संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १५८

त्रेतायुगसन्तानः - अध्यायः १५८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
श्रूयतां च ततो राधे पूर्णाहुतिं महाहुतीन् ।
यानाह श्रीहरिस्तत्र कर्म चात्र वदामि ते ॥१॥
स्योनापृथ्वीति पृथिव्यै अघोरेभ्यश्च शंभवे ।
इन्द्रायेन्द्रो महेन्द्रायाग्नयेऽग्निं दूतमित्यपि ॥२॥
पशूनां पशुपतयेग्नये अग्न आयाहि च ।
असिही यजमानाय तमिन्द्रं रुद्रमूर्तये ॥३॥
यामायेति यमायैव उदुत्यं सूर्यमूर्तये ।
आवो रुद्राय चासुन्वन्तं निर्ऋतयेऽर्पयेत् ॥४॥
आपोहि जलदेवाय विभूषं तु भवाय च ।
इमं मे वरुणायेति वातआ वायुमूर्तये ॥५॥
ईशानाय तमीशानं आनोनीति च वायवे ।
वयं सोमाय सूर्याय इन्द्रं महादेवाय तु ॥६॥
आदिप्रत्नेति हरये भीमाय तु मृगोनभी ।
ईशानाय अभित्यं तु जुहुयान्मन्त्रसाधितम् ॥७॥
एककुण्डे महाचार्यो जुहुयात् सर्वनामतः ।
अष्टसाहस्रकं यद्वा चाष्टशतं हवान् चरेत् ॥८॥
पूर्णाहुतिं ततो हुत्वा देवकर्णे तु दक्षके ।
निवेद्ययोः स्पर्शं घृताहुत्यष्टकोत्तरम् ॥९॥
कुर्याच्च मूलमन्त्रेण शतादिसंख्यया हवम् ।
यामकुण्डे दधि हुत्वा देवनाभिं स्पृशेत्ततः ॥१०॥
वारुणे कुण्डके क्षीरं हुत्वा हृदि हरेः स्पृशेत् ।
सौम्यकुण्डे मधु हुत्वा मूर्धानं तु स्पृशेद्धरेः ॥११॥
वारुणे कुण्डके मिश्रं घृताद्येव चतुष्टयम् ।
हुत्वा पूर्णाहुतिं हुत्वा सर्वांगानि स्पृशेद्धरेः ॥१२॥
मूर्तौ कृत्वा न्यासविधिं कूर्मशिलां प्रपूज्य च ।
ब्रह्मशिलां पिण्डिकां च वाहनानि च पार्षदान् ॥१३॥
परिचारकदेवाँश्च परिवारान् प्रपूजयेत् ।
वामेऽधिवासयेत्ताँश्च विष्णोर्वै चण्डप्रभतीन् ॥१४॥
मधुघृतैः समभ्युज्य जलैः प्रक्षाल्य पूजयेत् ।
वस्त्रेणाच्छाद्य च मूर्तेर्मन्त्रन्यासाँस्ततश्चरेत् ॥१५॥
विष्णुः स्थाप्यो भवेद्यत्र प्रतिमापिण्डिकाविधौ ।
ओं घं ङं पं भं फं लक्ष्म्यै नमो हृदि च मस्तके ॥१६॥
शिखायां कवचे नेत्रे हुंफट् स्वाहेति वै नमम ।
न्यस्यैवं पिण्डिकायां तु पञ्चांगानि च तत्र च ॥१७॥
विन्यसेन्मूर्तिमान् मन्त्रैर्मूर्तौ वै मूर्तिमान् यजेत् ।
ओं ह्रीं श्रीं ह्रां क्षः नमः श्रीपरब्रह्मणेऽखिलधृगे ॥१८॥
ओं ह्रां श्रीं ह्रीं दिव्यतेजोधर्त्र्यै सुभगायै नमः।
इत्यधिवासनं कृत्वा प्रासादस्याऽधिवासनम् ॥१९॥
नूतनस्य समीपे चैकाशीतिपदमण्डलम् ।
कृत्वाऽक्षतैः पदेष्वेव सप्तधान्यजपुञ्जकान् ॥२०॥
कृत्वा जलाढ्यकलशानेकाशीतिं शुभान्नवान् ।
आहृत्य तत्र च नवनवकेषु तु मध्यमम् ॥२१॥
ज्ञात्वा कोष्ठं तेषु कुंभान् मध्यपूर्वक्रमादिना ।
न्यस्य मध्ये तु कलशे द्वादशपल्लवानि वै ॥२२॥
शम्युदुम्बरकाश्वत्थपलाशाऽशोकचम्पकाः ।
कदम्बप्लक्षन्यग्रोधाऽऽम्रकबिल्वार्जुना द्रुमाः ॥२३॥
तेषां पत्राणि ग्राह्याणि नमः सोमाय निक्षिपेत् ।
ततः पूर्वघटे पद्मकरोचनादूर्वांकुरान् ॥२४॥
दर्भपिञ्जूलधवलपीतसर्षपकाँस्तथा ।
रक्तचन्दनजातीपुष्पनन्दावर्तमादश ॥२५॥
तत आग्नेयकलशे सप्तकं निक्षिपेद् यथा ।
यवव्रीहितिलस्वर्णरौप्यनदीतटमृदः ॥२६॥
भूम्यस्पृष्टं गोमयं च नम उक्त्वा विनिक्षिपेत् ।
ततो याम्यघटेऽष्टौ च निक्षिपेत् तद् यथायथम् ॥२७॥
सहदेवीं विष्णुक्रान्तां भृंगराजं महौषधिम् ।
शमीं शतावरीं गुडूचीं श्यामाकं विनिक्षिपेत् ॥२८॥
ततो नैर्rत्यकलशे कदलीं पूगिकाफलम् ।
नारिकेलं च बिल्वं च नारिगं मातुलिंगकम् ॥२९॥
बदरं चामलकं च नम उक्त्वा विनिक्षिपेत् ।
वारुणे तु घटे पञ्चगव्यं मन्त्रितमाददेत् ॥३०॥
वायव्ये कलशे शम्युदुम्बराश्वत्थकोद्भवम् ।
न्यग्रोधकपलाशोत्थं कषायपञ्चकं न्यसेत् ॥३१॥
सौम्ये घटे शंखपुष्पीं सहदेवीं बलां तथा ।
शतावरीं कुमारीं च गुडूचीं च वचां तथा ॥३२॥
व्याघ्रीं च मूलरूपास्ता अष्टमूलानि संन्यसेत् ।
ईशकुंभे वल्मीकप्रभृतिसप्तमृदो न्यसेत् ॥३३॥
हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥३४॥
इति मन्त्रेण च मध्यकुंभकानभिमन्त्रयेत् ।
शेषान् गन्धोदकैः पूरयित्वाऽभिमन्त्र्य वै ततः ॥३५॥
मूलमन्त्रेण सूत्रैश्चाभिवेष्ट्यान्तर्बहिर्ह्यधः ।
ऊर्ध्वं च शिखरं प्रासादं प्रोक्ष्य पञ्चगव्यकैः ॥३६॥
मूर्धानं दिवमन्त्रेण वल्मीकमृत्स्नया ततः ।
लिम्पयेद्वै ततः समुद्रादूर्मीति च मन्त्रतः ॥३७॥
ईशानमृत्तिकाकुंभकेन संस्नपयेत्तत ।
यज्ञायज्ञेतिमन्त्रेण कषायकुंभकेन च ॥३८,॥
वायव्येन स्नपयेच्च पयःपृथिव्येतिमन्त्रतः ।
वारुणेन पञ्चगव्यकुंभेन स्नपयेत्ततः ॥३९॥
याः फलिनीति नैर्ऋतफलकुंभेन वै ततः ।
हंसः शुचीति सौम्यस्थमूलाष्टकुंभकेन च ॥४०॥
विष्णोरराटमसीति पूर्वेण कुंभकेन च ।
सोमः राजेति मन्त्रेणाग्नेयस्थकुंभकेन च ॥४१॥
विश्वतश्चेतिमन्त्रेण याम्यस्थकुंभकेन च ।
नमोऽस्तु सर्पमन्त्रेण मध्यस्थकुंभकेन च ॥४२॥
अष्टाभिः पूर्वक्रमतः शिखरं स्नापयेत्ततः ।
ओं इदमापः प्रवहतावद्यञ्च मलं च यत् ॥४३॥
यच्चाभिदुद्रोहान्नृतं यच्च शेपे अभीरुणम् ।
आपो मा तस्मादेनसः पवमानश्च मुञ्चतु ॥४४॥
ओं दैव्याय कर्मणे शुन्धध्वन्देवयज्यायै यद्द्रवो
शुद्धाः पराजग्घ्नुरिदं वस्तच्छुन्धामि ।
इति संप्रोक्ष्य सूत्रेणावेष्ट्य स्नापयित्वा देवरूपं
प्रासादं चिन्तयित्वाऽधिवासयेत् ॥४५॥
ओं ह्रीं सर्वदेवमयाचिन्त्य सर्वरत्नोज्ज्वलाकृते ।
यावच्चन्द्रश्च सूर्यश्च तावदत्र स्थिरो भव ॥४६॥
अथ शृंगकलशं च पताकाः स्थापयेत्तथा ।
पिण्डिकावाहदेवानां होमं कृत्वा तिलादिभिः ॥४७॥
चतुर्धेनूर्दक्षद्वारे सम्पूज्योदङ्मुखीस्ततः ।
ओं नारायणाय विद्महे वासुदेवाय धीमहि ॥४८॥
तन्नो विष्णुः प्रचोदयादिति दुग्ध्वा च पायसम् ।
श्रपयित्वा चरुं निवेद्य च नारायणाय तु ॥४९॥
दशविप्रान् भोजयित्वा प्रीयतां विष्णुरुच्चरेत् ।
धेनूर्दद्यान्महाचार्यायर्त्विग्भ्यः स्वर्णजोर्मिकाः ॥५०॥
दत्वा च दक्षिणा रात्रौ महोत्सवं प्रकारयेत् ।
सप्तपञ्चत्र्येकरात्रं बल्यन्तं वाधिवासनम् ॥५१॥
ततो गुरुर्बहिर्गत्वा ध्यायेत् प्रासाददेवताम् ।
पादौ पादशिला प्रोक्ता जंघा पादोर्ध्वमुच्यते ॥५२॥
गर्भश्चैवोदरं ज्ञेयं कटिश्च कटिमेखला ।
स्तंभाश्च बाहवो बोध्या घण्टा जिह्वा प्रकीर्तिता ॥५३॥
दीपः प्राणोऽस्य विज्ञेयो ह्यपानो जलनिर्गमः ।
ब्रह्मस्थानं नाभिरस्य हृत्पद्मं पिण्डिका मता ॥५४॥
प्रतिमा पुरुषः सोऽयं पादस्त्वहंकरस्तथा ।
ज्योतिश्चक्षुस्तदूर्ध्वं च प्रकृतिस्तस्य कीर्तिता ॥५५॥
प्रतिमाऽऽत्मा नलकुंभादधोद्वारं तु शिश्नकम् ।
शुकनासा नासिकाऽस्य गवाक्षः कर्ण उच्यते ॥५६॥
कपोतपालिः स्कन्धोऽस्य ग्रीवा चामलसारकः ।
कलशस्तु शिरो ज्ञेयं मज्जाक्षिप्तरसं हितम् ॥५७॥
मेदं तु वसुधां विद्यात् प्रलेपो मांसम् उच्यते ।
अस्थीनि च शिलास्तस्य स्नायुः कीलादयः स्मृताः ॥५८॥
चक्षुषी शिखरास्तस्य ध्वजाः केशाः प्रकीर्तिताः ।
एवं नरस्वरूपं संध्यायेत्प्रासादकं मखी ॥५९॥
पूजयेद् गन्धपुष्पाद्यैः सूत्रेण वेष्टयेत्तथा ।
वस्त्रं च कल्पयेत् सूत्रं नमस्कारं चरेत्ततः ॥६०॥
इत्यधिवासनं कृत्वा प्रातः स्नात्वा च मण्डपे ।
आचार्यस्तु समागत्य मूर्तिपान् द्वारपान् सुरान् ॥६१॥
वास्तुदेवान् समभ्यर्च्य कुण्डे हुत्वाऽष्टकं शतम् ।
वास्तोष्पतेतिमन्त्रेण पूर्णाहुतिं तु मूलतः ॥६२॥
दिक्पालेभ्यो बलिं दत्वा देवं च प्रणमेत्ततः ।
मण्डपोत्तरकलशैर्यजमानं तु सेचयेत् ॥६३॥
गुरुं विप्रान् स्थपत्यादीन् तोषयेद् दक्षिणादिभिः ।
प्रासादोत्सर्गकं कुर्याद् देशकालौ भिधाय च ॥६४॥
इमं प्रासादकं देवालयं देवस्य प्रीतये ।
उत्सृजामीति संप्रोच्य क्षिप्त्वा कुशाऽब्यवान् ततः ॥६५॥
नत्वा देवं ब्राह्मणादीन् साधून् साध्वीः प्रभोजयेत् ।
अचलायाः प्रतिमायाः कर्मार्थं मूर्तिपैः सह ॥६६॥
समधिवासितां देवाधारां कूर्मशिला तथा ।
ब्रह्मशिलां पिण्डिकां संगृह्याऽऽचार्यः प्रदक्षिणम् ॥६७॥
प्रासादं तु समानीय त्रातारमिन्द्रकं गृणन् ।
अस्त्राय फट् प्रमन्त्रेण विघ्नानां नाशनाय वै ॥६८॥
पुष्पोदकानां धाराभिरभ्युक्ष्य भवनं शुभम् ।
ओं च महाँ इन्द्रेणेति दर्भेणोल्लिख्य वै ततः ॥६९॥
प्रोक्ष्याऽस्त्रवारिणा सम्यक् प्रासादद्वारमध्यतः ।
यवार्धेन च वैशानीमुत्तरां चाऽऽप्य वा दिशम् ॥७०॥
स्नानादिसंस्कृतां कूर्मशिलां तु पञ्चरत्नके ।
प्रणवेन निधायैव शुभ्रे सौवर्णकच्छपम् ॥७१॥
द्वाराभिमुखमान्यस्य न्यस्य रत्नानि तत्र च ।
षट्त्रिंशत्पञ्चचत्वारिंशद्गर्त्तसहितां च वा ॥७२॥
ब्रह्मशिलामधिवासितां निदध्यात् समर्चयेत् ।
ओं नमो व्यापिनि स्थिरेऽचले ध्रुवे च शं कुरु ॥७३॥
ओं श्रीं लं स्वाहेतिमन्त्रेणाभ्यर्चयेद् यथेष्टकम् ।
त्वमेवासनशक्तिश्च तिष्ठात्र सर्वदा शिले ॥७४॥
वर्णाध्वने नमः पदाध्वने मन्त्राध्वने नमः ।
भुवनाध्वने नमस्तत्त्वाध्वने सकलाध्वने ॥७५॥
ध्यात्वाऽऽरूढं समध्वानं पुण्याहं वाचयेत् ततः ।
अष्टोत्तरशतं हुत्वा ब्रह्मशिलाप्रगर्तके ॥७६॥
प्रादक्षिण्येन सहेम्ना हस्तेन रत्नन्यासकान् ।
कुर्यात् श्वभ्ररहिते तु शिलाभागे सश्वभ्रिकाम् ॥७७॥
पिण्डिकां प्राक्पश्चमुखे सौधे सौम्यप्रणालिकाम् ।
दक्षोत्तरे पूर्वप्रणालीं गृणन् ध्रुवसूक्तकम् ॥७८॥
देवपत्नीमन्त्रकेण पिण्डिकामभिमन्त्रयेत् ।
श्रीश्च ते च पठेत् सूक्तं रमां संस्थापयेत् ततः ॥७९॥
तत्त्वन्यासान् प्रकुर्याच्च आत्मतत्त्वाय वै नमः ।
आत्मतत्त्वक्रियाशक्त्यै चाधिपत्यै नमो नमः ॥८०॥
विद्यातत्त्वाय च नमो ज्ञानशक्त्यै नमो नमः ।
शिवतत्त्वाय च नम इच्छाशक्त्यै नमो नमः ॥८१॥
प्रतितत्त्वे मूर्तिमूर्तिपलोकपालकान् न्यसेत् ।
नमश्चाधारशक्त्यै चानन्तासनं सवह्निकम् ॥८२॥
विधायाऽभ्यर्च्य ओं नमः प्रार्थयेत्तां सुशक्तिकाम् ।
सर्वलोकाधिकरणे त्वामत्र स्थापयामि च ॥८३॥
यावद्वसुन्धरा तावन्मन्दिरेऽत्र स्थिरा भव ।
इतिप्रार्थ्य च तद्बाह्ये प्रणवषोडशस्वरान् ॥८४॥
कृत्वाऽभितो व्यंजनानि न्यस्य श्वभ्रान्तरे ततः ।
रत्नादीन् स्थापयेत् बाह्यपरिधौ च यवान् व्रीहीन् ॥८५॥
निष्पावान् तिलामाषांश्च प्रियङ्गुं च नीवारकान् ।
शालिसिद्धार्थकाँश्चापि वज्रमौक्तिकशंखकान् ॥८६॥
वैडूर्यस्फटिकपुष्परागेन्द्रनीलपद्मकान् ।
चन्द्रकान्तं मनःशिलां हरितालां जनश्यमाम् ॥८७॥
जनकां सीसकां सौराष्ट्रीं रोचनां च गैरिकाम् ।
पारदं कनकं रूप्यं ताम्रमायसकं त्रपुम् ॥८८॥
सीसं कांस्यं चारकूटं तीक्ष्णलौहानि वाप्यथ ।
श्वेतं रक्तं चन्दनं चाऽगुरुमर्जुनकं तथा ॥८९॥
उशीरं वैष्णवीं सहदेवीं च लक्ष्मणां न्यसेत् ।
बीजाभावे यवान् रत्नाऽभावे वज्रं समर्पयेत् ॥९०॥
धात्वभावे हरितालं ताम्राभावे सुवर्णकम् ।
ओषध्यभावे सहदेवीं दधाल्लंभनं ततः ॥९१॥
पूर्वे त्रातारमिन्द्रेति आग्नेय्यामग्निमित्यपि ।
यमाय त्वामिति याम्यां असुन्वन्तेति निर्ऋतौ ॥९२॥
वारुण्यां पञ्चनद्येति वायव्यां वायो येतति ।
उत्तरे ओं वयं चेति ईशान्यां तमीशानेति ॥९३॥
रत्नन्यासान् विधायैवं पृथ्वीसुमेरुकच्छपान् ।
वाहनं चेति सौवर्णान् द्वाराभिमुखकान् तथा ॥९४॥
मध्यश्वभ्रे पारदं च निधाय गुग्गुलैः रसैः ।
रत्नादिकं स्थिरीकृत्य श्वभ्रं प्रलिप्य पायसैः ॥९५॥
मधुना चोपलिप्याऽपि वस्त्रेणाच्छाद्य हुँ इति ।
कवचेनाऽवगुण्ठ्यैवाऽस्त्रायफट्संवदेत्ततः ॥९६॥
मनोजूतिर्जुषतां च प्रासादमभिषिच्य च ।
इन्द्रादिभ्यो बलिं दत्वा प्रासादाश्च बहिस्ततः ॥९७॥
प्रादक्षिण्येन च भुवं प्रोक्ष्य वै पञ्चगव्यकैः ।
संमृज्य दर्भपिञ्जूल्यैरष्टदिक्षु ततश्चरेत् ॥९८॥
वालुकास्थण्डिलान्यष्ट चतुरस्राणि वै ततः ।
त्रिवितस्तिप्रमाणानि तेषामीशानप्रभृतौ ॥९९॥
कलशान् वारिपूर्णान् सत्पुष्पपल्लवसत्फलान् ।
सूत्रवेष्टितकान् न्यस्य स्थण्डिले भूमिसंस्कृतिम् ॥१००॥
सम्पाद्याऽग्निं प्रणीयाऽपि पलाशसमिधा ततः ।
अष्टोत्तरशतं हुत्वा गायत्र्याऽऽज्येन वै ततः ॥१०१॥
अष्टकलशतोयैश्च मूलमन्त्राभिमन्त्रितैः ।
देवमूर्ध्न्यभिसिञ्चेच्च हुँफट् दिग्बन्धनं चरेत् ॥१०२॥
प्रार्थयेत्तं प्रबुध्यस्व देवदेव जगत्पते ।
प्रबुद्धस्य धरानन्तवासुदेव नमोऽस्तु ते ॥१०३॥
शंखस्थान् तण्डुलतिलकुशक्षीरजलादिकान् ।
राधे दत्वाऽर्घ्यकं देवं मन्त्रेणोत्थापयेदिति ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पूर्णाहुतिर्न्यासा अधिवासनं कुंभजलानि शिखरस्नानं चरुश्रपणं प्रासादपुरुषाकारताध्यानं पूजनं कूर्मशिला ब्रह्मशिला पिण्डिका रत्नानि देवार्घ्यं चेत्यादिनिरूणनामाऽष्टपञ्चाशदधिकशततमोऽध्यायः ॥१५८॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP