संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २४८

त्रेतायुगसन्तानः - अध्यायः २४८

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
पञ्चमे दिवसे राधे प्रातः सोमस्य चोत्तरम् ।
विधिं सर्वं प्रवक्ष्यामि लोमशो यं चकार ह ॥१॥
द्वादश्यां ब्राह्मकालस्याऽऽरंभे तु सर्वऋत्विजः ।
प्रबुध्य स्नात्वा सोमाभिषवकर्माणि चारभन् ॥२॥
अध्वर्युस्तानि पात्राण्ययोजयत् तत्स्थलीषु वै ।
होता शस्त्रं चानुवाकाख्यमारभत वै ततः ॥३॥
सवनीयहविषां निर्वापं चक्रे च पञ्चभिः ।
धानाभिश्च करंभेन परिवापेन वै तथा ॥४॥
पुरोडाशेन च प्रतिप्रस्थातामिक्षया तथा ।
धाना भ्रष्टयवा बोध्याः करंभो यवसक्तवः ॥५॥
परिवापश्च वै लाजाः पयस्याऽऽमिक्षिका मता ।
तेषां च देवताः पञ्च हरित्वानिन्द्र आदिमः ॥६॥
पूषण्वानिन्द्रो द्वितीयः सरस्वती तृतीयका ।
इन्द्रस्तुर्यो मित्रावरुणौ पञ्चमदेवता ॥७॥
ताः प्रपूज्य ततश्चक्रे दधिग्रहप्रचारकम् ।
तद्यथोदुम्बरपात्रे गृहीत्वा दधिं ह्युत्तमम् ॥८॥
प्रजापतिदेवतायै जुहावौदुम्बरेण वै ।
ततोऽदाभ्यग्रहं चक्रे सोमदेवाय तद्यथा ॥९॥
दध्ना वा पयसाऽऽपूर्य पात्रं तथोपनह्य च ।
सोमलतावयवानामंशुत्रयं प्रगृह्य च ॥१०॥
ग्रहपात्रे स्थापयित्वा पञ्चकृत्वो ग्रहं हि तत् ।
सप्तकृत्वोऽथवाऽऽधूय तत्पात्रं सञ्जुहाव ह ॥११॥
ततश्चक्रेंशुग्रहं संगृह्यैकग्रहसोमकम् ।
क्षिप्त्वा पाषाणके सिक्त्वा वसतीवरीवारिणा ॥१२॥
अभिषुत्य ग्रावभिश्चाऽदाभ्यपात्रे निधाय च ।
जुहाव च प्रजापतिदेवतायै ततः परम् ॥१३॥
गृहीत्वैव च तत्पात्रं प्रविश्य च सदस्ततः ।
भक्षयित्वा पात्रगतं सोमरसं च वै ततः ॥१४॥
पात्रं खरेऽसादयश्चोपांशुग्रहं व्यधात्ततः ।
तत्र क्रीतं तथा वस्त्रे स्थापितं चोपनह्य च ॥१५॥
सोमं समवमुच्यैव गृहीत्वा सर्वमेव च ।
प्रविभज्य द्विधा प्रातस्सवनार्थ विशेषतः ॥१६॥
स्वल्पं माध्यन्दिनसवनार्थं कृत्वा च वै ततः ।
प्रातः स्तवनसोमाद्वै चैकग्रहार्थमेव ह ॥१७॥
सोमं धृत्वा होतृचमसे निधाय च वै ततः ।
वसतीवरीभिरद्भिः सिक्त्वा पिष्ट्वा च ग्रावभिः ॥१८॥
निष्पीड्य च रसं लब्ध्वाऽञ्जलिनाऽध्वर्युरेव तम् ।
उपांशुपात्रे त्रिवारं चानाय्य च जुहाव ह ॥१९॥
आधाराग्रह एवाऽयं देवताप्राण एव च ।
तस्यै दत्वा ततश्चकुर्धाराग्रहान् ध्रुवान्तकान् ॥२०॥
सोमाभिषवकः सोऽयं महाभिषवः सम्मतः ।
उपविश्याऽध्वर्यवश्च ह्यभिषवस्थले ततः ॥२१॥
ग्राव्णः प्राच्यामध्वर्युश्च प्रत्यङमुऽख उपाविशत् ।
दक्षिणे प्रतिप्रस्थाता चोदङमुख उपाविशत् ॥२२॥
पश्चिमे प्राङ्मुखो होता चोत्तरे दक्षिणामुखः ।
उन्नेता निषसादापि शिलायां न्यस्य सोमकम् ॥२३॥
सिक्त्वा वसतीवर्यद्भिः पिष्ट्वाऽभिषुणुयुस्तथा ।
दक्षस्तेनैवमेव वारत्रयं विधाय च ॥२४॥
पिष्टान् सोमलताखण्डान् निक्षिप्याऽधावनीयके ।
मृत्पात्रे च प्रपीड्यैव रसं निष्कास्य तं रसम् ॥२५॥
पात्रान्तरे गृहीत्वैव तुषान् पार्श्वे समक्षिपन् ।
अथाऽजलोमजां नाभिं प्रादेशमात्रनिर्मिताम् ॥२६॥
पवित्रवस्त्रखण्डे तामालम्ब्य द्रोणपात्रके ।
वितत्याऽधारयँस्तां चोद्गातारश्च ततः परम् ॥२७॥
उन्नेताऽऽधवनीयादुदचनेन च सोमकम् ।
रसं धृत्वाऽऽनिनयच्च होतृचमसे एव तम् ॥२८॥
यथा पवित्रवस्त्रांशे पतेद् रसस्तथाऽधरेत् ।
ततः स्रवन्त्या धाराया अन्तर्याम्याख्यपात्रके ॥२९॥
अन्तर्यामग्रहं न्यस्याऽध्वर्युर्जुहाव शेषकम् ।
सशेषमेवाऽऽग्रयणस्थाल्यां सम्पातमाप्य च ॥३०॥
सशेषं च ग्रहं खरेऽसादयच्च ततः परम् ।
इन्द्राख्यदेवतायै तं होमं ददौ गुरुः स्वयम् ॥३१॥
अथैन्द्रवायवाद्याँश्च ग्रहान् चक्रुस्ततः परम् ।
ऐन्द्रवायवं संगृहीत्वा धारातश्च ततो गुरुः ॥३२॥
पवित्रदशया बहिर्मृष्ट्वा खरेऽप्यसादयत् ।
एवं मैत्रावरुणं च, शुक्रं च, मन्थिनं रसम् ॥३३॥
आग्रयणं, तथाऽऽग्नेयम्, ऐन्द्रं सौर्यं समुक्थ्यकम् ।
ध्रुवं चेति क्रमाद् गृह्ये खरेऽसादयदेव सः ॥३४॥
ध्रुवग्रहग्रहणोर्ध्व धाराविराममाचरत् ।
हविर्धानमण्डपाच्च पञ्चर्त्विजो बहिर्ययुः ॥३५॥
प्रासर्पन् समन्वारब्धा बहिष्पवमानकृते ।
अग्रेऽध्वर्युस्ततः कच्छं धृत्वा प्रस्तोताऽन्वसरत् ॥३६॥
कच्छं धृत्वा प्रतिहर्ता तत उद्गाताऽन्वसरत् ।
ततो ब्रह्मा यजमानसतः कच्छेन चाऽसरत् ॥३७॥
चात्वालदेशं गत्वोपविश्य कच्छमवाऽसृजन् ।
उद्गाता सम्प्रस्तोता च प्रतिहर्ता त्रयस्त्विमे ॥३८॥
अस्रुवँस्ते बहिष्पवमानस्तोत्रेण वै तदा ।
तेन सम्पावितौ चाश्विनौ ग्रहौ मखयोग्यकौ ॥३९॥
कृत्वाऽऽग्नीध्रेण धिष्ण्येषु प्रज्वालितेषु चाश्विनम् ।
अध्वर्युर्ग्रहमासाद्य द्रोणघटात् खरेऽन्यसन् ॥४०॥
ततः कृत्वा सवनीयफलोपाकरणादिकम् ।
वपायागान्तकं प्रातःसवनाय ततः परम् ॥४१॥
अध्वर्युब्रह्मयजमानसदस्याः सदःस्थलम् ।
प्रविश्य ग्रहचमचादिकपात्राणि वै तथा ॥४२॥
धृत्वा द्रव्याणि च ब्रह्मा यजमानस्ततः परम् ।
तैस्तैर्मन्त्रैरुपस्थाय सर्वपात्राणि वै ततः ॥४३॥
उत्तरेण हविर्धानं गत्वा च पूर्वया तथा ।
द्वारा सदः प्रविश्यैव स्वस्वस्थाने उपाविशन् ॥४४॥
ततश्चक्रुः सवनीयहविषामनुष्ठानकम् ।
धाराग्रहप्रचारं च चक्रुर्यथोचितं तथा ॥४५॥
स्विष्टकृदन्तकर्माऽनुष्ठायाऽध्वर्युः समाचरत्॥
ऐन्द्रवायवमैत्रावरुणाश्विनान् हि त्रिग्राहान् ॥४६॥
अध्वर्युणैन्द्रवायवे गृहीते च ततः परम् ।
प्रतिप्रस्थाता चादित्यपात्रे द्रोणघटात् खलु ॥४७॥
ऐन्द्रवायवनिग्राह्यं धृत्वा साकं जुहाव ह ।
परस्पररससेकोत्तरमादित्यपात्रके ॥४८॥
समानयच्च सम्पातं होत्रे पात्रं गुरुर्ददौ ।
एवमुत्तरग्रहयोरनुष्ठानं च पातनम् ॥४९॥
उन्नेता च ततश्चाच्छावाकचमसमेव च ।
वर्जयित्वा तत्र नवचमसानप्यपूरयत् ॥५०॥
होतुश्च ब्रह्मणश्चाप्युद्रातुर्यजयितुस्तथा ।
ब्राह्मण्याच्छंसिनो मैत्रावरुणस्य तथा च वै ॥५१॥
पोतुर्नेष्टुस्तथा चाग्नीध्रस्य ते चमसा नव ।
परिप्लवया कलशादास्राव्य सोमकं रसम् ॥५२॥
पूतभृत्कलशात् सोममादाय चमसाँस्ततः ।
प्रपूर्य द्रोणकलशान्न्यस्याऽथ चमसेषु च ॥५३॥
अस्रावयत् प्रथमं स्रावणं चोपस्तरात्मकम् ।
द्वितीयं स्रावणं चाभिधारणस्थानकं मतम् ॥५४॥
एवं सर्वोन्नयनं कर्तव्यं प्रपूरणे खलु ।
ततोऽध्वर्युः शुक्रपात्रं गृहीत्वा सोमसंयुतम् ॥५५॥
मन्थिपात्रं प्रतिप्रस्थाता गृहीत्वा ससोमकम् ।
हविर्धानमण्डपस्य पूर्वद्वारि सुसन्मुखौ ॥५६॥
तिष्ठन्तौ स्वं गृहं वाऽरत्निं सन्धाय परस्परम् ।
मन्त्रकृत्वश्चाहवनीयस्य पुरोऽनुगम्य च ॥५७॥
पश्चमुखौ ग्रहहोमार्थं सज्जा सम्बभूवतुः ।
तदा नवचमसाध्वर्यवः सचमसाः खलु ॥५८॥
आवहनीयदेशं च गत्वा पूर्वाननास्तदा ।
होमार्थमुद्यताश्चासन् चक्रुश्चाश्रवणं तथा ॥५९॥
चक्रुः प्रत्याश्रवणादि ददौ प्रैष ततो गुरुः ।
होत्रा कृते वषट्कारेऽनुवषट्कारके कृते ॥६०॥
द्विर्हुत्वा चमसश्चाध्वर्युणा च प्रेषिता सदः ।
प्रतिभक्षार्थं चमसानाहरत् होतृकादयः ॥६१॥
मैत्रावरुणाद्याध्वर्यवश्चमसान् प्रपूर्य च ।
होमार्थमानयँश्चाप्याहवनीयं प्रति द्रुतम् ॥६२॥
अध्वर्युप्रतिप्रस्थातारौ च होमं प्रचक्रतुः ।
इन्द्रदेवतायै स्वाहाऽग्नये स्विष्टकृते स्वाहा ॥६३॥
प्रतिप्रस्थाता संस्रावहोममंगारकेऽकरोत् ।
रुद्राय स्वाहेति ततोऽध्वर्युश्चमसमाप्य च ॥६४॥
जुहाव मित्रवरुणाभ्यां स्वाहेति क्रमादपि ।
सर्वेऽध्वर्यवो जुहुवुः स्वं स्वं चमसमेव ह ॥६५॥
इन्द्राय मरुते त्वष्ट्रे चाग्नये स्वाहा नमम ।
ततश्चमसप्रसादं भक्षयामासुरेव ते ॥६६॥
अच्छावाकोऽपि चमसं भक्षयामास वै ततः ।
ऋतुग्रहप्रचारं चाऽकुरुतां द्वौ ततः परम् ॥६७॥
अध्वर्युप्रतिप्रस्थातारौ चक्रतुर्हवान् शुभान् ।
इन्द्राय मधवे स्वाहा मरुत माधवाय च ॥६८॥
त्वष्ट्रे शुक्राय च स्वाहाऽग्नये च शुचये स्वाहा ।
इन्द्राय नभसे स्वाहा मित्रावरुणनभस्येभ्यः स्वाहा ॥६९॥
द्रविणोदसे इषाय स्वाहा द्रविणोदसे ऊर्जाय स्वाहा ।
द्रविणोदसे सहाय स्वाहा द्रविणोदसे सहस्याय स्वाहा ॥७०॥
अश्विनाभ्यां तपसे स्वाहा, गृहपतये तपस्याय स्वाहा ।
ततश्चमसानां वै भक्षणं विधिनाऽभवत् ॥७१॥
ततः शस्त्रप्रपठनं प्रतिगरस्य पाठनम् ।
'अध्वर्यो शोंसावो इम्, शोंसामोद इव' ॥७२॥
'ओं मो३थामोद इव, ओथामोद इव' ।
'ओं ओथामोद इवेत्यादिपाठं समाचरन् ॥७३॥
ततो नाराशंसहोमं जुहावाऽध्वर्युरेव च ।
इन्द्राग्निभ्यामिदं स्वाहा पितृभ्यः स्वाहा नमः ॥७४॥
नाराशंसं विधायैवं प्रउगशस्त्रमुक्तवान् ।
विश्वेदेवताभ्यश्च स्वाहेति हवनं ददौ ॥७५॥
चमसाँश्च ततोऽभक्षयन् वै निरवशेषतः ।
उक्थ्यग्रहप्रचारं च होमं च सर्वभक्षणम् ॥७६॥
प्रक्षालनं खरे सादनं चेति सर्वमाचरत् ।
मित्रावरुणाभ्यां च स्वाहेन्द्राग्निभ्यां तथा स्वाहा ॥७७॥
ऋत्विजश्च विधायैवं सादनान्तं विधिं ततः ।
प्रातः सवनं निर्वर्त्य बहिर्ययुश्च मण्डपात् ॥७८॥
मध्याह्ने च प्रचक्रुश्च माध्यन्दिनं सवं च ते ।
प्रातर्वत् सर्वमाकृत्वो धारास्रावं व्यधुश्च ते ॥७९॥
शुक्राय मन्थिने चाग्रयणाय स्वाहा नमम ।
पवमानं जगुश्चापि दधियागं व्यधुस्ततः ॥८०॥
भक्षणं सादने चक्रुरुच्चावचं च कर्म च ।
दक्षिणादानमेवापि यजमानश्चकार ह ॥८१॥
गावोऽश्वाश्चाश्वतराश्च गर्दभाऽजाऽवयस्तथा ।
तिलमाषव्रीहियवा गजवासोहिरण्यकम् ॥८२॥
सर्वस्वमेव राज्यादि कन्यागृहाणि वाटिकाः ।
दक्षिणायां प्रदत्तानि राज्ञा तदा मखोत्सवे ॥८३॥
मरुत्वतीयग्रहप्रचारस्ततोऽभवत् खलु ।
वैश्वदेवपञ्चहोमानध्वर्युः प्रचकार ह ॥८४॥
अध्वर्युः प्रतिप्रस्थाता हुत्वा चक्रतुर्भक्षणम् ।
होमं कम्पं प्रचक्रुश्च इन्द्राय मरुत्वते स्वाहा ॥८५॥
ऊर्वोभ्यः पितृभ्यः स्वाहा माहेन्द्राय नमः स्वाहा ।
अग्नये चेन्द्राय स्वाहा रक्ताय च स्वाहा नमम ॥८६॥
उक्थ्यविग्रहानुष्ठानं पञ्चस्तोत्रप्रपाठनम् ।
सवसमाप्तिहोमं च कृत्वा बहिर्ययुस्ततः ॥८७॥
तृतीयं सवनं चापि चक्रुर्होमं च भक्षणम् ।
आदित्येभ्यः स्वाहा नमः पयो दधीदं सोमकम् ॥८८॥
ततश्चार्भवपवमानाय प्रसर्पणं व्यधुः ।
धिष्ण्यान् प्रज्वालयामासुः कृत्वेडाभक्षणान्तकम् ॥८९॥
सवनीयहवींषि सम्प्रचर्याध्वर्युरेव तु ।
सकृद्धोमं प्रचकार होमं चक्रे तदुत्तरम् ॥९०॥
चमसिनः स्वस्वपितॄनुद्दिश्य तानतिष्ठिपन् ।
ततो होमं सवित्रे च विश्वदेवेभ्य आददौ ॥९१॥
मक्षणं च ततः सौम्यचरुयागो ह्यवर्तत ।
अनवस्रावितस्तण्डुलपक्वौदनकं चरुम् ॥९२॥
जुहाव चाग्नये पत्नीवते स्वाहेति वै गुरुः ।
एकविंशतिकस्तोमं स्तोत्रं चागायत प्रखम् ॥९३॥
चमसान् जुहुवुश्चापि वैश्वानराग्नये स्वाहा ।
मरुद्भ्यः स्वाहेति नमम भक्षणं च ततः परम् ॥९४॥
ततो हारियोजनात्मग्रहप्रचारकं व्यधुः ।
उन्नेता च सोमरसं यवधानादिमिश्रितम् ॥९५॥
जुहावाऽन्येऽपजिघ्रँश्च पत्नीसंजायसं तथा ।
यजुहोमादिकं प्रायश्चित्तहोमान् चकार ह ॥९६॥
यजमानस्य च ततो विष्णुक्रमणकादिकम् ।
एवं समाप्य तृतीयसवने भोजनानि च ॥९७॥
व्यधुः सर्वे महीमाना जनाश्च तीर्थवासिनः ।
स्थायिनश्च ततश्चावभृथेष्टिः समजायत ॥९८॥
सपत्नीको यजमानः ऋत्विजश्चापरे जनाः ।
राजासन्द्यां सोमपात्राण्यादायाऽऽगृह्य जीषकम् ॥९९॥
ययुर्जलसमीपं च गायन्तः सामगीतिकाः ।
जलेऽग्नीवरुणाभ्यां च आज्यभागौ ददुस्तदा ॥१००॥
चतुःप्रयाजाँश्चक्रुश्च द्वावनूयाजकौ तथा ।
वरुणाय पुरोडाशं ददामि वै जले नमः ॥१०१॥
ऋजीषादीनि च जले क्षिप्त्वा पत्नीनृपस्तथा ।
सस्नतुश्चापरे चापि नेमुश्चादित्यमित्यपि ॥१०२॥
शालामुखे समागत्योदयनीयेष्टिमाचरन् ।
तत आनुबन्ध्यफलयागश्चामिक्षिकायजिः ॥१०३॥
मित्रावरुणाभ्यां स्वाहा दत्वा बलिं तथोचितम् ।
यजमानः केशश्मश्रुनखलोमानि वै ततः ॥१०४॥
वापयित्वा च स्नात्वा चेष्टिकल्पेन च पञ्च च ।
धाताऽनुमतिराकासिनीवालीकुहूरित्यपि ॥१०५॥
व्याज्येनेष्ट्वा देवतास्ता उदवसानीयेष्टिकाम् ।
अष्टाकपालपुरोडाशद्रव्यां तथाऽकरोत् ॥१०६॥
विष्णवे स्वाहेति दत्वाऽग्निहोत्रं निशि चाचरत् ।
ततश्चक्रुः परिहारं सोमयागस्य चर्षयः ॥१०७॥
सोमपानं प्रचकार राजा पत्नीयुतस्तदा ।
भोजनानि प्रचक्रुश्च सर्वे वै मखिनोऽध्वरे ॥१०८॥
एवं वै राधिके सोमयागो द्वादशिकादिने ।
सम्पूर्णश्चाऽभवद् रात्रौ यज्ञनारायणः स्वयम् ॥१०९॥
दर्शनं प्रददौ राज्ञे वरदानं ददौ तथा ।
स्वस्ति तेऽस्तु सदा राजन् चान्ते मोक्षपदं व्रज ॥११०॥
स्थापयाऽत्र च मां सौधे मूर्तिरूपं नरायणम् ।
स राजा राधिके तूर्ण मन्दिरं समकारयत् ॥१११॥
यज्ञनारायणस्तत्र याज्ञीपत्नीसमन्वितः ।
स्थापितस्तेन विधिना तीर्थं यज्ञाख्यमेव तत् ॥११२॥
सोमतीर्थं तथा चाऽभूत् स्नानाद् यज्ञफलप्रदम् ।
अश्वपट्टसरस्येवेशानकोणे हि पावनम् ॥११३॥
नृपोऽश्वपाटलः श्रीमद्बालकृष्णस्य हस्ततः ।
कण्ठीं च वैष्णवीं प्राप मन्त्रं जग्राह लोमशात् ॥११४॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
ततः प्रपूज्य देवेशं दत्वा दानानि सर्वशः ॥११५॥
ययौ नैजं प्रराष्ट्रं च राधिके सुखतो नृपः ।
ऋषयोऽन्ये देवताद्या ययुर्नैजान् प्रदेशकान् ॥११६॥
तत्र दानाज्जलपानादवगाहाच्च भोजनात् ।
पूजनादपि स्वर्गं स्यादन्तेऽक्षरपदं व्रजेत् ॥११७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सोमयागे पञ्चमदिने मार्गकृष्णद्वादश्यां प्रातःसवने माध्यन्दिनसवने तदुत्तरसवनं पूर्णाहुतिरवभृथेष्टिः
परिहारश्चेत्यादिनिरूपणनामाऽष्टाचत्वारिंशद-धिकद्विशततमोऽध्यायः ॥२४८॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP