संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः| अध्यायः १३१ त्रेतायुगसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० विषयानुक्रमणिका त्रेतायुगसन्तानः - अध्यायः १३१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १३१ Translation - भाषांतर श्रीकृष्ण उवाच-शृणु त्वं राधिके कृष्णनारायणो भुवःपतिम् ।शक्त्यक्षिनामकं प्राह तृतीयायां प्रगे हितम् ॥१॥यज्ञस्त्वया कृतः सम्यक् तोषिताः सर्वदेहिनः ।तुष्टोऽहं श्रीहरिः साक्षात् तोषणीयं न शिष्यते ॥२॥सन्तुष्टे श्रीहरौ कृष्णे तुष्टा भवन्ति देहिनः ।सर्वान्तरात्मा भगवान् सन्तुष्यामि हृदि स्थितः ॥३॥वद ते वाञ्च्छितं चात्र ददामि चोत्तमोत्तमम् ।भक्त्या तेऽस्मि प्रसन्नोऽहं ददामि मनसेप्सितम् ॥४॥इत्युक्तो भूपतिः प्राह सदाऽत्र मन्दिरे वस ।कारयेऽहं सुवर्णानां मन्दिरं कानकं शुभम् ॥५॥तत्र त्वं प्रतिमाप्रख्यो वस मे श्रेयसे सदा ।हरिः प्राह तथाऽस्त्वेवं निवत्स्ये मन्दिरे तव ॥६॥मूर्तिं मे रमणीयां वै तत्र स्थापय कानकीम् ।राधालक्ष्मीरमाब्रह्मविद्याश्रीमाणिकीयुताम् ॥७॥वासं कुर्वन् सदा मूर्तौ ग्रहिष्ये सेवनादिकम् ।साक्षाद् यथा तथा तत्र तव स्नेहपरायणः ॥८॥यथा वर्ते सदा हृत्सु जनानामन्तरात्मकः ।तथा मूर्तौ चान्तरात्मा निवत्स्ये गोचरो यथा ॥९॥यथाऽक्षरे महाक्षेत्रे धाम्नि चाऽक्षरसंज्ञके ।यथा कुंकुमवाप्यां च भविष्याम्यत्र गोचरः ॥१०॥मूर्तिर्मेऽन्तर्यामिणो या सा दिव्या सेवनार्थिका ।भक्तेच्छाधीनसामर्थ्या श्रेयसे जगतां मता ॥११॥युगेऽत्र प्रथमे मूर्तिं सप्ततालसमोच्छ्रयाम् ।यथा वै मानवा दीर्घास्तथा मे त्वं प्रकारय ॥१२॥युगान्तरेषु कालेषु यथा ह्रासो हि देहिनाम् ।तथा तन्मानसारेण मूर्तिर्मे तेषु सम्मता ॥१३॥यथा वै पूजने याने विहारे रथवाहने ।सुसृप्या स्यात्तथा कार्या नरमानान्न चाऽधिका ॥१४॥नैकं मानं मनुष्याणां कालभेदेन संभवेत् ।सप्तवितस्तिकायः स्वः स्वस्यैवेति विनिर्णयः ॥१५॥यथा दीर्घो भवेद् देहस्तथा दीर्घो भवेद् भुजः ।भुजवत्तस्य वै दीर्घा भवन्त्यङ्गुलिकास्तदा ॥१६॥अङ्गुलोऽपि तथा दीर्घस्तत्तद्देहानुसारतः ।बाल्ये बाल्याङ्गुलो ह्रस्वो यौवने यौवनादिवत् ॥१७॥अस्म्यहं चाऽद्य ते गेहे ममाङ्गुलैः प्रमापितः ।सार्धपञ्चषष्टिभिर्वै ऊर्ध्वमानः सुरूपवान् ॥१८॥स्वर्णचम्पकशुक्लाभस्तथाऽऽजानुकराऽन्वितः ।आकर्णान्ताऽऽयतनेत्रकोणवक्रभ्रुवान्वितः ॥१९॥सुकुन्दकलिकातुल्यदन्तपंक्तिविराजितः ।विशालभालतिलकः पुष्टिसंभृतविग्रहः ॥२०॥विशालोन्नतवक्षाश्च पुष्टसक्थ्यादशोभितः ।तथा मूर्तिर्मम राजन् कारणीया त्वया शुभा ॥२१॥मम पार्श्वे तु वै दक्षे लक्ष्मीः ब्रह्मविद्या रमा ।लक्ष्मीः षष्ट्यंगुला सप्तपञ्चाशत् ब्रह्मविद्यिका ॥२२॥रमाततस्तृतीया वै चतुष्पञ्चाशदंगुला ।प्रेज्ज्वलाः स्वर्णवर्णाभाः सर्वाः षोडशहायनाः ॥२३॥अथ वामे मम पार्श्वे राधा माणिकी श्रीस्तथा ।राधा षष्ट्यंगुला सप्तपञ्चाशन्माणिकी मता ॥२४॥श्रीस्तृतीया सुशोभाढ्या चतुष्पंचाशदंगुला ।ममांगुलैस्ता मापनीयाः कर्तव्याश्चन्द्रशोभिताः ॥२५॥सुरूपाः कृशकट्यश्च पूजापात्रादिहस्तकाः ।प्रोज्ज्वलाः स्वर्णवर्णाभाः सर्वाः षोडशहायनाः ॥२६॥सर्वसौभाग्यशोभाढ्याः सर्वांगपरिपूर्णिकाः ।पुष्टाः प्रसन्नवदना द्रवभूषाविभूषिताः ॥२७॥चतुर्भुजोऽहं मध्ये च स्थापनीयस्त्वया हरिः ।शंखचक्रगदापद्मश्रीवत्सकौस्तुभान्वितः ॥२८॥राजचिह्नधरो रम्यो युवाऽष्टादशहायनः ।सर्वचिह्नांगसम्पूर्णः कारणीयो न चाऽन्यथा ॥२९॥इत्येवं मां प्रतिष्ठाप्य कुरु मे मध्यमन्दिरे ।पूजनं नित्यदा राजन्नथ दक्षे तु मन्दिरे ॥३०॥बालकृष्णं घनश्यामं द्वादशवर्षशोभनम् ।प्रतिष्ठापय मे पित्रा मात्रा च सहितं तु माम् ॥३१॥श्रीमद्गोपालकृष्णोऽयं पिता मेऽत्र विराजते ।माता मे कंभरालक्ष्मीर्विराजतेऽत्र लोकय ॥३२॥तथा शिल्पकलाद्वारा मूर्तित्रयं प्रकारय ।अथ वामे मन्दिरे मे शय्यां कारय शोभनाम् ॥३३॥स्वर्णगेन्दुकशोभाढ्यां सर्वोपकरणान्विताम् ।हस्तिगरुडौ कारय मध्यमन्दिरसन्निधौ ॥३४॥अग्रगोलसुसौधे वै मध्ये स्थापय तौ तथा ।चत्वरे छत्रिकामध्ये मम वै चरणौ शुभौ ॥३५॥प्रतिष्ठापय राजेन्द्र गोपुरे मम पार्षदम् ।देवायतनभक्तं च भक्तं रणंगमाभिधम् ॥३६॥सर्वशस्त्रयुतौ तौ च प्रकारय शुभोत्तमौ ।हेमन्तं च वसन्तं च द्वारपालौ विधापय ॥३७॥स्वप्रकाशं द्युप्रकाशं सेवकौ च प्रकारय ।मन्दिराग्रसुखण्डेषु विजयध्वनिकारकान् ॥३८॥सन्तोषां भगवन्तं च शुकं च वल्लभं तथा ।पार्श्वखण्डे समस्थापयार्घपात्रयुतान् शुभान् ॥३९॥राशयो द्वादशैवाऽपि मन्दिरोपरि कारय ।ऋषिमूर्तिप्रतिमास्ते तापसा वैष्णवाः शुभाः ॥४०॥ब्रह्मप्रियाणां मुख्यानां चत्वारिंशत्तथा शतम् ।सर्वासां मम पत्नीनां नराणां च पृथक् पृथक् ॥४१॥रासरूपेण मध्योर्ध्वे गोलसौधे प्रकारय ।वादित्राणि समादाय मण्डलं मध्यगं कुरु ॥४२॥शिल्पिनां विद्यया वापि चैत्राणां विद्ययाऽपि वा ।मध्येऽहं पार्श्वतः पत्नीचतुर्विंशतिद्विशतम् ॥४३॥एवं राजन् सदा सौम्यं प्रकारय प्रसेवनम् ।तत्राऽहं गोचरस्तेऽत्र निवत्स्यामि न संशयः ॥४४॥अथ राजाऽह कृष्णं तं दिव्यदर्शनकांक्षया ।दिव्यं ते दर्शनं देहि प्रासादे स्थापितस्य वै ॥४५॥षट्पत्नीसहितं रम्यं तथा दृष्ट्वा करोमि हि ।पितृमूर्तींस्तथा रासं दृष्ट्वा शय्यां करोम्यपि ॥४६॥इत्युक्तो भगवान् कृष्णनारायणो हि राधिके ।द्रागेव दर्शयामास प्रतिमा मन्दिराणि च ॥४७॥अनेककोटिसूर्याभस्तेजो व्याप्तसुमूर्तिकः ।भगवान् षोडशवर्षपत्नीभिः सहितः शुभः ॥४८॥दर्शयित्वा स्वरूपाणि दिव्यधामगतानि वै ।राजानं तोषयामास कुटुम्बं नृपतेस्तथा ॥४९॥नृपकन्याः षष्टिसंख्यास्तथा शतकुमारकाः ।राज्ञी च मुमुहुर्दृष्ट्वा प्रत्यक्षं पुरुषोत्तमम् ॥५०॥राजा विज्ञाय कन्यानां मानसानि हरौ तदा ।आकृष्टानि पतिप्राप्त्यै राज्ञी विज्ञाय तत्तथा ॥५१॥ददौ श्रीहरये कन्याः षष्टिरेव कुमारिकाः ।ताः सर्वाः कृतकृत्या वै जाताः प्राप्य हरिं पतिम् ॥५२॥जामातारं हरिं प्राप्य राजा राज्ञी मुदं गतौ ।मेनाते कृतकृत्यौ च विशेषेण तदा पुनः ॥५३॥पूजनं श्रीहरेश्चक्रुः कन्यकाः प्रेमविह्वलाः ।वरमाला हरेः कण्ठे त्वर्पयामासुरुत्सुकाः ॥५४॥भोजनाद्यैर्हरिं तत्र सेवयामासुरादरात् ।राजाऽपि यौतकं दिव्यं ददावतर्कितं बहु ॥५५॥दिव्यरत्नादिहारोश्च कोट्यर्बुदादिसंख्यकान् ।दिव्यदासीर्ददौ चापि षष्टिसंख्यास्तथोत्तमाः ॥५६॥चतुर्दन्ता गजाः श्वेता राज्ञा समर्पितास्तदा ।विमानं बहुवेगं च दिव्यं सहस्रमानवैः ॥५७॥अधिष्ठेयं ददौ दाने कन्याविहारहेतवे ।श्रीहरिश्चैवमासाद्य दानं सुखं न्युवास ह ॥५८॥चतुर्थीं तत्र कृत्वैव सायं प्राह नराधिपम् ।सायं पञ्चमयज्ञार्थं गन्तव्यं कालिमाक्षितौ ॥५९॥आगच्छ सकुटुम्बस्त्वं यज्ञे साकं मया नृप ।इत्युक्तो भूपतिः सज्जो बभूव मेयभृत्यकः ॥६०॥जलपानं हरिश्चक्रे तावत्तत्र समाययौ ।पिशाच्येका शतभृत्यासहिता दुर्दशां गता ॥६१॥रुरोद बहुधा तत्र सन्निधौ श्रीहरेस्तदा ।भगवान् श्रीहरिः प्राह का त्वं कस्माच्च रोदिषि ॥६२॥किं ते दुःखं च काः सख्यो वद सौख्यं करोमि ते ।तदा सा लज्जया युक्ता नोवाचापि तु किंचन ॥६३॥तावत्तत्र समायातः शक्त्यक्षिः पुरतो हरेः ।तं दृष्ट्वा पुनरेवैषा रुरोदाक्रन्दनं मुहुः ॥६४॥राजा दृष्ट्वा च पप्रच्छ का त्वं कथं नु रोदिषि ।सा तदा पूर्वजन्मीयं रूपं क्षणं दधार ह ॥६५॥राज्ञो या भगिनी ज्येष्ठा कन्यका युवती मृता ।वासनाविषदोषेण पिशाचीत्वमुपागता ॥६६॥समुवाच नृपं चाऽहं विना यज्ञोपवीतकम् ।विवाहमन्तरा रुग्णा मृता यौवनदर्शिनी ॥६७॥वासनायुक्तहृदया पुरुषं प्रति तृष्णया ।प्रेतभावं गता शीघ्रं त्वरण्येऽत्र वसामि हि ॥६८॥अन्याश्च कन्यका या या वासनाहृदयान्विताः ।प्राप्नुवन्ति तु मरणं ता इमाः सन्ति योषितः ॥६९॥पिशाचिन्यो हि मे सख्यः पिशाचपत्निकाः किल ।पिशाचाः पतयोऽस्माकं भुक्त्वा यज्ञप्रसादकम् ॥७०॥धूतपापा गताः मुक्तिं स्वर्गं वा तत्परं पदम् ।वयं प्रसादहीनाश्च गृहे एव स्थिता यतः ॥७१॥पिशाचानां निरोधेन यज्ञे नाऽत्र समागताः ।न प्राप्तं दर्शनं चापि क्रतोः प्रासादिकं ह्यपि ॥७२॥पिशाचीत्वं तदस्माकं न नष्टं चेदृशे मखे ।पिशाचास्ते गता मुक्तिं शिष्यामहेऽशुभाऽबलाः ॥७३॥अबलानां वलं नास्ति विना त्रातारमच्युतम् ।अपत्यपतिशून्याश्च जातास्ततोऽत्र चागताः ॥७४॥मोक्षेच्छया हरेकृष्ण राजन् भ्रातः शुभं कुरु ।साऽहं ते भगिनी चेमाः प्रजाकन्या मृतास्तु याः ॥७५॥ता वयं देवदेवस्य मोक्षार्थं शरणागताः ।कुर्वस्माकं महामोक्षं यथा दुःखं भवेन्न वै ॥७६॥राजा प्राह पिशाचिन्यश्चेमा वै केन कर्मणा ।संभूता वद मे चात्र स्वसस्तेऽस्तु शुभं ततः ॥७७॥स्वसा प्राह च राजानं शृणु पिशाचिकोद्भवम् ।या कन्या निर्दया चास्ते पितृगृहेऽतिक्रोधिनी ॥७८॥कलहस्याऽतिकर्त्री च मृता स्यात् सा पिशाचिनी ।अवमन्य स्वजननीं स्वतन्त्रा शीलनाशिनी ॥७९॥पापकर्मनिमग्ना च मृता स्यात् सा पिशाचिनी ।प्रवृत्ता गुप्तपापेषु पुण्यधर्मविवर्जिता ॥८०॥मातुः सेवापरा नास्ति नास्ति गृहस्य शोधिनी ।कृष्णभक्तिपरा या न सा मृता स्यात् पिशाचिनी ॥८१॥यथा चोद्वेजिता माता भगिनी भ्रातृभामिनी ।कलंकिनं कुटुम्बं च सा मृता स्यात् पिशाचिनी ॥८२॥स्नानपूजाविहीना च राजस्वल्यान्विता तथा ।अशुद्धा पशुगम्या च मृता स्यात् सा पिशाचिनी ॥८३॥आत्मघातकरी या च या च कुटुम्बघातिनी ।पित्रादिघातिनी या च सा मृता स्यात् पिशाचिनी ॥८४॥अर्भकान् या क्रोधवशा ताडयत्येव वै मुहुः ।गृहे चौर्यकरी कन्या मृता स्यात् सा पिशाचिनी ॥८५॥जन्तूनां मारयित्री या केशेषु चाम्बरेषु च ।जानत्यपि च चुल्ल्यां या मृता सा स्यात् पिशाचिनी ॥८६॥मूषकाणां विडालानां घातिनी प्राणिनां तु वा ।गोवत्सानां घातयित्री मृता सा स्यात् पिशाचिनी ॥८७॥महिषीबालकेभ्यो या दुग्धं पाययतीव न ।तन्मातुश्चापि तक्रं वा मृता सा स्यात् पिशाचिनी ॥८८॥पक्षिणां च पशूनां च हिंसिका जीवघातिनी ।स्वैरिणी पुंश्चली या च कामिनी गणिका तथा ॥८९॥मद्यमांसादना गर्भहन्त्री स्याद्वै पिशाचिनी ।जले मृता तथा वह्नौ क्षुत्पिपासान्विता यदि ॥९०॥पृथ्व्यां मग्ना विवरादौ मृता सा स्यात् पिशाचिनी ।असंस्कृता मृता या स्यादक्षता वा क्षताऽपि वा ॥९१॥भक्तिहीना रागयुक्ता मृता सा स्यात् पिशाचिनी ।इत्येवं दोषयुक्ता वै इमा जाताः पिशाचिकाः ॥९२॥उद्धारं कुरु राजेन्द्र हरेः प्रसाददानतः ।यज्ञस्त्वया कृतश्चात्र कन्यादानं कृतं तथा ॥९३॥तेन पुण्येन नः पापं नष्टं भागेन भौतिकम् ।मानसं तु प्रसादेन नाशमेष्यति देहि नः ॥९४॥ततो मुक्तिं हरिर्दद्यात् सर्वप्राणपतिः प्रभुः ।इत्येवं राधिके! ताभिश्चार्थितो भूपतिः स्वयम् ॥९५॥ददौ हरेः प्रसादं स जलं च पादसंस्पृशम् ।पपुस्ता भक्षयामासुः प्रेमतस्तत्क्षणात्खलु ॥९६॥दिव्यरूपास्तदा जाता यथा देव्यः सुरेशितुः ।ताः पवित्राः कन्यकाश्च निपेतुः पादयोर्हरेः ॥९७॥श्रीहरिश्च दयामग्नो ददौ मन्त्रान् निजाननात् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९८॥ 'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥९९॥शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ।'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥१००॥अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥१०१॥पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ॥१०२॥इत्येतान् प्रददौ मन्त्रान् ददौ यज्ञोपवीतकम् ।सर्वान् प्रदर्श्य पित्राहीन् कुटुम्बं च तदीयकम् ॥१०३॥ताः सर्वाः श्रीहरिर्यावत् सम्प्रेषयति चाक्षरम् ।तावत् सर्वा हरौ मुग्धा गन्तुं नैच्छँस्तदाक्षरम् ॥१०४॥विहाय सुन्दरं कान्तं पतिं श्रीपुरुषोत्तमम् ।वव्रिरे ता हरिकृष्णबालकृष्णनरायणम् ॥१०५॥कन्यकाः शतसंख्यास्तास्तथा च राजन्यकाः ।मालाः करेषु संगृह्य कोटिचन्द्रनिभाननाः ॥१०६॥सुरूपाः सूज्ज्वलाः सर्वांस्तदा षोडशवत्सराः ।प्रेम्णा कृष्णगले रम्ये न्यधुः पत्नीत्वकाम्यया ॥१०७॥हरिणा स्वीकृताः सर्वास्तासां प्रियचिकीर्षया ।इत्येवं राधिके ताश्च गृहीत्वा स्वविमानके ॥१०८॥राजकन्या गृहीत्वा च सायं त्वम्बरवर्त्मना ।परिहारोत्तरं शीघ्रं ययौ कालिमभूतलम् ॥१०९॥अनादिश्रीकृष्णनारायणो मंगलसूत्रदः ।इत्येवं राधिके! कृष्णस्वाम्यनादिपुमुत्तमः ॥११०॥पावयन्निजभक्तानां हृदयानि तदाम्बरात् ।कालिमाशनृपराज्ये गत्वा ददर्श भूतलम् ॥१११॥पठनाच्छ्रवणादस्य मोक्षस्य फलभाग्भवेत् ।पाठयेच्छ्रावयेद्यं च सोऽपि मोक्षफलं लभेत् ॥११२॥इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शक्त्यक्षिनृपराज्ये यज्ञोत्तरं देवर्षीणां पञ्चमयज्ञार्थं प्रेषणं, राज्ञा षष्टिकन्या हरयेऽर्पिताः, पिशाचीत्वे कारणानि, एकाधिकशतपिशाचिनीमोक्षकरणं चेत्यादिनिरूपणनामैकत्रिंशदधिकशततमोऽध्यायः ॥१३१॥ N/A References : N/A Last Updated : May 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP