परं पदम् ॥८४॥अक्षरं तत्परं वत्त्वमक्षरं पुरुषोत्तमः ।धृत्वा वै नैष्ठिकीं दीक्षामक्षरे ये वसन्ति ते ॥८५॥मत्तो लब्ध्वा परं ज्ञानं यान्ति मे परमं पदम् ।प्रभासं स्वर्णनगरी वस्त्रापथं च नर्मदा ॥८६॥नारायणसरच्चापि पुष्करं कौरवं स्थलम् ।गंगा बदरिका शालग्रामं श्रीशैल इत्यपि ॥८७॥हिमालयश्च केदारो गया गोकर्णमित्यपि ।कृष्णा गोदावरी सिन्धुर्गोमती ब्रह्मपुत्रिका ॥८८॥नारायणीसरिच्चापि विज्ञतुरीयकं सरः ।तूंगानीकसरो न्याससरश्चण्डसरस्तथा ॥८९॥नष्टजरानदी रक्तवार्धिर्नीलाब्धिरित्यपि ।नीपरा दीनयूपा च सेना महाबृहत्सरः ॥९०॥अन्तार्किवर्तुलं चापि सूपर्युपरिकंसरः ।पन्नाम्नी कालिमा चापि यानेशी श्वेतवारिधिः ॥९१॥उरलाद्रिर्मानसं च सरो ब्रह्मसरोवरम् ।बालकृष्णसरश्चापि द्विकलं च सरस्तथा ॥९२॥अंगशिक्षांगिका चापि मुरानदी तुरुनदी ।ऐतानदी मिकांगा च इरावती नदी तथा ॥९३॥हुतलीना च गंगाऽपि साभराख्यं महत् सरः ।एतानि पुण्यस्थानानि पृथिव्यां विश्रुतानि तु ॥९४॥तानि त्वायान्ति सततं चाश्वपट्टसरोवरम् ।तन्मृताः परमं मोक्षं न यान्ति ते यथाऽक्षरे ॥९५॥कुंकुमवापिकाक्षेत्रे साक्षादहं परेश्वरः ।ब्रह्मह्रदं समादाय वर्ताम्येव निरन्तरम् ॥९६॥ब्रह्मह्रदोऽनन्तजन्मकृतपापानि नाशयेत् ।अन्यत्र सुलभा गंगा श्राद्धं दानं जपो व्रतम् ॥९७॥कुंकुमवापिकाक्षेत्रे तत्सर्वं त्वतिदुर्लभम् ।यदि पापो यदि शठो यदि त्वधार्मिको जनः ॥९८॥अक्षरं तत्पदं प्राप्य पुनाति कुलसप्तकम् ।यजेत जुहुयान्नित्यं ददात्यर्चयते तथा ॥९९॥क्षेत्रेऽक्षरे तु मां भक्तस्तस्याऽनन्तगुणं फलम् ।तत्र गत्वा तु ये भक्ता अर्चयन्ति स्तुवन्ति माम् ॥१००॥सर्वपापविनिर्मुक्तास्ते ज्ञेया मम पार्षदाः ।अन्यत्र यागाज्ज्ञानाद्वा सन्यासादथ योगतः ॥१०१॥प्राप्यते तत्परं स्थानं सहस्रेण तु जन्मनाम् ।अक्षरे ये वसन्त्येते विन्दन्त्येकेन जन्मना ॥१०२॥तत्र योगस्तपो ज्ञानं व्रतं चाहं निरन्तरम् ।मां समासाद्य भक्तानां गन्तव्यं नाऽस्ति चाऽपरम् ॥१०३॥तदेव गुह्यं गुह्यानां परं श्रेयःप्रदं मतम् ।ज्ञानध्याननिविष्टानां परमानन्दमिच्छताम् ॥१०४॥तत्र ददाम्यहं मन्त्रं त्वक्षरे क्षेत्रके मम ।यत्तत्परतरं तत्त्वं सोऽहं क्षेत्रं च तन्मम ॥१०५॥भ्रूमध्ये नाभिमध्ये च हृदयेऽपि च मूर्द्धनि ।यस्मात् कस्माद् याति चाऽसुस्त्वक्षरेऽत्र प्रमुच्यते ॥१०६॥अनादिश्रीकृष्णनारायणस्वामी वसाम्यहम् ।मामासाद्याऽतिपापाश्च प्रयान्ति परमां गतिम् ॥१०७॥नारायणानां सर्वेषां श्रेष्ठोऽहं परमेश्वरः ।नारायणास्तथा चान्ये शंभ्वाद्या वैष्णवा अपि ॥१०८॥धामान्यपि च सर्वाणि धामस्था मुक्तकोटयः ।ब्रह्माण्डेश्वरवर्याश्च देवाद्यास्तीर्थकोटयः ॥१०९॥वसामस्तत्र मे क्षेत्रेऽक्षरे चाश्वसरोऽभितः ।कुंकुमवापिका ब्रह्मरूपिणी मुक्तसत्पुरी ॥११०॥पापोपहतमतयो नैव पश्यन्ति दिव्यताम् ।न तेषां वीक्षितुं शक्यं चाऽक्षरं मम भूतलम् ॥१११॥पुण्यवासाः स्मरन्त्येनां पुरीं दिव्येन चक्षुषा ।पश्यन्ति योगसिद्धा च लोकान्तरेऽपि वासिनः ॥११२॥आगच्छतामिदं स्थानं सेवितुं मोक्षकांक्षिणाम् ।मृतानां पथि चेत्तेषां पुनर्जन्म न विद्यते ॥११३॥योगी वाऽप्यथवाऽयोगी पापी वा पुण्यकृत्तमः ।न लोकवचनात् पित्रोर्न चापि गुरुवादतः ॥११४॥मतिं चोत्क्रमयेत् साक्षादक्षरक्षेत्रगां शुभाम् ।कुंकुमवापिकावासं चाऽश्वसरोजलाप्लवम् ॥११५॥राधिके! भगवानेवं चैलविलां प्रबोध्य च ।विरराम क्षणं साऽपि श्रुत्वाऽऽश्चर्यमवाप ह ॥११६॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽनादिश्रीकृष्णनारायणस्वामिना ऐलविलायै कथितमक्षरमाहात्म्यमितिनामा पञ्चाशीतितमोऽध्यायः ॥८५॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP