संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः २५ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः २५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २५ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु राधे कृष्णनारायणकथां प्रपावनीम् ।तृतीयवर्षे सञ्जाता फाल्गुने प्रतिपत्तिथौ ॥१॥फाल्गुनस्य शुक्लपक्षे पुष्पदोलमहोत्सवम् ।चकार कुंकुमवापीक्षेत्रे गोपालकृष्णकः ॥२॥वसन्ते तत्र सम्प्राप्ते किंशुका ज्वलनप्रभाः ।निष्पत्राः सततं रेजुः शोभयन्तो धरातलम् ॥३॥शिशिरं नाम मातंगं विदार्य नखरैरिव ।वसन्तकेसरी प्राप्तः पलाशकुसुमैः प्रिये ॥४॥कुन्दा हसन्ति सततं कलिकादन्तकैस्तदा ।वनानि कर्णिकाराणां पुष्पितानि विरेजिरे ॥५॥रक्ताऽशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः ।भृङ्गवृन्दाः पिञ्जरिता राजन्ते गहने वने ॥६॥मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः ।रक्ताऽशोककरा तन्वी राधिके किंशुकांऽघ्रिका ॥७॥नीलाशोककरा श्यामा विकासिकमलानना ।नीलेन्दीवरनेत्रा च मध्यबिल्वफलस्तनी ॥८॥प्रोत्फुल्लकुन्ददशना मञ्जरीकरशोभिता ।बन्धुजीवाधरा शुभ्रसिन्दुवारनवाङ्कुरा ॥९॥पुँस्कोकिलस्वना दिव्या कंकोलवसना शुभा ।बर्हिवृन्दकलापा च सारसस्वरनूपुरा ॥१०।प्राग्वंशरशना रम्यो मत्तहंसगतिस्तथा ।पुत्रजीवांशुकासङ्गरोमराजिविराजिता ॥११॥वसन्तलक्ष्मीः सम्प्राप्ता चाश्वपट्टसरस्तटे ।पद्मानि जलचक्षूँषि पश्यन्ति प्रेमवन्ति च ॥१२॥तरंगा जलहस्ताश्चाऽऽह्वयन्ति स्नायिनो मुहुः ।जलस्य गर्जनाहास्यं वेदयन्ति प्रमोदनम् ॥१३॥शुकाः पार्श्वचराः कृढगागमं चावेदयन्ति च ।शीतशीकरपवनाश्चाकर्षयन्ति मानसम् ॥१४॥जलहंसास्तारकाढ्यां निमन्त्रयन्ति द्यामपि ।मत्स्याश्च रोहिणाः साधून् स्मारयन्ति जलप्लुतान् ॥१५॥टिट्टिभध्वानमेवात्र बालान् स्नानाभिलाषुकान् ।करोति रञ्जयत्यपि नृत्यं मायूरमुत्तमम् ॥१६॥कोकिलाः पुष्पशाखासु कूजनेन मुहुर्हरिम् ।स्नानार्थं चाह्वयन्तीव प्राप्ते वसन्तयौवने ॥१७॥एवंविधं प्रसन्नं च वनं विकसितं च तत् ।विलोक्य ब्राह्मणाः सर्वे चाश्वपट्टसरस्तटे ॥१८॥सहस्रशस्तदा बाला बालिकाश्च स्त्रियस्तथा ।पुष्पदोलोत्सवं कर्तुं ययुश्चोत्सुकमानसाः ॥१९॥कदम्बानां च शाखासु दोला बद्ध्वा सुखावहाः ।आन्दोलयन्ति बालांश्च बालिकाः कन्यकादिकाः ॥२०॥केसरैश्च तथा पालाशकैः पीतैश्च रक्तकैः ।हरितैः कपिशै रंगैर्भृत्वा गर्गरिकादिकाः ॥२१॥रंगैः संरेमिरे सेतौ नरा नार्यो वसन्तके ।धूलीक्षेपैर्जलक्षेपै रंगक्षेपैर्गुलालकैः ॥२२॥कुंकुमै रक्तचूर्णैश्च रेमिरे सरसस्तटे ।प्रातः परस्परं धृत्वा प्रसह्य विनिपात्य च ॥२३॥गर्गरीरंगसलिलं सिञ्चन्त्यभीक्ष्णमुत्सुकाः ।सरसो मृत्तिकां पुण्यां लेपयन्ति मुखादिषु ॥२४॥जलधाराः प्रसिञ्चन्ति शिरस्युपरि यन्त्रकैः ।पुष्पगुच्छान् कर्णयोश्च धृत्वा नृत्यन्ति केचन ॥२५॥प्रगायन्ति कृष्णगीतीः काश्चन मोदसंभृताः ।अन्ये कदर्मितं देहं वेषं प्रक्षालयन्ति च ॥२६॥विधुन्वन्ति शिरःकेशान् रजोधूलितधूसरान् ।प्रमृजन्ति नेत्रधूलीः प्रविशन्ति सरोजले ॥२७॥तरन्ति नैकतरणैः सम्भूय स्नान्ति वारिषु ।वस्त्राणि रंगरक्तानि क्षालयन्ति नराः स्त्रियः ॥२८॥स्तबकानां निकुञ्जेषु रमन्ते बालबालिकाः ।नरा नार्यः स्वयूथेषु रमन्ते वर्षयन्ति च ॥२९॥वाद्यानि वादयित्वा च वसन्तं प्रार्चयन्त्यपि ।प्रतिमां कानकीं कृत्वा पीताम्बरविभूषिताम् ॥३०॥रक्तपुष्पैरञ्चितां च सकल्गिमुकुटान्विताम् ।रशनामञ्जीरयुतां सकञ्चुकां सुशोभनाम् ॥३१॥किशोरभावमापन्नां सकटाक्षां मनोहराम् ।पुष्परथस्थितां सौम्यां मञ्जरीकृतशेखराम् ॥३२॥गुच्छस्तबककर्णाढ्यां सुगन्धद्रवचर्चिताम् ।केशजूटलसत्स्कन्धां स्वर्णछत्रविराजिताम् ॥३३॥नद्धसूर्यमणिप्रान्तमध्यचन्द्रोत्तरीयकाम् ।हीररत्नसुमौक्तिकाऽञ्चितमुकुटशोभिताम्॥३४॥पुष्पोत्तंसां पुष्पकटिं पुष्पावरणसंभृताम् ।कदम्बपुष्पमालाढ्यां चाम्पकेयललाटिकाम् ॥३५॥कर्णिकारप्रकोष्ठां च पालाशबाहुशोभिताम् ।जपापुष्पौष्ठललितामैन्दीवारश्मश्रूलिकाम् ॥३६॥चित्रकुसुमनेत्रान्तां कुन्ददन्तविराजिताम् ।तिलपुष्पसुनासाढ्यां कादम्बगण्डमण्डिताम् ॥३७॥कदलीपुष्पभालाढ्यां कदलीस्तम्भसक्थिनीम् ।काल्हारजघनभ्रामां कामलाभसुनाभिकाम् ॥३८॥हस्तिशुण्ढसमजङ्घां पद्मपादतलान्विताम् ।चन्द्रसूक्ष्माकृतिनखां पाण्डुरां मन्दहासिनीम् ॥३९॥मूर्तिं वसन्तदेवस्य पुपूजुः सर्वमानवाः ।सुपुष्पैः कुंकुमाद्यैश्च सस्यशुकैः सुशिग्रुभिः ॥४०॥कुंकुमाऽबिलचूर्णैश्च गुलालैर्विमलद्युभिः ।मञ्जरीभिः रक्तपत्रैः फलैर्विविधकैस्तथा ॥४१॥दुग्धपाकैः सुद्रवैश्च पुपूजुः श्रीवसन्तकम् ।रगैर्बहुविधैश्चापि संस्नाप्य श्रीवसन्तकम् ॥४२॥वासन्तिकैरम्बराद्यैर्भूषाभिः पुष्पपट्टकैः ।पुष्पहारैश्च पुपूजुर्वसन्तं कलिकापतिम् ॥४३॥मञ्जरीपल्लवानाथं चांकुराधिपतिं प्रभुम् ।पुष्पाधिपं नालिकेशं काण्डिकाधिपतिम् ऋतुम् ॥४४॥शाद्वलेशं सुकिशोरं पुपूजुः सरसस्तटे ।वसन्तस्य प्रियाश्चान्याः कोकिलां हंसिकां तथा ॥४५॥सारसीं सुमनां मेनां मायूरिकां च भासिकाम् ।शुकीं च गारुडीं चैव पुपूजुः षोडशप्रियाः ॥४६॥सर्वा लक्ष्मीस्वरूपास्ता विचित्ररंगशोभनाः ।कन्यकाः काञ्चनभासाश्चन्द्रकान्तिभराननाः ॥४७॥श्वेताम्बराः पिंगवस्त्रा हरिताम्बरधारिकाः ।कपिशाम्बरयुक्ताश्च चित्राम्बरधरास्तथा ॥४८॥कानकाभाम्बरधराः कपिशाम्बरधारिकाः ।नीलाम्बराः पयोवस्त्राः कर्बुराम्बराधिकाः ॥४९॥कैसराम्बरयुक्ताश्च पाण्डुराम्बधारिकाः ।यावच्छृंगारशोभाश्चाऽऽनर्चुर्वसन्तयोषितः ॥५०॥चन्दनागुरुकस्तूरीकुंकुमाक्षतवारिभिः ।दुग्धपाकादिभिश्चापि ताम्बूलकैरपूजयन् ॥५१॥अथ श्रीभगवाँस्तत्राऽनादिकृष्णनरायणः ।कैशोररूपमास्थाय चाश्वपट्टसरस्तटे ॥५२॥दोलायां श्रीवसन्ताख्यं षोडशाऽऽर्यायुतम् ऋतुम् ।संस्थापयित्वा विविधैरुपचारैरपूजयत् ॥५३॥आरार्त्रिकं च कृतवान् ततस्तत्र वसन्तकः ।भार्याषोडशयुक्तः सः प्रत्यक्षो ह्यभवत्तदा ॥५४॥यथावर्णितरूपश्च जगाद् पूजकं प्रभुम् ।अनादिश्रीकृष्णनारायणं कान्तं मनोहरम् ॥५५॥परमेश्वर पूजां मे लौकिकीं रीतिमाश्रितः ।करोषि सर्वदेवाद्यैः पूज्यत्वं पुरुषोत्तमः ॥५६॥अद्याऽहं पावनो जातः सस्त्रीकस्तव सेवकः ।त्वामर्चयितुमिच्छामि निषीद त्वं वरासने ॥५७॥इत्युक्त्वा श्रीवसन्तश्च सप्रियो हि निजासनात् ।अवतीर्य भुवि स्थित्वा स्वामिनं पुरुषोत्तमम् ॥५८॥दोलायां प्रसमारोप्य पूजयामास भावतः ।षोडशवस्तुभिः सर्वभार्याभिः सहितः ऋतुः ॥५९॥आनर्च श्रीहरिं तत्र कैशोरं रूपमास्थितम् ।रूपानुरूपावयवं विलोक्य पुरुषोत्तमम् ॥६०॥मुमुहुर्दिव्यरूपे ते वसन्ताद्या जनास्तथा ।वसन्तयोषितः सर्वा मुग्धा बभूवुरीश्वरे ॥६१॥ऋषयः ऋषिपत्न्यश्च मुमुहुः परमेश्वरे ।एवं क्षणं च निश्चेष्टाः स्तब्धाः समभवन् सुखाः ॥६२॥श्रीकृष्णस्य कटाक्षेण हास्यप्रसन्नताभृता ।अथ क्षणान्ते बुबुधुर्नैजात्मानं च ते तदा ॥६३॥तुष्टुवुः श्रीहरिं कान्तं परमेश्वरमिष्टदम् ।त्वमेव भगवानास्से सर्वलोकेश्वरेश्वरः ॥६४॥सर्वैश्वर्ययुतः साक्षादनादिपुरुषोत्तमः ।देहि पद्ं सदा नाथ सेवार्थं चरणं तव ॥६५॥विना त्वां सर्वमेवास्ति निष्फलं सुखवर्जितम् ।इत्युक्त्वा च जना नार्यो निपेतुश्चरणे हरेः ॥६६॥हरिः प्राह तथास्त्वेवं भविष्यति न संशयः ।ततः पुनश्चमत्कारं दर्शयामास केशवः ॥६७॥वसन्तदेहे नैजं चाभिव्याप्तं रूपमैश्वरम् ।सर्ववसन्तकान्ताभिर्दृश्यते श्रीहरिः स्वयम् ॥६८॥वसन्ते स्वामिनि नाथे कृष्णनारायणः प्रभुः ।तदा मुमुहुस्तं दृष्ट्वा कलिकाद्याः पतिं प्रभुम् ॥६९॥वरयामासुरेवैनं किशोरं पुरुषोत्तमम् ।प्रियाः षोडश एवैताः पुपूजुस्तुष्टुवुः पुनः ॥७०॥मालाः समर्पयामासुर्विदधुश्चन्द्रकं ततः ।आत्मार्पणं हरिर्ज्ञात्वा मानसेष्टं सुभावितम् ॥७१॥तथास्त्विति हरिः प्राह किशोररूपधृक् प्रभुः ।षोडशकन्यकानां श्रीप्रभुश्चैवाऽकरोत्तदा ॥७२॥रूपद्वयं तु प्रत्येकं दिव्यं चाऽदिव्यमित्यदः ।अदिव्यं देवतुल्यं यत् षोडशं रूपमेव तत् ॥७३॥वसन्ताय ददौ चाथ दिव्यं षोडशरूपकम् ।कन्यकानां सुरूपं तत् निजप्रियास्वरक्षयत् ॥७४॥लोमशाय ददौ तत्राश्रमे कन्यासु कोटिषु ।निवासार्थं ततः कृष्णो बालरूपो बभूव च ॥७५॥रंगक्लिन्नं हरिं स्नापयितुं माता सरस्तटे ।ययौ तावन्महादैत्यो मीनरूपो जलस्थितः ॥७६॥जग्राह बालकं कृष्णं त्रिंशद्धस्तप्रमाणवान् ।माताऽत्र विह्वला जाता पुत्रनाशाऽभिशंकया ॥७७॥श्रीराधिकोवाच-कोऽसौ कृष्ण! महामीनो दैत्यराट् तत्र चागतः ।योऽनादिश्रीकृष्णनारायणं भक्षयितुं स्थितः ॥७८॥श्रीकृष्ण उवाच-सालमालो महादैत्यो हिरण्यकूर्चचर्मजः ।सालेमालवने तिष्ठन्नासील्लोकभयंकरः ॥७९॥सौराष्ट्रपूर्वदिग्भागे वन्यभक्ष्यो महासुरः ।सप्ततालोच्छ्रयश्चैकतालायतोऽद्रिशृंगवत् ॥८०॥गदामुद्गरधारी च पितृवैरं स्मरन्नटन् ।अश्वपट्टसरोमध्ये तिमिरूपोऽभवत्तदा ॥८१॥कामरूपधरो दैत्यस्त्रिंशद्धस्ततिमिः स वै ।पुच्छेन प्रचकर्षैनं बालं स्नान्तं तटे तदा ॥८२॥मातृपार्श्वे च सोपाने स्थितं रम्यं मनोहरम् ।बालो ज्ञात्वा कृपावार्धिरासुरं दमनोचितम् ॥८३॥हन्तुं समागतं शीघ्रं नयन्तं च जले तलम् ।बालकृष्णस्तदा द्वेधाऽभवद् बालश्च नक्रकः ॥८४॥बालो भूत्वा द्रुतं सरस्तटे सोपानमास्थितः ।नक्रो भूत्वा जलमध्ये पञ्चाशद्धस्तमानवान् ॥८५॥महामत्स्यं ग्रसितुं वै शीघ्रं पृष्ठे बभूव सः ।मरणस्य भयान्मत्स्यो दुद्राव जलभूतलम् ॥८६॥नक्रो जग्राह तं मत्स्यं मत्स्यरूपं विहाय सः ।सालेमालो महादैत्यो नरो भूत्वा गदाकरः ॥८७॥नक्रं जघान तरसा नक्रस्तावल्लयं गतः ।गदाधारी तु पुरुषः सप्ततालोऽपि सोऽभवत् ॥८८॥सालेमालस्य च नारायणस्य समरो महान् ।बलातिबलिनोस्तत्र गदाभ्यां समजायत ॥८९॥सालेन तु हरेर्मूर्ध्नि ताडिता बलतो गदा ।बभंज शतखण्डा सा हरिर्वज्रदृढस्तदा ॥९०॥प्रतिजघान तं दैत्यं गदयैव महाप्रभुः ।वक्षस्येव हतः शीघ्रं निपपात विमूर्छितः ॥९१॥पुनरुत्थाय च नैजं मुद्गरं प्राहिणोद् बलात् ।गदया हरिणा तत्तु मुष्टिदण्डे प्रभञ्जितम् ॥९२॥अशस्त्रः सालमालोऽसौ खमुत्पपात शृंगवत् ।मुद्गलाग्रं समादाय पातयामास के हरेः ॥९३॥भगवांश्च स्वगदया पोथयामास मुद्गरम् ।सुदर्शनं मुमोचैनं नाशयितुं महाप्रभुः ॥९४॥शतसूर्यसमं वह्निज्वालामालाकुलं भ्रमत् ।शीघ्रं न्यपतत् शालस्य मूर्ध्नि चकर्त तच्छिरः ॥९५॥हाहाकारोऽभवत्तत्र प्रसन्नाः सर्वदेवताः ।सालेमालो मृतश्चायं क्रोशदेहप्रमाणवान् ॥९६॥न्यपतद् भूतले वृक्षान् नाशयन् कम्पयन् महीम् ।आत्मा तस्य हरेश्चक्रयोगेन मुक्ततां गतः ॥९७॥विमानेन सुदिव्येन वैकुण्ठं प्राप सालकः ।गरुडस्तस्य देहन्तु चाश्वपट्टसरोवरात् ॥९८॥पद्भ्यां धृत्वा निनायैनमत्यजद् व्योममार्गतः ।यशोदानोत्तरं शैले सालेमालाह्वये वने ॥९९॥तत्र ये दैत्यवर्याः संवर्तन्ते तस्य जातिजाः ।प्रापुः शोकं परं तस्य नार्योऽपि शतमिप्यपि ॥१००॥रुरुदुर्वै भृशं व्योम्नः पतितं वीक्ष्य वल्लभम् ।और्ध्वदैहिकमेवाऽस्य चक्रुर्जात्यनुसारतः ॥१०१॥पञ्चशतानि दैत्यानां शतं च तस्य योषिताम् ।सहस्रं चापि पुत्राणां सुखं न लेभिरे शुचा ॥१०२॥सततं चिन्तयामासुस्ते सर्वे वैरयापनम् ।अथाऽत्र भगवान् बालो भूत्वाऽश्वपट्टसन्निधौ ॥१०३॥पुष्पदोलोत्सवं कृत्वा पितृभ्यां गृहमाययौ ।कन्यकाः श्रीलोमशस्याश्रमं ययुस्तदाज्ञया ॥१०४॥ऋषयस्तल्ललनाश्च स्वस्वालयान् ययुस्ततः ।पिता हरेः करे रक्षासूत्रं बबन्ध चौर्णकम् ॥१०५॥एवं दोलोत्सवे नारायणेन परमात्मना ।राधिके दर्शितश्चमत्कारो दैत्यो निषूदितः ॥१०६॥पठनाच्छ्रवणाद्वापि सर्वसौभाग्यमाप्नुयात् ।नरो नारी कन्यका वा बालो यतिर्युवाऽपि वा ॥१०७॥प्राप्नुयात् परमं धाम श्रुत्वा भावेन तत्कथाम् ।कृपासाध्यहरेः राधे पारवतीशितुः प्रिये ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वसन्तविकासः, पुष्पदोलोत्सवः तिमिंगिलरूपसालमालासुरस्य हरिर्नाशार्थमागतस्य हरिकृतनाशश्चेत्यादिनिरूपणनामा पञ्चविंशतितमोऽध्यायः ॥२५॥ N/A References : N/A Last Updated : April 30, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP