संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५७ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५७ Translation - भाषांतर श्रीकृष्ण उवाच-यदा देहात् पृथग्भूतः शुद्धश्चात्मा प्रयाति हि ।राधे कथं प्रयात्येवं पप्रच्छ लोमशं नृपः ॥१॥अश्वपाटल उवाच-ऋषे चोत्क्रमणं कीदृक् कथं कस्मान् प्रयात्ययम् ।आत्मा देहाद्विनिष्क्रम्य तद्वदस्व मम प्रभो ॥२॥श्रीलोमश उवाच-यद्यत्स्थानाद् विनिर्याति यथा योगतपोबलात् ।यथा भक्तिबलाच्चापि यथा पुण्यबलादपि ॥३॥यथा पापबलाच्चापि यथा कर्मबलादपि ।यथा मायाबलाच्चापि वासनाबलतोऽपि च ॥४॥तत्तत्स्थानस्थदेवानां लोकान् प्रयाति तद्यथा ।पद्भ्यां निर्गत्य चेद्याति विष्णुस्थानं प्रयाति वै ॥५॥जंघाभ्यां चेत्प्रयात्येषो वसूनां याति मन्दिरम् ।ऊरुभ्यां चेत्प्रयात्येषः प्रजापतिं प्रयाति सः ।पायुना चेत्प्रयात्येषो मैत्रं स्थानं प्रपद्यते ॥६॥लिंगाद् योन्या प्रयाप्येषः सत्यलोकं प्रपद्यते ।जघनेन प्रयात्येषो मेरुस्थानमवाप्नुयात् ॥७॥नाभेश्चोत्क्रमते चेद्वै देवानां स्वर्गमाप्नुयात् ।पार्श्वाभ्यां मरुतो लोकान् चेत्प्रयाति प्रपद्यते ॥८॥बाहुभ्यां चोत्क्रमते चेदिन्द्रलोकमवाप्नुयात् ।उरसा चेत् प्रयात्येषो रुद्रलोकमवाप्नुयात्। ॥९॥ग्रीवया याति चेदेषो नरलोकमवाप्नुयात् ।मुखेन चेत्प्रयात्येषो विश्वेदेवानवाप्नुयात् ॥१०॥श्रोत्रेणोत्क्रमणे चास्य दिक्पालत्वं भवेदिति ।घ्राणेन गमने वायोर्लोकावाप्तिर्भवेदिति ॥११॥नेत्राभ्यां गमने सूर्यलोकं चन्द्रालयं च वा ।कपोलाभ्यां प्रयाणे च वह्निलोकं प्रयाति सः ॥१२॥भ्रूभ्यामस्य प्रयाणे चाश्विनोर्लोकमवाप्नुयात् ।ललाटेन प्रयाणे तु पितृलोकगतिर्भवेत् ॥१३॥मूर्ध्ना चोत्क्रमणे याति ब्रह्मलोकं सनातनम् ।चक्रेभ्यश्चेत् प्रयात्येव सुषुम्णामार्गमाश्रितः ॥१४॥तदा तत्तदीश्वराणां लोकानेष प्रयाति ह ।स्थानबलादिदं प्रोक्तमुत्क्रमणं नराधिप ॥१५॥उपासनाबलाच्चाऽप्युत्क्रमणं वै विशिष्यते ।पापपुण्यबलाच्चापि गमनं वै विभिद्यते ॥१६॥शंभोरुपासनाद् याति कैलासं गणमण्डितम् ।विष्णोरुपासनाद् याति श्वेतद्वीपं पयोदधिम् ॥१७॥नरनारायणभक्त्या प्रयाति बदरीपतिम् ।सूर्यगायत्रिकाभक्त्या याति सूर्यस्य मण्डलम् ॥१८॥यज्ञाद्युपास्तिक्रियया स्वर्गं याति मखार्थवान् ।पित्रुपासनया पितृलोकं याति हि मानवः ॥१९॥ब्रह्मचर्यात् सिद्धलोकं सत्यलोकं तपोविधेः ।पौरुषेण तु सूक्तेन याति वैराजधाम च ॥२०॥महाविष्णोरुपास्त्या च वैकुण्ठं याति मानवः ।नारायणोपासनया महावैकुण्ठमृच्छति ॥२१॥राधाकृष्णोपासनया गोलोकं विन्दतीति वै ।मायोपास्त्या मायिकाँश्च लोकानावरणादिकान् ॥२२॥भूम्नश्चोपासनया चाव्याकृतं याति मानवः ।वासुदेवोपासनयाऽमृतं धाम प्रयाति च ॥२३॥कपिलाद्यावताराणामुपास्त्या तत्तदालयान् ।अक्षरोपासनया यात्यक्षरं धाम शाश्वतम् ॥२४॥परब्रह्मोपासनया परंधाम प्रपद्यते ।अनुपास्त्या कर्मभिश्च याति योनिषु जन्मवान् ॥२५॥तामसैः कर्मभिर्दैत्यो दानवो राक्षसो भवेत् ।तिर्यग्योनिं प्रयात्येषः स्थावरादीन् विशत्यपि ॥२६॥राजसैः कर्मभिर्याति राज्यं श्रेष्ठिनमित्यपि ।वसून् गान्धर्वलोकाँश्च लोकपालान् द्युवासिनः ॥२७॥सात्त्विकैर्जायते विप्रः साधुर्वा पुण्यदेवता ।पापैः प्रजायते पक्षी पशुः कीटो मृगोऽपि वा ॥२८॥पुण्यैः प्रजायते राजा देवो गुरुः सती व्रती ।ऋणिनस्तु प्रजायन्ते वाहा अश्ववृषादयः ॥२९॥दातारश्च प्रजायन्ते पूज्यासनविराजिताः ।एवं वै भिन्नशकटैः प्रयान्ति भिन्नमन्दिरम् ॥३०॥गार्हस्थ्ये वर्तमानाश्च ज्ञानाऽनलसमन्विताः ।प्रदह्य सर्वकर्माणि प्रकाश्यात्मानमात्मनि ॥३१॥प्रयान्ति परमं ब्रह्म यथा सन्यासिनोऽमलाः ।असन्न्यस्ता हि सन्न्यस्ता ज्ञानसन्यासमाश्रिताः ॥३२॥अश्वपाटल उवाच-असन्न्यस्ताः कथं प्रोक्ताः सन्न्यस्ता इति वै गुरो ।कथं यान्ति च गार्हस्थ्यस्थितास्ता परमां गतिम् ॥३३॥श्रीलोमश उवाच-आकर्णय नृपाऽत्राऽपि कथां तु परमाऽद्भुताम् ।आनर्तनृपतेः कुशलायोगिन्या वै पुराभवाम् ॥३४॥सौराष्ट्रे कृष्णभक्तो वै राजा आनर्तकोऽभवत् ।येनेदं वासितं सुराष्ट्रकं चानाय्य कृष्णतः ॥३५॥राजाऽसौ वैष्णवो भक्तो पत्नीव्रतद्विजानुगः ।ज्ञानं ह्यवाप्तवान् पत्नीव्रताद् विप्राद्धि तात्त्विकम् ॥३६॥वर्तते स्म च साधूनां सभायां ज्ञानतत्परः ।ज्ञानशास्त्रेण संछिद्याऽहंममेतिप्रबन्धनम् ॥३७॥योगे सन्तिष्ठते नित्यं समाधौ परमेश्वरे ।साधूनां च महर्षीणां भवन्ति ज्ञानवार्तिकाः ॥३८॥यत्सभायां सदा सायं चमत्कारपुरे नृप ।तेन कीर्तिर्दिगन्तेषु व्याप्ता चानर्तयोगिनः ॥३९॥तां श्रुत्वा कुशला साध्वी योगिनी सिद्धिसंभृता ।कुंकुमवापिकाक्षेत्रवासिनी पारमेश्वरी ॥४०॥यावद्योगकलापूर्णा परकायप्रवेशिनी ।इष्टरूपधरा विज्ञा तत्त्वज्ञानार्थशेवधिः ॥४१॥वैष्णवी जरठा देहधर्मान् विमत्य तापसी ।आत्मधर्ममयी गुर्वी भूतधर्माऽहता सती ॥४२॥वर्तमाना ब्राह्मभावेऽलक्ष्यलिंगा नरायणी ।परभावं गता कृष्णे सर्वसन्न्यासवर्तिनी ॥४३॥वशे यस्या यथा लक्ष्म्या जगत्सर्वं तथाविधा ।यथाऽवतारिणी देवी सती च शिवशक्तिका ॥४४॥कुशलाख्या तु सा साध्वी चमत्कारपुरं ययो ।कृत्वा रूपं सुन्दरं चोद्भिन्नयौवनमुत्तमम् ॥४५॥आनर्त्तं नृपतिं प्राप्ता वृतं सदसि साधुभिः ।योगिभिर्न्यासिभिश्चापि महर्षिभिश्च वेदिभिः ॥४६॥सर्वे दृष्ट्वा सौकुमार्यं परं तस्या नवं वयः ।केयं कस्य कुतश्चात्रेत्यासन् सम्प्राप्तविस्मयाः ॥४७॥राजाऽपि स्वागतं चक्रे ददौ सदसि चासनम् ।सत्कृता चापि सम्मानैर्योगिनी कुशला सती ॥४८॥प्रष्टुं चेच्छावती भूपं योगबन्धैर्बबन्ध तम् ।मौक्षधर्मे प्रसिद्धोऽयं राजा सर्वत्र गीयते ॥४९॥मुक्तो राजा सात्त्वतोऽयं कीदृगास्ते विलोकये ।आनर्तस्य बुद्धिसत्त्वे द्राक् स्वबुद्ध्या विवेश सा ॥५०॥नेत्राभ्यां नेत्रयोरस्य रश्मीन् संयम्य रश्मिभिःबुद्धिवृत्तीः प्रविवेश विजेतुं ज्ञानमार्गणैः ॥५१॥द्वयोर्योगविदोर्बुद्धौ विवादो घटते हृदि ।तयोरेकस्य योगित्वेऽपरस्य तु पराजयः ॥५२॥अयोगी न जयं याति राजाऽयं तादृशो न वा ।विचार्येति सती बुद्धौ वशीचकार तं नृपम् ॥५३॥राजा विज्ञाय तद्भावं मूकां कुर्वे तु योगिनीम् ।इति बुद्ध्या सती बुद्धिं जग्राह योगसद्बलैः ॥५४॥नृपदेहे प्रविष्टां तां सत्कृत्य बुद्धिविग्रहे ।लिंगदेहे ह्यवस्थाप्य राजा तस्थौ तया सह ॥५५॥स्थूलदेहाऽसंगिनौ तौ लिङ्गदेहे स्थितौ तदा ।योगिनौ स्वजयार्थं च मिथो वादं प्रचक्रतुः ॥५६॥आनर्त उवाच-योगसत्याः क्व चर्येयं कृता क्व च गमिष्यसि ।कस्य च त्वं कुतो वेति का च कथं ह्युपस्थिता ॥५७॥अहं राजाऽपि तच्चिह्नैर्मुक्तोऽस्मि योगमास्थितः ।स त्वां ज्ञातुं समिच्छामि मानार्हे योगिनि द्रुतम् ॥५८॥मया पत्नीव्रताख्याद् वै गुरोः प्राप्तं विशेषतः ।योगज्ञानं विशालं च मोक्षश्चेति च मे शृणु ॥५९॥तत्त्वज्ञाने च योगर्द्धौ राज्यविधौ च वै मया ।त्रिविधे मोक्षदे प्राप्तं स्थैर्यं चराम्यरागकः ॥६०॥मोक्षस्य कारणं रागाभावो ज्ञानेन चेयते ।ज्ञानेनाऽरागताद्वारा मोक्षसिद्धिर्मया कृता ॥६१॥अद्वन्द्वश्चाप्यसंगश्च तिष्ठाम्यचलबुद्धितः ।शुष्कक्षेत्रं जलहीनं सबीजं चापि चांकुरे ॥६२॥कारणं न भवत्येव तथाऽहं शुष्कतां गतः ।नाऽभिरज्यामि मिष्टैश्च क्रूरैः खेदं करोमि न ॥६३॥चन्दनेनाऽर्चयेद् दक्षे वामे शस्त्रेण भेदयेत् ।कश्चिन्मां तुल्यता तत्र साध्वि! मे वर्तते ऋता ॥६४॥सुख्यहं कृतसर्वार्थः समकंकरकाञ्चनः ।असंगो राज्यभावेऽपि वर्ते साधुसमागमे ॥६५॥मोक्षे हेतु त्रिकं चास्ते ज्ञानं विवेकजं तथा ।कर्मणां चापि सन्न्यासो भक्तिर्वा परमात्मनः ॥६६॥मया त्रिकं गुरोः प्राप्तं मिश्रितं यत्तु मुक्तये ।कर्म भक्त्यन्वितं सर्वं करोमि च विवेकतः ॥६७॥यथा सन्न्यासिनः श्रेष्ठा नैष्कर्म्यं वै समाश्रिताः ।तथा यमे च नियमे कामे द्वेषे परिग्रहे ॥६८॥माने दंभे रतौ स्नेहे नैष्कर्म्यं प्राप्तवानहम् ।यदि ते मोक्षगन्तारः कथं नाऽहं तथागतिः ॥६९॥पर्णकुट्यां वसतां चेन्मोक्षो जायेत सर्वथा ।महासौधे वसतो मे कथं मोक्षो न हस्तगः ॥७०॥यस्यार्थो येन येनाऽस्ति तत्तदालम्बते जनः ।कश्चिद् दण्डं च मालां च कश्चिच्छत्रं च चामरे ॥७१॥गार्हस्थ्ये दोषमावीक्ष्य गत्वा त्यागाश्रमे यतिः ।उत्सृजन् प्रथमान् धर्मान् गृह्णन् परान् यथोचितान् ॥७२॥संगहानेः संगमाप्य स मुच्येत न संगतः ।आधिपत्यं मम राज्ये तेषां वन्ये हि तुल्यकम् ॥७३॥यदि मुच्येत वै भिक्षुर्नाऽहं मुच्ये कथं वद ।भोजनं चाम्बरं पानं निद्राऽपेक्षितसंग्रहः ॥७४॥आधिपत्यं क्वापि यत्र तुल्यं वै भिक्षुणा मम ।ते यदि मुक्तिभागा वै ममापि मुक्तिरेव ह ॥७५॥यदि ते बन्धभागा वै तदा तुल्याः कुटुम्बिभिः ।अथ ज्ञानेन मोक्षोऽस्ति वृथा काषायधारणम् ॥७६॥वृथा वेष्टनसन्त्यागो वृथा जटाप्रधारणम् ।वृथा स्वर्णाम्बरत्यागो वृथाऽग्निवस्त्रधारणम् ॥७७॥वृथा पक्वान्नसद्ग्रासत्यागो भिक्षा वृथा ततः ।यदि जिह्वेषु सत्स्वेव ज्ञानं वै मोक्षकारणम् ॥७८॥आश्रमोचितचिह्नाढ्यं ज्ञानं मे मोक्षकारणम् ।यद्वा दुःखानि पापानि वीक्ष्य त्यागाश्रमे मतिः ॥७९॥तदा सुखानि पुण्यानि वीक्ष्य गृहाश्रमे समा ।रागद्वेषप्रयुक्ता वा प्रवृत्तिर्बन्धने समा ॥८०॥आकिञ्चन्यं विना ज्ञानं क्वाप्याश्रमे न विद्यते ।कैंचन्यं बन्धनं सर्वाश्रमे तुल्यं च मेऽपि ते ॥८१॥तस्मात् कुशले! धर्मार्थकाममोक्षेषु सर्वथा ।बन्धनायतनेष्वेव स्थितं मां विद्ध्यसंगिनम् ॥८२॥राज्यैश्वर्यं ध्रुवः पाशः स्नेहकर्मादिबन्धनः ।मोक्षधारावता ज्ञानाऽसिना छिन्नो मया सति ॥८३॥ज्ञानात् त्यागे विचरामि संगं प्राप्नोमि नैव ह ।नाऽहं राज्येऽपि राजेव निपतामि च बद्धवत् ॥८४॥ज्ञानाग्निना मया दग्धा वासनाग्रन्थयस्ततः ।देहराज्ये विचरामीन्द्रियादिभिः कुटुम्बिभिः ॥८५॥निर्बन्धोऽहं विचरामि सतां समागमे स्थितः ।मोक्षे स्थितोऽस्मि नो बन्धे नो राज्येऽपि तु वै वने ॥८६॥सोऽहमेवं सदा मुक्तस्त्वयि जातादरः सति ।पृच्छामि त्वां कथं मुक्ता विरुद्धरूपधारिणि! ॥८७॥सौन्दर्यं काञ्चनाभाढ्यं सौकुमार्यं नवं वपुः ।वयोऽग्र्यं रूपसम्पन्नं सर्वाढ्या त्वं कथं सती ॥८८॥साध्वी चेन्न भवेद् रक्ता सरागा साध्विका न वै ।तवोभयं नानुरूपं वीक्ष्य योगर्द्धिमित्यपि ॥८९॥मुक्तेयं वा नवेत्येवं संशयितः सभाजनः ।भोगराजसभावाढ्या शृंगारतानसंयुता ॥९०॥कथं त्वं योगसम्पन्ना साध्वीति संप्रकाशसे ।मम योगं गता च त्वं स्पर्शदोषाभिसंवृता ॥९१॥मे हृदो निग्रहकर्त्री कथं शास्त्री हि योगिनी ।यस्त्वां राष्ट्रे सभायां मे सम्प्रवेशितवान् जनः ॥९२॥तत्परिग्रहमापन्ना शीलाद् भ्रष्टा विभाव्यसे ।पुनर्मां क्षत्रियं प्राप्य मा कृथा वर्णसंकरम् ॥९३॥साध्वी त्वं मोक्षधर्माऽहं राजधर्मा गृहाश्रमी ।आवयोश्च हृदौरेक्ये द्वितीयो धर्मसंकरः ॥९४॥तस्मात् स्वातन्त्र्यमादाय वर्तसे चेत् प्रयोगिणी ।योगिन्यास्तव धर्मादिश्रुतं विप्लवतेऽधुना ॥९५॥भावेन जेतुमिच्छाऽस्ति जयाशा बन्धनान्विता ।बद्धा त्वं मत्समा नाऽसि न ते हस्तपरिग्रहः ॥९६॥यद्वा मत्पक्षगान् सर्वान् मां विजित्य जितानिति ।दर्शयितुं भवत्यवष्टंभस्ते तर्हि मोहिनी ॥९७॥अमर्षयुक्ता मोहेन मुग्धा जेतुं समिच्छसि ।योगाख्यं च विषाक्तं तच्चामृतं त्वयि संस्थितम् ॥९८॥इच्छतोर्योग उत्कृष्टोऽनिच्छतोस्तु विषोपमः ।मा प्रदर्शय श्रैष्ठ्यं स्वं मुक्तो वा न नृपो ह्ययम् ॥९९॥राज्ञां बलं महैश्वर्यं स्त्रीणां रूपाढ्ययौवनम् ।बलं ब्रह्म हि मुक्तानां मा बलं मे प्रदर्शय ॥१००॥आर्जवेनाऽभिगन्तव्या बलिनः सुखदा हि ते ।अनार्जवेन बलिनो नाशयन्ति तथागतम् ॥१०१॥सा त्वं धार्ष्ट्यं विहायैव जातिं कुलं श्रुतं तपः ।वृत्तिं भावं स्थितिं चेच्छां कार्यं मे तत्त्वतो वद ॥१०२॥लोमश उवाच-इत्येवं बहुभिर्वाक्यैरयुक्तैरसमञ्जसैः ।आनर्तेन निरादृष्टा कुशला न भयं ह्यगात् ॥१०३॥अश्वपाटलः सा साध्वी ततोऽपि चारुदर्शना ।चारुप्रज्ञा प्रचक्रामोत्तरयितुं ततोऽधिकम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामात्मनो देहाद् विनिष्क्रमणे हेतुप्रदर्शनं सन्यस्ताऽसन्न्यस्तविचारे आनर्तनृपकुशलायोगिनी-सम्वादश्चेतिनिरूपणनामा सप्तपंचाशदधिकद्विशततमोऽध्यायः ॥२५७॥ N/A References : N/A Last Updated : May 02, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP