संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २६६

त्रेतायुगसन्तानः - अध्यायः २६६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
रासेश्वरि प्रिये पश्चाद् राजा तीर्थाग्र्यमाययौ ।
पप्रच्छ लोमशं तत्र माहात्म्यं नाम चेत्यपि ॥१॥
अश्वपाटल उवाच-
इदं तीर्थं कदा चात्र ख्यातिं प्राप कियद्बलम् ।
केन कृतं च तत्सर्वं ब्रूहि संक्षेपतो गुरो ॥२॥
श्रीलोमश उवाच-
राजन् पुरा समारंभे सृष्टेर्व्यासो हरिः स्वयम् ।
श्वेतव्यासस्वरूपोऽत्राऽऽजगाम तीर्थवाञ्च्छया ॥३॥
अत्र तीर्थं परं कृत्वा स्नात्वा प्रपूज्य माधवम् ।
अनादिश्रीकृष्णनारायणं नत्वा ततःपरम् ॥४॥
वस्त्रापथं सोमनाथं मूलद्वारावतीं ययौ ।
गोपनाथं स्तंभतीर्थं कृत्वा च पुष्करं तथा ॥५॥
कुरुक्षेत्रं ययौ यत्र निजावासो हि वर्तते ।
तदा पृथ्व्यां बहवोऽस्य शिष्या वेदादिवेदिनः ॥६॥
अभवन् लोकमोक्षार्थं ज्ञानदानादिकारिणः ।
अत्र पूर्वे योजनाद्वै दूरे चाऽर्कपुरेऽभवत् ॥७॥
श्वेतव्यासस्य शिष्यो वै विप्रो धर्मसुमन्तुकः ।
व्यासतुल्यो महर्षिः सः सरोवरतटे सदा ॥८॥
वटवृक्षे निजावासं कृत्वा प्रजाजनान् बहून् ।
श्रेयोमार्गं ज्ञानरूपं भक्तिरूपं वृषान्वितम् ॥९॥
समादिशत्यजस्रं च ब्राह्मणैः सेवितोऽभवत् ।
पार्श्वग्रामजनास्तत्र कथां श्रोतुं समुत्सुकाः ॥१०॥
समायान्ति सदा सायं प्रयान्ति पुनरेव च ।
हरिं विना न कल्याणं भक्तिं विना न मोक्षणम् ॥११॥
ज्ञानं विना न तमसो विलयो मायिके गृहे ।
साधुं विना न साक्षाद्वै भगवत्प्राप्तिरेव ह ॥१२॥
अनादिश्रीकृष्णनारायणश्चान्तरगो हि नः ।
हरिं भजत कृष्णं तं श्वेतव्यासस्वरूपिणम् ॥१३॥
एवं ददात्युपदेशं संहितां वाचयत्यपि ।
अश्वपट्टसरो नित्यं प्रातः स्नानाय याति च ॥१४॥
कृत्वा तीर्थविधिं चापि नत्वा श्रीपुरुषोत्तमम् ।
ऋषीन् नत्वा सुरान् सम्पूज्य प्रयाति स्वमन्दिरम् ॥१५॥
एवं वै वर्तमानस्य विप्रस्य वेदवेदिनः ।
सर्पदंशोऽभवन्मार्गे निर्जने तीर्थकारिणः ॥१६॥
तूर्णं योगपरो भूत्वा निषद्य च समाधिना ।
प्राणानायम्य मार्गस्य तीरे यान्तं फणाधरम् ॥१७॥
आह्वयामास विप्रः स प्रसह्य वशगं व्यधात् ।
फणाधरोऽपि बलवान् त्रासं प्राप्य ततः स्थलात् ॥१८॥
विद्रवितुं यततेऽपि न शशाक प्रधावितुम् ।
विप्राधीनस्तदा भूत्वा सृत्वा सृत्वा द्विजान्तिकम् ॥१९॥
आगत्य निपपातैव रक्ष रक्षेति संवदन् ।
दंशाख्यश्चापराद्धो वै मया तेऽत्र कृतो द्विज ॥२०॥
मा मां मारय विप्रेन्द्र प्राणाः प्रियाश्च ते च मे ।
क्षमां याचे तामसोऽहं स्वभावो मम तादृशः ॥२१॥
सात्त्विकस्त्वं स्वभावस्ते दयाधर्म इति द्विज ।
तिर्यग्योनौ व्रजतो मे कदा मोक्षो भवेदिति ॥२२॥
तव योगेन मे मोक्षो भवत्यत्राऽपराधिनः ।
मम मोक्षो यथा स्याद्वै तथा विप्र विधेहि च ॥२३॥
यद्वा ज्ञानं प्रदायैव पावनं मां विधेहि च ।
शत्रुबुद्ध्या तु मां माऽत्र मारयेति प्रप्रार्थये ॥२४॥
श्रुत्वा सर्पस्य वचनं धर्मसुमन्तुकस्तदा ।
भूत्वा दयापरस्तस्मै पप्रच्छ जन्मकारणम् ॥२५॥
कस्त्वं कस्मात् सर्पयोनिं प्राप्तोऽसि केन कर्मणा ।
वक्तुं जानासि सर्वं चेदात्मश्रेयः करोषि न ॥२६॥
किमत्र कारणं सर्प ज्ञाता सन् भ्राम्यसि कुतः ।
ज्ञाता मां संदशितवान् को लाभस्तेऽत्र संमतः ॥२७॥
सर्प उवाच-
शृणु विप्र कथयामि सर्वं पश्चाद् यथातथम् ।
लाभवार्तां कथयामि प्रश्नोऽयं नोपयुज्यते ॥२८॥
स्रष्ट्रा सृष्टिः कृता त्रेधा सत्त्वरजस्तमोमयी ।
सात्त्विकाः शममिच्छन्ति राजसा रागमित्यपि ॥२९॥
तामसाः क्लेशमिच्छन्ति स्वभावोऽयं दुरत्ययः ।
वह्निः प्रज्वालयत्येव को लाभो दहनेऽस्य वै ॥३०॥
जलं तृषां च जन्तूनां निवारयति सर्वदा ।
वृष्टिर्वर्षति को लाभो जलस्याऽत्र वदस्व मे ॥३१॥
वायुर्वाति क्वचिद् रूक्षः क्रूरो मृदुश्च वेगवान् ।
को लाभोऽस्य भवेत् तत्र स्वभावस्तादृशो यतः ॥३२॥
सात्त्विकः शान्तिमभ्येति जलं शैत्यं वहत्यपि ।
चन्द्रः शीतः शिला शीता को लाभस्तत्र तत्कृते ॥३३॥
सागरो लवणात्मा च दुग्धं मिष्टं जलं तथा ।
तिक्तो निम्बः कटुः शूण्ठी को लाभस्तत्र तस्य वै ॥३४॥
रक्तं जपायाः कुसुमं रक्तं रक्तं च कुंकुमम् ।
राजसा देववर्गाश्च को लाभो राजसस्य वै ॥३५॥
विद्युत्पातस्तथा वज्रपातः कालश्च संक्षयः ।
मृत्युस्तथाऽन्धकारश्च तामसा वै स्वभावतः ॥३६॥
भंगा गंजा धत्तुरश्च तामसास्ते स्वभावजाः ।
वदात्र विद्वन् तेषां वै को लाभस्तामसोद्भवः ॥३७॥
स्वभावे स्वस्य लाभो न दृश्यते वै तमोव्रते ।
यथागुणं प्रवर्तन्ते भूतानि निम्नवारिवत् ॥३८॥
यथास्वभावा प्रवृत्तिर्दन्तानां चर्वणादिवत् ।
नैसर्गं तु भवेत् कर्म शस्त्रपातेन घातवत् ॥३९॥
तथा मया कृतं चेदं मा तत्र क्रोद्धुमर्हसि ।
लाभवार्ता न तेऽप्यस्ति स्नानं विप्रवृषो यथा ॥४०॥
रात्रौ निद्रा भवत्येव दिवसे जागरं तथा ।
स्वभावरचितं त्वेतत् को लाभस्तत्र संभृतः ॥४१॥
बाल्ये क्रीडामतिर्मध्ये कामेऽन्ते विमतिस्तथा ।
के लाभास्तत्र निहताः स्वभावेन प्रवर्तते ॥४२॥
भवन्ति साधवः केचित् केचिच्चौर्यादिकर्मिणः ।
केचिदीश्वरभावाश्च के लाभास्तत्र मे वद ॥४३॥
सर्पो वै तामसश्चाऽहं दंष्ट्रा मे तामसी मता ।
सा च क्षतं करोत्येव दंष्ट्रालाभोऽत्र को मतः ॥४४॥
विषं वह्निस्वभावं वै लालारूपं प्रवाहणम् ।
विद्युत्समं प्रवेशेऽपि व्यापने स्तनयित्नुवत् ॥४५॥
रुधिरे नाडिकाग्रामे वहत्येव जलादिवत् ।
स्वभावोऽयं विषस्यैव को लाभोऽत्र विषस्य वै ॥४६॥
पृथ्व्याद्या ये तु संयुक्ता वियोगाख्यस्वभाविनः ।
नाड्यो ग्रासस्वभावाश्च को लाभो विषसंग्रहे ॥४७॥
वद विप्र प्राणनाशे देहनाशे स्वभावजे ।
मयि नाशे त्वयि नाशे को लाभोऽत्र निजात्मनोः ॥४८॥
देहनाशे नात्मलाभो नश्वरं गत्वरं वपुः ।
गच्छत्येव स्वभावेन मा खेदं कुरु भूसुर ॥४९॥
गत्वरेण तु देहेन लाभो मोक्षो हि देहिनः ।
समर्थस्त्वं कृतकृत्यो मुक्तिं विधेहि मेऽनघ ॥५०॥
मुक्तिलाभः परो लाभस्ते मेऽपि देहिनां तथा ।
मा क्रोधं वह विप्रेन्द्र रोषो वै निरयप्रदः ॥५१॥
मया रोषेण वै प्राप्ता योनिरियं विषोल्बणा ।
निरयाख्या ततो विप्र मा क्रोधं कुरु मां प्रति ॥५२॥
धर्मसुमन्तुरुवाच-
अहो विद्वन् ख्यायसे त्वं सर्पोऽपि मुनिराडिव ।
कोऽसि सर्पत्वरूपस्त्वं मम प्राणहरो वद ॥५ ३॥
मृत्युर्वा च महाकालो यमदूतो यमः स्वयम् ।
मत्प्रारब्ध च वा कर्म वनदेवोऽसि वा वद ॥५४॥
संकर्षणो वा शेषो वा ज्ञानी कस्त्वं नरोऽसि वा ।
प्रेतो वा सत्यसर्पो वा जातिस्मरोऽसि को न्विह ॥५५॥
सर्पभावेऽपि नैसर्गं भाषसे शास्त्रसम्मतम् ।
स्वभावेन प्रयातानां लाभो नास्ति जडात्मनाम् ॥५६॥
लाभः प्राप्तिर्हि संयोगो जडानां किं च तेन वै ।
लाभः प्राप्तिः सुखादेश्च भोगश्चात्मनि वै मतः ॥५७॥
सुखदुःखप्रवेदोऽयं जीवे भवति भोगकः ।
शत्रुनाशे भवेच्छान्तिर्मन्यते मूर्खमायिकः ॥५८॥
अजातशत्रुश्चात्माऽस्ति सुखदुःखपरं गतः ।
नास्य लाभश्च वा हानिर्देहयोगवियोगतः ॥५९॥
फणिन् किन्तु मोक्षहेतुर्मानवं वर्ष्म सम्मतम् ।
असम्पाद्य च मोक्षं वा साधनं श्रेयसा प्रदम् ॥६०॥
मध्ये मृत्युर्भवेच्चेत् सा मोक्षहानिर्भवेदिति ।
अलाभः स भवेदत्र तत्र निमित्तमाप्तवान् ॥६१॥
सर्प त्वं ब्रह्महत्याया भागवानत्र दोषवान् ।
अमोक्षगो भवस्यत्र पापवान् नहि लाभवान् ॥६२॥
अहं चेत् त्वां मारयामि मेऽपि लाभो न विद्यते ।
देहनाशे न वै लाभो मोक्षहाना च नापि सः ॥६३॥
अलाभौ त्वावयोस्तुल्यौ वद कस्त्वं प्रवित्तिमान् ।
लाभो वाऽत्र त्वया दृष्टः कीदृशो वद मे फणिन् ॥६४॥
सर्प उवाच-
अहो विप्र स्वभावेन कोमलोऽसि दयापरः ।
ज्ञानेन च बृहस्पतिसमोऽसि व्यासदेववत् ॥६५॥
रागद्वेषरहितोऽसि लाभाऽलाभविवेचने ।
वदामि सूत्ररूपेण लाभाऽलाभौ शृणु त्विह ॥६६॥
लाभः समयसत्कारो हानिः सा समयच्युतिः ।
प्राप्ते वै समये योग्ये सत्कारेण युनक्ति न ॥६७॥
गतः स समयः पश्चान्नैवाऽऽयातिगतो गतः ।
ममाऽऽसीत् समयश्चात्र मानुषे क्षत्रवर्ष्मणि ॥६८॥
अर्कग्रामे तव ग्रामे स्मृद्धे स्मृद्धिसमन्विते ।
मम पुत्रा बान्धवाश्च भृत्या दासादयस्तथा ।
अश्वा गृहाणि क्षेत्राणि विद्यन्ते तव पत्तने ॥६९॥
मया विसृष्टास्ते सर्वे मां न जानन्ति मायिकाः ।
अहं जातिस्मरः सर्वान् जानामि त्वां तथा परान् ।
ग्रामान् सर्वलोकाँश्च त्वं न जानासि मामिह ॥७०॥
शृणु विप्र कथयामि तव ग्रामनृपो हि यः ।
नाम्ना शार्दूलचन्द्रश्च सोऽहमासं जनाधिपः ॥७१॥
नास्तिको निन्दकश्चापि विप्राऽवमानकारकः ।
धर्मकर्मविहीनश्च हेतुवादे रतः सदा ॥७२॥
त्वं च विप्र मम ग्रामे कथां कुर्वन् जनान् दिशन् ।
मुहुर्मां च समागत्य धर्मार्थं समुपादिशः ॥७३॥
दानार्थं हवनार्थं परोपकारार्थमित्यपि ।
मया वाक्यं तवोक्तं वै नाङ्गीकृतं क्वचित्तदा ॥७४॥
तिरस्कृतो भवाँस्तत्र निन्दितश्च मया बहु ।
अथैकदा त्वं यज्ञार्थं याञ्चां वै कृतवान् शुभाम् ॥७५॥
सुवर्णस्य धनादेश्च मया ज्ञात्वा तु वञ्चकः ।
रुषा निष्कासितो ग्रामाद् बहिस्त्वं वटमाश्रितः ॥७६॥
शार्दूलोऽयं मां शशाप मृत्युमाप्नोतु निन्दकः ।
तेनाऽहं मरणं प्राप्तः सक्रोधस्त्वां प्रतीति च ॥७७॥
सर्पभावं चेह तिर्यग्योनिं प्राप्तोऽस्मि स नृपः ।
दुःखं पश्यामि च जातिं स्मरामि सर्वबान्धवान् ॥७८॥
दर्शयाम्यपि स्वं त्वेते नैव जानन्ति मामिमम् ।
ब्राह्मणा नावमन्तव्या ब्रह्मभक्ताः कदाचन ॥७९॥
विद्वांसो नावमन्तव्या ज्ञानाग्निमूर्तयः क्वचित् ।
अवमन्तुर्भवेन्नाशो नाशयितुर्विनाशनम् ॥८०॥
बलिष्ठेऽग्नौ पतद्वारि स्वयमेव प्रदह्यति ।
अहं प्रदग्धः शापेन सर्पयोनिं गतोऽस्म्यपि ॥८१॥
वैरबुद्धिं स्मराम्येव हन्तुं त्वां मार्गयामि च ।
अद्य त्वं निर्जने प्राप्तो मया दंष्टो विरोधतः ॥८२॥
वैरनिर्यापनार्थं वै मृत्युस्तेऽस्ति ध्रुवो द्विज ।
स्वस्वकर्मफलं भुंक्ते देहि क्वापि च वर्ष्मणि ॥८३॥
क्रोधेन शापदानेन राजहत्याकृतेन च ।
प्रायश्चित्तविहीनस्य तवाऽऽयुष्यमिति गतम् ॥८४॥
मम राज्ञ्याश्च दुःखेन तवाऽऽयुष्यं क्षयं गतम् ।
सतीनां तु विनिःश्वासैर्ज्वलन्ति ब्राह्मणा अपि ॥८५॥
तत्तथैव हि विप्रेन्द्र तवाऽऽयुष्यं क्षयं गतम् ।
येषामायुष्यविगमस्ते न जीवन्ति वै क्षणम् ॥८६॥
कालदूताः समायान्ति प्रेरितास्तूर्णमेव ह ।
नाशयन्ति गतायुष्यं दूता निमित्तमात्रकाः ॥८७॥
सर्पाश्च वृश्चिकाश्चापि विषश्वानो विषौषधम् ।
भूतप्रेतपिशाचाद्या यमदूता ग्रहादयः ॥८८॥
वह्निर्जलं ज्वराद्याश्च शत्रवोऽपि निमित्तकम् ।
हन्यते स निमित्तेन हन्ताऽस्याऽस्ति परोऽपरः ॥८९॥
अविज्ञाय न्विदं तत्त्वं द्विषन्ति वृश्चिकादिकान् ।
तस्माद् विप्र मृतिस्तेऽत्र ध्रुवा मेऽपि मृतिर्ध्रुवा ॥९०॥
मुक्तये त्वं समर्थोऽसि ममाऽपि च तवाऽपि च ।
नरदेहः कर्मभूमिस्तेन सर्वमवाप्यते ॥९१॥
प्राणान्तेऽपि कृतं श्रेष्ठं रक्षत्येव प्रकारिणम् ।
मरणं ध्रुवमस्त्येव कुरु यन्मोक्षणं हि नौ ॥९२॥
जीवाऽभयप्रदानं वै सर्वमेधाधिकं फलम् ।
ददात्येव ततो विप्र मम मोक्षं विधेहि वै ॥९३॥
विप्रश्चोक्तस्ततस्तूर्णं सर्पाय कलशाज्जलम् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९४॥
इतिमन्त्रेण सम्मन्त्र्य ददौ पानार्थमेव च ।
तद्देहे प्रोक्षितवाँश्च सर्पो देहं विहाय च ॥९५॥
तूर्णं देवस्वरूपो वै भूत्वा स्वर्गं ययौ तदा ।
ब्राह्मणश्च प्रसस्मार विषदग्धो हरिं प्रभुम् ॥९६॥
देहं तत्याज तत्रैव मार्गाटव्यां हि निर्जने ।
आत्माऽस्य च समप्राप्तश्चाश्वपट्टसरोवरम् ॥९७॥
श्रीकृष्णचरणे तत्र तस्थावन्ते यथामति ।
अथ कर्षुकलोकेन विप्रो मृतो विलोकितः ॥९८॥
कर्षुकस्तु गतो ग्रामं विप्रेभ्यो वृत्तमाह तत् ।
द्विजा नीत्वा शवं दग्धुं त्वश्वपट्टसरोवरम् ॥९९॥
आययू रुरुदुः सर्वे बान्धवाः सरसस्तटे ।
शवं निधाय वै सर्वे गुणान् जगुर्द्विजस्य ह ॥१००॥
श्वेतव्याससमश्चायं धर्मकर्मपरायणः ।
मोक्षदश्चापि लोकानां दुर्लभो विप्र ईदृशः ॥१०१॥
श्वेतव्यासस्य शिष्योऽयं समाधिस्थितिपारगः ।
सर्पदंशनिमित्तेन मृतश्चाश्चर्यमेव तत् ॥१०२॥
आयुष्यं छिन्नतां प्राप्तं सन्धीयते न केनचित् ।
विना वै परमात्मानं विना गुरुं च योगिनम् ॥१०३॥
इत्येवं ते वदन्तश्च श्वेतव्यासं प्रसस्मरुः ।
सस्मरुः श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥१०४॥
अथ राजंस्तस्य भार्या विप्राणी दुःखदुःखिता ।
सतीभावेच्छया तत्र चिताभ्याशे समाययौ ॥१०५॥
श्वेतव्यासं प्रसस्मार तथा कृष्णनरायणम् ।
शवं प्रपूज्य विधिना चितायां सा समार्पयत् ॥१०६॥
वह्निं प्रज्वाल्य पादाग्राद् यावद् दग्धुं समीहते ।
तावत्तत्र भक्तिवशो भगवान् कृष्णवल्लभः ॥१०७॥
अनादिश्रीकृष्णनारायणः श्वेतस्वरूपवान् ।
श्वेतव्यासात्मकस्तत्राऽऽययौ धर्मसुमन्तुना ॥१०८॥
सहैव स चितापार्श्वे गत्वा सतीं जगाद ह ।
एष ते पतिरास्ते वै गृहाण मा ह्यनु ज्वल ॥१०९॥
तावत् समुत्थितो विप्रो जीवन् श्वसन् हसन् क्षणात् ।
सती मग्नाऽभवच्चापि प्रसेदुर्ब्राह्मणा अपि ॥११०॥
तीर्थं कृत्वा ततः सर्वे ययुश्चार्कपुरं प्रति ।
श्वेतव्यासाख्यतीर्थं तत् सतीतीर्थं तथा नृप ॥१११॥
जीवतीर्थमिदं चास्ते स्नाहि तीर्थविधिं चर ।
इत्यादिष्टो नृपश्चाश्वपाटलस्तत्र राधिके ॥११२॥
श्वेतव्यासस्य वै पूजां चकार स्नानमाचरत् ।
ददौ दानानि बहूनि ततो ययौ स्थलान्तरम् ॥११३॥
लोमशेन समं तीरे तीर्थान्तरे स्थिरोऽभवत् ।
सस्मार श्रीहरिं चापि नेमे तीर्थं च मन्दिरम् ॥११४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽर्कपुरीनृपस्य धर्मसुमन्तुऋषिशापेन सर्पता, विप्रस्य सर्पदंशः, सर्पमोक्षः, अश्वपट्टसरोवरे श्रीकृष्णनारायणेन विप्रपत्न्याः सत्याः प्रार्थनया विप्रो जीवितः, श्वेतव्यासतीर्थं सतीतीर्थं चेत्यादिनिरूपणनामा षट्षष्ट्यधिकद्विशततमोऽध्यायः ॥२६६॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP