संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १७०

त्रेतायुगसन्तानः - अध्यायः १७०

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिकेऽथ तथा षष्ठ्यां सप्तम्यामष्टमीतिथौ ।
नवम्यां च दशम्यां च तर्पिता हरिणा मखे ॥१॥
एकादश्यां तर्पिताश्च यावद्भिर्विधिभिस्तथा ।
सर्वे वै देहिनोऽदेहाः स्थूलसूक्ष्मा हि नामिनः ॥२॥
जडाश्चेतनजाताश्च द्रव्याख्याश्च गुणाभिधाः ।
कर्माभिधाश्च तद्देवास्तत्तत्तत्त्वेश्वरादयः ॥३॥
सर्वलोकनिवासाश्च सर्वे कुटुम्बिनस्तथा ।
स्थावरा जंगमा नार्यो नराः षण्ढाश्च तर्पिताः ॥४॥
अभिधेयं न वै किञ्चिद् भोजने ह्यवशिष्यते ।
एवं सर्वेष्टियज्ञोऽयं वैष्णवो हरिणा कृतः ॥५॥
सप्ताहे नित्यमायान्ति लोकलोकनिवासिनः ।
कृत्वा च दर्शनं यान्ति कोट्यर्बुदा नराः स्त्रियः ॥६॥
गगने तु विमानानां सांकुल्यं न निवर्तते ।
यावन्तो गगने सन्ति सुराः स्वर्गादिवासिनः ॥७॥
तावन्तो मानवा भूमौ तावन्तः पर्वतादिषु ।
तावन्त एव वृक्षेषु तावन्तश्च नदीषु च ॥८॥
नौकासु तटभूम्यादौ तावन्तः सन्ति मानवाः ।
मण्डपेषु च शालासु सौधेषु गह्वरेष्वपि ॥९॥
कुंजेषु च शकट्यदौ तावन्तो वाहनेष्वपि ।
मानवा मानवा यत्र तत्र लोकयन्त एव तु ॥१०॥
धामधामनिवासाश्च लोक्यन्ते तत्र तत्र च ।
लोकालोकनिवासाश्च दृश्यन्ते तत्र तत्र च ॥११॥
तलस्तरनिवासाश्च लोक्यन्ते सर्वतस्तदा ।
सप्ताहे चाध्वरे नित्याऽऽगमवृद्धिर्विलोक्यते ॥१२॥
स्वर्णरूप्यकहीराणां रत्नानां भूषणात्मनाम् ।
मणीनां सर्वकान्तानां कल्पानां शृंगिणोऽभवन् ॥१३॥
उपदापर्वता जाता यानवाहनकोटयः ।
वस्त्रवैभवभक्ष्याणां भोगानां शैलपंक्तयः ॥१४॥
मौक्तिकानां शिखराणि मिष्टान्नानां तु पर्वताः ।
भोग्योपकरणानां तु शैलगंजास्तदाऽभवन् ॥१५॥
पेयानां सरितश्चासन् गव्यानां वार्धयोऽभवन् ।
शेवधयश्च द्रव्याणां चासन् मखे समर्पिताः ॥१६॥
कुबेरो वसवश्चेन्द्रो मेरुर्बृहस्पतिस्तथा ।
विष्णुर्वीक्ष्याऽध्वरर्द्धीश्च बभूवुर्लज्जया नताः ॥१७॥
अन्नपूर्णा महिमानं विलोक्य पारमेश्वरम् ।
लक्ष्मीः श्रीश्चात्र नम्रा बभूवतुर्लज्जयाऽध्वरे ॥१८॥
अप्रमेयमतर्क्यं चाऽनुपस्थितमचिन्त्यकम् ।
यद्यदिच्छति तत्त्वज्ञस्तत्तदैवोपतिष्ठति ॥१९॥
प्रतापोऽयं हरेस्तत्र बालकृष्णस्य राधिके! ।
अन्धकुष्ठिदरिद्राणां व्यंगानां दुःखिनामपि ॥२०॥
आन्ध्यं कुष्ठश्च दारिद्र्यं व्यंगता विलयं गता ।
अनिष्टं नाशमापन्नं तदेष्टं प्राप्तमेव तु ॥२१॥
स्वर्गवत् सर्वमेवाऽभूत् मखेऽत्र पारमेश्वरे ।
सिद्धयोऽपि विलोक्यैतदाश्चर्यं परमं गताः ॥२२॥
ऐश्वर्याणि समस्तानि लज्जानम्राणि चाऽभवन् ।
मायाऽपि मोहमापन्ना चमत्कारे हरेस्तदा ॥२३॥
बालकृष्णं वीक्षितुं वै कोट्यर्बुदाब्जमानवाः ।
समायान्ति चानुवेलं सम्मर्दो जायते बहुः ॥२४॥
निराशतां तदा यान्ति जना दर्शनलालसाः ।
तेषां भावं परं ज्ञात्वा विज्ञायाऽऽगमनश्रमम् ॥२५॥
हताशतां परिज्ञाय भक्तवात्सल्यवान् प्रभुः ।
अन्तरात्मा च तत्रैव भक्ताग्रे गोचरोऽभितः ॥२६॥
नेत्राग्रे कोटिरूपैश्च स्थले स्थले विलोक्यते ।
यादृशो मण्डपे चास्ते होमासने च यादृशः ॥२७॥
तादृशश्चान्यकुण्डाग्रे हवनासनकेषु च ।
तादृशोऽसंख्यसौधेषु मण्डपेषु च तादृशः ॥२८॥
नदीकूलेषु नौकासु यानेष्वपि च तादृशः ।
विमानेषु च वृक्षेषु वनेऽरण्येषु तादृशः ॥२९॥
भक्तेषु भक्तवृन्देषु मार्गेषु वीथिकादिषु ।
शालासु चन्द्रशालासु पाकशालासु तादृशः ॥३०॥
महीमाननिवासेषु चातिथिस्थानकेष्वपि ।
भोज्यशालासु शैलेषु वाटिकास्वपि तादृशः ॥३१॥
रथेषु शकटीभागेष्वपि चाश्वगजादिषु ।
दृश्येषु रंगनाट्येषु गह्वरेष्वपि तादृशः ॥३२॥
जले स्थलेऽम्बरे वार्धौ सरस्सु च नदीष्वपि ।
विगमेषु च दुर्गेषु हरिः सर्वत्र दृश्यते ॥३३॥
मन्दहास्याननः शुभ्रः सर्वभूषाविभूषितः ।
पीतवस्त्रधरः सौम्यो बालकृष्णो विलोक्यते ॥३४॥
दिव्यचिह्नधरः स्वामी धनुर्ध्वजत्रिशूलवान् ।
मीनस्वस्तिकचक्राद्यैः शोभितः स विलोक्यते ॥३५॥
नीलचञ्चद्वक्रकेशः पद्मपत्रायतेक्षणः ।
कौस्तुभश्रीशोभितोरःस्थलो लक्ष्मीप्रसेवितः ॥३६॥
कोट्यर्कभाधरः कृष्णनारायणो विलोक्यते ।
एवं श्रीबालकृष्णस्य दर्शनं सर्वतोदिशम् ॥३७॥
भावुकानां पुरतोऽभूत् सप्ताहे चाध्वरे तदा ।
राधिके! बालवृद्धाद्यैः कृतं गृह्णाति पूजनम् ॥३८॥
भोजनं च प्रमोदं च गृह्णाति प्रददाति च ।
रमते रासभावेषु रमते च सतीजने ॥३९॥
रमते सर्वलोकेषु सर्वरूपधरोऽभवत् ।
एवं दृष्ट्वा चमत्कारं राधेऽहं विस्मयं गतः ॥४०॥
नारायणोऽपि वैकुण्ठेश्वरश्चाह तदा नु माम् ।
पश्य कृष्ण महाश्चर्यं पराकाष्ठागतं त्विदम् ॥४१॥
रूपं रूपं प्रतिरूपो बालकृष्णो हि राजते ।
नास्ति वै तादृशी भूमिर्बालकृष्णो न यत्र वै ॥४२॥
अज्ञातमार्गा लोका ये समायान्ति मखं प्रति ।
अग्रे तेषां जनो भूत्वा जायते मार्गदर्शकः ॥४३॥
अस्वस्थमनसां त्वग्रे भूत्वा स कथको द्विजः ।
कथां पुरातनीं रम्यां कथयत्येव रञ्जनाम् ॥४४॥
अस्वस्थवर्ष्मणा पार्श्वे गत्वा वैद्यस्वरूपवान् ।
स्वास्थ्यप्रसञ्जकं तेभ्यो ददाति चौषधं शुभम् ॥४५॥
चमत्कारोऽद्भुतस्तत्र दृष्टो मया तु राधिके ।
कोट्यर्बुदाब्जलोकेषु देहत्यागो न कस्यचित् ॥४६॥
नाऽकस्मात्तु क्षयः क्वापि कश्चिद् दुःखी न तत्र च ।
न कुटुम्बी जनः कश्चिद् वियुक्तः स्वकुटुम्बतः ॥४७॥
सम्मर्दे न च भूषादि विगतं कस्यचित्तदा ।
नांगमर्दोऽभवत्तत्र कस्यचित् पादकच्चरः ॥४८॥
न यानं चापि भग्नं वा न वस्तु विगमोऽभवत् ।
अदृष्टबालकृष्णश्च न कोऽपि मानवोऽभवत् ॥४९॥
अप्राप्ताध्वरशेषश्च न कश्चिद् देहवानभूत् ।
अप्राप्तस्वागतः कश्चिन्महीमानो न वाऽभवत् ॥५०॥
अजातपूर्णकामश्च तदा कोपि न चाऽभवत् ।
अलब्धब्रह्ममन्त्रश्च तदा कोपि न चाऽभवत् ॥५१॥
अहो देवस्य ऐश्वर्यम् ईशानोऽपि मुमोह तु ।
वासुदेवादयो व्यूहा दृष्ट्वाऽऽश्चर्यं प्रपेदिरे ॥५२॥
लज्जानम्रा बभूवुस्ते विमदाः स्वबलेऽभवन् ।
अहो विभवो देवस्य बालकृष्णस्य चाध्वरे ॥५३॥
महाविष्णुस्तु भूमानं प्राहैवं धूनयन् शिरः ।
पार्वती माणिकीं प्राह पत्युस्तेऽहो चमत्कृतिः ॥५४॥
कंभरा कमलां प्राह पश्य मे पुत्रवैभवम् ।
कमला पतिमोदाढ्या स्वात्मानं बह्वमन्यत ॥५५॥
कृष्णस्थाने तथा नारायणस्थाने सुकर्मणि ।
स्वयमास्ते हरिः कर्ता महाश्चर्यं त्विदं मम ॥५६॥
अहो वै राधिके कृष्णप्राप्त्या गांगेयकैस्त्विह ।
पुत्रास्ते सागरा निम्नीकृतास्तीर्थविधाविह ॥५७॥
केतुमालो निजार्थेऽद्य सार्थको हरिलब्धितः ।
केतुवन्ननु सञ्जातः सर्वलोकेषु चाद्यतः ।
मालासु केतुवच्चास्ते ब्रह्माण्डानां न्वयं सदा ॥५८॥
बालकृष्णप्रसंगेन सदाऽध्वरेण पावितः ।
श्वेतद्वीपसमो भावी त्वैश्वर्येऽयं महत्तमे ।
पावनोऽयं महान् देशो मोक्षदाता भविष्यति ॥५९॥
अत्र मृतिं गता जीवाः सूक्ष्माः कीटादयो ह्यपि ।
मुक्तिं यास्यन्ति परमां पापिनोऽपि च देहिनः ॥६०॥
यज्ञं सर्वेष्टिरूपं तु स्मरिष्यन्त्यपि ये जनाः ।
तेषां पापप्रणाशश्च मुक्तिः करगता भवेत् ॥६१॥
नमिष्यति भुवं स्मृत्वा दूरदेशगता अपि ।
तेषां पुण्यं मखजन्यं भविष्यति न संशयः ॥६२॥
अपि नाम रटिष्यन्ति नीपरां च प्रपीठिकाम् ।
तेषां पापविनाशः स्यात् स्नानजं च फलं भवेत् ॥६३॥
सप्तविंशतिकुण्डान् यः शंसिष्यति तु मानवः ।
भुक्तिं मुक्तिं महातृप्तिं स्मृद्ध्यादिभिः प्रयास्यति ॥६४॥
अपि धूलीं संगमस्य मध्यभूमेर्ग्रहीष्यति ।
मस्तके वा शरीरे वा शुद्धात्मा स भविष्यति ॥६५॥
अपि पद्भ्यां श्रद्धया तां भूमिं तीर्थविधित्सया ।
गमिष्यति तु यः कश्चित् पदेऽध्वरफलं लभेत्। ॥६६॥
अपि साप्ताहवासं वा दिनवासं तु संगमे ।
करिष्यति जनः कश्चित् स्वर्गं तस्य तु शाश्वतम् ॥६७॥
अपि व्रतं तु साप्ताहं दिनमात्रं फलादिना ।
विधास्यति नरो नारी साम्राज्यफलमाप्नुयात् ॥६८॥
अपि दीपं पत्रपृष्ठे प्रज्वाल्य सलिले तु यः ।
दास्यति तीर्थदेवाय स सूर्यस्थानमाप्नुयात् ॥६९॥
अपि पायसभोज्यं यो दीनाऽनाथाय दास्यति ।
चन्द्रलोकं स वै प्राप्याऽमृतभोजी भविष्यति ॥७०॥
अपि वस्त्रं च वा भूषां पादुके कंकणौ च वा ।
छत्रं वा चामरं वापि व्यजनं नक्तकं च वा ॥७१॥
पात्रं जोलीं कोष्ठलीं वा चांगरक्षकमेव वा ।
कौपीनं यतये योऽत्र दद्याच्चैन्द्रपदं लभेत् ॥७२॥
माणिक्यां पार्वतीं लक्ष्मीं प्रभां श्रियं च राधिकाम् ।
बालकृष्णेन सहितां पूजयेदत्र मोक्षभाक् ॥७३॥
गोभ्यो ग्रासानत्र दद्यात् पक्षिभ्यश्च कणान् शुभान् ।
जनेभ्यो भोजनं दद्यादत्र सोऽपि च मोक्षभाग् ॥७४॥
जलं दद्यात् फलं दद्यात् पत्रं पुष्पं पयोऽर्पयेत् ।
मखभूमौ संगमेऽत्र स्वर्गभाक् स तु मानवः ॥७५॥
शय्यां च गेन्दुकं खट्वां येऽत्र दास्यन्ति भावतः ।
ते यास्यन्ति महत् स्वर्गं महत्पुण्यप्रतापतः ॥७६॥
आसनानि बृसीश्चापि दास्यन्त्यत्र चतुष्किकाः ।
ते ब्रह्मासनयोग्याश्च भविष्यन्ति न संशयः ॥७७॥
मखभूमौ मखं येऽत्र करिष्यन्ति तु मानवाः ।
चिदाकाशं परं धाम प्रयास्यन्ति तु ते जनाः ॥७८॥
हस्तिदानं चाश्वदानं रेण्डियादानमित्यपि ।
हंसकोकिलमेनानां दानं शुकस्य चापि ये ॥७९॥
वृषभाणां विमानानां यानानामनसां तथा ।
दानं येऽत्र करिष्यन्ति यास्यन्ति ब्रह्मधाम ते ॥८०॥
कन्यादानं भूमिदानं पुत्रदानं महत्तमम् ।
गृहदानं क्षेत्रदानं वाटिकादानमित्यपि ॥८१॥
वृक्षवल्लीस्तम्बदानं करिष्यन्त्यत्र ये जनाः ।
प्रयास्यन्त्यमृतं स्वर्गं सर्वरसामृतान्वितम् ॥८२॥
काष्ठदानं चोपलादिप्रदानं लोष्ठदानकम् ।
धातुदानं विधास्यन्त्याप्स्यन्ति ते वह्निमण्डलम् ॥८३॥
दधिदुग्धादिदातारो यास्यन्ति चन्द्रमण्डलम् ।
गृहोपकरणानां तु दातारो ब्रह्मणः पदम् ॥८४॥
राज्यदातार एवात्राऽऽप्स्यन्ति वैराजमण्डलम् ।
स्वर्णरूप्यकदातॄणां गोलोकगमनं भवेत् ॥८५॥
विद्यादानप्रदातारो भविष्यन्ति सुरार्हणाः ।
कृषेः साधनदातारो भविष्यन्ति कुबेरकाः ॥८६॥
कलाकौशल्यशिक्षाद्या भविष्यन्ति तु विद्धराः ।
एतज्जलघटं नीत्वा देशान्तरेऽपि बिन्दुकम् ॥८७॥
अन्यस्मै ये प्रदास्यन्ति चोभयोर्मोक्षदं भवेत् ।
अत्र जले पशूनां पक्षिणां पिच्छस्थिकं पतेत् ॥८८॥
सर्वपापविनिर्मुक्तास्ते यास्यन्ति परं पदम् ।
अपि मृत्युसमयेऽपि मुखे यस्य जलं पतेत् ॥८९॥
शरीरे मोक्षणं वापि चास्थि यस्य पतेज्जले ।
ते सर्वे मुक्तिमेष्यन्ति राधिके नात्र संशयः ॥९०॥
एतादृशी स्थली त्वेषा शतयोजनवर्तुला ।
नदीद्वयान्तरालस्था पावनी वर्णनोत्तरा ॥९१॥
मखस्थल्यां यदि कश्चिद् दीक्षां गृह्णाति वैष्णवीम् ।
चतुर्भुजो भवेद् दिव्यः पार्षदः स विकुण्ठके ॥९२॥
नारी दीक्षावती दिव्या चतुर्भुजा हरिप्रिया ।
जायते नित्यमुक्तानी पुनर्जन्म न विद्यते ॥९३॥
लक्ष्मीनारायणसंहितायाः कथां तु ये जनाः ।
श्रावयन्ति च शृण्वन्ति तेऽत्र मोक्षगमा जनाः ॥९४॥
सतीभ्यो भोजनं दद्यात् साध्वीभ्यश्चात्र सर्वथा ।
साधुभ्यो भोजनं दद्याद् दाता मोक्षमवाप्नुयात् ॥९५॥
अत्रोपवासनियमैश्चरिष्यन्ति तपस्तु ये ।
ते शुद्धा ब्रह्मगा बोध्या मुक्ता दिव्याक्षरार्थिनः ॥९६॥
किमु ते राधिके वच्मि यत्र कृष्णनरायणः ।
नारायणास्तथा चान्येऽवतारा ईश्वराः सुराः ॥९७॥
पितरः ऋषयः सिद्धाः सत्यः साध्व्यो यतीश्वराः ।
योगिन्योऽर्हणवर्गाश्च तीर्थानि तारकाणि च ॥९८॥
आगत्योषितवन्तश्च पीतवन्तः सरिज्जलम् ।
भुक्तवन्तश्च वन्यानि स्पृष्टवन्तः प्रतिस्थलम् ॥९९॥
तल्लीलास्मरणादेव भवन्ति मोक्षभागिनः ।
पठनाच्छ्रवणाच्चास्य भुक्तिं मुक्तिं लभेद् ध्रुवाम् ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सप्ताहयज्ञे समर्पितोपदाः, बालकृष्णस्य कोट्यब्जरूपधारित्वं, यज्ञभूमिदानादिमाहात्म्यं चेतिनिरूपणनामा सप्तत्यधिकशततमोऽध्यायः ॥१७०॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP