संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|

त्रेतायुगसन्तानः - अध्यायः १०३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अनादिश्रीकृष्णनारायणो हेमायनर्षये ।
तथा कन्या चक्रवाक्यै वृत्तान्तमाह राधिके ॥१॥
लक्ष्मीस्तया च सख्यश्च वैकुण्ठं सर्वमेव च ।
सशोकं वै क्षणाज्जातं श्रुत्वा कृष्णविवर्जितम् ॥२॥
मूर्छिताश्च तदा सर्वा वैकुण्ठवासियोषितः ।
मूर्छामपानुदँस्तासां वायुचन्दनवारिभिः ॥३॥
अथ लक्ष्मीर्विमूर्छा च संबभूव क्षणान्तरे ।
वियोगं श्रीहरेः स्मृत्वा रुरोद बहुधा पुनः ॥४॥
न भोक्ष्ये नैव पास्ये च मरिष्ये तं हरिं विना ।
नारीदेहेन भगवत्प्राप्तिस्तु दुर्लभा सदा ॥५॥
सा सम्प्राप्तिः शाश्वती वै मया लब्धा हरेः किल ।
यद्यहं न हरिं लप्स्ये करिष्ये देहनाशनम् ॥६॥
संकरिष्ये तपो घोरं गमिष्ये भूतलं प्रति ।
यत्र नाथः क्षितावास्ते तत्र मे मरणं वरम् ॥७॥
मानसं करपादादि त्यक्ष्ये कृष्णविरोधि यत् ।
नाथनाथ हरेकृष्णकान्त नारायणप्रभो ॥८॥
त्यक्त्वा मां दासिकां दुष्टां क्व यातो वद मे द्रुतम् ।
त्वां विना श्रवणं मेऽत्र कर्णशूलायते हरे ॥९॥
त्वां विना दर्शनं मेऽत्र वह्निज्वालायते हरे ।
त्वां विना कीर्तनं मेऽत्र विषदग्धायते प्रभो ॥१०॥
त्वां विना स्पर्शनं मेऽत्र घ्राणव्रणायते प्रभो ।
त्वां विना रसनं सर्वं मम वान्तायन्ते हरे ॥११॥
त्वा विना गन्धग्रहणं नासिका वृश्चिकायते ।
त्वां विना भोजनं पानं गलबन्धायते विभो ॥१२॥
त्वां विना चासनं रम्यं यानं भल्लायते प्रभो ।
त्वां विना पुष्पमालादि क्ष्वेडकुन्तायते हरे ॥१३॥
शृंगारस्त्वां विना विष्णो सर्वो मे राक्षसायते ।
हरिं विना मे वैकुण्ठं रिक्तगर्तायते प्रभो ॥१४॥
समयो मे क्षणरूपस्त्वां विना तु युगायते ।
शीतवातो विना कृष्णं सूर्यातपविषायते ॥१९॥
जलं स्थलं गृहं सर्वं शून्यायते विना प्रभुम् ।
वस्त्रं व्याघ्रायते रम्यं भूषा सिंहायते तथा ॥१६॥
सौभाग्यं केशकबरी सर्व मे विधवायते ।
भुक्तं सुखं ममेदानीं विना त्वां खसुमायते ॥१७॥
देहद्रव्यादिकं सर्वं त्वां विना निधनायते ।
अस्तित्वं चापि ते पत्न्या विना त्वां नास्तिकायते ॥१८॥
किम्वत्र बहुनोक्तेन त्वां विना श्रीनरायण ।
स्थास्ये नैकाकिनी क्वापि पतिष्ये त्वामनु क्षितौ ॥१९॥
हे स्वामिकृष्णगोविन्द नारायणनरोत्तम ।
श्रीकृष्णवल्लभमूर्ते रक्ष मां स्वान्तिके पते ॥२०॥
जीवनं मे गतः क्वाऽऽस्से क्व ते भक्ता हरादयः ।
यत्र ते तत्र ते भार्या लक्ष्मीरियं गमिष्यति ॥२१॥
सर्वगस्य गमनं ते न जाने कुत्र वर्तितम् ।
एषाऽहं सम्पताम्यद्य तव पृष्ठे जनार्दन ॥२२॥
तव भक्तां पतमानां यथेच्छसि तथा कुरु ।
इत्युक्त्या वैकुण्ठाल्लक्ष्मीः पपात शिरसा ह्यधः ॥२३॥
हाहाकारो महानासीद् वैकुण्ठे सर्वसृष्टिषु ।
लक्ष्मीर्वै सर्वलोकेभ्यः पपात प्रलये यथा ॥२४॥
ब्रह्माद्याः सत्वरं सत्ये पतमानां श्रियं सुराः ।
दध्रुः कोमलपुष्पाणामुल्लोचे न च सत्वरम् ॥२५॥
पातपीडा न वै जाता तथा जगृहुरीश्वराः ।
लक्ष्म्याश्चाऽनुनिपेतुश्च दास्यो दासाश्च लक्षशः ॥२६॥
सत्यलोके सुराद्यैस्ते विताने संधृतास्तु खे ।
सत्कृतास्ते सान्त्वयिताः पूजिताः सर्ववस्तुभिः ॥२७॥
भोजिताः पायिताश्चाप्यासनेष्वपि निषादिताः ।
मायावायुहताः सर्वेऽभवन् वै मोहमिश्रिताः ॥२८॥
विसस्मरुश्च दुःखं तन्नारायणवियोगजम् ।
सावित्र्या पूजिताः सख्यः सखायो ब्रह्मणाऽर्चिताः ॥२९॥
विश्रान्त्यनन्तरं पृष्टाः किमर्थं पतनं त्विति ।
तदा लक्ष्मीः पुनः स्मृत्वा नारायणवियोजनम् ॥३०॥
रुरुदे च क्षणं जिज्ञासयामास नरायणम् ।
क्व स्थितं वर्तमानं च कथं योगो भवेदिति ॥३१॥
ब्रह्मा प्राह स्वयं नारायणश्चाऽश्वसरोवरे ।
सौराष्ट्रे कुंकुमवापीक्षेत्रे चाऽद्य हि वर्तते ॥३२॥
अनादिश्रीकृष्णनारायणे श्रीपुरुषोत्तमे ।
अन्तर्भाव्य निजं रूपं तदभिन्नो विराजते ॥३३॥
अथ नारायणो नित्यं तव स्वामी च वल्लभः ।
देशे नीपालये याति भक्तार्थं माधवो रमे! ॥३४॥
गण्डक्याश्चोद्भवदेशे कैलासधामनामके ।
नगरे नृपरूपो यः शंकरांशो विराजते ॥३५॥
पत्नी तस्य सती नाम्ना जानकीति सदाशिवा ।
तव शापेन सद्योजा मानवी वर्ततेऽधुना ॥३६॥
जानक्याः स पतिः शंभुः शिवराजाभिधानकः ।
तस्य पुत्री तव सखी कृष्णा कृष्णकुमारिका ॥३७॥
सद्यो जाता तव शापाद् वर्तते तस्य पुत्रिका ।
जयादित्यस्तथा चन्द्रादित्यश्चेति च पुत्रकौ ॥३८॥
धेनुपालो महावीरः शिवराजाऽनुजस्तथा ।
वर्तते कैलासधाम्नि महाभागवतः सखा ॥३९॥
शिवराजस्य पत्नी या षण्माण्डव्यपुरेशितुः ।
पुत्री सा जानकी देवी भजते श्रीनरायणम् ॥४०॥
एवमेते मानवा वै तव शापेन पद्मजे ।
सञ्जाताः सन्ति गण्डक्यास्तीरे शैलभुवस्तले ॥४१॥
यत्र तेऽस्ति मतिर्गन्तुं याहि तत्र हरिं स्मर ।
अश्वपट्टसरस्तीरे यद्वा श्रीगण्डकीतटे ॥४२॥
मिलिष्यति पतिः कान्तस्तव नारायणः स्वयम् ।
इत्येवं ब्रह्मणा प्रोक्ता मुमोद कमला तदा ॥७३॥
द्रागेवाऽस्या अस्फुरँश्च वामाङ्गानि मुहुर्मुहुः ।
दासीदाससहस्राणां शकुनानि शुभान्यपि ॥४४॥
अभवँश्चाऽच्युतप्राप्तिशंसकानि मुहुर्मुहुः ।
एवं वै ब्रह्मणा प्रोक्ता लक्ष्मीर्दासाश्च दासिकाः ॥४५॥
नमस्कृत्य तु सावित्रीं ब्रह्माणं परमेष्ठिनम् ।
प्राप्य पूजां निर्ययुश्चाययुः कुंकुमवापिकाम् ॥४६॥
अवतेरुश्चाम्बरात्ते चाऽश्वपट्टसरोऽन्तिके ।
विलोक्य सध्वजस्वर्णघटं प्रासादमुत्तमम् ॥४७॥
अनादिश्रीकृष्णनारायणदर्शनमाचरन् ।
परब्रह्माऽक्षरातीतानादिश्रीपुरुषोत्तमः ॥४८॥
विज्ञाय सर्ववृत्तान्तं चक्रे स्वागतमादरम् ।
न्यूषुः सम्मानिताः श्रीमद्वैकुण्ठनाथलब्धये ॥४९॥
किन्तु चतुर्भुजो नारायणः साक्षान्न दृश्यते ।
स्वयं लक्ष्मीर्महालक्ष्म्या श्रीमत्कंभरया श्रिया ॥५०॥
सेव्यते पाल्यते नित्यं प्रसन्नीक्रियते तथा ।
स्ववत् सर्वाश्च तद्दास्यः पात्यन्ते चाति भावतः ॥५१॥
दासा वैकुण्ठवासाश्च रक्ष्यन्ते जनकेन च ।
एवं तत्र स्थिताः सर्वे किन्तु चतुर्भुजः स्वयम् ॥५२॥
नाऽऽयात्येषां दृष्टिपथं तदा श्रीपुरुषोत्तमम् ।
प्रार्थयाञ्चक्रुरत्यर्थं दर्शनार्थं मुहुर्मुहुः ॥५३॥
तपश्चर्यां चक्रुरेते सम्भूय पवनाशिनः ।
विष्णुयागं तथा चकुर्मासद्वयं तदुत्तरम् ॥५४॥
नारायणः प्रसन्नोऽभूदुवाच तान् रमायुतान् ।
प्रसन्नवदनश्चतुर्भुजो वैकुण्ठवासकृत् ॥५५॥
यूयं वैकुण्ठवासा मे भक्ता यात हि गण्डकीम् ।
नीपालयप्रदेशे च विहारे कोसले तथा ॥५६॥
शिवराजगृहे नित्यं यामि सेवावशंगतः ।
यत्र कृष्णा जयश्चन्द्रो विद्यन्ते बालका इति ॥५७॥
दक्षपुत्री सती यत्र जानकी शिवभामिनी ।
धेनुपालोऽनुजस्तस्य वर्तते तत्र मानवः ॥५८॥
एते लक्ष्म्यास्तव शापान्मानवा विचरन्ति वै ।
त्वं तथा मानवी तत्र शिवकन्या भव प्रिये ॥५६९॥
शापदानफलं कष्टं मानवी भुंक्ष्व कन्यका ।
एते दासाः पार्षदा मे विभिन्नतीर्थवासिनः ॥६०॥
भवन्तु मानवाः सर्वे काले सेवार्थिनो मम ।
राजसु ब्राह्मणेष्वत्र भवन्तु भूतलेऽनघाः ॥६१॥
कामरूपधराः सर्वे जातिस्मरा भवन्तु च ।
शापदोषे विनिवृत्ते वो मिलिष्यामहं तदा ॥६२॥
तपसा शुद्धभावेयं लक्ष्मीर्यदा हिमालये ।
चक्रवाक्या समं पुत्र्या दर्शनं मम लप्स्यते ॥६२॥
उर्वर्श्याश्चक्रवाक्या मे पुत्र्या मोक्षो भविष्यति ।
हिमाद्रेः शिखरे पुत्रीं तृषितां वारि वृष्टिदम् ॥६४॥
पाययित्वा तर्पयिष्ये ततो मे दर्शनोत्तरम् ।
लक्ष्म्याः प्राप्ते योग्यकाले विवाहस्तु मया सह ॥६५॥
काश्यां राज्यमहोद्याने यदा सम्पत्स्यते तदा ।
पार्षदानां भवतां मे दासीनां चापि तत्र वै ॥६६॥
दर्शनं च विवाहे मे सर्वेषां संभविष्यति ।
ततो युष्मान्नयिष्येऽहं मम धाम च शाश्वतम् ॥६७॥
इत्युक्त्वा भगवान्नारायणश्चादृश्यतां गतः ।
अनादिश्रीकृष्णनारायणे स्वामिनि शाश्वते ॥६८॥
लक्ष्म्यादयश्च वैकुण्ठवासा आपृच्छ्य कंभराम् ।
मातरं पितरं श्रीमद्गोपालकृष्णमीश्वरम् ॥६९॥
अश्वपट्टसरःक्षेत्रं त्यक्त्वा श्रीगण्डकीनदीम् ।
नीपालयप्रदेशं ते ययुः श्रीशंकरालयम् ॥७०॥
कैलासधामसंज्ञं च पत्तनं वीक्ष्य चाम्बरात् ।
अवतेरुः शिवराजगृहे श्रीजानकीयुते ॥७१॥
शिवराजो योगदृष्ट्या विवेद तान् यथार्थतः ।
लक्ष्मीयुतान् पार्षदाँश्च तथा दासीजनानपि ॥७२॥
मुमोद स्वागतं चक्रुः जानकी प्रमुमोद च ।
कृष्णाऽपि मुमुदे तत्र जयोऽपि चन्द्रकोऽपि च ॥७३॥
धेनुपालोऽपि मुमुदे ज्ञात्वा वैकुण्ठवासिनः ।
स्वागतं चासनं वारि मधुपर्कं फलं दलम् ॥७४॥
अन्नं सत्कारमुत्कृष्टं चक्रुर्ददुः शिवादयः ।
प्रासादं राज्ययोग्यानि शयनानि गृहाणि च ॥७५॥
यानवाहनभोग्यानि सर्वोपकरणान्यपि ।
भोज्यपेयविमृद्यानि वस्तूनि राजरीतितः ॥७६॥
ददौ श्रीशंकरस्तेभ्यो महीमानेभ्य ईश्वरः ।
प्राघूणिकाश्च सञ्जातास्तृप्ताः शंकरसेवया ॥७७॥
सर्वे नित्यं प्रतीक्षन्ते प्रातरुत्थाय तत्र च ।
नारायणस्य देवस्य दर्शनं चागतस्य हा ॥७८॥
शंकराद्यैः कृतां पूजां ग्रहीतुं शंकरालये ।
हरिः प्रातः स्वयं चैत्य पूजां प्राप्य प्रयाति च ॥७९॥
एते नैनं प्रपश्यन्ति महीमानाः कदाचन ।
ततो लक्ष्मीः स्वयं तत्र शिवराजगृहे सुता ॥८०॥
भवितुं वाञ्च्छयामास प्रातर्दर्शनकांक्षया ।
संकल्पमात्रसिद्धा सा शिवराजसुताऽभवत् ॥८१॥
जातिस्मरातिविज्ञाना मानुषी दिव्यसद्गुणा ।
सर्वलक्ष्मयुता कन्या रमा वैकुण्ठवासिनी ॥८२॥
नारायणेन या विप्रकृता सा कन्यकाऽभवत् ।
सतीशंभ्वोर्गृहे शापफलभोगाय दुःखिनी ॥८३॥
ततः सा दुःखिनीलक्ष्मीरितिनाम्ना हरेण ह ।
सत्या संगदिता नित्यं स्वस्रा च कृष्णयाऽपि तु ॥८४॥
लक्ष्म्याः प्राकट्यकालेऽत्र जनैर्वैकुण्ठवासिभिः ।
कैलासवासिभिश्चापि पुष्पवृष्टिः कृताऽम्बरात् ॥८५॥
चन्दनस्य तथा वृष्टिर्वसूनां वृष्टिरित्यपि ।
जयाशीर्वाददानं च वाद्यवादनमुत्सवः ॥८६॥
अप्सरोभिर्नर्तनं च देवीभिर्मंगलानि च ।
शिवराजेन दानानि संस्काराश्च द्विजैरपि ॥८७॥
तथाऽन्योत्सवजातानि सर्वं कृतं शिवादिभिः ।
लक्ष्मीस्तु मानुषीरूपा प्रकाशयितुं नेच्छति ॥८८॥
पत्युः सेवनलाभार्थं स्थिता कपटमानुषी ।
राजकन्याऽपि सा नित्यमृषिकन्येव वर्तते ॥८९॥
तपोव्रतफलाहारा नारायणस्य सेविका ।
पुत्री शिवकुटुम्बोत्था ततः कुटुम्बवत् सदा ॥९०॥
वैकुण्ठवासिनं कान्तं नारायणं प्रसेवते ।
नारायणस्य सेवार्थं जलमाहरति प्रिया ॥९१॥
ददाति भोजनं पानं ताम्बूलकं सुगन्धि च ।
नीराजनं करोत्येषाऽमृतं पिबति पादयोः ॥९२॥
पादसंवाहनं नित्यं करोति कन्यका रमा ।
नित्यमर्थयते शापनिवृत्त्यर्थं जनार्दनात् ॥९३॥
विवाहार्थं तथा शीघ्रं वैकुण्ठगमनाय च ।
एकदा तां हरिः प्राह तपः करोतु भामिनि ॥९४॥
चक्रवाक्या समं तेन तवेष्टं संभविष्यति ।
इत्युक्ता सा कन्यका तु चक्रवाक्या समं ततः ॥९५॥
मिलिता तपसः सिद्धिं कर्तुं हिमालयं ययौ ।
अन्ये दासास्तथा दास्यो नीपालयप्रदेशके ॥९६॥
विहारे कोसले चाऽप्यविमुक्तक्षेत्रके तथा ।
इष्टपितृगृहे सर्वे स्वप्राकट्यं प्रपेदिरे ॥९७॥
जातिस्मरा अभवँश्च सर्वे भागवतोत्तमाः ।
वैष्णवाः सिद्धिमन्तश्च कामरूपधरास्तथा ॥९८॥
दिव्या दिव्यविहाराश्च दिव्याम्बरविहारिणः ।
सुखिनः सर्वसम्पन्ना यथा वैकुण्ठसंस्थिताः ॥९९॥
एतां सर्वां कथां कृष्णनारायणः परेश्वरः ।
हेमशालायनायाऽऽह कन्या प्राह तथोर्वशीम् ॥१००॥
इत्येवं राधिके सर्वं नारायणेच्छयाऽभवत् ।
न कालो न च कर्माऽपि प्रारब्धं नात्र कारणम् ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वैकुण्ठाल्लक्ष्म्या दासानां दासीनां च सत्यलोकागमस्ततोऽश्वपट्टसरोवरागमस्ततो नीपालयप्रदेशे शिवराजगृहे लक्ष्म्याः प्राकट्यं दासदासीनां भिन्नप्रदेशेषु प्राकट्यमित्यादिनिरूपणनामा त्र्यधिकशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP